This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्षष्ठितमः सर्गः ॥३-६६॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे षट्षष्ठितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..3..
तं तथा शोकसंतप्तं विलपन्तमनाथवत् । मोहेन महता युक्तं परिद्यूनमचेतसम्॥ १॥
तम् तथा शोक-संतप्तम् विलपन्तम् अनाथ-वत् । मोहेन महता युक्तम् परिद्यूनम् अचेतसम्॥ १॥
tam tathā śoka-saṃtaptam vilapantam anātha-vat . mohena mahatā yuktam paridyūnam acetasam.. 1..
ततः सौमित्रिराश्वस्य मुहूर्तादिव लक्ष्मणः । रामं सम्बोधयामास चरणौ चाभिपीडयन्॥ २॥
ततस् सौमित्रिः आश्वस्य मुहूर्तात् इव लक्ष्मणः । रामम् सम्बोधयामास चरणौ च अभिपीडयन्॥ २॥
tatas saumitriḥ āśvasya muhūrtāt iva lakṣmaṇaḥ . rāmam sambodhayāmāsa caraṇau ca abhipīḍayan.. 2..
महता तपसा चापि महता चापि कर्मणा । राज्ञा दशरथेनासील्लब्धोऽमृतमिवामरैः॥ ३॥
महता तपसा च अपि महता च अपि कर्मणा । राज्ञा दशरथेन आसीत् लब्धः अमृतम् इव अमरैः॥ ३॥
mahatā tapasā ca api mahatā ca api karmaṇā . rājñā daśarathena āsīt labdhaḥ amṛtam iva amaraiḥ.. 3..
तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः । राजा देवत्वमापन्नो भरतस्य यथा श्रुतम्॥ ४॥
तव च एव गुणैः बद्धः त्वद्-वियोगात् महीपतिः । राजा देव-त्वम् आपन्नः भरतस्य यथा श्रुतम्॥ ४॥
tava ca eva guṇaiḥ baddhaḥ tvad-viyogāt mahīpatiḥ . rājā deva-tvam āpannaḥ bharatasya yathā śrutam.. 4..
यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे । प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति॥ ५॥
यदि दुःखम् इदम् प्राप्तम् काकुत्स्थ न सहिष्यसे । प्राकृतः च अल्प-सत्त्वः च इतरः कः सहिष्यति॥ ५॥
yadi duḥkham idam prāptam kākutstha na sahiṣyase . prākṛtaḥ ca alpa-sattvaḥ ca itaraḥ kaḥ sahiṣyati.. 5..
आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य नापदः । संस्पृशन्त्यग्निवद् राजन् क्षणेन व्यपयान्ति च॥ ६॥
आश्वसिहि नर-श्रेष्ठ प्राणिनः कस्य ना आपदः । संस्पृशन्ति अग्नि-वत् राजन् क्षणेन व्यपयान्ति च॥ ६॥
āśvasihi nara-śreṣṭha prāṇinaḥ kasya nā āpadaḥ . saṃspṛśanti agni-vat rājan kṣaṇena vyapayānti ca.. 6..
दुःखितो हि भवाँल्लोकांस्तेजसा यदि धक्ष्यते । आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम्॥ ७॥
दुःखितः हि भवान् लोकान् तेजसा यदि धक्ष्यते । आर्ताः प्रजाः नर-व्याघ्र क्व नु यास्यन्ति निर्वृतिम्॥ ७॥
duḥkhitaḥ hi bhavān lokān tejasā yadi dhakṣyate . ārtāḥ prajāḥ nara-vyāghra kva nu yāsyanti nirvṛtim.. 7..
लोकस्वभाव एवैष ययातिर्नहुषात्मजः । गतः शक्रेण सालोक्यमनयस्तं समस्पृशत्॥ ८॥
लोक-स्वभावः एव एष ययातिः नहुषात्मजः । गतः शक्रेण सालोक्यम् अनयः तम् समस्पृशत्॥ ८॥
loka-svabhāvaḥ eva eṣa yayātiḥ nahuṣātmajaḥ . gataḥ śakreṇa sālokyam anayaḥ tam samaspṛśat.. 8..
महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः । अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम्॥ ९॥
महा-ऋषिः यः वसिष्ठः तु यः पितुः नः पुरोहितः । अह्ना पुत्र-शतम् जज्ञे तथा एव अस्य पुनर् हतम्॥ ९॥
mahā-ṛṣiḥ yaḥ vasiṣṭhaḥ tu yaḥ pituḥ naḥ purohitaḥ . ahnā putra-śatam jajñe tathā eva asya punar hatam.. 9..
या चेयं जगतो माता सर्वलोकनमस्कृता । अस्याश्च चलनं भूमेर्दृश्यते कोसलेश्वर॥ १०॥
या च इयम् जगतः माता सर्व-लोक-नमस्कृता । अस्याः च चलनम् भूमेः दृश्यते कोसल-ईश्वर॥ १०॥
yā ca iyam jagataḥ mātā sarva-loka-namaskṛtā . asyāḥ ca calanam bhūmeḥ dṛśyate kosala-īśvara.. 10..
यौ धर्मौ जगतो नेत्रौ यत्र सर्वं प्रतिष्ठितम् । आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ॥ ११॥
यौ धर्मौ जगतः नेत्रौ यत्र सर्वम् प्रतिष्ठितम् । आदित्य-चन्द्रौ ग्रहणम् अभ्युपेतौ महा-बलौ॥ ११॥
yau dharmau jagataḥ netrau yatra sarvam pratiṣṭhitam . āditya-candrau grahaṇam abhyupetau mahā-balau.. 11..
सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ । न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः॥ १२॥
सु महान्ति अपि भूतानि देवाः च पुरुष-ऋषभ । न दैवस्य प्रमुञ्चन्ति सर्व-भूतानि देहिनः॥ १२॥
su mahānti api bhūtāni devāḥ ca puruṣa-ṛṣabha . na daivasya pramuñcanti sarva-bhūtāni dehinaḥ.. 12..
शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ । श्रूयेते नरशार्दूल न त्वं शोचितुमर्हसि॥ १३॥
शक्र-आदिषु अपि देवेषु वर्तमानौ नय-अनयौ । श्रूयेते नर-शार्दूल न त्वम् शोचितुम् अर्हसि॥ १३॥
śakra-ādiṣu api deveṣu vartamānau naya-anayau . śrūyete nara-śārdūla na tvam śocitum arhasi.. 13..
मृतायामपि वैदेह्यां नष्टायामपि राघव । शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा॥ १४॥
मृतायाम् अपि वैदेह्याम् नष्टायाम् अपि राघव । शोचितुम् ना अर्हसे वीर यथा अन्यः प्राकृतः तथा॥ १४॥
mṛtāyām api vaidehyām naṣṭāyām api rāghava . śocitum nā arhase vīra yathā anyaḥ prākṛtaḥ tathā.. 14..
त्वद्विधा नहि शोचन्ति सततं सर्वदर्शनाः । सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः॥ १५॥
त्वद्विधाः नहि शोचन्ति सततम् सर्व-दर्शनाः । सु महत्सु अपि कृच्छ्रेषु राम-अनिर्विण्ण-दर्शनाः॥ १५॥
tvadvidhāḥ nahi śocanti satatam sarva-darśanāḥ . su mahatsu api kṛcchreṣu rāma-anirviṇṇa-darśanāḥ.. 15..
तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय । बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे॥ १६॥
तत्त्वतः हि नर-श्रेष्ठ बुद्ध्या समनुचिन्तय । बुद्ध्या युक्ताः महा-प्राज्ञाः विजानन्ति शुभ-अशुभे॥ १६॥
tattvataḥ hi nara-śreṣṭha buddhyā samanucintaya . buddhyā yuktāḥ mahā-prājñāḥ vijānanti śubha-aśubhe.. 16..
अदृष्टगुणदोषाणामध्रुवाणां तु कर्मणाम् । नान्तरेण क्रियां तेषां फलमिष्टं च वर्तते॥ १७॥
अदृष्ट-गुण-दोषाणाम् अध्रुवाणाम् तु कर्मणाम् । न अन्तरेण क्रियाम् तेषाम् फलम् इष्टम् च वर्तते॥ १७॥
adṛṣṭa-guṇa-doṣāṇām adhruvāṇām tu karmaṇām . na antareṇa kriyām teṣām phalam iṣṭam ca vartate.. 17..
मामेवं हि पुरा वीर त्वमेव बहुशोक्तवान् । अनुशिष्याद्धि को नु त्वामपि साक्षाद् बृहस्पतिः॥ १८॥
माम् एवम् हि पुरा वीर त्वम् एव बहुशस् उक्तवान् । अनुशिष्यात् हि कः नु त्वाम् अपि साक्षात् बृहस्पतिः॥ १८॥
mām evam hi purā vīra tvam eva bahuśas uktavān . anuśiṣyāt hi kaḥ nu tvām api sākṣāt bṛhaspatiḥ.. 18..
बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया । शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम्॥ १९॥
बुद्धिः च ते महा-प्राज्ञ देवैः अपि दुरन्वया । शोकेन अभिप्रसुप्तम् ते ज्ञानम् सम्बोधयामि अहम्॥ १९॥
buddhiḥ ca te mahā-prājña devaiḥ api duranvayā . śokena abhiprasuptam te jñānam sambodhayāmi aham.. 19..
दिव्यं च मानुषं चैवमात्मनश्च पराक्रमम् । इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे॥ २०॥
दिव्यम् च मानुषम् च एवम् आत्मनः च पराक्रमम् । इक्ष्वाकु-वृषभ अवेक्ष्य यतस्व द्विषताम् वधे॥ २०॥
divyam ca mānuṣam ca evam ātmanaḥ ca parākramam . ikṣvāku-vṛṣabha avekṣya yatasva dviṣatām vadhe.. 20..
किं ते सर्वविनाशेन कृतेन पुरुषर्षभ । तमेव तु रिपुं पापं विज्ञायोद्धर्तुमर्हसि॥ २१॥
किम् ते सर्व-विनाशेन कृतेन पुरुष-ऋषभ । तम् एव तु रिपुम् पापम् विज्ञाय उद्धर्तुम् अर्हसि॥ २१॥
kim te sarva-vināśena kṛtena puruṣa-ṛṣabha . tam eva tu ripum pāpam vijñāya uddhartum arhasi.. 21..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षट्षष्ठितमः सर्गः ॥३-६६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे षट्षष्ठितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In