This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तमः सर्गः ॥३-७॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे सप्तमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe saptamaḥ sargaḥ ..3..
रामस्तु सहितो भ्रात्रा सीतया च परंतपः । सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः॥ १॥
रामः तु सहितः भ्रात्रा सीतया च परंतपः । सुतीक्ष्णस्य आश्रम-पदम् जगाम सह तैः द्विजैः॥ १॥
rāmaḥ tu sahitaḥ bhrātrā sītayā ca paraṃtapaḥ . sutīkṣṇasya āśrama-padam jagāma saha taiḥ dvijaiḥ.. 1..
स गत्वा दूरमध्वानं नदीस्तीर्त्वा बहूदकाः । ददर्श विमलं शैलं महामेरुमिवोन्नतम्॥ २॥
स गत्वा दूरम् अध्वानम् नदीः तीर्त्वा बहु-उदकाः । ददर्श विमलम् शैलम् महा-मेरुम् इव उन्नतम्॥ २॥
sa gatvā dūram adhvānam nadīḥ tīrtvā bahu-udakāḥ . dadarśa vimalam śailam mahā-merum iva unnatam.. 2..
ततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः । काननं तौ विविशतुः सीतया सह राघवौ॥ ३॥
ततस् तद्-इक्ष्वाकु-वरौ सततम् विविधैः द्रुमैः । काननम् तौ विविशतुः सीतया सह राघवौ॥ ३॥
tatas tad-ikṣvāku-varau satatam vividhaiḥ drumaiḥ . kānanam tau viviśatuḥ sītayā saha rāghavau.. 3..
प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् । ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्॥ ४॥
प्रविष्टः तु वनम् घोरम् बहु-पुष्प-फल-द्रुमम् । ददर्श आश्रमम् एकान्ते चीर-माला-परिष्कृतम्॥ ४॥
praviṣṭaḥ tu vanam ghoram bahu-puṣpa-phala-drumam . dadarśa āśramam ekānte cīra-mālā-pariṣkṛtam.. 4..
तत्र तापसमासीनं मलपङ्कजधारिणम् । रामः सुतीक्ष्णं विधिवत् तपोधनमभाषत॥ ५॥
तत्र तापसम् आसीनम् मल-पङ्कज-धारिणम् । रामः सुतीक्ष्णम् विधिवत् तपोधनम् अभाषत॥ ५॥
tatra tāpasam āsīnam mala-paṅkaja-dhāriṇam . rāmaḥ sutīkṣṇam vidhivat tapodhanam abhāṣata.. 5..
रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः । तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम॥ ६॥
रामः अहम् अस्मि भगवन् भवन्तम् द्रष्टुम् आगतः । तत् मा अभिवद धर्म-ज्ञ महा-ऋषे सत्य-विक्रम॥ ६॥
rāmaḥ aham asmi bhagavan bhavantam draṣṭum āgataḥ . tat mā abhivada dharma-jña mahā-ṛṣe satya-vikrama.. 6..
स निरीक्ष्य ततो धीरो रामं धर्मभृतां वरम् । समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत्॥ ७॥
स निरीक्ष्य ततस् धीरः रामम् धर्म-भृताम् वरम् । समाश्लिष्य च बाहुभ्याम् इदम् वचनम् अब्रवीत्॥ ७॥
sa nirīkṣya tatas dhīraḥ rāmam dharma-bhṛtām varam . samāśliṣya ca bāhubhyām idam vacanam abravīt.. 7..
स्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर । आश्रमोऽयं त्वयाऽऽक्रान्तः सनाथ इव साम्प्रतम्॥ ८॥
स्वागतम् ते रघु-श्रेष्ठ राम सत्य-भृताम् वर । आश्रमः अयम् त्वया आक्रान्तः स नाथः इव साम्प्रतम्॥ ८॥
svāgatam te raghu-śreṣṭha rāma satya-bhṛtām vara . āśramaḥ ayam tvayā ākrāntaḥ sa nāthaḥ iva sāmpratam.. 8..
प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः । देवलोकमितो वीर देहं त्यक्त्वा महीतले॥ ९॥
प्रतीक्षमाणः त्वाम् एव न आरोहे अहम् महा-यशः । देव-लोकम् इतस् वीर देहम् त्यक्त्वा मही-तले॥ ९॥
pratīkṣamāṇaḥ tvām eva na ārohe aham mahā-yaśaḥ . deva-lokam itas vīra deham tyaktvā mahī-tale.. 9..
चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः । इहोपयातः काकुत्स्थ देवराजः शतक्रतुः॥ १०॥
चित्रकूटम् उपादाय राज्य-भ्रष्टः असि मे श्रुतः । इह उपयातः काकुत्स्थ देवराजः शतक्रतुः॥ १०॥
citrakūṭam upādāya rājya-bhraṣṭaḥ asi me śrutaḥ . iha upayātaḥ kākutstha devarājaḥ śatakratuḥ.. 10..
उपागम्य च मे देवो महादेवः सुरेश्वरः । सर्वाल्ँ लोकाञ्जितानाह मम पुण्येन कर्मणा॥ ११॥
उपागम्य च मे देवः महादेवः सुरेश्वरः । सर्वान् लोकान् जितान् आह मम पुण्येन कर्मणा॥ ११॥
upāgamya ca me devaḥ mahādevaḥ sureśvaraḥ . sarvān lokān jitān āha mama puṇyena karmaṇā.. 11..
तेषु देवर्षिजुष्टेषु जितेषु तपसा मया । मत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः॥ १२॥
तेषु देव-ऋषि-जुष्टेषु जितेषु तपसा मया । मद्-प्रसादात् स भार्यः त्वम् विहरस्व स लक्ष्मणः॥ १२॥
teṣu deva-ṛṣi-juṣṭeṣu jiteṣu tapasā mayā . mad-prasādāt sa bhāryaḥ tvam viharasva sa lakṣmaṇaḥ.. 12..
तमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम् । प्रत्युवाचात्मवान् रामो ब्रह्माणमिव वासवः॥ १३॥
तम् उग्र-तपसम् दीप्तम् महा-ऋषिम् सत्य-वादिनम् । प्रत्युवाच आत्मवान् रामः ब्रह्माणम् इव वासवः॥ १३॥
tam ugra-tapasam dīptam mahā-ṛṣim satya-vādinam . pratyuvāca ātmavān rāmaḥ brahmāṇam iva vāsavaḥ.. 13..
अहमेवाहरिष्यामि स्वयं लोकान् महामुने । आवासं त्वहमिच्छामि प्रदिष्टमिह कानने॥ १४॥
अहम् एव आहरिष्यामि स्वयम् लोकान् महा-मुने । आवासम् तु अहम् इच्छामि प्रदिष्टम् इह कानने॥ १४॥
aham eva āhariṣyāmi svayam lokān mahā-mune . āvāsam tu aham icchāmi pradiṣṭam iha kānane.. 14..
भवान् सर्वत्र कुशलः सर्वभूतहिते रतः । आख्यातं शरभङ्गेन गौतमेन महात्मना॥ १५॥
भवान् सर्वत्र कुशलः सर्व-भूत-हिते रतः । आख्यातम् शरभङ्गेन गौतमेन महात्मना॥ १५॥
bhavān sarvatra kuśalaḥ sarva-bhūta-hite rataḥ . ākhyātam śarabhaṅgena gautamena mahātmanā.. 15..
एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः । अब्रवीन्मधुरं वाक्यं हर्षेण महता युतः॥ १६॥
एवम् उक्तः तु रामेण महा-ऋषिः लोक-विश्रुतः । अब्रवीत् मधुरम् वाक्यम् हर्षेण महता युतः॥ १६॥
evam uktaḥ tu rāmeṇa mahā-ṛṣiḥ loka-viśrutaḥ . abravīt madhuram vākyam harṣeṇa mahatā yutaḥ.. 16..
अयमेवाश्रमो राम गुणवान् रम्यतामिति । ऋषिसंघानुचरितः सदा मूलफलैर्युतः॥ १७॥
अयम् एव आश्रमः राम गुणवान् रम्यताम् इति । ऋषि-संघ-अनुचरितः सदा मूल-फलैः युतः॥ १७॥
ayam eva āśramaḥ rāma guṇavān ramyatām iti . ṛṣi-saṃgha-anucaritaḥ sadā mūla-phalaiḥ yutaḥ.. 17..
इममाश्रममागम्य मृगसंघा महीयसः । अहत्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः॥ १८॥
इमम् आश्रमम् आगम्य मृग-संघाः महीयसः । अ हत्वा प्रतिगच्छन्ति लोभयित्वा अकुतोभयाः॥ १८॥
imam āśramam āgamya mṛga-saṃghāḥ mahīyasaḥ . a hatvā pratigacchanti lobhayitvā akutobhayāḥ.. 18..
नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै । तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः॥ १९॥
न अन्यः दोषः भवेत् अत्र मृगेभ्यः अन्यत्र विद्धि वै । तत् श्रुत्वा वचनम् तस्य महा-ऋषेः लक्ष्मण-अग्रजः॥ १९॥
na anyaḥ doṣaḥ bhavet atra mṛgebhyaḥ anyatra viddhi vai . tat śrutvā vacanam tasya mahā-ṛṣeḥ lakṣmaṇa-agrajaḥ.. 19..
उवाच वचनं धीरो विगृह्य सशरं धनुः । तानहं सुमहाभाग मृगसंघान् समागतान्॥ २०॥
उवाच वचनम् धीरः विगृह्य स शरम् धनुः । तान् अहम् सु महाभाग मृग-संघान् समागतान्॥ २०॥
uvāca vacanam dhīraḥ vigṛhya sa śaram dhanuḥ . tān aham su mahābhāga mṛga-saṃghān samāgatān.. 20..
हन्यां निशितधारेण शरेणानतपर्वणा । भवांस्तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः॥ २१॥
हन्याम् निशित-धारेण शरेण आनत-पर्वणा । भवान् तत्र अभिषज्येत किम् स्यात् कृच्छ्रतरम् ततस्॥ २१॥
hanyām niśita-dhāreṇa śareṇa ānata-parvaṇā . bhavān tatra abhiṣajyeta kim syāt kṛcchrataram tatas.. 21..
एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये । तमेवमुक्त्वोपरमं रामः संध्यामुपागमत्॥ २२॥
एतस्मिन् आश्रमे वासम् चिरम् तु न समर्थये । तम् एवम् उक्त्वा उपरमम् रामः संध्याम् उपागमत्॥ २२॥
etasmin āśrame vāsam ciram tu na samarthaye . tam evam uktvā uparamam rāmaḥ saṃdhyām upāgamat.. 22..
अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत् । सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च॥ २३॥
अन्वास्य पश्चिमाम् संध्याम् तत्र वासम् अकल्पयत् । सुतीक्ष्णस्य आश्रमे रम्ये सीतया लक्ष्मणेन च॥ २३॥
anvāsya paścimām saṃdhyām tatra vāsam akalpayat . sutīkṣṇasya āśrame ramye sītayā lakṣmaṇena ca.. 23..
ततः शुभं तापसयोग्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् । ताभ्यां सुसत्कृत्य ददौ महात्मा संध्यानिवृत्तौ रजनीं समीक्ष्य॥ २४॥
ततस् शुभम् तापस-योग्यम् अन्नम् स्वयम् सुतीक्ष्णः पुरुष-ऋषभाभ्याम् । ताभ्याम् सु सत्कृत्य ददौ महात्मा संध्या-निवृत्तौ रजनीम् समीक्ष्य॥ २४॥
tatas śubham tāpasa-yogyam annam svayam sutīkṣṇaḥ puruṣa-ṛṣabhābhyām . tābhyām su satkṛtya dadau mahātmā saṃdhyā-nivṛttau rajanīm samīkṣya.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तमः सर्गः ॥३-७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे सप्तमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe saptamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In