This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिसप्ततितमः सर्गः ॥३-७३॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे त्रिसप्ततितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe trisaptatitamaḥ sargaḥ ..3..
दर्शयित्वा तु रामाय सीतायाः परिमार्गणे । वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत्॥ १॥
दर्शयित्वा तु रामाय सीतायाः परिमार्गणे । वाक्यम् अन्वर्थम् अर्थ-ज्ञः कबन्धः पुनर् अब्रवीत्॥ १॥
darśayitvā tu rāmāya sītāyāḥ parimārgaṇe . vākyam anvartham artha-jñaḥ kabandhaḥ punar abravīt.. 1..
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः । प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः॥ २॥
एष राम शिवः पन्थाः यत्र एते पुष्पिताः द्रुमाः । प्रतीचीम् दिशम् आश्रित्य प्रकाशन्ते मनोरमाः॥ २॥
eṣa rāma śivaḥ panthāḥ yatra ete puṣpitāḥ drumāḥ . pratīcīm diśam āśritya prakāśante manoramāḥ.. 2..
जम्बूप्रियालपनसा न्यग्रोधप्लक्षतिन्दुकाः । अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः॥ ३॥
। अश्वत्थाः कर्णिकाराः च चूताः च अन्ये च पादपाः॥ ३॥
. aśvatthāḥ karṇikārāḥ ca cūtāḥ ca anye ca pādapāḥ.. 3..
धन्वना नागवृक्षाश्च तिलका नक्तमालकाः । नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः॥ ४॥
धन्वना नागवृक्षाः च तिलकाः नक्तमालकाः । नील-अशोकाः कदम्बाः च करवीराः च पुष्पिताः॥ ४॥
dhanvanā nāgavṛkṣāḥ ca tilakāḥ naktamālakāḥ . nīla-aśokāḥ kadambāḥ ca karavīrāḥ ca puṣpitāḥ.. 4..
अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः । तानारुह्याथवा भूमौ पातयित्वा च तान् बलात्॥ ५॥
अग्निमुख्याः अशोकाः च सुरक्ताः पारिभद्रकाः । तान् आरुह्य अथवा भूमौ पातयित्वा च तान् बलात्॥ ५॥
agnimukhyāḥ aśokāḥ ca suraktāḥ pāribhadrakāḥ . tān āruhya athavā bhūmau pātayitvā ca tān balāt.. 5..
फलान्यमृतकल्पानि भक्षयित्वा गमिष्यथः । तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम्॥ ६॥
फलानि अमृत-कल्पानि भक्षयित्वा गमिष्यथः । तत् अतिक्रम्य काकुत्स्थ वनम् पुष्पित-पादपम्॥ ६॥
phalāni amṛta-kalpāni bhakṣayitvā gamiṣyathaḥ . tat atikramya kākutstha vanam puṣpita-pādapam.. 6..
नन्दनप्रतिमं चान्यत् कुरवस्तूत्तरा इव । सर्वकालफला यत्र पादपा मधुरस्रवाः॥ ७॥
नन्दन-प्रतिमम् च अन्यत् कुरवः तु उत्तराः इव । सर्व-काल-फलाः यत्र पादपाः मधुर-स्रवाः॥ ७॥
nandana-pratimam ca anyat kuravaḥ tu uttarāḥ iva . sarva-kāla-phalāḥ yatra pādapāḥ madhura-sravāḥ.. 7..
सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा । फलभारनतास्तत्र महाविटपधारिणः॥ ८॥
सर्वे च ऋतवः तत्र वने चैत्ररथे यथा । फल-भार-नताः तत्र महा-विटप-धारिणः॥ ८॥
sarve ca ṛtavaḥ tatra vane caitrarathe yathā . phala-bhāra-natāḥ tatra mahā-viṭapa-dhāriṇaḥ.. 8..
शोभन्ते सर्वतस्तत्र मेघपर्वतसंनिभाः । तानारुह्याथवा भूमौ पातयित्वाथवा सुखम्॥ ९॥
शोभन्ते सर्वतस् तत्र मेघ-पर्वत-संनिभाः । तान् आरुह्य अथवा भूमौ पातयित्वा अथवा सुखम्॥ ९॥
śobhante sarvatas tatra megha-parvata-saṃnibhāḥ . tān āruhya athavā bhūmau pātayitvā athavā sukham.. 9..
फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति । चङ्क्रमन्तौ वरान् शैलान् शैलाच्छैलं वनाद् वनम्॥ १०॥
फलानि अमृत-कल्पानि लक्ष्मणः ते प्रदास्यति । चङ्क्रमन्तौ वरान् शैलान् शैलात् शैलम् वनात् वनम्॥ १०॥
phalāni amṛta-kalpāni lakṣmaṇaḥ te pradāsyati . caṅkramantau varān śailān śailāt śailam vanāt vanam.. 10..
ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः । अशर्करामविभ्रंशां समतीर्थामशैवलाम्॥ ११॥
ततस् पुष्करिणीम् वीरौ पम्पाम् नाम गमिष्यथः । अशर्कराम् अविभ्रंशाम् सम-तीर्थाम् अशैवलाम्॥ ११॥
tatas puṣkariṇīm vīrau pampām nāma gamiṣyathaḥ . aśarkarām avibhraṃśām sama-tīrthām aśaivalām.. 11..
राम संजातवालूकां कमलोत्पलशोभिताम् । तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव॥ १२॥
राम संजात-वालूकाम् कमल-उत्पल-शोभिताम् । तत्र हंसाः प्लवाः क्रौञ्चाः कुरराः च एव राघव॥ १२॥
rāma saṃjāta-vālūkām kamala-utpala-śobhitām . tatra haṃsāḥ plavāḥ krauñcāḥ kurarāḥ ca eva rāghava.. 12..
वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः । नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः॥ १३॥
वल्गु-स्वराः निकूजन्ति पम्पा-सलिल-गोचराः । न उद्विजन्ते नरान् दृष्ट्वा वधस्य अकोविदाः शुभाः॥ १३॥
valgu-svarāḥ nikūjanti pampā-salila-gocarāḥ . na udvijante narān dṛṣṭvā vadhasya akovidāḥ śubhāḥ.. 13..
घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिष्यथः । रोहितान् वक्रतुण्डांश्च नलमीनांश्च राघव॥ १४॥
घृत-पिण्ड-उपमान् स्थूलान् तान् द्विजान् भक्षयिष्यथः । रोहितान् वक्रतुण्डान् च नलमीनान् च राघव॥ १४॥
ghṛta-piṇḍa-upamān sthūlān tān dvijān bhakṣayiṣyathaḥ . rohitān vakratuṇḍān ca nalamīnān ca rāghava.. 14..
पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान् । निस्त्वक्पक्षानयस्तप्तानकृशानैककण्टकान्॥ १५॥
पम्पायाम् इषुभिः मत्स्यान् तत्र राम वरान् हतान् । निस्त्वक्पक्षान् अयः-तप्तान् अकृशान् ऐककण्टकान्॥ १५॥
pampāyām iṣubhiḥ matsyān tatra rāma varān hatān . nistvakpakṣān ayaḥ-taptān akṛśān aikakaṇṭakān.. 15..
तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति । भृशं तान् खादतो मत्स्यान् पम्पायाः पुष्पसंचये॥ १६॥
तव भक्त्या समायुक्तः लक्ष्मणः सम्प्रदास्यति । भृशम् तान् खादतः मत्स्यान् पम्पायाः पुष्प-संचये॥ १६॥
tava bhaktyā samāyuktaḥ lakṣmaṇaḥ sampradāsyati . bhṛśam tān khādataḥ matsyān pampāyāḥ puṣpa-saṃcaye.. 16..
पद्मगन्धि शिवं वारि सुखशीतमनामयम् । उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम्॥ १७॥
पद्म-गन्धि शिवम् वारि सुख-शीतम् अनामयम् । उद्धृत्य स तदा अक्लिष्टम् रूप्य-स्फटिक-संनिभम्॥ १७॥
padma-gandhi śivam vāri sukha-śītam anāmayam . uddhṛtya sa tadā akliṣṭam rūpya-sphaṭika-saṃnibham.. 17..
अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति । स्थूलान् गिरिगुहाशय्यान् वानरान् वनचारिणः॥ १८॥
अथ पुष्कर-पर्णेन लक्ष्मणः पाययिष्यति । स्थूलान् गिरि-गुहा-शय्यान् वानरान् वन-चारिणः॥ १८॥
atha puṣkara-parṇena lakṣmaṇaḥ pāyayiṣyati . sthūlān giri-guhā-śayyān vānarān vana-cāriṇaḥ.. 18..
सायाह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः । अपां लोभादुपावृत्तान् वृषभानिव नर्दतः॥ १९॥
सायाह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः । अपाम् लोभात् उपावृत्तान् वृषभान् इव नर्दतः॥ १९॥
sāyāhne vicaran rāma darśayiṣyati lakṣmaṇaḥ . apām lobhāt upāvṛttān vṛṣabhān iva nardataḥ.. 19..
स्थूलान् पीतांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम । सायाह्ने विचरन् राम विटपी माल्यधारिणः॥ २०॥
स्थूलान् पीतान् च पम्पायाम् द्रक्ष्यसि त्वम् नर-उत्तम । सायाह्ने विचरन् राम-विटपी माल्यधारिणः॥ २०॥
sthūlān pītān ca pampāyām drakṣyasi tvam nara-uttama . sāyāhne vicaran rāma-viṭapī mālyadhāriṇaḥ.. 20..
शिवोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि । सुमनोभिश्चितास्तत्र तिलका नक्तमालकाः॥ २१॥
शिव-उदकम् च पम्पायाम् दृष्ट्वा शोकम् विहास्यसि । सुमनोभिः चिताः तत्र तिलकाः नक्तमालकाः॥ २१॥
śiva-udakam ca pampāyām dṛṣṭvā śokam vihāsyasi . sumanobhiḥ citāḥ tatra tilakāḥ naktamālakāḥ.. 21..
उत्पलानि च फुल्लानि पङ्कजानि च राघव । न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः॥ २२॥
उत्पलानि च फुल्लानि पङ्कजानि च राघव । न तानि कश्चिद् माल्यानि तत्र आरोपयिता नरः॥ २२॥
utpalāni ca phullāni paṅkajāni ca rāghava . na tāni kaścid mālyāni tatra āropayitā naraḥ.. 22..
न च वै म्लानतां यान्ति न च शीर्यन्ति राघव । मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः॥ २३॥
न च वै म्लान-ताम् यान्ति न च शीर्यन्ति राघव । मतङ्ग-शिष्याः तत्र आसन् ऋषयः सु समाहिताः॥ २३॥
na ca vai mlāna-tām yānti na ca śīryanti rāghava . mataṅga-śiṣyāḥ tatra āsan ṛṣayaḥ su samāhitāḥ.. 23..
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः । ये प्रपेतुर्महीं तूर्णं शरीरात् स्वेदबिन्दवः॥ २४॥
तेषाम् भार-अभितप्तानाम् वन्यम् आहरताम् गुरोः । ये प्रपेतुः महीम् तूर्णम् शरीरात् स्वेद-बिन्दवः॥ २४॥
teṣām bhāra-abhitaptānām vanyam āharatām guroḥ . ye prapetuḥ mahīm tūrṇam śarīrāt sveda-bindavaḥ.. 24..
तानि माल्यानि जातानि मुनीनां तपसा तदा । स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव॥ २५॥
तानि माल्यानि जातानि मुनीनाम् तपसा तदा । स्वेद-बिन्दु-समुत्थानि न विनश्यन्ति राघव॥ २५॥
tāni mālyāni jātāni munīnām tapasā tadā . sveda-bindu-samutthāni na vinaśyanti rāghava.. 25..
तेषां गतानामद्यापि दृश्यते परिचारिणी । श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी॥ २६॥
तेषाम् गतानाम् अद्य अपि दृश्यते परिचारिणी । श्रमणी शबरी नाम काकुत्स्थ चिर-जीविनी॥ २६॥
teṣām gatānām adya api dṛśyate paricāriṇī . śramaṇī śabarī nāma kākutstha cira-jīvinī.. 26..
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् । दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति॥ २७॥
त्वाम् तु धर्मे स्थिताः नित्यम् सर्व-भूत-नमस्कृतम् । दृष्ट्वा देव-उपमम् राम स्वर्ग-लोकम् गमिष्यति॥ २७॥
tvām tu dharme sthitāḥ nityam sarva-bhūta-namaskṛtam . dṛṣṭvā deva-upamam rāma svarga-lokam gamiṣyati.. 27..
ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम् । आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि॥ २८॥
ततस् तत् राम पम्पायाः तीरम् आश्रित्य पश्चिमम् । आश्रम-स्थानम् अतुलम् गुह्यम् काकुत्स्थ पश्यसि॥ २८॥
tatas tat rāma pampāyāḥ tīram āśritya paścimam . āśrama-sthānam atulam guhyam kākutstha paśyasi.. 28..
न तत्राक्रमितुं नागाः शक्नुवन्ति तदाश्रमे । ऋषेस्तस्य मतङ्गस्य विधानात् तच्च काननम्॥ २९॥
न तत्र आक्रमितुम् नागाः शक्नुवन्ति तद्-आश्रमे । ऋषेः तस्य मतङ्गस्य विधानात् तत् च काननम्॥ २९॥
na tatra ākramitum nāgāḥ śaknuvanti tad-āśrame . ṛṣeḥ tasya mataṅgasya vidhānāt tat ca kānanam.. 29..
मतङ्गवनमित्येव विश्रुतं रघुनन्दन । तस्मिन् नन्दनसंकाशे देवारण्योपमे वने॥ ३०॥
मतङ्गवनम् इति एव विश्रुतम् रघुनन्दन । तस्मिन् नन्दन-संकाशे देव-अरण्य-उपमे वने॥ ३०॥
mataṅgavanam iti eva viśrutam raghunandana . tasmin nandana-saṃkāśe deva-araṇya-upame vane.. 30..
नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः । ऋष्यमूकस्तु पम्पायाः पुरस्तात् पुष्पितद्रुमः॥ ३१॥
नाना विहग-संकीर्णे रंस्यसे राम निर्वृतः । ऋष्यमूकः तु पम्पायाः पुरस्तात् पुष्पित-द्रुमः॥ ३१॥
nānā vihaga-saṃkīrṇe raṃsyase rāma nirvṛtaḥ . ṛṣyamūkaḥ tu pampāyāḥ purastāt puṣpita-drumaḥ.. 31..
सुदुःखारोहणश्चैव शिशुनागाभिरक्षितः । उदारो ब्रह्मणा चैव पूर्वकालेऽभिनिर्मितः॥ ३२॥
सु दुःख-आरोहणः च एव शिशुनाग-अभिरक्षितः । उदारः ब्रह्मणा च एव पूर्व-काले अभिनिर्मितः॥ ३२॥
su duḥkha-ārohaṇaḥ ca eva śiśunāga-abhirakṣitaḥ . udāraḥ brahmaṇā ca eva pūrva-kāle abhinirmitaḥ.. 32..
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि । यत् स्वप्नं लभते वित्तं तत् प्रबुद्धोऽधिगच्छति॥ ३३॥
शयानः पुरुषः राम तस्य शैलस्य मूर्धनि । यत् स्वप्नम् लभते वित्तम् तत् प्रबुद्धः अधिगच्छति॥ ३३॥
śayānaḥ puruṣaḥ rāma tasya śailasya mūrdhani . yat svapnam labhate vittam tat prabuddhaḥ adhigacchati.. 33..
यस्त्वेनं विषमाचारः पापकर्माधिरोहति । तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः॥ ३४॥
यः तु एनम् विषम-आचारः पाप-कर्मा अधिरोहति । तत्र एव प्रहरन्ति एनम् सुप्तम् आदाय राक्षसाः॥ ३४॥
yaḥ tu enam viṣama-ācāraḥ pāpa-karmā adhirohati . tatra eva praharanti enam suptam ādāya rākṣasāḥ.. 34..
तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान् । क्रीडतां राम पम्पायां मतङ्गाश्रमवासिनाम्॥ ३५॥
तत्र अपि शिशुनागानाम् आक्रन्दः श्रूयते महान् । क्रीडताम् राम पम्पायाम् मतङ्ग-आश्रम-वासिनाम्॥ ३५॥
tatra api śiśunāgānām ākrandaḥ śrūyate mahān . krīḍatām rāma pampāyām mataṅga-āśrama-vāsinām.. 35..
सक्ता रुधिरधाराभिः संहत्य परमद्विपाः । प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः॥ ३६॥
सक्ताः रुधिर-धाराभिः संहत्य परम-द्विपाः । प्रचरन्ति पृथक् कीर्णाः मेघ-वर्णाः तरस्विनः॥ ३६॥
saktāḥ rudhira-dhārābhiḥ saṃhatya parama-dvipāḥ . pracaranti pṛthak kīrṇāḥ megha-varṇāḥ tarasvinaḥ.. 36..
ते तत्र पीत्वा पानीयं विमलं चारु शोभनम् । अत्यन्तसुखसंस्पर्शं सर्वगन्धसमन्वितम्॥ ३७॥
ते तत्र पीत्वा पानीयम् विमलम् चारु शोभनम् । अत्यन्त-सुख-संस्पर्शम् सर्व-गन्ध-समन्वितम्॥ ३७॥
te tatra pītvā pānīyam vimalam cāru śobhanam . atyanta-sukha-saṃsparśam sarva-gandha-samanvitam.. 37..
निर्वृत्ताः संविगाहन्ते वनानि वनगोचराः । ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान्॥ ३८॥
निर्वृत्ताः संविगाहन्ते वनानि वन-गोचराः । ऋक्षान् च द्वीपिनः च एव नील-कोमलक-प्रभान्॥ ३८॥
nirvṛttāḥ saṃvigāhante vanāni vana-gocarāḥ . ṛkṣān ca dvīpinaḥ ca eva nīla-komalaka-prabhān.. 38..
रुरूनपेतानजयान् दृष्ट्वा शोकं प्रहास्यसि । राम तस्य तु शैलस्य महती शोभते गुहा॥ ३९॥
रुरून् अपेतान् अजयान् दृष्ट्वा शोकम् प्रहास्यसि । राम तस्य तु शैलस्य महती शोभते गुहा॥ ३९॥
rurūn apetān ajayān dṛṣṭvā śokam prahāsyasi . rāma tasya tu śailasya mahatī śobhate guhā.. 39..
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् । तस्या गुहायाः प्राग्द्वारे महान् शीतोदको ह्रदः॥४०॥
शिला-पिधाना काकुत्स्थ दुःखम् च अस्याः प्रवेशनम् । तस्याः गुहायाः प्राच्-द्वारे महान् शीत-उदकः ह्रदः॥४०॥
śilā-pidhānā kākutstha duḥkham ca asyāḥ praveśanam . tasyāḥ guhāyāḥ prāc-dvāre mahān śīta-udakaḥ hradaḥ..40..
बहुमूलफलो रम्यो नानानगसमाकुलः । तस्यां वसति धर्मात्मा सुग्रीवः सह वानरैः॥ ४१॥
बहु-मूल-फलः रम्यः नाना नग-समाकुलः । तस्याम् वसति धर्म-आत्मा सुग्रीवः सह वानरैः॥ ४१॥
bahu-mūla-phalaḥ ramyaḥ nānā naga-samākulaḥ . tasyām vasati dharma-ātmā sugrīvaḥ saha vānaraiḥ.. 41..
कदाचिच्छिखरे तस्य पर्वतस्यापि तिष्ठति । कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ॥ ४२॥
कदाचिद् शिखरे तस्य पर्वतस्य अपि तिष्ठति । कबन्धः तु अनुशास्य एवम् तौ उभौ राम-लक्ष्मणौ॥ ४२॥
kadācid śikhare tasya parvatasya api tiṣṭhati . kabandhaḥ tu anuśāsya evam tau ubhau rāma-lakṣmaṇau.. 42..
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् । तं तु खस्थं महाभागं तावुभौ रामलक्ष्मणौ॥ ४३॥
स्रग्वी भास्कर-वर्ण-आभः खे व्यरोचत वीर्यवान् । तम् तु ख-स्थम् महाभागम् तौ उभौ राम-लक्ष्मणौ॥ ४३॥
sragvī bhāskara-varṇa-ābhaḥ khe vyarocata vīryavān . tam tu kha-stham mahābhāgam tau ubhau rāma-lakṣmaṇau.. 43..
प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके । गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत् स च॥ ४४॥
प्रस्थितौ त्वम् व्रजस्व इति वाक्यम् ऊचतुः अन्तिके । गम्यताम् कार्य-सिद्धि-अर्थम् इति तौ अब्रवीत् स च॥ ४४॥
prasthitau tvam vrajasva iti vākyam ūcatuḥ antike . gamyatām kārya-siddhi-artham iti tau abravīt sa ca.. 44..
सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा॥ ४५॥
सु प्रीतौ तौ अनुज्ञाप्य कबन्धः प्रस्थितः तदा॥ ४५॥
su prītau tau anujñāpya kabandhaḥ prasthitaḥ tadā.. 45..
स तत् कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्वरसर्वदेहः । निदर्शयन् राममवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच॥ ४६॥
स तत् कबन्धः प्रतिपद्य रूपम् वृतः श्रिया भास्वर-सर्व-देहः । निदर्शयन् रामम् अवेक्ष्य ख-स्थः सख्यम् कुरुष्व इति तदा अभ्युवाच॥ ४६॥
sa tat kabandhaḥ pratipadya rūpam vṛtaḥ śriyā bhāsvara-sarva-dehaḥ . nidarśayan rāmam avekṣya kha-sthaḥ sakhyam kuruṣva iti tadā abhyuvāca.. 46..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिसप्ततितमः सर्गः ॥३-७३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे त्रिसप्ततितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe trisaptatitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In