This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे पञ्चसप्ततितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe pañcasaptatitamaḥ sargaḥ ..3..
दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः॥ १॥
दिवम् तु तस्याम् यातायाम् शबर्याम् स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः॥ १॥
divam tu tasyām yātāyām śabaryām svena tejasā . lakṣmaṇena saha bhrātrā cintayāmāsa rāghavaḥ.. 1..
चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम् । हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्॥ २॥
चिन्तयित्वा तु धर्म-आत्मा प्रभावम् तम् महात्मनाम् । हित-कारिणम् एकाग्रम् लक्ष्मणम् राघवः अब्रवीत्॥ २॥
cintayitvā tu dharma-ātmā prabhāvam tam mahātmanām . hita-kāriṇam ekāgram lakṣmaṇam rāghavaḥ abravīt.. 2..
दृष्टो मयाऽऽश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् । विश्वस्तमृगशार्दूलो नानाविहगसेवितः॥ ३॥
दृष्टः मया आश्रमः सौम्य बहु-आश्चर्यः कृतात्मनाम् । विश्वस्त-मृग-शार्दूलः नाना विहग-सेवितः॥ ३॥
dṛṣṭaḥ mayā āśramaḥ saumya bahu-āścaryaḥ kṛtātmanām . viśvasta-mṛga-śārdūlaḥ nānā vihaga-sevitaḥ.. 3..
सप्तानां च समुद्राणां तेषां तीर्थेषु लक्ष्मण । उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः॥ ४॥
सप्तानाम् च समुद्राणाम् तेषाम् तीर्थेषु लक्ष्मण । उपस्पृष्टम् च विधिवत् पितरः च अपि तर्पिताः॥ ४॥
saptānām ca samudrāṇām teṣām tīrtheṣu lakṣmaṇa . upaspṛṣṭam ca vidhivat pitaraḥ ca api tarpitāḥ.. 4..
प्रणष्टमशुभं यन्नः कल्याणं समुपस्थितम् । तेन त्वेतत् प्रहृष्टं मे मनो लक्ष्मण सम्प्रति॥ ५॥
प्रणष्टम् अशुभम् यत् नः कल्याणम् समुपस्थितम् । तेन तु एतत् प्रहृष्टम् मे मनः लक्ष्मण सम्प्रति॥ ५॥
praṇaṣṭam aśubham yat naḥ kalyāṇam samupasthitam . tena tu etat prahṛṣṭam me manaḥ lakṣmaṇa samprati.. 5..
हृदये मे नरव्याघ्र शुभमाविर्भविष्यति । तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्॥ ६॥
हृदये मे नर-व्याघ्र शुभम् आविर्भविष्यति । तदा आगच्छ गमिष्यावः पम्पाम् ताम् प्रियदर्शनाम्॥ ६॥
hṛdaye me nara-vyāghra śubham āvirbhaviṣyati . tadā āgaccha gamiṣyāvaḥ pampām tām priyadarśanām.. 6..
ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते । यस्मिन् वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतः॥ ७॥
ऋष्यमूकः गिरिः यत्र न अतिदूरे प्रकाशते । यस्मिन् वसति धर्म-आत्मा सुग्रीवः ॐऽशुमतः सुतः॥ ७॥
ṛṣyamūkaḥ giriḥ yatra na atidūre prakāśate . yasmin vasati dharma-ātmā sugrīvaḥ oṃ'śumataḥ sutaḥ.. 7..
नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरैः । अहं त्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्॥ ८॥
नित्यम् वालि-भयात् त्रस्तः चतुर्भिः सह वानरैः । अहम् त्वरे च तम् द्रष्टुम् सुग्रीवम् वानर-ऋषभम्॥ ८॥
nityam vāli-bhayāt trastaḥ caturbhiḥ saha vānaraiḥ . aham tvare ca tam draṣṭum sugrīvam vānara-ṛṣabham.. 8..
तदधीनं हि मे कार्यं सीतायाः परिमार्गणम् । इति ब्रुवाणं तं वीरं सौमित्रिरिदमब्रवीत्॥ ९॥
तद्-अधीनम् हि मे कार्यम् सीतायाः परिमार्गणम् । इति ब्रुवाणम् तम् वीरम् सौमित्रिः इदम् अब्रवीत्॥ ९॥
tad-adhīnam hi me kāryam sītāyāḥ parimārgaṇam . iti bruvāṇam tam vīram saumitriḥ idam abravīt.. 9..
गच्छावस्त्वरितं तत्र ममापि त्वरते मनः । आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशाम्पतिः॥ १०॥
गच्छावः त्वरितम् तत्र मम अपि त्वरते मनः । आश्रमात् तु ततस् तस्मात् निष्क्रम्य स विशाम् पतिः॥ १०॥
gacchāvaḥ tvaritam tatra mama api tvarate manaḥ . āśramāt tu tatas tasmāt niṣkramya sa viśām patiḥ.. 10..
आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः । समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम्॥ ११॥
आजगाम ततस् पम्पाम् लक्ष्मणेन सह प्रभुः । समीक्षमाणः पुष्प-आढ्यम् सर्वतस् विपुल-द्रुमम्॥ ११॥
ājagāma tatas pampām lakṣmaṇena saha prabhuḥ . samīkṣamāṇaḥ puṣpa-āḍhyam sarvatas vipula-drumam.. 11..
कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीरकैः । एतैश्चान्यैश्च बहुभिर्नादितं तद् वनं महत्॥ १२॥
कोयष्टिभिः च अर्जुनकैः शतपत्रैः च कीरकैः । एतैः च अन्यैः च बहुभिः नादितम् तत् वनम् महत्॥ १२॥
koyaṣṭibhiḥ ca arjunakaiḥ śatapatraiḥ ca kīrakaiḥ . etaiḥ ca anyaiḥ ca bahubhiḥ nāditam tat vanam mahat.. 12..
स रामो विविधान् वृक्षान् सरांसि विविधानि च । पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम्॥ १३॥
स रामः विविधान् वृक्षान् सरांसि विविधानि च । पश्यन् काम-अभिसंतप्तः जगाम परमम् ह्रदम्॥ १३॥
sa rāmaḥ vividhān vṛkṣān sarāṃsi vividhāni ca . paśyan kāma-abhisaṃtaptaḥ jagāma paramam hradam.. 13..
स तामासाद्य वै रामो दूरात् पानीयवाहिनीम् । मतङ्गसरसं नाम ह्रदं समवगाहत॥ १४॥
स ताम् आसाद्य वै रामः दूरात् पानीय-वाहिनीम् । मतङ्गसरसम् नाम ह्रदम् समवगाहत॥ १४॥
sa tām āsādya vai rāmaḥ dūrāt pānīya-vāhinīm . mataṅgasarasam nāma hradam samavagāhata.. 14..
तत्र जग्मतुरव्यग्रौ राघवौ हि समाहितौ । स तु शोकसमाविष्टो रामो दशरथात्मजः॥ १५॥
तत्र जग्मतुः अव्यग्रौ राघवौ हि समाहितौ । स तु शोक-समाविष्टः रामः दशरथ-आत्मजः॥ १५॥
tatra jagmatuḥ avyagrau rāghavau hi samāhitau . sa tu śoka-samāviṣṭaḥ rāmaḥ daśaratha-ātmajaḥ.. 15..
विवेश नलिनीं रम्यां पंकजैश्च समावृताम् । तिलकाशोकपुंनागबकुलोद्दालकाशिनीम्॥ १६॥
विवेश नलिनीम् रम्याम् पंकजैः च समावृताम् । तिलक-अशोक-पुंनाग-बकुल-उद्दालक-आशिनीम्॥ १६॥
viveśa nalinīm ramyām paṃkajaiḥ ca samāvṛtām . tilaka-aśoka-puṃnāga-bakula-uddālaka-āśinīm.. 16..
रम्योपवनसम्बाधां पद्मसम्पीडितोदकाम् । स्फटिकोपमतोयां तां श्लक्ष्णवालुकसंतताम्॥ १७॥
रम्य-उपवन-सम्बाधाम् पद्म-सम्पीडित-उदकाम् । स्फटिक-उपम-तोयाम् ताम् श्लक्ष्ण-वालुक-संतताम्॥ १७॥
ramya-upavana-sambādhām padma-sampīḍita-udakām . sphaṭika-upama-toyām tām ślakṣṇa-vāluka-saṃtatām.. 17..
मत्स्यकच्छपसम्बाधां तीरस्थद्रुमशोभिताम् । सखीभिरिव संयुक्तां लताभिरनुवेष्टिताम्॥ १८॥
मत्स्य-कच्छप-सम्बाधाम् तीर-स्थ-द्रुम-शोभिताम् । सखीभिः इव संयुक्ताम् लताभिः अनुवेष्टिताम्॥ १८॥
matsya-kacchapa-sambādhām tīra-stha-druma-śobhitām . sakhībhiḥ iva saṃyuktām latābhiḥ anuveṣṭitām.. 18..
किंनरोरगगन्धर्वयक्षराक्षससेविताम् । नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम्॥ १९॥
किंनर-उरग-गन्धर्व-यक्ष-राक्षस-सेविताम् । नाना द्रुम-लता-आकीर्णाम् शीत-वारि-निधिम् शुभाम्॥ १९॥
kiṃnara-uraga-gandharva-yakṣa-rākṣasa-sevitām . nānā druma-latā-ākīrṇām śīta-vāri-nidhim śubhām.. 19..
पद्मसौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः । नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव॥ २०॥
पद्म-सौगन्धिकैः ताम्राम् शुक्लाम् कुमुद-मण्डलैः । नीलाम् कुवलय-उद्घाटैः बहु-वर्णाम् कुथाम् इव॥ २०॥
padma-saugandhikaiḥ tāmrām śuklām kumuda-maṇḍalaiḥ . nīlām kuvalaya-udghāṭaiḥ bahu-varṇām kuthām iva.. 20..
अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् । पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम्॥ २१॥
अरविन्द-उत्पलवतीम् पद्म-सौगन्धिक-आयुताम् । पुष्पित-आम्रवण-उपेताम् बर्हिण-उद्घुष्ट-नादिताम्॥ २१॥
aravinda-utpalavatīm padma-saugandhika-āyutām . puṣpita-āmravaṇa-upetām barhiṇa-udghuṣṭa-nāditām.. 21..
स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह । विललाप च तेजस्वी रामो दशरथात्मजः॥ २२॥
स ताम् दृष्ट्वा ततस् पम्पाम् रामः सौमित्रिणा सह । विललाप च तेजस्वी रामः दशरथ-आत्मजः॥ २२॥
sa tām dṛṣṭvā tatas pampām rāmaḥ saumitriṇā saha . vilalāpa ca tejasvī rāmaḥ daśaratha-ātmajaḥ.. 22..
तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा । पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः॥ २३॥
तिलकैः बीजपूरैः च वटैः शुक्लद्रुमैः तथा । पुष्पितैः करवीरैः च पुंनागैः च सु पुष्पितैः॥ २३॥
tilakaiḥ bījapūraiḥ ca vaṭaiḥ śukladrumaiḥ tathā . puṣpitaiḥ karavīraiḥ ca puṃnāgaiḥ ca su puṣpitaiḥ.. 23..
मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा । अशोकैः सप्तपर्णैश्च कतकैरतिमुक्तकैः॥ २४॥
मालती-कुन्द-गुल्मैः च भण्डीरैः निचुलैः तथा । अशोकैः सप्तपर्णैः च कतकैः अतिमुक्तकैः॥ २४॥
mālatī-kunda-gulmaiḥ ca bhaṇḍīraiḥ niculaiḥ tathā . aśokaiḥ saptaparṇaiḥ ca katakaiḥ atimuktakaiḥ.. 24..
अन्यैश्च विविधैर्वृक्षैः प्रमदामिव शोभिताम् । अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः॥ २५॥
अन्यैः च विविधैः वृक्षैः प्रमदाम् इव शोभिताम् । अस्याः तीरे तु पूर्व-उक्तः पर्वतः धातु-मण्डितः॥ २५॥
anyaiḥ ca vividhaiḥ vṛkṣaiḥ pramadām iva śobhitām . asyāḥ tīre tu pūrva-uktaḥ parvataḥ dhātu-maṇḍitaḥ.. 25..
ऋष्यमूक इति ख्यातश्चित्रपुष्पितपादपः । हरिर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः॥ २६॥
ऋष्यमूकः इति ख्यातः चित्र-पुष्पित-पादपः । हरिः ऋक्षरजः-नाम्नः पुत्रः तस्य महात्मनः॥ २६॥
ṛṣyamūkaḥ iti khyātaḥ citra-puṣpita-pādapaḥ . hariḥ ṛkṣarajaḥ-nāmnaḥ putraḥ tasya mahātmanaḥ.. 26..
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः । सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ॥ २७॥
अध्यास्ते तु महा-वीर्यः सुग्रीवः इति विश्रुतः । सुग्रीवम् अभिगच्छ त्वम् वानर-इन्द्रम् नर-ऋषभ॥ २७॥
adhyāste tu mahā-vīryaḥ sugrīvaḥ iti viśrutaḥ . sugrīvam abhigaccha tvam vānara-indram nara-ṛṣabha.. 27..
इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमः । कथं मया विना सीतां शक्यं लक्ष्मण जीवितुम्॥ २८॥
इति उवाच पुनर् वाक्यम् लक्ष्मणम् सत्य-विक्रमः । कथम् मया विना सीताम् शक्यम् लक्ष्मण जीवितुम्॥ २८॥
iti uvāca punar vākyam lakṣmaṇam satya-vikramaḥ . katham mayā vinā sītām śakyam lakṣmaṇa jīvitum.. 28..
इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतनः । विवेश पम्पां नलिनीमनोरमां तमुत्तमं शोकमुदीरयाणः॥ २९॥
इति एवम् उक्त्वा मदन-अभिपीडितः स लक्ष्मणम् वाक्यम् अनन्य-चेतनः । विवेश पम्पाम् नलिनी-मनोरमाम् तम् उत्तमम् शोकम् उदीरयाणः॥ २९॥
iti evam uktvā madana-abhipīḍitaḥ sa lakṣmaṇam vākyam ananya-cetanaḥ . viveśa pampām nalinī-manoramām tam uttamam śokam udīrayāṇaḥ.. 29..
क्रमेण गत्वा प्रविलोकयन् वनं ददर्श पम्पां शुभदर्शकाननाम् । अनेकनानाविधपक्षिसंकुलां विवेश रामः सह लक्ष्मणेन॥ ३०॥
क्रमेण गत्वा प्रविलोकयन् वनम् ददर्श पम्पाम् शुभदर्श-काननाम् । अनेक-नानाविध-पक्षि-संकुलाम् विवेश रामः सह लक्ष्मणेन॥ ३०॥
krameṇa gatvā pravilokayan vanam dadarśa pampām śubhadarśa-kānanām . aneka-nānāvidha-pakṣi-saṃkulām viveśa rāmaḥ saha lakṣmaṇena.. 30..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥३-७५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे पञ्चसप्ततितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe pañcasaptatitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In