This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे अष्टषष्ठितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ..3..
रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् । सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत्॥ १॥
रामः प्रेक्ष्य तु तम् गृध्रम् भुवि रौद्रेण पातितम् । सौमित्रिम् मित्र-सम्पन्नम् इदम् वचनम् अब्रवीत्॥ १॥
rāmaḥ prekṣya tu tam gṛdhram bhuvi raudreṇa pātitam . saumitrim mitra-sampannam idam vacanam abravīt.. 1..
ममायं नूनमर्थेषु यतमानो विहंगमः । राक्षसेन हतः संख्ये प्राणांस्त्यजति मत्कृते॥ २॥
मम अयम् नूनम् अर्थेषु यतमानः विहंगमः । राक्षसेन हतः संख्ये प्राणान् त्यजति मद्-कृते॥ २॥
mama ayam nūnam artheṣu yatamānaḥ vihaṃgamaḥ . rākṣasena hataḥ saṃkhye prāṇān tyajati mad-kṛte.. 2..
अतिखिन्नः शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते । तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते॥ ३॥
अति खिन्नः शरीरे अस्मिन् प्राणः लक्ष्मण विद्यते । तथा स्वर-विहीनः अयम् विक्लवम् समुदीक्षते॥ ३॥
ati khinnaḥ śarīre asmin prāṇaḥ lakṣmaṇa vidyate . tathā svara-vihīnaḥ ayam viklavam samudīkṣate.. 3..
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः । सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः॥ ४॥
जटायो यदि शक्नोषि वाक्यम् व्याहरितुम् पुनर् । सीताम् आख्याहि भद्रम् ते वधम् आख्याहि च आत्मनः॥ ४॥
jaṭāyo yadi śaknoṣi vākyam vyāharitum punar . sītām ākhyāhi bhadram te vadham ākhyāhi ca ātmanaḥ.. 4..
किंनिमित्तो जहारार्यां रावणस्तस्य किं मया । अपराधं तु यं दृष्ट्वा रावणेन हृता प्रिया॥ ५॥
किंनिमित्तः जहार आर्याम् रावणः तस्य किम् मया । अपराधम् तु यम् दृष्ट्वा रावणेन हृता प्रिया॥ ५॥
kiṃnimittaḥ jahāra āryām rāvaṇaḥ tasya kim mayā . aparādham tu yam dṛṣṭvā rāvaṇena hṛtā priyā.. 5..
कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम् । सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम॥ ६॥
कथम् तत् चन्द्र-संकाशम् मुखम् आसीत् मनोहरम् । सीतया कानि च उक्तानि तस्मिन् काले द्विजोत्तम॥ ६॥
katham tat candra-saṃkāśam mukham āsīt manoharam . sītayā kāni ca uktāni tasmin kāle dvijottama.. 6..
कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः । क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः॥ ७॥
कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः । क्व च अस्य भवनम् तात ब्रूहि मे परिपृच्छतः॥ ७॥
kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ . kva ca asya bhavanam tāta brūhi me paripṛcchataḥ.. 7..
तमुद्वीक्ष्य स धर्मात्मा विलपन्तमनाथवत् । वाचा विक्लवया राममिदं वचनमब्रवीत्॥ ८॥
तम् उद्वीक्ष्य स धर्म-आत्मा विलपन्तम् अनाथ-वत् । वाचा विक्लवया रामम् इदम् वचनम् अब्रवीत्॥ ८॥
tam udvīkṣya sa dharma-ātmā vilapantam anātha-vat . vācā viklavayā rāmam idam vacanam abravīt.. 8..
सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना । मायामास्थाय विपुलां वातदुर्दिनसंकुलाम्॥ ९॥
सा हृता राक्षस-इन्द्रेण रावणेन दुरात्मना । मायाम् आस्थाय विपुलाम् वात-दुर्दिन-संकुलाम्॥ ९॥
sā hṛtā rākṣasa-indreṇa rāvaṇena durātmanā . māyām āsthāya vipulām vāta-durdina-saṃkulām.. 9..
परिक्लान्तस्य मे तात पक्षौ छित्त्वा निशाचरः । सीतामादाय वैदेहीं प्रयातो दक्षिणामुखः॥ १०॥
परिक्लान्तस्य मे तात पक्षौ छित्त्वा निशाचरः । सीताम् आदाय वैदेहीम् प्रयातः दक्षिणामुखः॥ १०॥
pariklāntasya me tāta pakṣau chittvā niśācaraḥ . sītām ādāya vaidehīm prayātaḥ dakṣiṇāmukhaḥ.. 10..
उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव । पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान्॥ ११॥
उपरुध्यन्ति मे प्राणाः दृष्टिः भ्रमति राघव । पश्यामि वृक्षान् सौवर्णान् उशीर-कृत-मूर्धजान्॥ ११॥
uparudhyanti me prāṇāḥ dṛṣṭiḥ bhramati rāghava . paśyāmi vṛkṣān sauvarṇān uśīra-kṛta-mūrdhajān.. 11..
येन याति मुहूर्तेन सीतामादाय रावणः । विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते॥ १२॥
येन याति मुहूर्तेन सीताम् आदाय रावणः । विप्रणष्टम् धनम् क्षिप्रम् तद्-स्वामी प्रतिपद्यते॥ १२॥
yena yāti muhūrtena sītām ādāya rāvaṇaḥ . vipraṇaṣṭam dhanam kṣipram tad-svāmī pratipadyate.. 12..
विन्दो नाम मुहूर्तोऽसौ न च काकुत्स्थ सोऽबुधत् । त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः । झषवद् बडिशं गृह्य क्षिप्रमेव विनश्यति॥ १३॥
विन्दः नाम मुहूर्तः असौ न च काकुत्स्थ सः अबुधत् । त्वद्-प्रियाम् जानकीम् हृत्वा रावणः राक्षसेश्वरः । झष-वत् बडिशम् गृह्य क्षिप्रम् एव विनश्यति॥ १३॥
vindaḥ nāma muhūrtaḥ asau na ca kākutstha saḥ abudhat . tvad-priyām jānakīm hṛtvā rāvaṇaḥ rākṣaseśvaraḥ . jhaṣa-vat baḍiśam gṛhya kṣipram eva vinaśyati.. 13..
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति । वैदेह्या रंस्यसे क्षिप्रं हत्वा तं रणमूर्धनि॥ १४॥
न च त्वया व्यथा कार्या जनकस्य सुताम् प्रति । वैदेह्या रंस्यसे क्षिप्रम् हत्वा तम् रण-मूर्धनि॥ १४॥
na ca tvayā vyathā kāryā janakasya sutām prati . vaidehyā raṃsyase kṣipram hatvā tam raṇa-mūrdhani.. 14..
असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः । आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम्॥ १५॥
असम्मूढस्य गृध्रस्य रामम् प्रत्यनुभाषतः । आस्यात् सुस्राव रुधिरम् म्रियमाणस्य स आमिषम्॥ १५॥
asammūḍhasya gṛdhrasya rāmam pratyanubhāṣataḥ . āsyāt susrāva rudhiram mriyamāṇasya sa āmiṣam.. 15..
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च । इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः॥ १६॥
पुत्रः विश्रवसः साक्षात् भ्राता वैश्रवणस्य च । इति उक्त्वा दुर्लभान् प्राणान् मुमोच पतग-ईश्वरः॥ १६॥
putraḥ viśravasaḥ sākṣāt bhrātā vaiśravaṇasya ca . iti uktvā durlabhān prāṇān mumoca pataga-īśvaraḥ.. 16..
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः । त्यक्त्वा शरीरं गृध्रस्य प्राणा जग्मुर्विहायसम्॥ १७॥
ब्रूहि ब्रूहि इति रामस्य ब्रुवाणस्य कृत-अञ्जलेः । त्यक्त्वा शरीरम् गृध्रस्य प्राणाः जग्मुः विहायसम्॥ १७॥
brūhi brūhi iti rāmasya bruvāṇasya kṛta-añjaleḥ . tyaktvā śarīram gṛdhrasya prāṇāḥ jagmuḥ vihāyasam.. 17..
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तथा । विक्षिप्य च शरीरं स्वं पपात धरणीतले॥ १८॥
स निक्षिप्य शिरः भूमौ प्रसार्य चरणौ तथा । विक्षिप्य च शरीरम् स्वम् पपात धरणी-तले॥ १८॥
sa nikṣipya śiraḥ bhūmau prasārya caraṇau tathā . vikṣipya ca śarīram svam papāta dharaṇī-tale.. 18..
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् । रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्॥ १९॥
तम् गृध्रम् प्रेक्ष्य ताम्र-अक्षम् गतासुम् अचल-उपमम् । रामः सु बहुभिः दुःखैः दीनः सौमित्रिम् अब्रवीत्॥ १९॥
tam gṛdhram prekṣya tāmra-akṣam gatāsum acala-upamam . rāmaḥ su bahubhiḥ duḥkhaiḥ dīnaḥ saumitrim abravīt.. 19..
बहूनि रक्षसां वासे वर्षाणि वसता सुखम् । अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा॥ २०॥
बहूनि रक्षसाम् वासे वर्षाणि वसत सुखम् । अनेन दण्डक-अरण्ये विशीर्णम् इह पक्षिणा॥ २०॥
bahūni rakṣasām vāse varṣāṇi vasata sukham . anena daṇḍaka-araṇye viśīrṇam iha pakṣiṇā.. 20..
अनेकवार्षिको यस्तु चिरकालसमुत्थितः । सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः॥ २१॥
अनेक-वार्षिकः यः तु चिर-काल-समुत्थितः । सः अयम् अद्य हतः शेते कालः हि दुरतिक्रमः॥ २१॥
aneka-vārṣikaḥ yaḥ tu cira-kāla-samutthitaḥ . saḥ ayam adya hataḥ śete kālaḥ hi duratikramaḥ.. 21..
पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे । सीतामभ्यवपन्नो हि रावणेन बलीयसा॥ २२॥
पश्य लक्ष्मण गृध्रः अयम् उपकारी हतः च मे । सीताम् अभ्यवपन्नः हि रावणेन बलीयसा॥ २२॥
paśya lakṣmaṇa gṛdhraḥ ayam upakārī hataḥ ca me . sītām abhyavapannaḥ hi rāvaṇena balīyasā.. 22..
गृध्रराज्यं परित्यज्य पितृपैतामहं महत् । मम हेतोरयं प्राणान् मुमोच पतगेश्वरः॥ २३॥
गृध्र-राज्यम् परित्यज्य पितृपैतामहम् महत् । मम हेतोः अयम् प्राणान् मुमोच पतग-ईश्वरः॥ २३॥
gṛdhra-rājyam parityajya pitṛpaitāmaham mahat . mama hetoḥ ayam prāṇān mumoca pataga-īśvaraḥ.. 23..
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि॥ २४॥
सर्वत्र खलु दृश्यन्ते साधवः धर्म-चारिणः । शूराः शरण्याः सौमित्रे तिर्यग्योनि-गतेषु अपि॥ २४॥
sarvatra khalu dṛśyante sādhavaḥ dharma-cāriṇaḥ . śūrāḥ śaraṇyāḥ saumitre tiryagyoni-gateṣu api.. 24..
सीताहरणजं दुःखं न मे सौम्य तथागतम् । यथा विनाशो गृध्रस्य मत्कृते च परंतप॥ २५॥
सीता-हरण-जम् दुःखम् न मे सौम्य तथागतम् । यथा विनाशः गृध्रस्य मद्-कृते च परंतप॥ २५॥
sītā-haraṇa-jam duḥkham na me saumya tathāgatam . yathā vināśaḥ gṛdhrasya mad-kṛte ca paraṃtapa.. 25..
राजा दशरथः श्रीमान् यथा मम महायशाः । पूजनीयश्च मान्यश्च तथायं पतगेश्वरः॥ २६॥
राजा दशरथः श्रीमान् यथा मम महा-यशाः । पूजनीयः च मान्यः च तथा अयम् पतग-ईश्वरः॥ २६॥
rājā daśarathaḥ śrīmān yathā mama mahā-yaśāḥ . pūjanīyaḥ ca mānyaḥ ca tathā ayam pataga-īśvaraḥ.. 26..
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । गृध्रराजं दिधक्ष्यामि मत्कृते निधनं गतम्॥ २७॥
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । गृध्र-राजम् दिधक्ष्यामि मद्-कृते निधनम् गतम्॥ २७॥
saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam . gṛdhra-rājam didhakṣyāmi mad-kṛte nidhanam gatam.. 27..
नाथं पतगलोकस्य चितिमारोपयाम्यहम् । इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा॥ २८॥
नाथम् पतग-लोकस्य चितिम् आरोपयामि अहम् । इमम् धक्ष्यामि सौमित्रे हतम् रौद्रेण रक्षसा॥ २८॥
nātham pataga-lokasya citim āropayāmi aham . imam dhakṣyāmi saumitre hatam raudreṇa rakṣasā.. 28..
या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः । अपरावर्तिनां या च या च भूमिप्रदायिनाम्॥ २९॥
या गतिः यज्ञ-शीलानाम् आहिताग्नेः च या गतिः । अपरावर्तिनाम् या च या च भूमि-प्रदायिनाम्॥ २९॥
yā gatiḥ yajña-śīlānām āhitāgneḥ ca yā gatiḥ . aparāvartinām yā ca yā ca bhūmi-pradāyinām.. 29..
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् । गृध्रराज महासत्त्व संस्कृतश्च मया व्रज॥ ३०॥
मया त्वम् समनुज्ञातः गच्छ लोकान् अनुत्तमान् । गृध्र-राज महा-सत्त्व संस्कृतः च मया व्रज॥ ३०॥
mayā tvam samanujñātaḥ gaccha lokān anuttamān . gṛdhra-rāja mahā-sattva saṃskṛtaḥ ca mayā vraja.. 30..
एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् । ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः॥ ३१॥
एवम् उक्त्वा चिताम् दीप्ताम् आरोप्य पतग-ईश्वरम् । ददाह रामः धर्म-आत्मा स्व-बन्धुम् इव दुःखितः॥ ३१॥
evam uktvā citām dīptām āropya pataga-īśvaram . dadāha rāmaḥ dharma-ātmā sva-bandhum iva duḥkhitaḥ.. 31..
रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान् । स्थूलान् हत्वा महारोहीननुतस्तार तं द्विजम्॥ ३२॥
रामः अथ सहसौमित्रिः वनम् गत्वा स वीर्यवान् । स्थूलान् हत्वा महारोहीन् अनुतस्तार तम् द्विजम्॥ ३२॥
rāmaḥ atha sahasaumitriḥ vanam gatvā sa vīryavān . sthūlān hatvā mahārohīn anutastāra tam dvijam.. 32..
रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः । शकुनाय ददौ रामो रम्ये हरितशाद्वले॥ ३३॥
रोहि-मांसानि च उद्धृत्य पेशीकृत्वा महा-यशाः । शकुनाय ददौ रामः रम्ये हरित-शाद्वले॥ ३३॥
rohi-māṃsāni ca uddhṛtya peśīkṛtvā mahā-yaśāḥ . śakunāya dadau rāmaḥ ramye harita-śādvale.. 33..
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः । तत् स्वर्गगमनं पित्र्यं तस्य रामो जजाप ह॥ ३४॥
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः । तत् स्वर्ग-गमनम् पित्र्यम् तस्य रामः जजाप ह॥ ३४॥
yat tat pretasya martyasya kathayanti dvijātayaḥ . tat svarga-gamanam pitryam tasya rāmaḥ jajāpa ha.. 34..
ततो गोदावरीं गत्वा नदीं नरवरात्मजौ । उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ॥ ३५॥
ततस् गोदावरीम् गत्वा नदीम् नर-वर-आत्मजौ । उदकम् चक्रतुः तस्मै गृध्र-राजाय तौ उभौ॥ ३५॥
tatas godāvarīm gatvā nadīm nara-vara-ātmajau . udakam cakratuḥ tasmai gṛdhra-rājāya tau ubhau.. 35..
शास्त्रदृष्टेन विधिना जलं गृध्राय राघवौ । स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा॥ ३६॥
शास्त्र-दृष्टेन विधिना जलम् गृध्राय राघवौ । स्नात्वा तौ गृध्र-राजाय उदकम् चक्रतुः तदा॥ ३६॥
śāstra-dṛṣṭena vidhinā jalam gṛdhrāya rāghavau . snātvā tau gṛdhra-rājāya udakam cakratuḥ tadā.. 36..
स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः । महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम्॥ ३७॥
स गृध्र-राजः कृतवान् यशस्करम् सु दुष्करम् कर्म रणे निपातितः । महा-ऋषि-कल्पेन च संस्कृतः तदा जगाम पुण्याम् गतिम् आत्मनः शुभाम्॥ ३७॥
sa gṛdhra-rājaḥ kṛtavān yaśaskaram su duṣkaram karma raṇe nipātitaḥ . mahā-ṛṣi-kalpena ca saṃskṛtaḥ tadā jagāma puṇyām gatim ātmanaḥ śubhām.. 37..
कृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः । प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ॥ ३८॥
कृत-उदकौ तौ अपि पक्षि-सत्तमे स्थिराम् च बुद्धिम् प्रणिधाय जग्मतुः । प्रवेश्य सीता-अधिगमे ततस् मनः वनम् सुर-इन्द्रौ इव विष्णु-वासवौ॥ ३८॥
kṛta-udakau tau api pakṣi-sattame sthirām ca buddhim praṇidhāya jagmatuḥ . praveśya sītā-adhigame tatas manaḥ vanam sura-indrau iva viṣṇu-vāsavau.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-६८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे अष्टषष्ठितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In