This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे नवमः सर्गः ॥३-९॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे नवमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe navamaḥ sargaḥ ..3..
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् । हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत्॥ १॥
सुतीक्ष्णेन अभ्यनुज्ञातम् प्रस्थितम् रघुनन्दनम् । हृद्यया स्निग्धया वाचा भर्तारम् इदम् अब्रवीत्॥ १॥
sutīkṣṇena abhyanujñātam prasthitam raghunandanam . hṛdyayā snigdhayā vācā bhartāram idam abravīt.. 1..
अधर्मं तु सुसूक्ष्मेण विधिना प्राप्यते महान् । निवृत्तेन च शक्योऽयं व्यसनात् कामजादिह॥ २॥
अधर्मम् तु सु सूक्ष्मेण विधिना प्राप्यते महान् । निवृत्तेन च शक्यः अयम् व्यसनात् काम-जात् इह॥ २॥
adharmam tu su sūkṣmeṇa vidhinā prāpyate mahān . nivṛttena ca śakyaḥ ayam vyasanāt kāma-jāt iha.. 2..
त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत । मिथ्यावाक्यं तु परमं तस्माद् गुरुतरावुभौ॥ ३॥
त्रीणि एव व्यसनानि अत्र काम-जानि भवन्ति उत । मिथ्या वाक्यम् तु परमम् तस्मात् गुरुतरौ उभौ॥ ३॥
trīṇi eva vyasanāni atra kāma-jāni bhavanti uta . mithyā vākyam tu paramam tasmāt gurutarau ubhau.. 3..
परदाराभिगमनं विना वैरं च रौद्रता । मिथ्यावाक्यं न ते भूतं न भविष्यति राघव॥ ४॥
पर-दार-अभिगमनम् विना वैरम् च रौद्र-ता । मिथ्यावाक्यम् न ते भूतम् न भविष्यति राघव॥ ४॥
para-dāra-abhigamanam vinā vairam ca raudra-tā . mithyāvākyam na te bhūtam na bhaviṣyati rāghava.. 4..
कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् । तव नास्ति मनुष्येन्द्र न चाभूत् ते कदाचन॥ ५॥
कुतस् अभिलषणम् स्त्रीणाम् परेषाम् धर्म-नाशनम् । तव ना अस्ति मनुष्य-इन्द्र न च अभूत् ते कदाचन॥ ५॥
kutas abhilaṣaṇam strīṇām pareṣām dharma-nāśanam . tava nā asti manuṣya-indra na ca abhūt te kadācana.. 5..
मनस्यपि तथा राम न चैतद् विद्यते क्वचित् । स्वदारनिरतश्चैव नित्यमेव नृपात्मज॥ ६॥
मनसि अपि तथा राम न च एतत् विद्यते क्वचिद् । स्व-दार-निरतः च एव नित्यम् एव नृप-आत्मज॥ ६॥
manasi api tathā rāma na ca etat vidyate kvacid . sva-dāra-nirataḥ ca eva nityam eva nṛpa-ātmaja.. 6..
धर्मिष्ठः सत्यसंधश्च पितुर्निर्देशकारकः । त्वयि धर्मश्च सत्यं च त्वयि सर्वं प्रतिष्ठितम्॥ ७॥
धर्मिष्ठः सत्य-संधः च पितुः निर्देश-कारकः । त्वयि धर्मः च सत्यम् च त्वयि सर्वम् प्रतिष्ठितम्॥ ७॥
dharmiṣṭhaḥ satya-saṃdhaḥ ca pituḥ nirdeśa-kārakaḥ . tvayi dharmaḥ ca satyam ca tvayi sarvam pratiṣṭhitam.. 7..
तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः । तव वश्येन्द्रियत्वं च जानामि शुभदर्शन॥ ८॥
तत् च सर्वम् महा-बाहो शक्यम् वोढुम् जित-इन्द्रियैः । तव वश्य-इन्द्रिय-त्वम् च जानामि शुभ-दर्शन॥ ८॥
tat ca sarvam mahā-bāho śakyam voḍhum jita-indriyaiḥ . tava vaśya-indriya-tvam ca jānāmi śubha-darśana.. 8..
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् । निर्वैरं क्रियते मोहात् तच्च ते समुपस्थितम्॥ ९॥
तृतीयम् यत् इदम् रौद्रम् पर-प्राण-अभिहिंसनम् । निर्वैरम् क्रियते मोहात् तत् च ते समुपस्थितम्॥ ९॥
tṛtīyam yat idam raudram para-prāṇa-abhihiṃsanam . nirvairam kriyate mohāt tat ca te samupasthitam.. 9..
प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् । ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम्॥ १०॥
प्रतिज्ञातः त्वया वीर दण्डक-अरण्य-वासिनाम् । ऋषीणाम् रक्षण-अर्थाय वधः रक्षसाम्॥ १०॥
pratijñātaḥ tvayā vīra daṇḍaka-araṇya-vāsinām . ṛṣīṇām rakṣaṇa-arthāya vadhaḥ rakṣasām.. 10..
एतन्निमित्तं च वनं दण्डका इति विश्रुतम् । प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः॥ ११॥
एतद्-निमित्तम् च वनम् दण्डकाः इति विश्रुतम् । प्रस्थितः त्वम् सह भ्रात्रा धृत-बाण-शरासनः॥ ११॥
etad-nimittam ca vanam daṇḍakāḥ iti viśrutam . prasthitaḥ tvam saha bhrātrā dhṛta-bāṇa-śarāsanaḥ.. 11..
ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः । त्वद्धृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम्॥ १२॥
ततस् त्वाम् प्रस्थितम् दृष्ट्वा मम चिन्ता-आकुलम् मनः । त्वद्-हृत् तम् चिन्तयन्त्याः वै भवेत् निःश्रेयसम् हितम्॥ १२॥
tatas tvām prasthitam dṛṣṭvā mama cintā-ākulam manaḥ . tvad-hṛt tam cintayantyāḥ vai bhavet niḥśreyasam hitam.. 12..
नहि मे रोचते वीर गमनं दण्डकान् प्रति । कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम॥ १३॥
नहि मे रोचते वीर गमनम् दण्डकान् प्रति । कारणम् तत्र वक्ष्यामि वदन्त्याः श्रूयताम् मम॥ १३॥
nahi me rocate vīra gamanam daṇḍakān prati . kāraṇam tatra vakṣyāmi vadantyāḥ śrūyatām mama.. 13..
त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः । दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम्॥ १४॥
त्वम् हि बाण-धनुष्पाणिः भ्रात्रा सह वनम् गतः । दृष्ट्वा वन-चरान् सर्वान् कच्चित् कुर्याः शर-व्ययम्॥ १४॥
tvam hi bāṇa-dhanuṣpāṇiḥ bhrātrā saha vanam gataḥ . dṛṣṭvā vana-carān sarvān kaccit kuryāḥ śara-vyayam.. 14..
क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि च । समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम्॥ १५॥
क्षत्रियाणाम् इह धनुः हुताशस्य इन्धनानि च । समीपतस् स्थितम् तेजः-बलम् उच्छ्रयते भृशम्॥ १५॥
kṣatriyāṇām iha dhanuḥ hutāśasya indhanāni ca . samīpatas sthitam tejaḥ-balam ucchrayate bhṛśam.. 15..
पुरा किल महाबाहो तपस्वी सत्यवान् शुचिः । कस्मिंश्चिदभवत् पुण्ये वने रतमृगद्विजे॥ १६॥
पुरा किल महा-बाहो तपस्वी सत्यवान् शुचिः । कस्मिंश्चिद् अभवत् पुण्ये वने रत-मृग-द्विजे॥ १६॥
purā kila mahā-bāho tapasvī satyavān śuciḥ . kasmiṃścid abhavat puṇye vane rata-mṛga-dvije.. 16..
तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः । खड्गपाणिरथागच्छदाश्रमं भटरूपधृक्॥ १७॥
तस्य एव तपसः विघ्नम् कर्तुम् इन्द्रः शचीपतिः । खड्ग-पाणिः अथ अगच्छत् आश्रमम् भट-रूपधृक्॥ १७॥
tasya eva tapasaḥ vighnam kartum indraḥ śacīpatiḥ . khaḍga-pāṇiḥ atha agacchat āśramam bhaṭa-rūpadhṛk.. 17..
तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः । स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः॥ १८॥
तस्मिन् तद्-आश्रम-पदे निहितः खड्गः उत्तमः । स न्यास-विधिना दत्तः पुण्ये तपसि तिष्ठतः॥ १८॥
tasmin tad-āśrama-pade nihitaḥ khaḍgaḥ uttamaḥ . sa nyāsa-vidhinā dattaḥ puṇye tapasi tiṣṭhataḥ.. 18..
स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः । वने तु विचरत्येव रक्षन् प्रत्ययमात्मनः॥ १९॥
स तत् शस्त्रम् अनुप्राप्य न्यास-रक्षण-तत्परः । वने तु विचरति एव रक्षन् प्रत्ययम् आत्मनः॥ १९॥
sa tat śastram anuprāpya nyāsa-rakṣaṇa-tatparaḥ . vane tu vicarati eva rakṣan pratyayam ātmanaḥ.. 19..
यत्र गच्छत्युपादातुं मूलानि च फलानि च । न विना याति तं खड्गं न्यासरक्षणतत्परः॥ २०॥
यत्र गच्छति उपादातुम् मूलानि च फलानि च । न विना याति तम् खड्गम् न्यास-रक्षण-तत्परः॥ २०॥
yatra gacchati upādātum mūlāni ca phalāni ca . na vinā yāti tam khaḍgam nyāsa-rakṣaṇa-tatparaḥ.. 20..
नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः । चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम्॥ २१॥
नित्यम् शस्त्रम् परिवहन् क्रमेण स तपोधनः । चकार रौद्रीम् स्वाम् बुद्धिम् त्यक्त्वा तपसि निश्चयम्॥ २१॥
nityam śastram parivahan krameṇa sa tapodhanaḥ . cakāra raudrīm svām buddhim tyaktvā tapasi niścayam.. 21..
ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः । तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः॥ २२॥
ततस् स रौद्र-अभिरतः प्रमत्तः अधर्म-कर्षितः । तस्य शस्त्रस्य संवासात् जगाम नरकम् मुनिः॥ २२॥
tatas sa raudra-abhirataḥ pramattaḥ adharma-karṣitaḥ . tasya śastrasya saṃvāsāt jagāma narakam muniḥ.. 22..
एवमेतत् पुरावृत्तं शस्त्रसंयोगकारणम् । अग्निसंयोगवद्धेतुः शस्त्रसंयोग उच्यते॥ २३॥
एवम् एतत् पुरावृत्तम् शस्त्र-संयोग-कारणम् । अग्नि-संयोग-वत् हेतुः शस्त्र-संयोगः उच्यते॥ २३॥
evam etat purāvṛttam śastra-saṃyoga-kāraṇam . agni-saṃyoga-vat hetuḥ śastra-saṃyogaḥ ucyate.. 23..
स्नेहाच्च बहुमानाच्च स्मारये त्वां तु शिक्षये । न कथंचन सा कार्या गृहीतधनुषा त्वया॥ २४॥
स्नेहात् च बहु-मानात् च स्मारये त्वाम् तु शिक्षये । न कथंचन सा कार्या गृहीत-धनुषा त्वया॥ २४॥
snehāt ca bahu-mānāt ca smāraye tvām tu śikṣaye . na kathaṃcana sā kāryā gṛhīta-dhanuṣā tvayā.. 24..
बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान् । अपराधं विना हन्तुं लोको वीर न मंस्यते॥ २५॥
बुद्धिः वैरम् विना हन्तुम् राक्षसान् दण्डक-आश्रितान् । अपराधम् विना हन्तुम् लोकः वीर न मंस्यते॥ २५॥
buddhiḥ vairam vinā hantum rākṣasān daṇḍaka-āśritān . aparādham vinā hantum lokaḥ vīra na maṃsyate.. 25..
क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् । धनुषा कार्यमेतावदार्तानामभिरक्षणम्॥ २६॥
क्षत्रियाणाम् तु वीराणाम् वनेषु नियत-आत्मनाम् । धनुषा कार्यम् एतावत् आर्तानाम् अभिरक्षणम्॥ २६॥
kṣatriyāṇām tu vīrāṇām vaneṣu niyata-ātmanām . dhanuṣā kāryam etāvat ārtānām abhirakṣaṇam.. 26..
क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च । व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम्॥ २७॥
क्व च शस्त्रम् क्व च वनम् क्व च क्षात्रम् तपः क्व च । व्याविद्धम् इदम् अस्माभिः देशधर्मः तु पूज्यताम्॥ २७॥
kva ca śastram kva ca vanam kva ca kṣātram tapaḥ kva ca . vyāviddham idam asmābhiḥ deśadharmaḥ tu pūjyatām.. 27..
कदर्यकलुषा बुद्धिर्जायते शस्त्रसेवनात् । पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि॥ २८॥
कदर्य-कलुषा बुद्धिः जायते शस्त्र-सेवनात् । पुनर् गत्वा तु अयोध्यायाम् क्षत्र-धर्मम् चरिष्यसि॥ २८॥
kadarya-kaluṣā buddhiḥ jāyate śastra-sevanāt . punar gatvā tu ayodhyāyām kṣatra-dharmam cariṣyasi.. 28..
अक्षया तु भवेत् प्रीतिः श्वश्रूश्वशुरयोर्मम । यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः॥ २९॥
अक्षया तु भवेत् प्रीतिः श्वश्रू-श्वशुरयोः मम । यदि राज्यम् हि संन्यस्य भवेः त्वम् निरतः मुनिः॥ २९॥
akṣayā tu bhavet prītiḥ śvaśrū-śvaśurayoḥ mama . yadi rājyam hi saṃnyasya bhaveḥ tvam nirataḥ muniḥ.. 29..
धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् । धर्मेण लभते सर्वं धर्मसारमिदं जगत्॥ ३०॥
धर्मात् अर्थः प्रभवति धर्मात् प्रभवते सुखम् । धर्मेण लभते सर्वम् धर्म-सारम् इदम् जगत्॥ ३०॥
dharmāt arthaḥ prabhavati dharmāt prabhavate sukham . dharmeṇa labhate sarvam dharma-sāram idam jagat.. 30..
आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः । प्राप्तये निपुणैर्धर्मो न सुखाल्लभते सुखम्॥ ३१॥
आत्मानम् नियमैः तैः तैः कर्षयित्वा प्रयत्नतः । प्राप्तये निपुणैः धर्मः न सुखात् लभते सुखम्॥ ३१॥
ātmānam niyamaiḥ taiḥ taiḥ karṣayitvā prayatnataḥ . prāptaye nipuṇaiḥ dharmaḥ na sukhāt labhate sukham.. 31..
नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने । सर्वं तु विदितं तुभ्यं त्रैलोक्यामपि तत्त्वतः॥ ३२॥
नित्यम् शुचि-मतिः सौम्य चर धर्मम् तपः-वने । सर्वम् तु विदितम् तुभ्यम् तत्त्वतः॥ ३२॥
nityam śuci-matiḥ saumya cara dharmam tapaḥ-vane . sarvam tu viditam tubhyam tattvataḥ.. 32..
स्त्रीचापलादेतदुपाहृतं मे धर्मं च वक्तुं तव कः समर्थः । विचार्य बुद्ध्या तु सहानुजेन यद् रोचते तत् कुरु माचिरेण॥ ३३॥
स्त्री-चापलात् एतत् उपाहृतम् मे धर्मम् च वक्तुम् तव कः समर्थः । विचार्य बुद्ध्या तु सह अनुजेन यत् रोचते तत् कुरु माचिरेण॥ ३३॥
strī-cāpalāt etat upāhṛtam me dharmam ca vaktum tava kaḥ samarthaḥ . vicārya buddhyā tu saha anujena yat rocate tat kuru mācireṇa.. 33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे नवमः सर्गः ॥३-९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे नवमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe navamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In