This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विसप्ततितमः सर्गः ॥३-७२॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे द्विसप्ततितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe dvisaptatitamaḥ sargaḥ ..3..
एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ । गिरिप्रदरमासाद्य पावकं विससर्जतुः॥ १॥
एवम् उक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ । गिरि-प्रदरम् आसाद्य पावकम् विससर्जतुः॥ १॥
evam uktau tu tau vīrau kabandhena nareśvarau . giri-pradaram āsādya pāvakam visasarjatuḥ.. 1..
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः । चितामादीपयामास सा प्रजज्वाल सर्वतः॥ २॥
लक्ष्मणः तु महा-उल्काभिः ज्वलिताभिः समन्ततः । चिताम् आदीपयामास सा प्रजज्वाल सर्वतस्॥ २॥
lakṣmaṇaḥ tu mahā-ulkābhiḥ jvalitābhiḥ samantataḥ . citām ādīpayāmāsa sā prajajvāla sarvatas.. 2..
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् । मेदसा पच्यमानस्य मन्दं दहत पावकः॥ ३॥
तत् शरीरम् कबन्धस्य घृत-पिण्ड-उपमम् महत् । मेदसा पच्यमानस्य मन्दम् दहत पावकः॥ ३॥
tat śarīram kabandhasya ghṛta-piṇḍa-upamam mahat . medasā pacyamānasya mandam dahata pāvakaḥ.. 3..
सविधूय चितामाशु विधूमोऽग्निरिवोत्थितः । अरजे वाससी बिभ्रन्माल्यं दिव्यं महाबलः॥ ४॥
स विधूय चिताम् आशु विधूमः अग्निः इव उत्थितः । अरजे वाससी बिभ्रन् माल्यम् दिव्यम् महा-बलः॥ ४॥
sa vidhūya citām āśu vidhūmaḥ agniḥ iva utthitaḥ . araje vāsasī bibhran mālyam divyam mahā-balaḥ.. 4..
ततश्चिताया वेगेन भास्वरो विरजाम्बरः । उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः॥ ५॥
ततस् चितायाः वेगेन भास्वरः विरज-अम्बरः । उत्पपात आशु संहृष्टः सर्व-प्रत्यङ्ग-भूषणः॥ ५॥
tatas citāyāḥ vegena bhāsvaraḥ viraja-ambaraḥ . utpapāta āśu saṃhṛṣṭaḥ sarva-pratyaṅga-bhūṣaṇaḥ.. 5..
विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे । प्रभया च महातेजा दिशो दश विराजयन्॥ ६॥
विमाने भास्वरे तिष्ठन् हंस-युक्ते यशस्करे । प्रभया च महा-तेजाः दिशः दश विराजयन्॥ ६॥
vimāne bhāsvare tiṣṭhan haṃsa-yukte yaśaskare . prabhayā ca mahā-tejāḥ diśaḥ daśa virājayan.. 6..
सोऽन्तरिक्षगतो वाक्यं कबन्धो राममब्रवीत् । शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि॥ ७॥
सः अन्तरिक्ष-गतः वाक्यम् कबन्धः रामम् अब्रवीत् । शृणु राघव तत्त्वेन यथा सीताम् अवाप्स्यसि॥ ७॥
saḥ antarikṣa-gataḥ vākyam kabandhaḥ rāmam abravīt . śṛṇu rāghava tattvena yathā sītām avāpsyasi.. 7..
राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते । परिमृष्टो दशान्तेन दशाभागेन सेव्यते॥ ८॥
राम षड् युक्तयः लोके याभिः सर्वम् विमृश्यते । परिमृष्टः दशा-अन्तेन दशा-भागेन सेव्यते॥ ८॥
rāma ṣaḍ yuktayaḥ loke yābhiḥ sarvam vimṛśyate . parimṛṣṭaḥ daśā-antena daśā-bhāgena sevyate.. 8..
दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः । यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्॥ ९॥
दशा-भाग-गतः हीनः त्वम् हि राम स लक्ष्मणः । यद्-कृते व्यसनम् प्राप्तम् त्वया दार-प्रधर्षणम्॥ ९॥
daśā-bhāga-gataḥ hīnaḥ tvam hi rāma sa lakṣmaṇaḥ . yad-kṛte vyasanam prāptam tvayā dāra-pradharṣaṇam.. 9..
तदवश्यं त्वया कार्यः स सुहृत् सुहृदां वर । अकृत्वा नहि ते सिद्धिमहं पश्यामि चिन्तयन्॥ १०॥
तत् अवश्यम् त्वया कार्यः स सुहृद् सुहृदाम् वर । अ कृत्वा नहि ते सिद्धिम् अहम् पश्यामि चिन्तयन्॥ १०॥
tat avaśyam tvayā kāryaḥ sa suhṛd suhṛdām vara . a kṛtvā nahi te siddhim aham paśyāmi cintayan.. 10..
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः । भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना॥ ११॥
श्रूयताम् राम वक्ष्यामि सुग्रीवः नाम वानरः । भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्र-सूनुना॥ ११॥
śrūyatām rāma vakṣyāmi sugrīvaḥ nāma vānaraḥ . bhrātrā nirastaḥ kruddhena vālinā śakra-sūnunā.. 11..
ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते । निवसत्यात्मवान् वीरश्चतुर्भिः सह वानरैः॥ १२॥
ऋष्यमूके गिरि-वरे पम्पा-पर्यन्त-शोभिते । निवसति आत्मवान् वीरः चतुर्भिः सह वानरैः॥ १२॥
ṛṣyamūke giri-vare pampā-paryanta-śobhite . nivasati ātmavān vīraḥ caturbhiḥ saha vānaraiḥ.. 12..
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः । सत्यसंधो विनीतश्च धृतिमान् मतिमान् महान्॥ १३॥
वानर-इन्द्रः महा-वीर्यः तेजोवान् अमित-प्रभः । सत्य-संधः विनीतः च धृतिमान् मतिमान् महान्॥ १३॥
vānara-indraḥ mahā-vīryaḥ tejovān amita-prabhaḥ . satya-saṃdhaḥ vinītaḥ ca dhṛtimān matimān mahān.. 13..
दक्षः प्रगल्भो द्युतिमान् महाबलपराक्रमः । भ्रात्रा विवासितो वीर राज्यहेतोर्महात्मना॥ १४॥
दक्षः प्रगल्भः द्युतिमान् महा-बल-पराक्रमः । भ्रात्रा विवासितः वीर राज्य-हेतोः महात्मना॥ १४॥
dakṣaḥ pragalbhaḥ dyutimān mahā-bala-parākramaḥ . bhrātrā vivāsitaḥ vīra rājya-hetoḥ mahātmanā.. 14..
स ते सहायो मित्रं च सीतायाः परिमार्गणे । भविष्यति हि ते राम मा च शोके मनः कृथाः॥ १५॥
स ते सहायः मित्रम् च सीतायाः परिमार्गणे । भविष्यति हि ते राम मा च शोके मनः कृथाः॥ १५॥
sa te sahāyaḥ mitram ca sītāyāḥ parimārgaṇe . bhaviṣyati hi te rāma mā ca śoke manaḥ kṛthāḥ.. 15..
भवितव्यं हि तच्चापि न तच्छक्यमिहान्यथा । कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः॥ १६॥
भवितव्यम् हि तत् च अपि न तत् शक्यम् इह अन्यथा । कर्तुम् इक्ष्वाकु-शार्दूल कालः हि दुरतिक्रमः॥ १६॥
bhavitavyam hi tat ca api na tat śakyam iha anyathā . kartum ikṣvāku-śārdūla kālaḥ hi duratikramaḥ.. 16..
गच्छ शीघ्रमितो वीर सुग्रीवं तं महाबलम् । वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव॥ १७॥
गच्छ शीघ्रम् इतस् वीर सुग्रीवम् तम् महा-बलम् । वयस्यम् तम् कुरु क्षिप्रम् इतस् गत्वा अद्य राघव॥ १७॥
gaccha śīghram itas vīra sugrīvam tam mahā-balam . vayasyam tam kuru kṣipram itas gatvā adya rāghava.. 17..
अद्रोहाय समागम्य दीप्यमाने विभावसौ । न च ते सोऽवमन्तव्यः सुग्रीवो वानराधिपः॥ १८॥
अद्रोहाय समागम्य दीप्यमाने विभावसौ । न च ते सः अवमन्तव्यः सुग्रीवः वानर-अधिपः॥ १८॥
adrohāya samāgamya dīpyamāne vibhāvasau . na ca te saḥ avamantavyaḥ sugrīvaḥ vānara-adhipaḥ.. 18..
कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् । शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्॥ १९॥
कृतज्ञः कामरूपी च सहाय-अर्थी च वीर्यवान् । शक्तौ हि अद्य युवाम् कर्तुम् कार्यम् तस्य चिकीर्षितम्॥ १९॥
kṛtajñaḥ kāmarūpī ca sahāya-arthī ca vīryavān . śaktau hi adya yuvām kartum kāryam tasya cikīrṣitam.. 19..
कृतार्थो वाकृतार्थो वा तव कृत्यं करिष्यति । स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः॥ २०॥
कृतार्थः वा अकृतार्थः वा तव कृत्यम् करिष्यति । सः ऋक्ष-रजसः पुत्रः पम्पाम् अटति शङ्कितः॥ २०॥
kṛtārthaḥ vā akṛtārthaḥ vā tava kṛtyam kariṣyati . saḥ ṛkṣa-rajasaḥ putraḥ pampām aṭati śaṅkitaḥ.. 20..
भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः । संनिधायायुधं क्षिप्रमृष्यमूकालयं कपिम्॥ २१॥
भास्करस्य औरसः पुत्रः वालिना कृत-किल्बिषः । संनिधाय आयुधम् क्षिप्रम् ऋष्य-मूक-आलयम् कपिम्॥ २१॥
bhāskarasya aurasaḥ putraḥ vālinā kṛta-kilbiṣaḥ . saṃnidhāya āyudham kṣipram ṛṣya-mūka-ālayam kapim.. 21..
कुरु राघव सत्येन वयस्यं वनचारिणम् । स हि स्थानानि कात्स्न्र्येन सर्वाणि कपिकुञ्जरः॥ २२॥
कुरु राघव सत्येन वयस्यम् वन-चारिणम् । स हि स्थानानि कात्स्न्र्येन सर्वाणि कपि-कुञ्जरः॥ २२॥
kuru rāghava satyena vayasyam vana-cāriṇam . sa hi sthānāni kātsnryena sarvāṇi kapi-kuñjaraḥ.. 22..
नरमांसाशिनां लोके नैपुण्यादधिगच्छति । न तस्याविदितं लोके किंचिदस्ति हि राघव॥ २३॥
नर-मांस-आशिनाम् लोके नैपुण्यात् अधिगच्छति । न तस्य अविदितम् लोके किंचिद् अस्ति हि राघव॥ २३॥
nara-māṃsa-āśinām loke naipuṇyāt adhigacchati . na tasya aviditam loke kiṃcid asti hi rāghava.. 23..
यावत् सूर्यः प्रतपति सहस्रांशुः परंतप । स नदीर्विपुलान् शैलान् गिरिदुर्गाणि कन्दरान्॥ २४॥
यावत् सूर्यः प्रतपति सहस्रांशुः परंतप । स नदीः विपुलान् शैलान् गिरि-दुर्गाणि कन्दरान्॥ २४॥
yāvat sūryaḥ pratapati sahasrāṃśuḥ paraṃtapa . sa nadīḥ vipulān śailān giri-durgāṇi kandarān.. 24..
अन्विष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति । वानरांश्च महाकायान् प्रेषयिष्यति राघव॥ २५॥
अन्विष्य वानरैः सार्धम् पत्नीम् ते अधिगमिष्यति । वानरान् च महा-कायान् प्रेषयिष्यति राघव॥ २५॥
anviṣya vānaraiḥ sārdham patnīm te adhigamiṣyati . vānarān ca mahā-kāyān preṣayiṣyati rāghava.. 25..
दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् । अन्वेष्यति वरारोहां मैथिलीं रावणालये॥ २६॥
दिशः विचेतुम् ताम् सीताम् त्वद्-वियोगेन शोचतीम् । अन्वेष्यति वरारोहाम् मैथिलीम् रावण-आलये॥ २६॥
diśaḥ vicetum tām sītām tvad-viyogena śocatīm . anveṣyati varārohām maithilīm rāvaṇa-ālaye.. 26..
स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वाश्रिताम् । प्लवङ्गमानामृषभस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति॥ २७॥
स मेरु-शृङ्ग-अग्र-गताम् अनिन्दिताम् प्रविश्य पाताल-तले अपि वा आश्रिताम् । प्लवङ्गमानाम् ऋषभः तव प्रियाम् निहत्य रक्षांसि पुनर् प्रदास्यति॥ २७॥
sa meru-śṛṅga-agra-gatām aninditām praviśya pātāla-tale api vā āśritām . plavaṅgamānām ṛṣabhaḥ tava priyām nihatya rakṣāṃsi punar pradāsyati.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्विसप्ततितमः सर्गः ॥३-७२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे द्विसप्ततितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe dvisaptatitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In