This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकसप्ततितमः सर्गः ॥३-७१॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकसप्ततितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekasaptatitamaḥ sargaḥ ..3..
पुरा राम महाबाहो महाबलपराक्रमम् । रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्॥ १॥
पुरा राम महा-बाहो महा-बल-पराक्रमम् । रूपम् आसीत् मम अचिन्त्यम् त्रिषु लोकेषु विश्रुतम्॥ १॥
purā rāma mahā-bāho mahā-bala-parākramam . rūpam āsīt mama acintyam triṣu lokeṣu viśrutam.. 1..
यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः । सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत्॥ २॥
यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः । सः अहम् रूपम् इदम् कृत्वा लोक-वित्रासनम् महत्॥ २॥
yathā sūryasya somasya śakrasya ca yathā vapuḥ . saḥ aham rūpam idam kṛtvā loka-vitrāsanam mahat.. 2..
ऋषीन् वनगतान् राम त्रासयामि ततस्ततः । ततः स्थूलशिरा नाम महर्षिः कोपितो मया॥ ३॥
ऋषीन् वन-गतान् राम त्रासयामि ततस् ततस् । ततस् स्थूलशिराः नाम महा-ऋषिः कोपितः मया॥ ३॥
ṛṣīn vana-gatān rāma trāsayāmi tatas tatas . tatas sthūlaśirāḥ nāma mahā-ṛṣiḥ kopitaḥ mayā.. 3..
स चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः । तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना॥ ४॥
स चिन्वन् विविधम् वन्यम् रूपेण अनेन धर्षितः । तेन अहम् उक्तः प्रेक्ष्य एवम् घोर-शाप-अभिधायिना॥ ४॥
sa cinvan vividham vanyam rūpeṇa anena dharṣitaḥ . tena aham uktaḥ prekṣya evam ghora-śāpa-abhidhāyinā.. 4..
एतदेवं नृशंसं ते रूपमस्तु विगर्हितम् । स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति॥ ५॥
एतत् एवम् नृशंसम् ते रूपम् अस्तु विगर्हितम् । स मया याचितः क्रुद्धः शापस्य अन्तः भवेत् इति॥ ५॥
etat evam nṛśaṃsam te rūpam astu vigarhitam . sa mayā yācitaḥ kruddhaḥ śāpasya antaḥ bhavet iti.. 5..
अभिशापकृतस्येति तेनेदं भाषितं वचः । यदा छित्त्वा भुजौ रामस्त्वां दहेद् विजने वने॥ ६॥
अभिशाप-कृतस्य इति तेन इदम् भाषितम् वचः । यदा छित्त्वा भुजौ रामः त्वाम् दहेत् विजने वने॥ ६॥
abhiśāpa-kṛtasya iti tena idam bhāṣitam vacaḥ . yadā chittvā bhujau rāmaḥ tvām dahet vijane vane.. 6..
तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् । श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण॥ ७॥
तदा त्वम् प्राप्स्यसे रूपम् स्वम् एव विपुलम् शुभम् । श्रिया विराजितम् पुत्रम् दनोः त्वम् विद्धि लक्ष्मण॥ ७॥
tadā tvam prāpsyase rūpam svam eva vipulam śubham . śriyā virājitam putram danoḥ tvam viddhi lakṣmaṇa.. 7..
इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे । अहं हि तपसोग्रेण पितामहमतोषयम्॥ ८॥
इन्द्र-कोपात् इदम् रूपम् प्राप्तम् एवम् रण-अजिरे । अहम् हि तपसा उग्रेण पितामहम् अतोषयम्॥ ८॥
indra-kopāt idam rūpam prāptam evam raṇa-ajire . aham hi tapasā ugreṇa pitāmaham atoṣayam.. 8..
दीर्घमायुः स मे प्रादात् ततो मां विभ्रमोऽस्पृशत् । दीर्घमायुर्मया प्राप्तं किं मां शक्रः करिष्यति॥ ९॥
दीर्घम् आयुः स मे प्रादात् ततस् माम् विभ्रमः अस्पृशत् । दीर्घम् आयुः मया प्राप्तम् किम् माम् शक्रः करिष्यति॥ ९॥
dīrgham āyuḥ sa me prādāt tatas mām vibhramaḥ aspṛśat . dīrgham āyuḥ mayā prāptam kim mām śakraḥ kariṣyati.. 9..
इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् । तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा॥ १०॥
इति एवम् बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम् । तस्य बाहु-प्रमुक्तेन वज्रेण शतपर्वणा॥ १०॥
iti evam buddhim āsthāya raṇe śakram adharṣayam . tasya bāhu-pramuktena vajreṇa śataparvaṇā.. 10..
सक्थिनी च शिरश्चैव शरीरे सम्प्रवेशितम् । स मया याच्यमानः सन् नानयद् यमसादनम्॥ ११॥
सक्थिनी च शिरः च एव शरीरे सम्प्रवेशितम् । स मया याच्यमानः सन् न अनयत् यम-सादनम्॥ ११॥
sakthinī ca śiraḥ ca eva śarīre sampraveśitam . sa mayā yācyamānaḥ san na anayat yama-sādanam.. 11..
पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् । अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः॥ १२॥
पितामह-वचः सत्यम् तत् अस्तु इति मम अब्रवीत् । अनाहारः कथम् शक्तः भग्न-सक्थि-शिरः-मुखः॥ १२॥
pitāmaha-vacaḥ satyam tat astu iti mama abravīt . anāhāraḥ katham śaktaḥ bhagna-sakthi-śiraḥ-mukhaḥ.. 12..
वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम् । स एवमुक्तः शक्रो मे बाहू योजनमायतौ॥ १३॥
वज्रेण अभिहतः कालम् सु दीर्घम् अपि जीवितुम् । सः एवम् उक्तः शक्रः मे बाहू योजनम् आयतौ॥ १३॥
vajreṇa abhihataḥ kālam su dīrgham api jīvitum . saḥ evam uktaḥ śakraḥ me bāhū yojanam āyatau.. 13..
तदा चास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् । सोऽहं भुजाभ्यां दीर्घाभ्यां संक्षिप्यास्मिन् वनेचरान्॥ १४॥
तदा च आस्यम् च मे कुक्षौ तीक्ष्ण-दंष्ट्रम् अकल्पयत् । सः अहम् भुजाभ्याम् दीर्घाभ्याम् संक्षिप्य अस्मिन् वनेचरान्॥ १४॥
tadā ca āsyam ca me kukṣau tīkṣṇa-daṃṣṭram akalpayat . saḥ aham bhujābhyām dīrghābhyām saṃkṣipya asmin vanecarān.. 14..
सिंहद्वीपिमृगव्याघ्रान् भक्षयामि समन्ततः । स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः॥ १५॥
सिंह-द्वीपि-मृग-व्याघ्रान् भक्षयामि समन्ततः । स तु माम् अब्रवीत् इन्द्रः यदा रामः स लक्ष्मणः॥ १५॥
siṃha-dvīpi-mṛga-vyāghrān bhakṣayāmi samantataḥ . sa tu mām abravīt indraḥ yadā rāmaḥ sa lakṣmaṇaḥ.. 15..
छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि । अनेन वपुषा तात वनेऽस्मिन् राजसत्तम॥ १६॥
छेत्स्यते समरे बाहू तदा स्वर्गम् गमिष्यसि । अनेन वपुषा तात वने अस्मिन् राज-सत्तम॥ १६॥
chetsyate samare bāhū tadā svargam gamiṣyasi . anena vapuṣā tāta vane asmin rāja-sattama.. 16..
यद् यत् पश्यामि सर्वस्य ग्रहणं साधु रोचये । अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति॥ १७॥
यत् यत् पश्यामि सर्वस्य ग्रहणम् साधु रोचये । अवश्यम् ग्रहणम् रामः मन्ये अहम् समुपैष्यति॥ १७॥
yat yat paśyāmi sarvasya grahaṇam sādhu rocaye . avaśyam grahaṇam rāmaḥ manye aham samupaiṣyati.. 17..
इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः । स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव॥ १८॥
इमाम् बुद्धिम् पुरस्कृत्य देह-न्यास-कृत-श्रमः । स त्वम् रामः असि भद्रम् ते न अहम् अन्येन राघव॥ १८॥
imām buddhim puraskṛtya deha-nyāsa-kṛta-śramaḥ . sa tvam rāmaḥ asi bhadram te na aham anyena rāghava.. 18..
शक्यो हन्तुं यथा तत्त्वमेवमुक्तं महर्षिणा । अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ॥ १९॥
शक्यः हन्तुम् यथा तत्त्वम् एवम् उक्तम् महा-ऋषिणा । अहम् हि मति-साचिव्यम् करिष्यामि नर-ऋषभ॥ १९॥
śakyaḥ hantum yathā tattvam evam uktam mahā-ṛṣiṇā . aham hi mati-sācivyam kariṣyāmi nara-ṛṣabha.. 19..
मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना । एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः॥ २०॥
मित्रम् च एव उपदेक्ष्यामि युवाभ्याम् संस्कृतः अग्निना । एवम् उक्तः तु धर्म-आत्मा दनुना तेन राघवः॥ २०॥
mitram ca eva upadekṣyāmi yuvābhyām saṃskṛtaḥ agninā . evam uktaḥ tu dharma-ātmā danunā tena rāghavaḥ.. 20..
इदं जगाद वचनं लक्ष्मणस्य च पश्यतः । रावणेन हृता भार्या सीता मम यशस्विनी॥ २१॥
इदम् जगाद वचनम् लक्ष्मणस्य च पश्यतः । रावणेन हृता भार्या सीता मम यशस्विनी॥ २१॥
idam jagāda vacanam lakṣmaṇasya ca paśyataḥ . rāvaṇena hṛtā bhāryā sītā mama yaśasvinī.. 21..
निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम् । नाममात्रं तु जानामि न रूपं तस्य रक्षसः॥ २२॥
निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम् । नाम-मात्रम् तु जानामि न रूपम् तस्य रक्षसः॥ २२॥
niṣkrāntasya janasthānāt saha bhrātrā yathāsukham . nāma-mātram tu jānāmi na rūpam tasya rakṣasaḥ.. 22..
निवासं वा प्रभावं वा वयं तस्य न विद्महे । शोकार्तानामनाथानामेवं विपरिधावताम्॥ २३॥
निवासम् वा प्रभावम् वा वयम् तस्य न विद्महे । शोक-आर्तानाम् अनाथानाम् एवम् विपरिधावताम्॥ २३॥
nivāsam vā prabhāvam vā vayam tasya na vidmahe . śoka-ārtānām anāthānām evam viparidhāvatām.. 23..
कारुण्यं सदृशं कर्तुमुपकारेण वर्तताम् । काष्ठान्यानीय भग्नानि काले शुष्काणि कुञ्जरैः॥ २४॥
कारुण्यम् सदृशम् कर्तुम् उपकारेण वर्तताम् । काष्ठानि आनीय भग्नानि काले शुष्काणि कुञ्जरैः॥ २४॥
kāruṇyam sadṛśam kartum upakāreṇa vartatām . kāṣṭhāni ānīya bhagnāni kāle śuṣkāṇi kuñjaraiḥ.. 24..
धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते । स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता॥ २५॥
धक्ष्यामः त्वाम् वयम् वीर श्वभ्रे महति कल्पिते । स त्वम् सीताम् समाचक्ष्व येन वा यत्र वा हृता॥ २५॥
dhakṣyāmaḥ tvām vayam vīra śvabhre mahati kalpite . sa tvam sītām samācakṣva yena vā yatra vā hṛtā.. 25..
कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः । एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम्॥ २६॥
कुरु कल्याणम् अत्यर्थम् यदि जानासि तत्त्वतः । एवम् उक्तः तु रामेण वाक्यम् दनुः अनुत्तमम्॥ २६॥
kuru kalyāṇam atyartham yadi jānāsi tattvataḥ . evam uktaḥ tu rāmeṇa vākyam danuḥ anuttamam.. 26..
प्रोवाच कुशलो वक्ता वक्तारमपि राघवम् । दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम्॥ २७॥
प्रोवाच कुशलः वक्ता वक्तारम् अपि राघवम् । दिव्यम् अस्ति न मे ज्ञानम् न अभिजानामि मैथिलीम्॥ २७॥
provāca kuśalaḥ vaktā vaktāram api rāghavam . divyam asti na me jñānam na abhijānāmi maithilīm.. 27..
यस्तां वक्ष्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः । योऽभिजानाति तद्रक्षस्तद् वक्ष्ये राम तत्परम्॥ २८॥
यः ताम् वक्ष्यति तम् वक्ष्ये दग्धः स्वम् रूपम् आस्थितः । यः अभिजानाति तत् रक्षः तत् वक्ष्ये राम तत् परम्॥ २८॥
yaḥ tām vakṣyati tam vakṣye dagdhaḥ svam rūpam āsthitaḥ . yaḥ abhijānāti tat rakṣaḥ tat vakṣye rāma tat param.. 28..
अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो । राक्षसं तु महावीर्यं सीता येन हृता तव॥ २९॥
अदग्धस्य हि विज्ञातुम् शक्तिः अस्ति न मे प्रभो । राक्षसम् तु महा-वीर्यम् सीता येन हृता तव॥ २९॥
adagdhasya hi vijñātum śaktiḥ asti na me prabho . rākṣasam tu mahā-vīryam sītā yena hṛtā tava.. 29..
विज्ञानं हि महद् भ्रष्टं शापदोषेण राघव । स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्॥ ३०॥
विज्ञानम् हि महत् भ्रष्टम् शाप-दोषेण राघव । स्व-कृतेन मया प्राप्तम् रूपम् लोक-विगर्हितम्॥ ३०॥
vijñānam hi mahat bhraṣṭam śāpa-doṣeṇa rāghava . sva-kṛtena mayā prāptam rūpam loka-vigarhitam.. 30..
किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः । तावन्मामवटे क्षिप्त्वा दह राम यथाविधि॥ ३१॥
किम् तु यावत् न याति अस्तम् सविता श्रान्त-वाहनः । तावत् माम् अवटे क्षिप्त्वा दह राम यथाविधि॥ ३१॥
kim tu yāvat na yāti astam savitā śrānta-vāhanaḥ . tāvat mām avaṭe kṣiptvā daha rāma yathāvidhi.. 31..
दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन । वक्ष्यामि तं महावीर यस्तं वेत्स्यति राक्षसम्॥ ३२॥
दग्धः त्वया अहम् अवटे न्यायेन रघुनन्दन । वक्ष्यामि तम् महा-वीर यः तम् वेत्स्यति राक्षसम्॥ ३२॥
dagdhaḥ tvayā aham avaṭe nyāyena raghunandana . vakṣyāmi tam mahā-vīra yaḥ tam vetsyati rākṣasam.. 32..
तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव । कल्पयिष्यति ते वीर साहाय्यं लघुविक्रम॥ ३३॥
तेन सख्यम् च कर्तव्यम् न्याय्य-वृत्तेन राघव । कल्पयिष्यति ते वीर साहाय्यम् लघु-विक्रम॥ ३३॥
tena sakhyam ca kartavyam nyāyya-vṛttena rāghava . kalpayiṣyati te vīra sāhāyyam laghu-vikrama.. 33..
नहि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव । सर्वान् परिवृतो लोकान् पुरा वै कारणान्तरे॥ ३४॥
नहि तस्य अस्ति अविज्ञातम् त्रिषु लोकेषु राघव । सर्वान् परिवृतः लोकान् पुरा वै कारण-अन्तरे॥ ३४॥
nahi tasya asti avijñātam triṣu lokeṣu rāghava . sarvān parivṛtaḥ lokān purā vai kāraṇa-antare.. 34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकसप्ततितमः सर्गः ॥३-७१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे एकसप्ततितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ekasaptatitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In