This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तषष्ठितमः सर्गः ॥३-६७॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे सप्तषष्ठितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..3..
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् । सारग्राही महासारं प्रतिजग्राह राघवः॥ १॥
पूर्वजः अपि उक्त-मात्रः तु लक्ष्मणेन सुभाषितम् । सार-ग्राही महा-सारम् प्रतिजग्राह राघवः॥ १॥
pūrvajaḥ api ukta-mātraḥ tu lakṣmaṇena subhāṣitam . sāra-grāhī mahā-sāram pratijagrāha rāghavaḥ.. 1..
स निगृह्य महाबाहुः प्रवृद्धं रोषमात्मनः । अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत्॥ २॥
स निगृह्य महा-बाहुः प्रवृद्धम् रोषम् आत्मनः । अवष्टभ्य धनुः चित्रम् रामः लक्ष्मणम् अब्रवीत्॥ २॥
sa nigṛhya mahā-bāhuḥ pravṛddham roṣam ātmanaḥ . avaṣṭabhya dhanuḥ citram rāmaḥ lakṣmaṇam abravīt.. 2..
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण । केनोपायेन पश्यावः सीतामिह विचिन्तय॥ ३॥
किम् करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण । केन उपायेन पश्यावः सीताम् इह विचिन्तय॥ ३॥
kim kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa . kena upāyena paśyāvaḥ sītām iha vicintaya.. 3..
तं तथा परितापार्तं लक्ष्मणो वाक्यमब्रवीत् । इदमेव जनस्थानं त्वमन्वेषितुमर्हसि॥ ४॥
तम् तथा परिताप-आर्तम् लक्ष्मणः वाक्यम् अब्रवीत् । इदम् एव जनस्थानम् त्वम् अन्वेषितुम् अर्हसि॥ ४॥
tam tathā paritāpa-ārtam lakṣmaṇaḥ vākyam abravīt . idam eva janasthānam tvam anveṣitum arhasi.. 4..
राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् । सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च॥ ५॥
राक्षसैः बहुभिः कीर्णम् नाना द्रुम-लता-युतम् । सन्ति इह गिरि-दुर्गाणि निर्दराः कन्दराणि च॥ ५॥
rākṣasaiḥ bahubhiḥ kīrṇam nānā druma-latā-yutam . santi iha giri-durgāṇi nirdarāḥ kandarāṇi ca.. 5..
गुहाश्च विविधा घोरा नानामृगगणाकुलाः । आवासाः किंनराणां च गन्धर्वभवनानि च॥ ६॥
गुहाः च विविधाः घोराः नाना मृग-गण-आकुलाः । आवासाः किंनराणाम् च गन्धर्व-भवनानि च॥ ६॥
guhāḥ ca vividhāḥ ghorāḥ nānā mṛga-gaṇa-ākulāḥ . āvāsāḥ kiṃnarāṇām ca gandharva-bhavanāni ca.. 6..
तानि युक्तो मया सार्धं समन्वेषितुमर्हसि । त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभाः॥ ७॥
तानि युक्तः मया सार्धम् समन्वेषितुम् अर्हसि । त्वद्विधाः बुद्धि-सम्पन्नाः महात्मानः नर-ऋषभाः॥ ७॥
tāni yuktaḥ mayā sārdham samanveṣitum arhasi . tvadvidhāḥ buddhi-sampannāḥ mahātmānaḥ nara-ṛṣabhāḥ.. 7..
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः । इत्युक्तस्तद् वनं सर्वं विचचार सलक्ष्मणः॥ ८॥
आपत्सु न प्रकम्पन्ते वायु-वेगैः इव अचलाः । इति उक्तः तत् वनम् सर्वम् विचचार स लक्ष्मणः॥ ८॥
āpatsu na prakampante vāyu-vegaiḥ iva acalāḥ . iti uktaḥ tat vanam sarvam vicacāra sa lakṣmaṇaḥ.. 8..
क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् । ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्॥ ९॥
क्रुद्धः रामः शरम् घोरम् संधाय धनुषि क्षुरम् । ततस् पर्वत-कूट-आभम् महाभागम् द्विजोत्तमम्॥ ९॥
kruddhaḥ rāmaḥ śaram ghoram saṃdhāya dhanuṣi kṣuram . tatas parvata-kūṭa-ābham mahābhāgam dvijottamam.. 9..
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् । तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत्॥ १०॥
ददर्श पतितम् भूमौ क्षतज-आर्द्रम् जटायुषम् । तम् दृष्ट्वा गिरि-शृङ्ग-आभम् रामः लक्ष्मणम् अब्रवीत्॥ १०॥
dadarśa patitam bhūmau kṣataja-ārdram jaṭāyuṣam . tam dṛṣṭvā giri-śṛṅga-ābham rāmaḥ lakṣmaṇam abravīt.. 10..
अनेन सीता वैदेही भक्षिता नात्र संशयः । गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम्॥ ११॥
अनेन सीता वैदेही भक्षिता न अत्र संशयः । गृध्र-रूपम् इदम् व्यक्तम् रक्षः भ्रमति काननम्॥ ११॥
anena sītā vaidehī bhakṣitā na atra saṃśayaḥ . gṛdhra-rūpam idam vyaktam rakṣaḥ bhramati kānanam.. 11..
भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् । एनं वधिष्ये दीप्ताग्रैः शरैर्घोरैरजिह्मगैः॥ १२॥
भक्षयित्वा विशाल-अक्षीम् आस्ते सीताम् यथासुखम् । एनम् वधिष्ये दीप्त-अग्रैः शरैः घोरैः अजिह्मगैः॥ १२॥
bhakṣayitvā viśāla-akṣīm āste sītām yathāsukham . enam vadhiṣye dīpta-agraiḥ śaraiḥ ghoraiḥ ajihmagaiḥ.. 12..
इत्युक्त्वाभ्यपतद् द्रष्टुं संधाय धनुषि क्षुरम् । क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम्॥ १३॥
इति उक्त्वा अभ्यपतत् द्रष्टुम् संधाय धनुषि क्षुरम् । क्रुद्धः रामः समुद्र-अन्ताम् चालयन् इव मेदिनीम्॥ १३॥
iti uktvā abhyapatat draṣṭum saṃdhāya dhanuṣi kṣuram . kruddhaḥ rāmaḥ samudra-antām cālayan iva medinīm.. 13..
तं दीनदीनया वाचा सफेनं रुधिरं वमन् । अभ्यभाषत पक्षी स रामं दशरथात्मजम्॥ १४॥
तम् दीन-दीनया वाचा स फेनम् रुधिरम् वमन् । अभ्यभाषत पक्षी स रामम् दशरथ-आत्मजम्॥ १४॥
tam dīna-dīnayā vācā sa phenam rudhiram vaman . abhyabhāṣata pakṣī sa rāmam daśaratha-ātmajam.. 14..
यामोषधीमिवायुष्मन्नन्वेषसि महावने । सा देवी मम च प्राणा रावणेनोभयं हृतम्॥ १५॥
याम् ओषधीम् इव आयुष्मन् अनु एषसि महा-वने । सा देवी मम च प्राणाः रावणेन उभयम् हृतम्॥ १५॥
yām oṣadhīm iva āyuṣman anu eṣasi mahā-vane . sā devī mama ca prāṇāḥ rāvaṇena ubhayam hṛtam.. 15..
त्वया विरहिता देवी लक्ष्मणेन च राघव । ह्रियमाणा मया दृष्टा रावणेन बलीयसा॥ १६॥
त्वया विरहिता देवी लक्ष्मणेन च राघव । ह्रियमाणा मया दृष्टा रावणेन बलीयसा॥ १६॥
tvayā virahitā devī lakṣmaṇena ca rāghava . hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā.. 16..
सीतामभ्यवपन्नोऽहं रावणश्च रणे प्रभो । विध्वंसितरथच्छत्रः पतितो धरणीतले॥ १७॥
सीताम् अभ्यवपन्नः अहम् रावणः च रणे प्रभो । विध्वंसित-रथ-छत्रः पतितः धरणी-तले॥ १७॥
sītām abhyavapannaḥ aham rāvaṇaḥ ca raṇe prabho . vidhvaṃsita-ratha-chatraḥ patitaḥ dharaṇī-tale.. 17..
एतदस्य धनुर्भग्नमेते चास्य शरास्तथा । अयमस्य रणे राम भग्नः सांग्रामिको रथः॥ १८॥
एतत् अस्य धनुः भग्नम् एते च अस्य शराः तथा । अयम् अस्य रणे राम भग्नः सांग्रामिकः रथः॥ १८॥
etat asya dhanuḥ bhagnam ete ca asya śarāḥ tathā . ayam asya raṇe rāma bhagnaḥ sāṃgrāmikaḥ rathaḥ.. 18..
अयं तु सारथिस्तस्य मत्पक्षनिहतो भुवि । परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः॥ १९॥
अयम् तु सारथिः तस्य मद्-पक्ष-निहतः भुवि । परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः॥ १९॥
ayam tu sārathiḥ tasya mad-pakṣa-nihataḥ bhuvi . pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ.. 19..
सीतामादाय वैदेहीमुत्पपात विहायसम् । रक्षसा निहतं पूर्वं मां न हन्तुं त्वमर्हसि॥ २०॥
सीताम् आदाय वैदेहीम् उत्पपात विहायसम् । रक्षसा निहतम् पूर्वम् माम् न हन्तुम् त्वम् अर्हसि॥ २०॥
sītām ādāya vaidehīm utpapāta vihāyasam . rakṣasā nihatam pūrvam mām na hantum tvam arhasi.. 20..
रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् । गृध्रराजं परिष्वज्य परित्यज्य महद् धनुः॥ २१॥
रामः तस्य तु विज्ञाय सीता-सक्ताम् प्रियाम् कथाम् । गृध्र-राजम् परिष्वज्य परित्यज्य महत् धनुः॥ २१॥
rāmaḥ tasya tu vijñāya sītā-saktām priyām kathām . gṛdhra-rājam pariṣvajya parityajya mahat dhanuḥ.. 21..
निपपातावशो भूमौ रुरोद सहलक्ष्मणः । द्विगुणीकृततापार्तो रामो धीरतरोऽपि सन्॥ २२॥
निपपात अवशः भूमौ रुरोद सहलक्ष्मणः । द्विगुणीकृत-ताप-आर्तः रामः धीरतरः अपि सन्॥ २२॥
nipapāta avaśaḥ bhūmau ruroda sahalakṣmaṇaḥ . dviguṇīkṛta-tāpa-ārtaḥ rāmaḥ dhīrataraḥ api san.. 22..
एकमेकायने कृच्छ्रे निःश्वसन्तं मुहुर्मुहुः । समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत्॥ २३॥
एकम् एकायने कृच्छ्रे निःश्वसन्तम् मुहुर् मुहुर् । समीक्ष्य दुःखितः रामः सौमित्रिम् इदम् अब्रवीत्॥ २३॥
ekam ekāyane kṛcchre niḥśvasantam muhur muhur . samīkṣya duḥkhitaḥ rāmaḥ saumitrim idam abravīt.. 23..
राज्यं भ्रष्टं वने वासः सीता नष्टा मृतो द्विजः । ईदृशीयं ममालक्ष्मीर्दहेदपि हि पावकम्॥ २४॥
राज्यम् भ्रष्टम् वने वासः सीता नष्टा मृतः द्विजः । ईदृशी इयम् मम अलक्ष्मीः दहेत् अपि हि पावकम्॥ २४॥
rājyam bhraṣṭam vane vāsaḥ sītā naṣṭā mṛtaḥ dvijaḥ . īdṛśī iyam mama alakṣmīḥ dahet api hi pāvakam.. 24..
सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम् । सोऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः॥ २५॥
सम्पूर्णम् अपि चेद् अद्य प्रतरेयम् महा-उदधिम् । सः अपि नूनम् मम अलक्ष्म्याः विशुष्येत् सरिताम् पतिः॥ २५॥
sampūrṇam api ced adya pratareyam mahā-udadhim . saḥ api nūnam mama alakṣmyāḥ viśuṣyet saritām patiḥ.. 25..
नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् स चराचरे । येनेयं महती प्राप्ता मया व्यसनवागुरा॥ २६॥
न अस्ति अभाग्यतरः लोके मत्तः अस्मिन् स चराचरे । येन इयम् महती प्राप्ता मया व्यसन-वागुरा॥ २६॥
na asti abhāgyataraḥ loke mattaḥ asmin sa carācare . yena iyam mahatī prāptā mayā vyasana-vāgurā.. 26..
अयं पितुर्वयस्यो मे गृध्रराजो महाबलः । शेते विनिहतो भूमौ मम भाग्यविपर्ययात्॥ २७॥
अयम् पितुः वयस्यः मे गृध्र-राजः महा-बलः । शेते विनिहतः भूमौ मम भाग्य-विपर्ययात्॥ २७॥
ayam pituḥ vayasyaḥ me gṛdhra-rājaḥ mahā-balaḥ . śete vinihataḥ bhūmau mama bhāgya-viparyayāt.. 27..
इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः । जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन्॥ २८॥
इति एवम् उक्त्वा बहुशस् राघवः सहलक्ष्मणः । जटायुषम् च पस्पर्श पितृ-स्नेहम् निदर्शयन्॥ २८॥
iti evam uktvā bahuśas rāghavaḥ sahalakṣmaṇaḥ . jaṭāyuṣam ca pasparśa pitṛ-sneham nidarśayan.. 28..
निकृत्तपक्षं रुधिरावसिक्तं तं गृध्रराजं परिगृह्य राघवः । क्व मैथिली प्राणसमा गतेति विमुच्य वाचं निपपात भूमौ॥ २९॥
निकृत्त-पक्षम् रुधिर-अवसिक्तम् तम् गृध्र-राजम् परिगृह्य राघवः । क्व मैथिली प्राण-समा गता इति विमुच्य वाचम् निपपात भूमौ॥ २९॥
nikṛtta-pakṣam rudhira-avasiktam tam gṛdhra-rājam parigṛhya rāghavaḥ . kva maithilī prāṇa-samā gatā iti vimucya vācam nipapāta bhūmau.. 29..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तषष्ठितमः सर्गः ॥३-६७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे सप्तषष्ठितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In