This overlay will guide you through the buttons:

| |
|
गच्छता मातुलकुलं भरतेन तदानघः।शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः॥ १॥
गच्छता मातुल-कुलम् भरतेन तदा अनघः।शत्रुघ्नः नित्य-शत्रु-घ्नः नीतः प्रीति-पुरस्कृतः॥ १॥
gacchatā mātula-kulam bharatena tadā anaghaḥ.śatrughnaḥ nitya-śatru-ghnaḥ nītaḥ prīti-puraskṛtaḥ.. 1..
स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः।मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः॥ २॥
स तत्र न्यवसत् भ्रात्रा सह सत्कार-सत्कृतः।मातुलेन अश्वपतिना पुत्र-स्नेहेन लालितः॥ २॥
sa tatra nyavasat bhrātrā saha satkāra-satkṛtaḥ.mātulena aśvapatinā putra-snehena lālitaḥ.. 2..
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः।भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्॥ ३॥
तत्र अपि निवसन्तौ तौ तर्प्यमाणौ च कामतः।भ्रातरौ स्मरताम् वीरौ वृद्धम् दशरथम् नृपम्॥ ३॥
tatra api nivasantau tau tarpyamāṇau ca kāmataḥ.bhrātarau smaratām vīrau vṛddham daśaratham nṛpam.. 3..
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ।उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ॥ ४॥
राजा अपि तौ महा-तेजाः सस्मार प्रोषितौ सुतौ।उभौ भरत-शत्रुघ्नौ महा-इन्द्र-वरुण-उपमौ॥ ४॥
rājā api tau mahā-tejāḥ sasmāra proṣitau sutau.ubhau bharata-śatrughnau mahā-indra-varuṇa-upamau.. 4..
सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः।स्वशरीराद् विनिर्वृत्ताश्चत्वार इव बाहवः॥ ५॥
सर्वे एव तु तस्य इष्टाः चत्वारः पुरुष-ऋषभाः।स्व-शरीरात् विनिर्वृत्ताः चत्वारः इव बाहवः॥ ५॥
sarve eva tu tasya iṣṭāḥ catvāraḥ puruṣa-ṛṣabhāḥ.sva-śarīrāt vinirvṛttāḥ catvāraḥ iva bāhavaḥ.. 5..
तेषामपि महातेजा रामो रतिकरः पितुः।स्वयम्भूरिव भूतानां बभूव गुणवत्तरः॥ ६॥
तेषाम् अपि महा-तेजाः रामः रति-करः पितुः।स्वयम्भूः इव भूतानाम् बभूव गुणवत्तरः॥ ६॥
teṣām api mahā-tejāḥ rāmaḥ rati-karaḥ pituḥ.svayambhūḥ iva bhūtānām babhūva guṇavattaraḥ.. 6..
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः।अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः॥ ७॥
स हि देवैः उदीर्णस्य रावणस्य वध-अर्थिभिः।अर्थितः मानुषे लोके जज्ञे विष्णुः सनातनः॥ ७॥
sa hi devaiḥ udīrṇasya rāvaṇasya vadha-arthibhiḥ.arthitaḥ mānuṣe loke jajñe viṣṇuḥ sanātanaḥ.. 7..
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा।यथा वरेण देवानामदितिर्वज्रपाणिना॥ ८॥
कौसल्या शुशुभे तेन पुत्रेण अमित-तेजसा।यथा वरेण देवानाम् अदितिः वज्रपाणिना॥ ८॥
kausalyā śuśubhe tena putreṇa amita-tejasā.yathā vareṇa devānām aditiḥ vajrapāṇinā.. 8..
स हि रूपोपपन्नश्च वीर्यवाननसूयकः।भूमावनुपमः सूनुर्गुणैर्दशरथोपमः॥ ९॥
स हि रूप-उपपन्नः च वीर्यवान् अनसूयकः।भूमौ अनुपमः सूनुः गुणैः दशरथ-उपमः॥ ९॥
sa hi rūpa-upapannaḥ ca vīryavān anasūyakaḥ.bhūmau anupamaḥ sūnuḥ guṇaiḥ daśaratha-upamaḥ.. 9..
स च नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते।उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते॥ १०॥
स च नित्यम् प्रशान्त-आत्मा मृदु-पूर्वम् च भाषते।उच्यमानः अपि परुषम् न उत्तरम् प्रतिपद्यते॥ १०॥
sa ca nityam praśānta-ātmā mṛdu-pūrvam ca bhāṣate.ucyamānaḥ api paruṣam na uttaram pratipadyate.. 10..
कदाचिदुपकारेण कृतेनैकेन तुष्यति।न स्मरत्यपकाराणां शतमप्यात्मवत्तया॥ ११॥
कदाचिद् उपकारेण कृतेन एकेन तुष्यति।न स्मरति अपकाराणाम् शतम् अपि आत्मवत्-तया॥ ११॥
kadācid upakāreṇa kṛtena ekena tuṣyati.na smarati apakārāṇām śatam api ātmavat-tayā.. 11..
शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः।कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि॥ १२॥
शील-वृद्धैः ज्ञान-वृद्धैः वयः-वृद्धैः च सत्-जनैः।कथयन् आस्त वै नित्यम् अस्त्र-योग्य-अन्तरेषु अपि॥ १२॥
śīla-vṛddhaiḥ jñāna-vṛddhaiḥ vayaḥ-vṛddhaiḥ ca sat-janaiḥ.kathayan āsta vai nityam astra-yogya-antareṣu api.. 12..
बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः।वीर्यवान्न च वीर्येण महता स्वेन विस्मितः॥ १३॥
बुद्धिमान् मधुर-आभाषी पूर्व-भाषी प्रियंवदः।वीर्यवान् न च वीर्येण महता स्वेन विस्मितः॥ १३॥
buddhimān madhura-ābhāṣī pūrva-bhāṣī priyaṃvadaḥ.vīryavān na ca vīryeṇa mahatā svena vismitaḥ.. 13..
न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः।अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते॥ १४॥
न च अनृत-कथः विद्वान् वृद्धानाम् प्रतिपूजकः।अनुरक्तः प्रजाभिः च प्रजाः च अपि अनुरज्यते॥ १४॥
na ca anṛta-kathaḥ vidvān vṛddhānām pratipūjakaḥ.anuraktaḥ prajābhiḥ ca prajāḥ ca api anurajyate.. 14..
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः।दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः॥ १५॥
स अनुक्रोशः जित-क्रोधः ब्राह्मण-प्रतिपूजकः।दीन-अनुकम्पी धर्म-ज्ञः नित्यम् प्रग्रहवान् शुचिः॥ १५॥
sa anukrośaḥ jita-krodhaḥ brāhmaṇa-pratipūjakaḥ.dīna-anukampī dharma-jñaḥ nityam pragrahavān śuciḥ.. 15..
कुलोचितमतिः क्षात्रं स्वधर्मं बहु मन्यते।मन्यते परया प्रीत्या महत् स्वर्गफलं ततः॥ १६॥
कुल-उचित-मतिः क्षात्रम् स्वधर्मम् बहु मन्यते।मन्यते परया प्रीत्या महत् स्वर्ग-फलम् ततस्॥ १६॥
kula-ucita-matiḥ kṣātram svadharmam bahu manyate.manyate parayā prītyā mahat svarga-phalam tatas.. 16..
नाश्रेयसि रतो यश्च न विरुद्धकथारुचिः।उत्तरोत्तरयुक्तीनां वक्ता वाचस्पतिर्यथा॥ १७॥
न अश्रेयसि रतः यः च न विरुद्ध-कथा-रुचिः।उत्तर-उत्तर-युक्तीनाम् वक्ता वाचस्पतिः यथा॥ १७॥
na aśreyasi rataḥ yaḥ ca na viruddha-kathā-ruciḥ.uttara-uttara-yuktīnām vaktā vācaspatiḥ yathā.. 17..
अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित्।लोके पुरुषसारज्ञः साधुरेको विनिर्मितः॥ १८॥
अरोगः तरुणः वाग्मी वपुष्मान् देश-काल-विद्।लोके पुरुष-सार-ज्ञः साधुः एकः विनिर्मितः॥ १८॥
arogaḥ taruṇaḥ vāgmī vapuṣmān deśa-kāla-vid.loke puruṣa-sāra-jñaḥ sādhuḥ ekaḥ vinirmitaḥ.. 18..
स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः।बहिश्चर इव प्राणो बभूव गुणतः प्रियः॥ १९॥
स तु श्रेष्ठैः गुणैः युक्तः प्रजानाम् पार्थिव-आत्मजः।बहिश्चरः इव प्राणः बभूव गुणतः प्रियः॥ १९॥
sa tu śreṣṭhaiḥ guṇaiḥ yuktaḥ prajānām pārthiva-ātmajaḥ.bahiścaraḥ iva prāṇaḥ babhūva guṇataḥ priyaḥ.. 19..
सर्वविद्याव्रतस्नातो यथावत् साङ्गवेदवित्।इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः॥ २०॥
सर्व-विद्या-व्रत-स्नातः यथावत् स अङ्ग-वेद-विद्।इष्वस्त्रे च पितुः श्रेष्ठः बभूव भरताग्रजः॥ २०॥
sarva-vidyā-vrata-snātaḥ yathāvat sa aṅga-veda-vid.iṣvastre ca pituḥ śreṣṭhaḥ babhūva bharatāgrajaḥ.. 20..
कल्याणाभिजनः साधुरदीनः सत्यवागृजुः।वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः॥ २१॥
कल्याण-अभिजनः साधुः अदीनः सत्य-वाच् ऋजुः।वृद्धैः अभिविनीतः च द्विजैः धर्म-अर्थ-दर्शिभिः॥ २१॥
kalyāṇa-abhijanaḥ sādhuḥ adīnaḥ satya-vāc ṛjuḥ.vṛddhaiḥ abhivinītaḥ ca dvijaiḥ dharma-artha-darśibhiḥ.. 21..
धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्।लौकिके समयाचारे कृतकल्पो विशारदः॥ २२॥
धर्म-काम-अर्थ-तत्त्व-ज्ञः स्मृतिमान् प्रतिभानवान्।लौकिके समयाचारे कृतकल्पः विशारदः॥ २२॥
dharma-kāma-artha-tattva-jñaḥ smṛtimān pratibhānavān.laukike samayācāre kṛtakalpaḥ viśāradaḥ.. 22..
निभृतः संवृताकारो गुप्तमन्त्रः सहायवान्।अमोघक्रोधहर्षश्च त्यागसंयमकालवित्॥ २३॥
निभृतः संवृत-आकारः गुप्त-मन्त्रः सहायवान्।अमोघ-क्रोध-हर्षः च त्याग-संयम-काल-विद्॥ २३॥
nibhṛtaḥ saṃvṛta-ākāraḥ gupta-mantraḥ sahāyavān.amogha-krodha-harṣaḥ ca tyāga-saṃyama-kāla-vid.. 23..
दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचः।निस्तन्द्रीरप्रमत्तश्च स्वदोषपरदोषवित्॥ २४॥
दृढ-भक्तिः स्थिर-प्रज्ञः न असत्-ग्राही न दुर्वचः।निस्तन्द्रीः अप्रमत्तः च स्व-दोष-पर-दोष-विद्॥ २४॥
dṛḍha-bhaktiḥ sthira-prajñaḥ na asat-grāhī na durvacaḥ.nistandrīḥ apramattaḥ ca sva-doṣa-para-doṣa-vid.. 24..
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः।यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः॥ २५॥
शास्त्र-ज्ञः च कृतज्ञः च पुरुष-अन्तर-कोविदः।यः प्रग्रह-अनुग्रहयोः यथान्यायम् विचक्षणः॥ २५॥
śāstra-jñaḥ ca kṛtajñaḥ ca puruṣa-antara-kovidaḥ.yaḥ pragraha-anugrahayoḥ yathānyāyam vicakṣaṇaḥ.. 25..
सत्संग्रहानुग्रहणे स्थानविन्निग्रहस्य च।आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित्॥ २६॥
सत्-संग्रह-अनुग्रहणे स्थान-विद्-निग्रहस्य च।आय-कर्मणि उपाय-ज्ञः संदृष्ट-व्ययकर्म-विद्॥ २६॥
sat-saṃgraha-anugrahaṇe sthāna-vid-nigrahasya ca.āya-karmaṇi upāya-jñaḥ saṃdṛṣṭa-vyayakarma-vid.. 26..
श्रैष्ठ्यं चास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च।अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः॥ २७॥
श्रैष्ठ्यम् च अस्त्र-समूहेषु प्राप्तः व्यामिश्रकेषु च।अर्थ-धर्मौ च संगृह्य सुख-तन्त्रः न च अलसः॥ २७॥
śraiṣṭhyam ca astra-samūheṣu prāptaḥ vyāmiśrakeṣu ca.artha-dharmau ca saṃgṛhya sukha-tantraḥ na ca alasaḥ.. 27..
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्।आरोहे विनये चैव युक्तो वारणवाजिनाम्॥ २८॥
वैहारिकाणाम् शिल्पानाम् विज्ञात-अर्थ-विभाग-विद्।आरोहे विनये च एव युक्तः वारण-वाजिनाम्॥ २८॥
vaihārikāṇām śilpānām vijñāta-artha-vibhāga-vid.ārohe vinaye ca eva yuktaḥ vāraṇa-vājinām.. 28..
धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः।अभियाता प्रहर्ता च सेनानयविशारदः॥ २९॥
धनुर्वेद-विदाम् श्रेष्ठः लोके अतिरथ-सम्मतः।अभियाता प्रहर्ता च सेना-नय-विशारदः॥ २९॥
dhanurveda-vidām śreṣṭhaḥ loke atiratha-sammataḥ.abhiyātā prahartā ca senā-naya-viśāradaḥ.. 29..
अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः।अनसूयो जितक्रोधो न दृप्तो न च मत्सरी॥ ३०॥
अप्रधृष्यः च संग्रामे क्रुद्धैः अपि सुर-असुरैः।अनसूयः जित-क्रोधः न दृप्तः न च मत्सरी॥ ३०॥
apradhṛṣyaḥ ca saṃgrāme kruddhaiḥ api sura-asuraiḥ.anasūyaḥ jita-krodhaḥ na dṛptaḥ na ca matsarī.. 30..
नावज्ञेयश्च भूतानां न च कालवशानुगः।एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः॥ ३१॥
न अवज्ञेयः च भूतानाम् न च काल-वश-अनुगः।एवम् श्रेष्ठैः गुणैः युक्तः प्रजानाम् पार्थिव-आत्मजः॥ ३१॥
na avajñeyaḥ ca bhūtānām na ca kāla-vaśa-anugaḥ.evam śreṣṭhaiḥ guṇaiḥ yuktaḥ prajānām pārthiva-ātmajaḥ.. 31..
सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः।बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये चापि शचीपतेः॥ ३२॥
सम्मतः त्रिषु लोकेषु वसुधायाः क्षमा-गुणैः।बुद्ध्याः बृहस्पतेः तुल्यः वीर्ये च अपि शचीपतेः॥ ३२॥
sammataḥ triṣu lokeṣu vasudhāyāḥ kṣamā-guṇaiḥ.buddhyāḥ bṛhaspateḥ tulyaḥ vīrye ca api śacīpateḥ.. 32..
तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः।गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः॥ ३३॥
तथा सर्व-प्रजा-कान्तैः प्रीति-संजननैः पितुः।गुणैः विरुरुचे रामः दीप्तः सूर्यः इव अंशुभिः॥ ३३॥
tathā sarva-prajā-kāntaiḥ prīti-saṃjananaiḥ pituḥ.guṇaiḥ viruruce rāmaḥ dīptaḥ sūryaḥ iva aṃśubhiḥ.. 33..
तमेवंवृत्तसम्पन्नमप्रधृष्यपराक्रमम्।लोकनाथोपमं नाथमकामयत मेदिनी॥ ३४॥
तम् एवम् वृत्त-सम्पन्नम् अप्रधृष्य-पराक्रमम्।लोक-नाथ-उपमम् नाथम् अकामयत मेदिनी॥ ३४॥
tam evam vṛtta-sampannam apradhṛṣya-parākramam.loka-nātha-upamam nātham akāmayata medinī.. 34..
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्।दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः॥ ३५॥
एतैः तु बहुभिः युक्तम् गुणैः अनुपमैः सुतम्।दृष्ट्वा दशरथः राजा चक्रे चिन्ताम् परंतपः॥ ३५॥
etaiḥ tu bahubhiḥ yuktam guṇaiḥ anupamaiḥ sutam.dṛṣṭvā daśarathaḥ rājā cakre cintām paraṃtapaḥ.. 35..
अथ राज्ञो बभूवैव वृद्धस्य चिरजीविनः।प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति॥ ३६॥
अथ राज्ञः बभूव एव वृद्धस्य चिर-जीविनः।प्रीतिः एषा कथम् रामः राजा स्यात् मयि जीवति॥ ३६॥
atha rājñaḥ babhūva eva vṛddhasya cira-jīvinaḥ.prītiḥ eṣā katham rāmaḥ rājā syāt mayi jīvati.. 36..
एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते।कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्॥ ३७॥
एषा हि अस्य परा प्रीतिः हृदि सम्परिवर्तते।कदा नाम सुतम् द्रक्ष्यामि अभिषिक्तम् अहम् प्रियम्॥ ३७॥
eṣā hi asya parā prītiḥ hṛdi samparivartate.kadā nāma sutam drakṣyāmi abhiṣiktam aham priyam.. 37..
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पकः।मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्॥ ३८॥
वृद्धि-कामः हि लोकस्य सर्व-भूत-अनुकम्पकः।मत्तः प्रियतरः लोके पर्जन्यः इव वृष्टिमान्॥ ३८॥
vṛddhi-kāmaḥ hi lokasya sarva-bhūta-anukampakaḥ.mattaḥ priyataraḥ loke parjanyaḥ iva vṛṣṭimān.. 38..
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ।महीधरसमो धृत्यां मत्तश्च गुणवत्तरः॥ ३९॥
यम-शक्र-समः वीर्ये बृहस्पति-समः मतौ।महीधर-समः धृत्याम् मत्तः च गुणवत्तरः॥ ३९॥
yama-śakra-samaḥ vīrye bṛhaspati-samaḥ matau.mahīdhara-samaḥ dhṛtyām mattaḥ ca guṇavattaraḥ.. 39..
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्।अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम्॥ ४०॥
महीम् अहम् इमाम् कृत्स्नाम् अधितिष्ठन्तम् आत्मजम्।अनेन वयसा दृष्ट्वा यथा स्वर्गम् अवाप्नुयाम्॥ ४०॥
mahīm aham imām kṛtsnām adhitiṣṭhantam ātmajam.anena vayasā dṛṣṭvā yathā svargam avāpnuyām.. 40..
इत्येवं विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः।शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः॥ ४१॥
इति एवम् विविधैः तैः तैः अन्य-पार्थिव-दुर्लभैः।शिष्टैः अपरिमेयैः च लोके लोकोत्तरैः गुणैः॥ ४१॥
iti evam vividhaiḥ taiḥ taiḥ anya-pārthiva-durlabhaiḥ.śiṣṭaiḥ aparimeyaiḥ ca loke lokottaraiḥ guṇaiḥ.. 41..
तं समीक्ष्य तदा राजा युक्तं समुदितैर्गुणैः।निश्चित्य सचिवैः सार्धं यौवराज्यममन्यत॥ ४२॥
तम् समीक्ष्य तदा राजा युक्तम् समुदितैः गुणैः।निश्चित्य सचिवैः सार्धम् यौवराज्यम् अमन्यत॥ ४२॥
tam samīkṣya tadā rājā yuktam samuditaiḥ guṇaiḥ.niścitya sacivaiḥ sārdham yauvarājyam amanyata.. 42..
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्।संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम्॥ ४३॥
दिवि अन्तरिक्षे भूमौ च घोरम् उत्पात-जम् भयम्।संचचक्षे अथ मेधावी शरीरे च आत्मनः जराम्॥ ४३॥
divi antarikṣe bhūmau ca ghoram utpāta-jam bhayam.saṃcacakṣe atha medhāvī śarīre ca ātmanaḥ jarām.. 43..
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः।लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः॥ ४४॥
पूर्ण-चन्द्र-आननस्य अथ शोक-अपनुदम् आत्मनः।लोके रामस्य बुबुधे सम्प्रिय-त्वम् महात्मनः॥ ४४॥
pūrṇa-candra-ānanasya atha śoka-apanudam ātmanaḥ.loke rāmasya bubudhe sampriya-tvam mahātmanaḥ.. 44..
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च।प्राप्ते काले स धर्मात्मा भक्त्या त्वरितवान् नृपः॥ ४५॥
आत्मनः च प्रजानाम् च श्रेयसे च प्रियेण च।प्राप्ते काले स धर्म-आत्मा भक्त्या त्वरितवान् नृपः॥ ४५॥
ātmanaḥ ca prajānām ca śreyase ca priyeṇa ca.prāpte kāle sa dharma-ātmā bhaktyā tvaritavān nṛpaḥ.. 45..
नानानगरवास्तव्यान् पृथग्जानपदानपि।समानिनाय मेदिन्यां प्रधानान् पृथिवीपतिः॥ ४६॥
नाना नगर-वास्तव्यान् पृथक् जानपदान् अपि।समानिनाय मेदिन्याम् प्रधानान् पृथिवीपतिः॥ ४६॥
nānā nagara-vāstavyān pṛthak jānapadān api.samānināya medinyām pradhānān pṛthivīpatiḥ.. 46..
तान् वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान्।ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः॥ ४७॥
तान् वेश्म-नाना आभरणैः यथार्हम् प्रतिपूजितान्।ददर्श अलंकृतः राजा प्रजापतिः इव प्रजाः॥ ४७॥
tān veśma-nānā ābharaṇaiḥ yathārham pratipūjitān.dadarśa alaṃkṛtaḥ rājā prajāpatiḥ iva prajāḥ.. 47..
न तु केकयराजानं जनकं वा नराधिपः।त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम्॥ ४८॥
न तु केकय-राजानम् जनकम् वा नराधिपः।त्वरया च आनयामास पश्चात् तौ श्रोष्यतः प्रियम्॥ ४८॥
na tu kekaya-rājānam janakam vā narādhipaḥ.tvarayā ca ānayāmāsa paścāt tau śroṣyataḥ priyam.. 48..
अथोपविष्टे नृपतौ तस्मिन् परपुरार्दने।ततः प्रविविशुः शेषा राजानो लोकसम्मताः॥ ४९॥
अथ उपविष्टे नृपतौ तस्मिन् पर-पुर-अर्दने।ततस् प्रविविशुः शेषाः राजानः लोक-सम्मताः॥ ४९॥
atha upaviṣṭe nṛpatau tasmin para-pura-ardane.tatas praviviśuḥ śeṣāḥ rājānaḥ loka-sammatāḥ.. 49..
अथ राजवितीर्णेषु विविधेष्वासनेषु च।राजानमेवाभिमुखा निषेदुर्नियता नृपाः॥ ५०॥
अथ राज-वितीर्णेषु विविधेषु आसनेषु च।राजानम् एव अभिमुखाः निषेदुः नियताः नृपाः॥ ५०॥
atha rāja-vitīrṇeṣu vividheṣu āsaneṣu ca.rājānam eva abhimukhāḥ niṣeduḥ niyatāḥ nṛpāḥ.. 50..
स लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः।उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः॥ ५१॥
स लब्ध-मानैः विनय-अन्वितैः नृपैः पुर-आलयैः जानपदैः च मानवैः।उपोपविष्टैः नृपतिः वृतः बभौ सहस्रचक्षुः भगवान् इव अमरैः॥ ५१॥
sa labdha-mānaiḥ vinaya-anvitaiḥ nṛpaiḥ pura-ālayaiḥ jānapadaiḥ ca mānavaiḥ.upopaviṣṭaiḥ nṛpatiḥ vṛtaḥ babhau sahasracakṣuḥ bhagavān iva amaraiḥ.. 51..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे प्रथमः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe prathamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In