This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्ततितमः सर्गः ॥३-७०॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे सप्ततितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe saptatitamaḥ sargaḥ ..3..
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्॥ १॥
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ राम-लक्ष्मणौ । बाहु-पाश-परिक्षिप्तौ कबन्धः वाक्यम् अब्रवीत्॥ १॥
tau tu tatra sthitau dṛṣṭvā bhrātarau rāma-lakṣmaṇau . bāhu-pāśa-parikṣiptau kabandhaḥ vākyam abravīt.. 1..
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ । आहारार्थं तु संदिष्टौ दैवेन हतचेतनौ॥ २॥
तिष्ठतः किम् नु माम् दृष्ट्वा क्षुधा-आर्तम् क्षत्रिय-ऋषभौ । आहार-अर्थम् तु संदिष्टौ दैवेन हत-चेतनौ॥ २॥
tiṣṭhataḥ kim nu mām dṛṣṭvā kṣudhā-ārtam kṣatriya-ṛṣabhau . āhāra-artham tu saṃdiṣṭau daivena hata-cetanau.. 2..
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा । उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः॥ ३॥
तत् श्रुत्वा लक्ष्मणः वाक्यम् प्राप्त-कालम् हितम् तदा । उवाच आर्ति-समापन्नः विक्रमे कृत-निश्चयः॥ ३॥
tat śrutvā lakṣmaṇaḥ vākyam prāpta-kālam hitam tadā . uvāca ārti-samāpannaḥ vikrame kṛta-niścayaḥ.. 3..
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः । तस्मादसिभ्यामस्याशु बाहू छिन्दावहे गुरू॥ ४॥
त्वाम् च माम् च पुरा तूर्णम् आदत्ते राक्षस-अधमः । तस्मात् असिभ्याम् अस्य आशु बाहू छिन्दावहे गुरू॥ ४॥
tvām ca mām ca purā tūrṇam ādatte rākṣasa-adhamaḥ . tasmāt asibhyām asya āśu bāhū chindāvahe gurū.. 4..
भीषणोऽयं महाकायो राक्षसा भुजविक्रमः । लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति॥ ५॥
भीषणः अयम् महा-कायः राक्षसाः भुज-विक्रमः । लोकम् हि अति जितम् कृत्वा हि आवाम् हन्तुम् इह इच्छति॥ ५॥
bhīṣaṇaḥ ayam mahā-kāyaḥ rākṣasāḥ bhuja-vikramaḥ . lokam hi ati jitam kṛtvā hi āvām hantum iha icchati.. 5..
निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः । क्रतुमध्योपनीतानां पशूनामिव राघव॥ ६॥
निश्चेष्टानाम् वधः राजन् कुत्सितः जगतीपतेः । क्रतु-मध्य-उपनीतानाम् पशूनाम् इव राघव॥ ६॥
niśceṣṭānām vadhaḥ rājan kutsitaḥ jagatīpateḥ . kratu-madhya-upanītānām paśūnām iva rāghava.. 6..
एतत् संजल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः । विदार्यास्यं ततो रौद्रं तौ भक्षयितुमारभत्॥ ७॥
एतत् संजल्पितम् श्रुत्वा तयोः क्रुद्धः तु राक्षसः । विदारी-आस्यम् ततस् रौद्रम् तौ भक्षयितुम् आरभत्॥ ७॥
etat saṃjalpitam śrutvā tayoḥ kruddhaḥ tu rākṣasaḥ . vidārī-āsyam tatas raudram tau bhakṣayitum ārabhat.. 7..
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ । अच्छिन्दन्तां सुसंहृष्टौ बाहू तस्यांसदेशतः॥ ८॥
ततस् तौ देश-काल-ज्ञौ खड्गाभ्याम् एव राघवौ । अच्छिन्दन्ताम् सु संहृष्टौ बाहू तस्य अंस-देशतः॥ ८॥
tatas tau deśa-kāla-jñau khaḍgābhyām eva rāghavau . acchindantām su saṃhṛṣṭau bāhū tasya aṃsa-deśataḥ.. 8..
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः । चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः॥ ९॥
दक्षिणः दक्षिणम् बाहुम् असक्तम् असिना ततस् । चिच्छेद रामः वेगेन सव्यम् वीरः तु लक्ष्मणः॥ ९॥
dakṣiṇaḥ dakṣiṇam bāhum asaktam asinā tatas . ciccheda rāmaḥ vegena savyam vīraḥ tu lakṣmaṇaḥ.. 9..
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः । खं च गां च दिशश्चैव नादयञ्जलदो यथा॥ १०॥
स पपात महा-बाहुः छिन्न-बाहुः महा-स्वनः । खम् च गाम् च दिशः च एव नादयन् जलदः यथा॥ १०॥
sa papāta mahā-bāhuḥ chinna-bāhuḥ mahā-svanaḥ . kham ca gām ca diśaḥ ca eva nādayan jaladaḥ yathā.. 10..
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः । दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः॥ ११॥
स निकृत्तौ भुजौ दृष्ट्वा शोणित-ओघ-परिप्लुतः । दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः॥ ११॥
sa nikṛttau bhujau dṛṣṭvā śoṇita-ogha-pariplutaḥ . dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ.. 11..
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः । शशंस तस्य काकुस्त्थं कबन्धस्य महाबलः॥ १२॥
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभ-लक्षणः । शशंस तस्य काकुस्त्थम् कबन्धस्य महा-बलः॥ १२॥
iti tasya bruvāṇasya lakṣmaṇaḥ śubha-lakṣaṇaḥ . śaśaṃsa tasya kākusttham kabandhasya mahā-balaḥ.. 12..
अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः । तस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम्॥ १३॥
अयम् इक्ष्वाकु-दायादः रामः नाम जनैः श्रुतः । तस्य एव अवरजम् विद्धि भ्रातरम् माम् च लक्ष्मणम्॥ १३॥
ayam ikṣvāku-dāyādaḥ rāmaḥ nāma janaiḥ śrutaḥ . tasya eva avarajam viddhi bhrātaram mām ca lakṣmaṇam.. 13..
मात्रा प्रतिहते राज्ये रामः प्रव्राजितो वनम् । मया सह चरत्येष भार्यया च महद् वनम्॥ १४॥
मात्रा प्रतिहते राज्ये रामः प्रव्राजितः वनम् । मया सह चरति एष भार्यया च महत् वनम्॥ १४॥
mātrā pratihate rājye rāmaḥ pravrājitaḥ vanam . mayā saha carati eṣa bhāryayā ca mahat vanam.. 14..
अस्य देवप्रभावस्य वसतो विजने वने । रक्षसापहृता भार्या यामिच्छन्ताविहागतौ॥ १५॥
अस्य देव-प्रभावस्य वसतः विजने वने । रक्षसा अपहृता भार्या याम् इच्छन्तौ इह आगतौ॥ १५॥
asya deva-prabhāvasya vasataḥ vijane vane . rakṣasā apahṛtā bhāryā yām icchantau iha āgatau.. 15..
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने । आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे॥ १६॥
त्वम् तु कः वा किमर्थम् वा कबन्ध-सदृशः वने । आस्येन उरसि दीप्तेन भग्न-जङ्घः विचेष्टसे॥ १६॥
tvam tu kaḥ vā kimartham vā kabandha-sadṛśaḥ vane . āsyena urasi dīptena bhagna-jaṅghaḥ viceṣṭase.. 16..
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः । उवाच वचनं प्रीतस्तदिन्द्रवचनं स्मरन्॥ १७॥
एवम् उक्तः कबन्धः तु लक्ष्मणेन उत्तरम् वचः । उवाच वचनम् प्रीतः तत् इन्द्र-वचनम् स्मरन्॥ १७॥
evam uktaḥ kabandhaḥ tu lakṣmaṇena uttaram vacaḥ . uvāca vacanam prītaḥ tat indra-vacanam smaran.. 17..
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि वामहम् । दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ॥ १८॥
स्वागतम् वाम् नर-व्याघ्रौ दिष्ट्या पश्यामि वाम् अहम् । दिष्ट्या च इमौ निकृत्तौ मे युवाभ्याम् बाहु-बन्धनौ॥ १८॥
svāgatam vām nara-vyāghrau diṣṭyā paśyāmi vām aham . diṣṭyā ca imau nikṛttau me yuvābhyām bāhu-bandhanau.. 18..
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद् यथा । तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव॥ १९॥
विरूपम् यत् च मे रूपम् प्राप्तम् हि अविनयात् यथा । तत् मे शृणु नर-व्याघ्र तत्त्वतः शंसतः तव॥ १९॥
virūpam yat ca me rūpam prāptam hi avinayāt yathā . tat me śṛṇu nara-vyāghra tattvataḥ śaṃsataḥ tava.. 19..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्ततितमः सर्गः ॥३-७०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे सप्ततितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe saptatitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In