This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनसप्ततितमः सर्गः ॥३-६९॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकोनसप्ततितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekonasaptatitamaḥ sargaḥ ..3..
कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा । अवेक्षन्तौ वने सीतां जग्मतुः पश्चिमां दिशम्॥ १॥
कृत्वा एवम् उदकम् तस्मै प्रस्थितौ राघवौ तदा । अवेक्षन्तौ वने सीताम् जग्मतुः पश्चिमाम् दिशम्॥ १॥
kṛtvā evam udakam tasmai prasthitau rāghavau tadā . avekṣantau vane sītām jagmatuḥ paścimām diśam.. 1..
तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ । अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः॥ २॥
ताम् दिशम् दक्षिणाम् गत्वा शर-चाप-असि-धारिणौ । अविप्रहतम् ऐक्ष्वाकौ पन्थानम् प्रतिपेदतुः॥ २॥
tām diśam dakṣiṇām gatvā śara-cāpa-asi-dhāriṇau . aviprahatam aikṣvākau panthānam pratipedatuḥ.. 2..
गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् । आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्॥ ३॥
गुल्मैः वृक्षैः च बहुभिः लताभिः च प्रवेष्टितम् । आवृतम् सर्वतस् दुर्गम् गहनम् घोर-दर्शनम्॥ ३॥
gulmaiḥ vṛkṣaiḥ ca bahubhiḥ latābhiḥ ca praveṣṭitam . āvṛtam sarvatas durgam gahanam ghora-darśanam.. 3..
व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् । सुभीमं तन्महारण्यं व्यतियातौ महाबलौ॥ ४॥
व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणाम् दिशम् । सु भीमम् तत् महा-अरण्यम् व्यतियातौ महा-बलौ॥ ४॥
vyatikramya tu vegena gṛhītvā dakṣiṇām diśam . su bhīmam tat mahā-araṇyam vyatiyātau mahā-balau.. 4..
ततः परं जनस्थानात् त्रिकोशं गम्य राघवौ । क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ॥ ५॥
ततस् परम् जनस्थानात् त्रिकोशम् गम्य राघवौ । क्रौञ्चारण्यम् विविशतुः गहनम् तौ महा-ओजसौ॥ ५॥
tatas param janasthānāt trikośam gamya rāghavau . krauñcāraṇyam viviśatuḥ gahanam tau mahā-ojasau.. 5..
नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः । नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम्॥ ६॥
नाना मेघ-घन-प्रख्यम् प्रहृष्टम् इव सर्वतस् । नाना वर्णैः शुभैः पुष्पैः मृग-पक्षि-गणैः युतम्॥ ६॥
nānā megha-ghana-prakhyam prahṛṣṭam iva sarvatas . nānā varṇaiḥ śubhaiḥ puṣpaiḥ mṛga-pakṣi-gaṇaiḥ yutam.. 6..
दिदृक्षमाणौ वैदेहीं तद् वनं तौ विचिक्यतुः । तत्र तत्रावतिष्ठन्तौ सीताहरणदुःखितौ॥ ७॥
दिदृक्षमाणौ वैदेहीम् तत् वनम् तौ विचिक्यतुः । तत्र तत्र अवतिष्ठन्तौ सीता-हरण-दुःखितौ॥ ७॥
didṛkṣamāṇau vaidehīm tat vanam tau vicikyatuḥ . tatra tatra avatiṣṭhantau sītā-haraṇa-duḥkhitau.. 7..
ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा । क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे॥ ८॥
ततस् पूर्वेण तौ गत्वा त्रि-क्रोशम् भ्रातरौ तदा । क्रौञ्चारण्यम् अतिक्रम्य मतङ्ग-आश्रमम् अन्तरे॥ ८॥
tatas pūrveṇa tau gatvā tri-krośam bhrātarau tadā . krauñcāraṇyam atikramya mataṅga-āśramam antare.. 8..
दृष्ट्वा तु तद् वनं घोरं बहुभीममृगद्विजम् । नानावृक्षसमाकीर्णं सर्वं गहनपादपम्॥ ९॥
दृष्ट्वा तु तत् वनम् घोरम् बहु-भीम-मृग-द्विजम् । नाना वृक्ष-समाकीर्णम् सर्वम् गहन-पादपम्॥ ९॥
dṛṣṭvā tu tat vanam ghoram bahu-bhīma-mṛga-dvijam . nānā vṛkṣa-samākīrṇam sarvam gahana-pādapam.. 9..
ददृशाते गिरौ तत्र दरीं दशरथात्मजौ । पातालसमगम्भीरां तमसा नित्यसंवृताम्॥ १०॥
ददृशाते गिरौ तत्र दरीम् दशरथ-आत्मजौ । पाताल-सम-गम्भीराम् तमसा नित्य-संवृताम्॥ १०॥
dadṛśāte girau tatra darīm daśaratha-ātmajau . pātāla-sama-gambhīrām tamasā nitya-saṃvṛtām.. 10..
आसाद्य च नरव्याघ्रौ दर्यास्तस्याविदूरतः । ददर्शतुर्महारूपां राक्षसीं विकृताननाम्॥ ११॥
आसाद्य च नर-व्याघ्रौ दर्याः तस्य अविदूरतः । ददर्शतुः महा-रूपाम् राक्षसीम् विकृत-आननाम्॥ ११॥
āsādya ca nara-vyāghrau daryāḥ tasya avidūrataḥ . dadarśatuḥ mahā-rūpām rākṣasīm vikṛta-ānanām.. 11..
भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम् । लम्बोदरीं तीक्ष्णदंष्ट्रां करालीं परुषत्वचम्॥ १२॥
भय-दाम् अल्प-सत्त्वानाम् बीभत्साम् रौद्र-दर्शनाम् । लम्ब-उदरीम् तीक्ष्ण-दंष्ट्राम् करालीम् परुष-त्वचम्॥ १२॥
bhaya-dām alpa-sattvānām bībhatsām raudra-darśanām . lamba-udarīm tīkṣṇa-daṃṣṭrām karālīm paruṣa-tvacam.. 12..
भक्षयन्तीं मृगान् भीमान् विकटां मुक्तमूर्धजाम् । अवैक्षतां तु तौ तत्र भ्रातरौ रामलक्ष्मणौ॥ १३॥
भक्षयन्तीम् मृगान् भीमान् विकटाम् मुक्त-मूर्धजाम् । अवैक्षताम् तु तौ तत्र भ्रातरौ राम-लक्ष्मणौ॥ १३॥
bhakṣayantīm mṛgān bhīmān vikaṭām mukta-mūrdhajām . avaikṣatām tu tau tatra bhrātarau rāma-lakṣmaṇau.. 13..
सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः । एहि रंस्यावहेत्युक्त्वा समालम्भत लक्ष्मणम्॥ १४॥
सा समासाद्य तौ वीरौ व्रजन्तम् भ्रातुः अग्रतस् । एहि रंस्यावह इति उक्त्वा समालम्भत लक्ष्मणम्॥ १४॥
sā samāsādya tau vīrau vrajantam bhrātuḥ agratas . ehi raṃsyāvaha iti uktvā samālambhata lakṣmaṇam.. 14..
उवाच चैनं वचनं सौमित्रिमुपगुह्य च । अहं त्वयोमुखी नाम लाभस्ते त्वमसि प्रियः॥ १५॥
उवाच च एनम् वचनम् सौमित्रिम् उपगुह्य च । अहम् तु अयोमुखी नाम लाभः ते त्वम् असि प्रियः॥ १५॥
uvāca ca enam vacanam saumitrim upaguhya ca . aham tu ayomukhī nāma lābhaḥ te tvam asi priyaḥ.. 15..
नाथ पर्वतदुर्गेषु नदीनां पुलिनेषु च । आयुश्चिरमिदं वीर त्वं मया सह रंस्यसे॥ १६॥
नाथ पर्वत-दुर्गेषु नदीनाम् पुलिनेषु च । आयुः चिरम् इदम् वीर त्वम् मया सह रंस्यसे॥ १६॥
nātha parvata-durgeṣu nadīnām pulineṣu ca . āyuḥ ciram idam vīra tvam mayā saha raṃsyase.. 16..
एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः । कर्णनासस्तनं तस्या निचकर्तारिसूदनः॥ १७॥
एवम् उक्तः तु कुपितः खड्गम् उद्धृत्य लक्ष्मणः । कर्ण-नासा-स्तनम् तस्याः निचकर्त अरि-सूदनः॥ १७॥
evam uktaḥ tu kupitaḥ khaḍgam uddhṛtya lakṣmaṇaḥ . karṇa-nāsā-stanam tasyāḥ nicakarta ari-sūdanaḥ.. 17..
कर्णनासे निकृत्ते तु विस्वरं विननाद सा । यथागतं प्रदुद्राव राक्षसी घोरदर्शना॥ १८॥
कर्ण-नासे निकृत्ते तु विस्वरम् विननाद सा । यथागतम् प्रदुद्राव राक्षसी घोर-दर्शना॥ १८॥
karṇa-nāse nikṛtte tu visvaram vinanāda sā . yathāgatam pradudrāva rākṣasī ghora-darśanā.. 18..
तस्यां गतायां गहनं व्रजन्तौ वनमोजसा । आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ॥ १९॥
तस्याम् गतायाम् गहनम् व्रजन्तौ वनम् ओजसा । आसेदतुः अमित्र-घ्नौ भ्रातरौ राम-लक्ष्मणौ॥ १९॥
tasyām gatāyām gahanam vrajantau vanam ojasā . āsedatuḥ amitra-ghnau bhrātarau rāma-lakṣmaṇau.. 19..
लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः । अब्रवीत् प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम्॥ २०॥
लक्ष्मणः तु महा-तेजाः सत्त्ववान् शीलवान् शुचिः । अब्रवीत् प्राञ्जलिः वाक्यम् भ्रातरम् दीप्त-तेजसम्॥ २०॥
lakṣmaṇaḥ tu mahā-tejāḥ sattvavān śīlavān śuciḥ . abravīt prāñjaliḥ vākyam bhrātaram dīpta-tejasam.. 20..
स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः । प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये॥ २१॥
स्पन्दते मे दृढम् बाहुः उद्विग्नम् इव मे मनः । प्रायशस् च अपि अनिष्टानि निमित्तानि उपलक्षये॥ २१॥
spandate me dṛḍham bāhuḥ udvignam iva me manaḥ . prāyaśas ca api aniṣṭāni nimittāni upalakṣaye.. 21..
तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं मम । ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम्॥ २२॥
तस्मात् सज्जीभव आर्य त्वम् कुरुष्व वचनम् मम । मम एव हि निमित्तानि सद्यस् शंसन्ति सम्भ्रमम्॥ २२॥
tasmāt sajjībhava ārya tvam kuruṣva vacanam mama . mama eva hi nimittāni sadyas śaṃsanti sambhramam.. 22..
एष वञ्जुलको नाम पक्षी परमदारुणः । आवयोर्विजयं युद्धे शंसन्निव विनर्दति॥ २३॥
एष वञ्जुलकः नाम पक्षी परम-दारुणः । आवयोः विजयम् युद्धे शंसन् इव विनर्दति॥ २३॥
eṣa vañjulakaḥ nāma pakṣī parama-dāruṇaḥ . āvayoḥ vijayam yuddhe śaṃsan iva vinardati.. 23..
तयोरन्वेषतोरेवं सर्वं तद् वनमोजसा । संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद् वनम्॥ २४॥
तयोः अन्वेषतोः एवम् सर्वम् तत् वनम् ओजसा । संजज्ञे विपुलः शब्दः प्रभञ्जन् इव तत् वनम्॥ २४॥
tayoḥ anveṣatoḥ evam sarvam tat vanam ojasā . saṃjajñe vipulaḥ śabdaḥ prabhañjan iva tat vanam.. 24..
संवेष्टितमिवात्यर्थं गहनं मातरिश्वना । वनस्य तस्य शब्दोऽभूद् वनमापूरयन्निव॥ २५॥
संवेष्टितम् इव अत्यर्थम् गहनम् मातरिश्वना । वनस्य तस्य शब्दः अभूत् वनम् आपूरयन् इव॥ २५॥
saṃveṣṭitam iva atyartham gahanam mātariśvanā . vanasya tasya śabdaḥ abhūt vanam āpūrayan iva.. 25..
तं शब्दं कांक्षमाणस्तु रामः खड्गी सहानुजः । ददर्श सुमहाकायं राक्षसं विपुलोरसम्॥ २६॥
तम् शब्दम् कांक्षमाणः तु रामः खड्गी सहानुजः । ददर्श सु महा-कायम् राक्षसम् विपुल-उरसम्॥ २६॥
tam śabdam kāṃkṣamāṇaḥ tu rāmaḥ khaḍgī sahānujaḥ . dadarśa su mahā-kāyam rākṣasam vipula-urasam.. 26..
आसेदतुश्च तद्रक्षस्तावुभौ प्रमुखे स्थितम् । विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम्॥ २७॥
आसेदतुः च तत् रक्षः तौ उभौ प्रमुखे स्थितम् । विवृद्धम् अशिरः-ग्रीवम् कबन्धम् उदरेमुखम्॥ २७॥
āsedatuḥ ca tat rakṣaḥ tau ubhau pramukhe sthitam . vivṛddham aśiraḥ-grīvam kabandham udaremukham.. 27..
रोमभिर्निशितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् । नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम्॥ २८॥
रोमभिः निशितैः तीक्ष्णैः महा-गिरिम् इव उच्छ्रितम् । नील-मेघ-निभम् रौद्रम् मेघ-स्तनित-निःस्वनम्॥ २८॥
romabhiḥ niśitaiḥ tīkṣṇaiḥ mahā-girim iva ucchritam . nīla-megha-nibham raudram megha-stanita-niḥsvanam.. 28..
अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता । महापक्षेण पिङ्गेन विपुलेनायतेन च॥ २९॥
अग्नि-ज्वाला-निकाशेन ललाट-स्थेन दीप्यता । महापक्षेण पिङ्गेन विपुलेन आयतेन च॥ २९॥
agni-jvālā-nikāśena lalāṭa-sthena dīpyatā . mahāpakṣeṇa piṅgena vipulena āyatena ca.. 29..
एकेनोरसि घोरेण नयनेन सुदर्शिना । महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम्॥ ३०॥
एकेन उरसि घोरेण नयनेन सु दर्शिना । महा-दंष्ट्र-उपपन्नम् तम् लेलिहानम् महा-मुखम्॥ ३०॥
ekena urasi ghoreṇa nayanena su darśinā . mahā-daṃṣṭra-upapannam tam lelihānam mahā-mukham.. 30..
भक्षयन्तं महाघोरानृक्षसिंहमृगद्विजान् । घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ॥ ३१॥
भक्षयन्तम् महा-घोरान् ऋक्ष-सिंह-मृग-द्विजान् । घोरौ भुजौ विकुर्वाणम् उभौ योजनम् आयतौ॥ ३१॥
bhakṣayantam mahā-ghorān ṛkṣa-siṃha-mṛga-dvijān . ghorau bhujau vikurvāṇam ubhau yojanam āyatau.. 31..
कराभ्यां विविधान् गृह्य ऋक्षान् पक्षिगणान् मृगान् । आकर्षन्तं विकर्षन्तमनेकान् मृगयूथपान्॥ ३२॥
कराभ्याम् विविधान् गृह्य ऋक्षान् पक्षि-गणान् मृगान् । आकर्षन्तम् विकर्षन्तम् अनेकान् मृग-यूथपान्॥ ३२॥
karābhyām vividhān gṛhya ṛkṣān pakṣi-gaṇān mṛgān . ākarṣantam vikarṣantam anekān mṛga-yūthapān.. 32..
स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः । अथ तं समतिक्रम्य क्रोशमात्रं ददर्शतुः॥ ३३॥
स्थितम् आवृत्य पन्थानम् तयोः भ्रात्रोः प्रपन्नयोः । अथ तम् समतिक्रम्य क्रोश-मात्रम् ददर्शतुः॥ ३३॥
sthitam āvṛtya panthānam tayoḥ bhrātroḥ prapannayoḥ . atha tam samatikramya krośa-mātram dadarśatuḥ.. 33..
महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् । कबन्धमिव संस्थानादतिघोरप्रदर्शनम्॥ ३४॥
महान्तम् दारुणम् भीमम् कबन्धम् भुज-संवृतम् । कबन्धम् इव संस्थानात् अति घोर-प्रदर्शनम्॥ ३४॥
mahāntam dāruṇam bhīmam kabandham bhuja-saṃvṛtam . kabandham iva saṃsthānāt ati ghora-pradarśanam.. 34..
स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ । जग्राह सहितावेव राघवौ पीडयन् बलात्॥ ३५॥
स महा-बाहुः अत्यर्थम् प्रसार्य विपुलौ भुजौ । जग्राह सहितौ एव राघवौ पीडयन् बलात्॥ ३५॥
sa mahā-bāhuḥ atyartham prasārya vipulau bhujau . jagrāha sahitau eva rāghavau pīḍayan balāt.. 35..
खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ । भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ॥ ३६॥
खड्गिनौ दृढ-धन्वानौ तिग्म-तेजौ महा-भुजौ । भ्रातरौ विवशम् प्राप्तौ कृष्यमाणौ महा-बलौ॥ ३६॥
khaḍginau dṛḍha-dhanvānau tigma-tejau mahā-bhujau . bhrātarau vivaśam prāptau kṛṣyamāṇau mahā-balau.. 36..
तत्र धैर्याच्च शूरस्तु राघवो नैव विव्यथे । बाल्यादनाश्रयाच्चैव लक्ष्मणस्त्वभिविव्यथे॥ ३७॥
तत्र धैर्यात् च शूरः तु राघवः ना एव विव्यथे । बाल्यात् अनाश्रयात् च एव लक्ष्मणः तु अभिविव्यथे॥ ३७॥
tatra dhairyāt ca śūraḥ tu rāghavaḥ nā eva vivyathe . bālyāt anāśrayāt ca eva lakṣmaṇaḥ tu abhivivyathe.. 37..
उवाच च विषण्णः सन् राघवं राघवानुजः । पश्य मां विवशं वीर राक्षसस्य वशंगतम्॥ ३८॥
उवाच च विषण्णः सन् राघवम् राघव-अनुजः । पश्य माम् विवशम् वीर राक्षसस्य वशंगतम्॥ ३८॥
uvāca ca viṣaṇṇaḥ san rāghavam rāghava-anujaḥ . paśya mām vivaśam vīra rākṣasasya vaśaṃgatam.. 38..
मयैकेन तु निर्युक्तः परिमुच्यस्व राघव । मां हि भूतबलिं दत्त्वा पलायस्व यथासुखम्॥ ३९॥
मया एकेन तु निर्युक्तः परिमुच्यस्व राघव । माम् हि भूत-बलिम् दत्त्वा पलायस्व यथासुखम्॥ ३९॥
mayā ekena tu niryuktaḥ parimucyasva rāghava . mām hi bhūta-balim dattvā palāyasva yathāsukham.. 39..
अधिगन्तासि वैदेहीमचिरेणेति मे मतिः । प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम्॥ ४०॥
अधिगन्तासि वैदेहीम् अचिरेण इति मे मतिः । प्रतिलभ्य च काकुत्स्थ पितृपैतामहीम् महीम्॥ ४०॥
adhigantāsi vaidehīm acireṇa iti me matiḥ . pratilabhya ca kākutstha pitṛpaitāmahīm mahīm.. 40..
तत्र मां राम राज्यस्थः स्मर्तुमर्हसि सर्वदा । लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत्॥ ४१॥
तत्र माम् राम राज्य-स्थः स्मर्तुम् अर्हसि सर्वदा । लक्ष्मणेन एवम् उक्तः तु रामः सौमित्रिम् अब्रवीत्॥ ४१॥
tatra mām rāma rājya-sthaḥ smartum arhasi sarvadā . lakṣmaṇena evam uktaḥ tu rāmaḥ saumitrim abravīt.. 41..
मा स्म त्रासं वृथा वीर नहि त्वादृग् विषीदति । एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ॥ ४२॥
मा स्म त्रासम् वृथा वीर नहि त्वादृश् विषीदति । एतस्मिन् अन्तरे क्रूरः भ्रातरौ राम-लक्ष्मणौ॥ ४२॥
mā sma trāsam vṛthā vīra nahi tvādṛś viṣīdati . etasmin antare krūraḥ bhrātarau rāma-lakṣmaṇau.. 42..
तावुवाच महाबाहुः कबन्धो दानवोत्तमः । कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ॥ ४३॥
तौ उवाच महा-बाहुः कबन्धः दानव-उत्तमः । कौ युवाम् वृषभ-स्कन्धौ महा-खड्ग-धनुः-धरौ॥ ४३॥
tau uvāca mahā-bāhuḥ kabandhaḥ dānava-uttamaḥ . kau yuvām vṛṣabha-skandhau mahā-khaḍga-dhanuḥ-dharau.. 43..
घोरं देशमिमं प्राप्तौ दैवेन मम चाक्षुषौ । वदतं कार्यमिह वां किमर्थं चागतौ युवाम्॥ ४४॥
घोरम् देशम् इमम् प्राप्तौ दैवेन मम चाक्षुषौ । वदतम् कार्यम् इह वाम् किम् अर्थम् च आगतौ युवाम्॥ ४४॥
ghoram deśam imam prāptau daivena mama cākṣuṣau . vadatam kāryam iha vām kim artham ca āgatau yuvām.. 44..
इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः । सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ॥ ४५॥
इमम् देशम् अनुप्राप्तौ क्षुधा-आर्तस्य इह तिष्ठतः । स बाण-चाप-खड्गौ च तीक्ष्ण-शृङ्गौ इव ऋषभौ॥ ४५॥
imam deśam anuprāptau kṣudhā-ārtasya iha tiṣṭhataḥ . sa bāṇa-cāpa-khaḍgau ca tīkṣṇa-śṛṅgau iva ṛṣabhau.. 45..
मां तूर्णमनुसम्प्राप्तौ दुर्लभं जीवितं हि वाम् । तस्य तद् वचनं श्रुत्वा कबन्धस्य दुरात्मनः॥ ४६॥
माम् तूर्णम् अनुसम्प्राप्तौ दुर्लभम् जीवितम् हि वाम् । तस्य तत् वचनम् श्रुत्वा कबन्धस्य दुरात्मनः॥ ४६॥
mām tūrṇam anusamprāptau durlabham jīvitam hi vām . tasya tat vacanam śrutvā kabandhasya durātmanaḥ.. 46..
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता । कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम॥ ४७॥
उवाच लक्ष्मणम् रामः मुखेन परिशुष्यता । कृच्छ्रात् कृच्छ्रतरम् प्राप्य दारुणम् सत्य-विक्रम॥ ४७॥
uvāca lakṣmaṇam rāmaḥ mukhena pariśuṣyatā . kṛcchrāt kṛcchrataram prāpya dāruṇam satya-vikrama.. 47..
व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् । कालस्य सुमहद् वीर्यं सर्वभूतेषु लक्ष्मण॥ ४८॥
व्यसनम् जीवित-अन्ताय प्राप्तम् अ प्राप्य ताम् प्रियाम् । कालस्य सु महत् वीर्यम् सर्व-भूतेषु लक्ष्मण॥ ४८॥
vyasanam jīvita-antāya prāptam a prāpya tām priyām . kālasya su mahat vīryam sarva-bhūteṣu lakṣmaṇa.. 48..
त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ । नहि भारोऽस्ति दैवस्य सर्वभूतेषु लक्ष्मण॥ ४९॥
त्वाम् च माम् च नर-व्याघ्र व्यसनैः पश्य मोहितौ । नहि भारः अस्ति दैवस्य सर्व-भूतेषु लक्ष्मण॥ ४९॥
tvām ca mām ca nara-vyāghra vyasanaiḥ paśya mohitau . nahi bhāraḥ asti daivasya sarva-bhūteṣu lakṣmaṇa.. 49..
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः॥ ५०॥
शूराः च बलवन्तः च कृतास्त्राः च रण-अजिरे । काल-अभिपन्नाः सीदन्ति यथा वालुक-सेतवः॥ ५०॥
śūrāḥ ca balavantaḥ ca kṛtāstrāḥ ca raṇa-ajire . kāla-abhipannāḥ sīdanti yathā vāluka-setavaḥ.. 50..
इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् । अवेक्ष्य सौमित्रिमुदग्रविक्रमः स्थिरां तदा स्वां मतिमात्मनाकरोत्॥ ५१॥
इति ब्रुवाणः दृढ-सत्य-विक्रमः महा-यशाः दाशरथिः प्रतापवान् । अवेक्ष्य सौमित्रिम् उदग्र-विक्रमः स्थिराम् तदा स्वाम् मतिम् आत्मना अकरोत्॥ ५१॥
iti bruvāṇaḥ dṛḍha-satya-vikramaḥ mahā-yaśāḥ dāśarathiḥ pratāpavān . avekṣya saumitrim udagra-vikramaḥ sthirām tadā svām matim ātmanā akarot.. 51..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनसप्ततितमः सर्गः ॥३-६९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे एकोनसप्ततितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ekonasaptatitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In