This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःसप्ततितमः सर्गः ॥३-७४॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे चतुःसप्ततितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe catuḥsaptatitamaḥ sargaḥ ..3..
तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने । आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ॥ १॥
तौ कबन्धेन तम् मार्गम् पम्पायाः दर्शितम् वने । आतस्थतुः दिशम् गृह्य प्रतीचीम् नृ-वर-आत्मजौ॥ १॥
tau kabandhena tam mārgam pampāyāḥ darśitam vane . ātasthatuḥ diśam gṛhya pratīcīm nṛ-vara-ātmajau.. 1..
तौ शैलेष्वाचितानेकान् क्षौद्रपुष्पफलद्रुमान् । वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ॥ २॥
तौ शैलेषु आचितान् एकान् क्षौद्र-पुष्प-फल-द्रुमान् । वीक्षन्तौ जग्मतुः द्रष्टुम् सुग्रीवम् राम-लक्ष्मणौ॥ २॥
tau śaileṣu ācitān ekān kṣaudra-puṣpa-phala-drumān . vīkṣantau jagmatuḥ draṣṭum sugrīvam rāma-lakṣmaṇau.. 2..
कृत्वा तु शैलपृष्ठे तु तौ वासं रघुनन्दनौ । पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः॥ ३॥
कृत्वा तु शैल-पृष्ठे तु तौ वासम् रघुनन्दनौ । पम्पायाः पश्चिमम् तीरम् राघवौ उपतस्थतुः॥ ३॥
kṛtvā tu śaila-pṛṣṭhe tu tau vāsam raghunandanau . pampāyāḥ paścimam tīram rāghavau upatasthatuḥ.. 3..
तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् । अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम्॥ ४॥
तौ पुष्करिण्याः पम्पायाः तीरम् आसाद्य पश्चिमम् । अपश्यताम् ततस् तत्र शबर्याः रम्यम् आश्रमम्॥ ४॥
tau puṣkariṇyāḥ pampāyāḥ tīram āsādya paścimam . apaśyatām tatas tatra śabaryāḥ ramyam āśramam.. 4..
तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् । सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः॥ ५॥
तौ तम् आश्रमम् आसाद्य द्रुमैः बहुभिः आवृतम् । सु रम्यम् अभिवीक्षन्तौ शबरीम् अभ्युपेयतुः॥ ५॥
tau tam āśramam āsādya drumaiḥ bahubhiḥ āvṛtam . su ramyam abhivīkṣantau śabarīm abhyupeyatuḥ.. 5..
तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृताञ्जलिः । पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः॥ ६॥
तौ दृष्ट्वा तु तदा सिद्धा समुत्थाय कृताञ्जलिः । पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः॥ ६॥
tau dṛṣṭvā tu tadā siddhā samutthāya kṛtāñjaliḥ . pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ.. 6..
पाद्यमाचमनीयं च सर्वं प्रादाद् यथाविधि । तामुवाच ततो रामः श्रमणीं धर्मसंस्थिताम्॥ ७॥
पाद्यम् आचमनीयम् च सर्वम् प्रादात् यथाविधि । ताम् उवाच ततस् रामः श्रमणीम् धर्म-संस्थिताम्॥ ७॥
pādyam ācamanīyam ca sarvam prādāt yathāvidhi . tām uvāca tatas rāmaḥ śramaṇīm dharma-saṃsthitām.. 7..
कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः । कच्चित्ते नियतः कोप आहारश्च तपोधने॥ ८॥
कच्चित् ते निर्जिताः विघ्नाः कच्चित् ते वर्धते तपः । कच्चित् ते नियतः कोपः आहारः च तपोधने॥ ८॥
kaccit te nirjitāḥ vighnāḥ kaccit te vardhate tapaḥ . kaccit te niyataḥ kopaḥ āhāraḥ ca tapodhane.. 8..
कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् । कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि॥ ९॥
कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखम् । कच्चित् ते गुरु-शुश्रूषा सफला चारु-भाषिणि॥ ९॥
kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham . kaccit te guru-śuśrūṣā saphalā cāru-bhāṣiṇi.. 9..
रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता । शशंस शबरी वृद्धा रामाय प्रत्यवस्थिता॥ १०॥
रामेण तापसी पृष्टा सा सिद्धा सिद्ध-सम्मता । शशंस शबरी वृद्धा रामाय प्रत्यवस्थिता॥ १०॥
rāmeṇa tāpasī pṛṣṭā sā siddhā siddha-sammatā . śaśaṃsa śabarī vṛddhā rāmāya pratyavasthitā.. 10..
अद्य प्राप्ता तपःसिद्धिस्तव संदर्शनान्मया । अद्य मे सफलं जन्म गुरवश्च सुपूजिताः॥ ११॥
अद्य प्राप्ता तपः-सिद्धिः तव संदर्शनात् मया । अद्य मे सफलम् जन्म गुरवः च सु पूजिताः॥ ११॥
adya prāptā tapaḥ-siddhiḥ tava saṃdarśanāt mayā . adya me saphalam janma guravaḥ ca su pūjitāḥ.. 11..
अद्य मे सफलं तप्तं स्वर्गश्चैव भविष्यति । त्वयि देववरे राम पूजिते पुरुषर्षभ॥ १२॥
अद्य मे सफलम् तप्तम् स्वर्गः च एव भविष्यति । त्वयि देव-वरे राम पूजिते पुरुष-ऋषभ॥ १२॥
adya me saphalam taptam svargaḥ ca eva bhaviṣyati . tvayi deva-vare rāma pūjite puruṣa-ṛṣabha.. 12..
तवाहं चक्षुषा सौम्य पूता सौम्येन मानद । गमिष्याम्यक्षयांल्लोकांस्त्वत्प्रसादादरिंदम॥ १३॥
तव अहम् चक्षुषा सौम्य पूता सौम्येन मानद । गमिष्यामि अक्षयान् लोकान् त्वद्-प्रसादात् अरिंदम॥ १३॥
tava aham cakṣuṣā saumya pūtā saumyena mānada . gamiṣyāmi akṣayān lokān tvad-prasādāt ariṃdama.. 13..
चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः । इतस्ते दिवमारूढा यानहं पर्यचारिषम्॥ १४॥
चित्रकूटम् त्वयि प्राप्ते विमानैः अतुल-प्रभैः । इतस् ते दिवम् आरूढाः यान् अहम् पर्यचारिषम्॥ १४॥
citrakūṭam tvayi prāpte vimānaiḥ atula-prabhaiḥ . itas te divam ārūḍhāḥ yān aham paryacāriṣam.. 14..
तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः । आगमिष्यति ते रामः सुपुण्यमिममाश्रमम्॥ १५॥
तैः च अहम् उक्ता धर्म-ज्ञैः महाभागैः महा-ऋषिभिः । आगमिष्यति ते रामः सु पुण्यम् इमम् आश्रमम्॥ १५॥
taiḥ ca aham uktā dharma-jñaiḥ mahābhāgaiḥ mahā-ṛṣibhiḥ . āgamiṣyati te rāmaḥ su puṇyam imam āśramam.. 15..
स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः । तं च दृष्ट्वा वरांल्लोकानक्षयांस्त्वं गमिष्यसि॥ १६॥
स ते प्रतिग्रहीतव्यः सौमित्रि-सहितः अतिथिः । तम् च दृष्ट्वा वरान् लोकान् अक्षयान् त्वम् गमिष्यसि॥ १६॥
sa te pratigrahītavyaḥ saumitri-sahitaḥ atithiḥ . tam ca dṛṣṭvā varān lokān akṣayān tvam gamiṣyasi.. 16..
एवमुक्ता महाभागैस्तदाहं पुरुषर्षभ । मया तु संचितं वन्यं विविधं पुरुषर्षभ॥ १७॥
एवम् उक्ता महाभागैः तदा अहम् पुरुष-ऋषभ । मया तु संचितम् वन्यम् विविधम् पुरुष-ऋषभ॥ १७॥
evam uktā mahābhāgaiḥ tadā aham puruṣa-ṛṣabha . mayā tu saṃcitam vanyam vividham puruṣa-ṛṣabha.. 17..
तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम् । एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम्॥ १८॥
तव अर्थे पुरुष-व्याघ्र पम्पायाः तीर-सम्भवम् । एवम् उक्तः स धर्म-आत्मा शबर्या शबरीम् इदम्॥ १८॥
tava arthe puruṣa-vyāghra pampāyāḥ tīra-sambhavam . evam uktaḥ sa dharma-ātmā śabaryā śabarīm idam.. 18..
राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् । दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनाम्॥ १९॥
राघवः प्राह विज्ञाने ताम् नित्यम् अबहिष्कृताम् । दनोः सकाशात् तत्त्वेन प्रभावम् ते महात्मनाम्॥ १९॥
rāghavaḥ prāha vijñāne tām nityam abahiṣkṛtām . danoḥ sakāśāt tattvena prabhāvam te mahātmanām.. 19..
श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे । एतत्तु वचनं श्रुत्वा रामवक्त्रविनिःसृतम्॥ २०॥
श्रुतम् प्रत्यक्षम् इच्छामि संद्रष्टुम् यदि मन्यसे । एतत् तु वचनम् श्रुत्वा राम-वक्त्र-विनिःसृतम्॥ २०॥
śrutam pratyakṣam icchāmi saṃdraṣṭum yadi manyase . etat tu vacanam śrutvā rāma-vaktra-viniḥsṛtam.. 20..
शबरी दर्शयामास तावुभौ तद्वनं महत् । पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्॥ २१॥
शबरी दर्शयामास तौ उभौ तत् वनम् महत् । पश्य मेघ-घन-प्रख्यम् मृग-पक्षि-समाकुलम्॥ २१॥
śabarī darśayāmāsa tau ubhau tat vanam mahat . paśya megha-ghana-prakhyam mṛga-pakṣi-samākulam.. 21..
मतङ्गवनमित्येव विश्रुतं रघुनन्दन । इह ते भावितात्मानो गुरवो मे महाद्युते । जुहवांचक्रिरे नीडं मन्त्रवन्मन्त्रपूजितम्॥ २२॥
मतङ्गवनम् इति एव विश्रुतम् रघुनन्दन । इह ते भावितात्मानः गुरवः मे महा-द्युते । जुहवांचक्रिरे नीडम् मन्त्रवत् मन्त्र-पूजितम्॥ २२॥
mataṅgavanam iti eva viśrutam raghunandana . iha te bhāvitātmānaḥ guravaḥ me mahā-dyute . juhavāṃcakrire nīḍam mantravat mantra-pūjitam.. 22..
इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः । पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः॥ २३॥
इयम् प्रत्यक्-स्थली वेदी यत्र ते मे सु सत्कृताः । पुष्प-उपहारम् कुर्वन्ति श्रमात् उद्वेपिभिः करैः॥ २३॥
iyam pratyak-sthalī vedī yatra te me su satkṛtāḥ . puṣpa-upahāram kurvanti śramāt udvepibhiḥ karaiḥ.. 23..
तेषां तपःप्रभावेण पश्याद्यापि रघूत्तम । द्योतयन्ती दिशः सर्वाः श्रिया वेद्यतुलप्रभा॥ २४॥
तेषाम् तपः-प्रभावेण पश्य अद्य अपि रघूत्तम । द्योतयन्ती दिशः सर्वाः श्रिया वेदि अतुल-प्रभा॥ २४॥
teṣām tapaḥ-prabhāveṇa paśya adya api raghūttama . dyotayantī diśaḥ sarvāḥ śriyā vedi atula-prabhā.. 24..
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः । चिन्तितेनागतान् पश्य समेतान् सप्त सागरान्॥ २५॥
अ शक्नुवद्भिः तैः गन्तुम् उपवास-श्रम-अलसैः । चिन्तितेन आगतान् पश्य समेतान् सप्त सागरान्॥ २५॥
a śaknuvadbhiḥ taiḥ gantum upavāsa-śrama-alasaiḥ . cintitena āgatān paśya sametān sapta sāgarān.. 25..
कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह । अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन॥ २६॥
कृत-अभिषेकैः तैः न्यस्ताः वल्कलाः पादपेषु इह । अद्य अपि न विशुष्यन्ति प्रदेशे रघुनन्दन॥ २६॥
kṛta-abhiṣekaiḥ taiḥ nyastāḥ valkalāḥ pādapeṣu iha . adya api na viśuṣyanti pradeśe raghunandana.. 26..
देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै । पुष्पैः कुवलयैः सार्धं म्लानत्वं न तु यान्ति वै॥ २७॥
देव-कार्याणि कुर्वद्भिः यानि इमानि कृतानि वै । पुष्पैः कुवलयैः सार्धम् म्लान-त्वम् न तु यान्ति वै॥ २७॥
deva-kāryāṇi kurvadbhiḥ yāni imāni kṛtāni vai . puṣpaiḥ kuvalayaiḥ sārdham mlāna-tvam na tu yānti vai.. 27..
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया । तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्ष्याम्य् एतत् कलेवरम्॥ २८॥
कृत्स्नम् वनम् इदम् दृष्टम् श्रोतव्यम् च श्रुतम् त्वया । तत् इच्छामि अभ्यनुज्ञाता त्यक्ष्यामि एतत् कलेवरम्॥ २८॥
kṛtsnam vanam idam dṛṣṭam śrotavyam ca śrutam tvayā . tat icchāmi abhyanujñātā tyakṣyāmi etat kalevaram.. 28..
तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् । मुनीनामाश्रमो येषामहं च परिचारिणी॥ २९॥
तेषाम् इच्छामि अहम् गन्तुम् समीपम् भावितात्मनाम् । मुनीनाम् आश्रमः येषाम् अहम् च परिचारिणी॥ २९॥
teṣām icchāmi aham gantum samīpam bhāvitātmanām . munīnām āśramaḥ yeṣām aham ca paricāriṇī.. 29..
धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः । प्रहर्षमतुलं लेभे आश्चर्यमिति चाब्रवीत्॥ ३०॥
धर्मिष्ठम् तु वचः श्रुत्वा राघवः सहलक्ष्मणः । प्रहर्षम् अतुलम् लेभे आश्चर्यम् इति च अब्रवीत्॥ ३०॥
dharmiṣṭham tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ . praharṣam atulam lebhe āścaryam iti ca abravīt.. 30..
तामुवाच ततो रामः शबरीं संशितव्रताम् । अर्चितोऽहं त्वया भद्रे गच्छ कामं यथासुखम्॥ ३१॥
ताम् उवाच ततस् रामः शबरीम् संशित-व्रताम् । अर्चितः अहम् त्वया भद्रे गच्छ कामम् यथासुखम्॥ ३१॥
tām uvāca tatas rāmaḥ śabarīm saṃśita-vratām . arcitaḥ aham tvayā bhadre gaccha kāmam yathāsukham.. 31..
इत्येवमुक्ता जटिला चीरकृष्णाजिनाम्बरा । अनुज्ञाता तु रामेण हुत्वाऽऽत्मानं हुताशने॥ ३२॥
इति एवम् उक्ता जटिला चीर-कृष्ण-अजिन-अम्बरा । अनुज्ञाता तु रामेण हुत्वा आत्मानम् हुताशने॥ ३२॥
iti evam uktā jaṭilā cīra-kṛṣṇa-ajina-ambarā . anujñātā tu rāmeṇa hutvā ātmānam hutāśane.. 32..
ज्वलत्पावकसंकाशा स्वर्गमेव जगाम ह । दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना॥ ३३॥
ज्वलत्-पावक-संकाशा स्वर्गम् एव जगाम ह । दिव्य-आभरण-संयुक्ता दिव्य-माल्य-अनुलेपना॥ ३३॥
jvalat-pāvaka-saṃkāśā svargam eva jagāma ha . divya-ābharaṇa-saṃyuktā divya-mālya-anulepanā.. 33..
दिव्याम्बरधरा तत्र बभूव प्रियदर्शना । विराजयन्ती तं देशं विद्युत्सौदामनी यथा॥ ३४॥
दिव्य-अम्बर-धरा तत्र बभूव प्रिय-दर्शना । विराजयन्ती तम् देशम् विद्युत्-सौदामनी यथा॥ ३४॥
divya-ambara-dharā tatra babhūva priya-darśanā . virājayantī tam deśam vidyut-saudāmanī yathā.. 34..
यत्र ते सुकृतात्मानो विहरन्ति महर्षयः । तत् पुण्यं शबरी स्थानं जगामात्मसमाधिना॥ ३५॥
यत्र ते सु कृत-आत्मानः विहरन्ति महा-ऋषयः । तत् पुण्यम् शबरी स्थानम् जगाम आत्म-समाधिना॥ ३५॥
yatra te su kṛta-ātmānaḥ viharanti mahā-ṛṣayaḥ . tat puṇyam śabarī sthānam jagāma ātma-samādhinā.. 35..
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुःसप्ततितमः सर्गः ॥३-७४॥
इति वाल्मीकि-रामायणे आदि-काव्ये अरण्यकाण्डे चतुःसप्ततितमः सर्गः ॥३॥
iti vālmīki-rāmāyaṇe ādi-kāvye araṇyakāṇḍe catuḥsaptatitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In