This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टमः सर्गः ॥३-८॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे अष्टमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe aṣṭamaḥ sargaḥ ..3..
रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः । परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत॥ १॥
रामः तु सहसौमित्रिः सुतीक्ष्णेन अभिपूजितः । परिणाम्य निशाम् तत्र प्रभाते प्रत्यबुध्यत॥ १॥
rāmaḥ tu sahasaumitriḥ sutīkṣṇena abhipūjitaḥ . pariṇāmya niśām tatra prabhāte pratyabudhyata.. 1..
उत्थाय च यथाकालं राघवः सह सीतया । उपस्पृश्य सुशीतेन तोयेनोत्पलगन्धिना॥ २॥
उत्थाय च यथाकालम् राघवः सह सीतया । उपस्पृश्य सुशीतेन तोयेन उत्पल-गन्धिना॥ २॥
utthāya ca yathākālam rāghavaḥ saha sītayā . upaspṛśya suśītena toyena utpala-gandhinā.. 2..
अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ । काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने॥ ३॥
अथ ते अग्निम् सुरान् च एव वैदेही राम-लक्ष्मणौ । काल्यम् विधिवत् अभ्यर्च्य तपस्वि-शरणे वने॥ ३॥
atha te agnim surān ca eva vaidehī rāma-lakṣmaṇau . kālyam vidhivat abhyarcya tapasvi-śaraṇe vane.. 3..
उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः । सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन्॥ ४॥
उदयन्तम् दिनकरम् दृष्ट्वा विगत-कल्मषाः । सुतीक्ष्णम् अभिगम्य इदम् श्लक्ष्णम् वचनम् अब्रुवन्॥ ४॥
udayantam dinakaram dṛṣṭvā vigata-kalmaṣāḥ . sutīkṣṇam abhigamya idam ślakṣṇam vacanam abruvan.. 4..
सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः । आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः॥ ५॥
सुख-उषिताः स्म भगवन् त्वया पूज्येन पूजिताः । आपृच्छामः प्रयास्यामः मुनयः त्वरयन्ति नः॥ ५॥
sukha-uṣitāḥ sma bhagavan tvayā pūjyena pūjitāḥ . āpṛcchāmaḥ prayāsyāmaḥ munayaḥ tvarayanti naḥ.. 5..
त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् । ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्॥ ६॥
त्वरामहे वयम् द्रष्टुम् कृत्स्नम् आश्रम-मण्डलम् । ऋषीणाम् पुण्य-शीलानाम् दण्डक-अरण्य-वासिनाम्॥ ६॥
tvarāmahe vayam draṣṭum kṛtsnam āśrama-maṇḍalam . ṛṣīṇām puṇya-śīlānām daṇḍaka-araṇya-vāsinām.. 6..
अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुंगवैः । धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः॥ ७॥
अभ्यनुज्ञातुम् इच्छामः सह एभिः मुनि-पुंगवैः । धर्म-नित्यैः तपः-दान्तैः विशिखैः इव पावकैः॥ ७॥
abhyanujñātum icchāmaḥ saha ebhiḥ muni-puṃgavaiḥ . dharma-nityaiḥ tapaḥ-dāntaiḥ viśikhaiḥ iva pāvakaiḥ.. 7..
अविषह्यातपो यावत् सूर्यो नातिविराजते । अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः॥ ८॥
अ विषह्य आतपः यावत् सूर्यः न अतिविराजते । अमार्गेण आगताम् लक्ष्मीम् प्राप्य इव अन्वय-वर्जितः॥ ८॥
a viṣahya ātapaḥ yāvat sūryaḥ na ativirājate . amārgeṇa āgatām lakṣmīm prāpya iva anvaya-varjitaḥ.. 8..
तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः । ववन्दे सहसौमित्रिः सीतया सह राघवः॥ ९॥
तावत् इच्छामहे गन्तुम् इति उक्त्वा चरणौ मुनेः । ववन्दे सहसौमित्रिः सीतया सह राघवः॥ ९॥
tāvat icchāmahe gantum iti uktvā caraṇau muneḥ . vavande sahasaumitriḥ sītayā saha rāghavaḥ.. 9..
तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः । गाढमाश्लिष्य सस्नेहमिदं वचनमब्रवीत्॥ १०॥
तौ संस्पृशन्तौ चरणौ उत्थाप्य मुनि-पुंगवः । गाढम् आश्लिष्य स स्नेहम् इदम् वचनम् अब्रवीत्॥ १०॥
tau saṃspṛśantau caraṇau utthāpya muni-puṃgavaḥ . gāḍham āśliṣya sa sneham idam vacanam abravīt.. 10..
अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह । सीतया चानया सार्धं छाययेवानुवृत्तया॥ ११॥
अरिष्टम् गच्छ पन्थानम् राम सौमित्रिणा सह । सीतया च अनया सार्धम् छायया इव अनुवृत्तया॥ ११॥
ariṣṭam gaccha panthānam rāma saumitriṇā saha . sītayā ca anayā sārdham chāyayā iva anuvṛttayā.. 11..
पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् । एषां तपस्विनां वीर तपसा भावितात्मनाम्॥ १२॥
पश्य आश्रम-पदम् रम्यम् दण्डक-अरण्य-वासिनाम् । एषाम् तपस्विनाम् वीर तपसा भावितात्मनाम्॥ १२॥
paśya āśrama-padam ramyam daṇḍaka-araṇya-vāsinām . eṣām tapasvinām vīra tapasā bhāvitātmanām.. 12..
सुप्राज्यफलमूलानि पुष्पितानि वनानि च । प्रशस्तमृगयूथानि शान्तपक्षिगणानि च॥ १३॥
सु प्राज्य-फल-मूलानि पुष्पितानि वनानि च । प्रशस्त-मृग-यूथानि शान्त-पक्षि-गणानि च॥ १३॥
su prājya-phala-mūlāni puṣpitāni vanāni ca . praśasta-mṛga-yūthāni śānta-pakṣi-gaṇāni ca.. 13..
फुल्लपङ्कजखण्डानि प्रसन्नसलिलानि च । कारण्डवविकीर्णानि तटाकानि सरांसि च॥ १४॥
फुल्ल-पङ्कज-खण्डानि प्रसन्न-सलिलानि च । कारण्डव-विकीर्णानि तटाकानि सरांसि च॥ १४॥
phulla-paṅkaja-khaṇḍāni prasanna-salilāni ca . kāraṇḍava-vikīrṇāni taṭākāni sarāṃsi ca.. 14..
द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च । रमणीयान्यरण्यानि मयूराभिरुतानि च॥ १५॥
द्रक्ष्यसे दृष्टि-रम्याणि गिरि-प्रस्रवणानि च । रमणीयानि अरण्यानि मयूर-अभिरुतानि च॥ १५॥
drakṣyase dṛṣṭi-ramyāṇi giri-prasravaṇāni ca . ramaṇīyāni araṇyāni mayūra-abhirutāni ca.. 15..
गम्यतां वत्स सौमित्रे भवानपि च गच्छतु । आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं प्रति॥ १६॥
गम्यताम् वत्स सौमित्रे भवान् अपि च गच्छतु । आगन्तव्यम् च ते दृष्ट्वा पुनर् एव आश्रमम् प्रति॥ १६॥
gamyatām vatsa saumitre bhavān api ca gacchatu . āgantavyam ca te dṛṣṭvā punar eva āśramam prati.. 16..
एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः । प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे॥ १७॥
एवम् उक्तः तथा इति उक्त्वा काकुत्स्थः सहलक्ष्मणः । प्रदक्षिणम् मुनिम् कृत्वा प्रस्थातुम् उपचक्रमे॥ १७॥
evam uktaḥ tathā iti uktvā kākutsthaḥ sahalakṣmaṇaḥ . pradakṣiṇam munim kṛtvā prasthātum upacakrame.. 17..
ततः शुभतरे तूणी धनुषी चायतेक्षणा । ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः॥ १८॥
ततस् शुभतरे तूणी धनुषी च आयत-ईक्षणा । ददौ सीता तयोः भ्रात्रोः खड्गौ च विमलौ ततस्॥ १८॥
tatas śubhatare tūṇī dhanuṣī ca āyata-īkṣaṇā . dadau sītā tayoḥ bhrātroḥ khaḍgau ca vimalau tatas.. 18..
आबध्य च शुभे तूणी चापे चादाय सस्वने । निष्क्रान्तावाश्रमाद् गन्तुमुभौ तौ रामलक्ष्मणौ॥ १९॥
आबध्य च शुभे तूणी चापे च आदाय सस्वने । निष्क्रान्तौ आश्रमात् गन्तुम् उभौ तौ राम-लक्ष्मणौ॥ १९॥
ābadhya ca śubhe tūṇī cāpe ca ādāya sasvane . niṣkrāntau āśramāt gantum ubhau tau rāma-lakṣmaṇau.. 19..
शीघ्रं तौ रूपसम्पन्नावनुज्ञातौ महर्षिणा । प्रस्थितौ धृतचापासी सीतया सह राघवौ॥ २०॥
शीघ्रम् तौ रूप-सम्पन्नौ अनुज्ञातौ महा-ऋषिणा । प्रस्थितौ धृत-चाप-असी सीतया सह राघवौ॥ २०॥
śīghram tau rūpa-sampannau anujñātau mahā-ṛṣiṇā . prasthitau dhṛta-cāpa-asī sītayā saha rāghavau.. 20..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अष्टम् सर्गः
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे अष्टम् सर्गः
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe aṣṭam sargaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In