This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे दशमः सर्गः ॥२-१०॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे दशमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe daśamaḥ sargaḥ ..2..
विदर्शिता यदा देवी कुब्जया पापया भृशम्।तदा शेते स्म सा भूमौ दिग्धविद्धेव किंनरी॥ १॥(4)
विदर्शिता यदा देवी कुब्जया पापया भृशम्।तदा शेते स्म सा भूमौ दिग्ध-विद्धा इव किंनरी॥ १॥(४)
vidarśitā yadā devī kubjayā pāpayā bhṛśam.tadā śete sma sā bhūmau digdha-viddhā iva kiṃnarī.. 1..(4)
निश्चित्य मनसा कृत्यं सा सम्यगिति भामिनी।मन्थरायै शनैः सर्वमाचचक्षे विचक्षणा॥ २॥
निश्चित्य मनसा कृत्यम् सा सम्यक् इति भामिनी।मन्थरायै शनैस् सर्वम् आचचक्षे विचक्षणा॥ २॥
niścitya manasā kṛtyam sā samyak iti bhāminī.mantharāyai śanais sarvam ācacakṣe vicakṣaṇā.. 2..
सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता।नागकन्येव निःश्वस्य दीर्घमुष्णं च भामिनी॥ ३॥
सा दीना निश्चयम् कृत्वा मन्थरा-वाक्य-मोहिता।नाग-कन्या इव निःश्वस्य दीर्घम् उष्णम् च भामिनी॥ ३॥
sā dīnā niścayam kṛtvā mantharā-vākya-mohitā.nāga-kanyā iva niḥśvasya dīrgham uṣṇam ca bhāminī.. 3..
मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम्।सा सुहृच्चार्थकामा च तं निशम्य विनिश्चयम्॥ ४॥
मुहूर्तम् चिन्तयामास मार्गम् आत्म-सुख-आवहम्।सा सुहृद् च अर्थ-कामा च तम् निशम्य विनिश्चयम्॥ ४॥
muhūrtam cintayāmāsa mārgam ātma-sukha-āvaham.sā suhṛd ca artha-kāmā ca tam niśamya viniścayam.. 4..
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा।अथ सा रुषिता देवी सम्यक् कृत्वा विनिश्चयम्॥ ५॥
बभूव परम-प्रीता सिद्धिम् प्राप्य इव मन्थरा।अथ सा रुषिता देवी सम्यक् कृत्वा विनिश्चयम्॥ ५॥
babhūva parama-prītā siddhim prāpya iva mantharā.atha sā ruṣitā devī samyak kṛtvā viniścayam.. 5..
संविवेशाबला भूमौ निवेश्य भ्रुकुटिं मुखे।ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च॥ ६॥
संविवेश अबला भूमौ निवेश्य भ्रुकुटिम् मुखे।ततस् चित्राणि माल्यानि दिव्यानि आभरणानि च॥ ६॥
saṃviveśa abalā bhūmau niveśya bhrukuṭim mukhe.tatas citrāṇi mālyāni divyāni ābharaṇāni ca.. 6..
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे।तया तान्य् अपविद्धानि माल्यान्य् आभरणानि च॥ ७॥
अपविद्धानि कैकेय्या तानि भूमिम् प्रपेदिरे।तया तानि अपविद्धानि माल्यानि आभरणानि च॥ ७॥
apaviddhāni kaikeyyā tāni bhūmim prapedire.tayā tāni apaviddhāni mālyāni ābharaṇāni ca.. 7..
अशोभयन्त वसुधां नक्षत्राणि यथा नभः।क्रोधागारे च पतिता सा बभौ मलिनाम्बरा॥ ८॥
अशोभयन्त वसुधाम् नक्षत्राणि यथा नभः।क्रोध-आगारे च पतिता सा बभौ मलिन-अम्बरा॥ ८॥
aśobhayanta vasudhām nakṣatrāṇi yathā nabhaḥ.krodha-āgāre ca patitā sā babhau malina-ambarā.. 8..
एकवेणीं दृढां बद्ध्वा गतसत्त्वेव किंनरी।आज्ञाप्य तु महाराजो राघवस्याभिषेचनम्॥ ९॥
एक-वेणीम् दृढाम् बद्ध्वा गत-सत्त्वा इव किंनरी।आज्ञाप्य तु महा-राजः राघवस्य अभिषेचनम्॥ ९॥
eka-veṇīm dṛḍhām baddhvā gata-sattvā iva kiṃnarī.ājñāpya tu mahā-rājaḥ rāghavasya abhiṣecanam.. 9..
उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम्।अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान्॥ १०॥
उपस्थानम् अनुज्ञाप्य प्रविवेश निवेशनम्।अद्य राम-अभिषेकः वै प्रसिद्धः इति जज्ञिवान्॥ १०॥
upasthānam anujñāpya praviveśa niveśanam.adya rāma-abhiṣekaḥ vai prasiddhaḥ iti jajñivān.. 10..
प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी।स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः॥ ११॥
प्रिय-अर्हाम् प्रियम् आख्यातुम् विवेश अन्तःपुरम् वशी।स कैकेय्याः गृहम् श्रेष्ठम् प्रविवेश महा-यशाः॥ ११॥
priya-arhām priyam ākhyātum viveśa antaḥpuram vaśī.sa kaikeyyāḥ gṛham śreṣṭham praviveśa mahā-yaśāḥ.. 11..
पाण्डुराभ्रम् इवाकाशं राहुयुक्तं निशाकरः।शुक-बर्हिसमायुक्तं क्रौञ्चहंसरुतायुतम्॥ १२॥
पाण्डुर-अभ्रम् इव आकाशम् राहु-युक्तम् निशाकरः।शुक-बर्हि-समायुक्तम् क्रौञ्च-हंस-रुता-युतम्॥ १२॥
pāṇḍura-abhram iva ākāśam rāhu-yuktam niśākaraḥ.śuka-barhi-samāyuktam krauñca-haṃsa-rutā-yutam.. 12..
वादित्ररवसङ्घुष्टं कुब्जावामनिकायुतम्।लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः॥ १३॥
वादित्र-रव-सङ्घुष्टम् कुब्जा-वामनिका-युतम्।लतागृहैः चित्रगृहैः चम्पक-अशोक-शोभितैः॥ १३॥
vāditra-rava-saṅghuṣṭam kubjā-vāmanikā-yutam.latāgṛhaiḥ citragṛhaiḥ campaka-aśoka-śobhitaiḥ.. 13..
दान्तराजतसौवर्णवेदिकाभिः समायुतम्।नित्यपुष्पफलैर्वृक्षैर्वापीभिरुपशोभितम्॥ १४॥
दान्त-राजत-सौवर्ण-वेदिकाभिः समायुतम्।नित्य-पुष्प-फलैः वृक्षैः वापीभिः उपशोभितम्॥ १४॥
dānta-rājata-sauvarṇa-vedikābhiḥ samāyutam.nitya-puṣpa-phalaiḥ vṛkṣaiḥ vāpībhiḥ upaśobhitam.. 14..
दान्तराजतसौवर्णैः संवृतं परमासनैः।विविधैरन्नपानैश्च भक्ष्यैश्च विविधैरपि॥ १५॥
दान्त-राजत-सौवर्णैः संवृतम् परम-आसनैः।विविधैः अन्न-पानैः च भक्ष्यैः च विविधैः अपि॥ १५॥
dānta-rājata-sauvarṇaiḥ saṃvṛtam parama-āsanaiḥ.vividhaiḥ anna-pānaiḥ ca bhakṣyaiḥ ca vividhaiḥ api.. 15..
उपपन्नं महार्हैश्च भूषणैस्त्रिदिवोपमम्।स प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत्॥ १६॥
उपपन्नम् महार्हैः च भूषणैः त्रिदिव-उपमम्।स प्रविश्य महा-राजः स्वम् अन्तःपुरम् ऋद्धिमत्॥ १६॥
upapannam mahārhaiḥ ca bhūṣaṇaiḥ tridiva-upamam.sa praviśya mahā-rājaḥ svam antaḥpuram ṛddhimat.. 16..
न ददर्श स्त्रियं राजा कैकेयीं शयनोत्तमे।स कामबलसंयुक्तो रत्यर्थी मनुजाधिपः॥ १७॥
न ददर्श स्त्रियम् राजा कैकेयीम् शयन-उत्तमे।स काम-बल-संयुक्तः रति-अर्थी मनुज-अधिपः॥ १७॥
na dadarśa striyam rājā kaikeyīm śayana-uttame.sa kāma-bala-saṃyuktaḥ rati-arthī manuja-adhipaḥ.. 17..
अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च।नहि तस्य पुरा देवी तां वेलामत्यवर्तत॥ १८॥
अ पश्यन् दयिताम् भार्याम् पप्रच्छ विषसाद च।नहि तस्य पुरा देवी ताम् वेलाम् अत्यवर्तत॥ १८॥
a paśyan dayitām bhāryām papraccha viṣasāda ca.nahi tasya purā devī tām velām atyavartata.. 18..
न च राजा गृहं शून्यं प्रविवेश कदाचन।ततो गृहगतो राजा कैकेयीं पर्यपृच्छत॥ १९॥
न च राजा गृहम् शून्यम् प्रविवेश कदाचन।ततस् गृह-गतः राजा कैकेयीम् पर्यपृच्छत॥ १९॥
na ca rājā gṛham śūnyam praviveśa kadācana.tatas gṛha-gataḥ rājā kaikeyīm paryapṛcchata.. 19..
यथापुरम् अविज्ञाय स्वार्थलिप्सुम् अपण्डिताम्।प्रतिहारी त्वथोवाच संत्रस्ता तु कृताञ्जलिः॥ २०॥
यथापुरम् अ विज्ञाय स्व-अर्थ-लिप्सुम् अपण्डिताम्।प्रतिहारी तु अथा उवाच संत्रस्ता तु कृताञ्जलिः॥ २०॥
yathāpuram a vijñāya sva-artha-lipsum apaṇḍitām.pratihārī tu athā uvāca saṃtrastā tu kṛtāñjaliḥ.. 20..
देव देवी भृशं क्रुद्धा क्रोधागारमभिद्रुता।प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः॥ २१॥
देव देवी भृशम् क्रुद्धा क्रोधागारम् अभिद्रुता।प्रतीहार्याः वचः श्रुत्वा राजा परम-दुर्मनाः॥ २१॥
deva devī bhṛśam kruddhā krodhāgāram abhidrutā.pratīhāryāḥ vacaḥ śrutvā rājā parama-durmanāḥ.. 21..
विषसाद पुनर्भूयो लुलितव्याकुलेन्द्रियः।तत्र तां पतितां भूमौ शयानामतथोचिताम्॥ २२॥
विषसाद पुनर् भूयस् लुलित-व्याकुल-इन्द्रियः।तत्र ताम् पतिताम् भूमौ शयानाम् अतथोचिताम्॥ २२॥
viṣasāda punar bhūyas lulita-vyākula-indriyaḥ.tatra tām patitām bhūmau śayānām atathocitām.. 22..
प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः।स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम्॥ २३॥
प्रतप्तः इव दुःखेन सः अपश्यत् जगतीपतिः।स वृद्धः तरुणीम् भार्याम् प्राणेभ्यः अपि गरीयसीम्॥ २३॥
prataptaḥ iva duḥkhena saḥ apaśyat jagatīpatiḥ.sa vṛddhaḥ taruṇīm bhāryām prāṇebhyaḥ api garīyasīm.. 23..
अपापः पापसंकल्पां ददर्श धरणीतले।लतामिव विनिष्कृत्तां पतितां देवतामिव॥ २४॥
अपापः पाप-संकल्पाम् ददर्श धरणी-तले।लताम् इव विनिष्कृत्ताम् पतिताम् देवताम् इव॥ २४॥
apāpaḥ pāpa-saṃkalpām dadarśa dharaṇī-tale.latām iva viniṣkṛttām patitām devatām iva.. 24..
किन्नरीमिव निर्धूतां च्युताम् अप्सरसं यथा।मायाम् इव परिभ्रष्टां हरिणीम् इव संयताम्॥ २५॥
किन्नरीम् इव निर्धूताम् च्युताम् अप्सरसम् यथा।मायाम् इव परिभ्रष्टाम् हरिणीम् इव संयताम्॥ २५॥
kinnarīm iva nirdhūtām cyutām apsarasam yathā.māyām iva paribhraṣṭām hariṇīm iva saṃyatām.. 25..
करेणुम् इव दिग्धेन विद्धां मृगयुना वने।महागज इवारण्ये स्नेहात् परमदुःखिताम्॥ २६॥
करेणुम् इव दिग्धेन विद्धाम् मृगयुना वने।महा-गजः इव अरण्ये स्नेहात् परम-दुःखिताम्॥ २६॥
kareṇum iva digdhena viddhām mṛgayunā vane.mahā-gajaḥ iva araṇye snehāt parama-duḥkhitām.. 26..
परिमृज्य च पाणिभ्यामभिसंत्रस्तचेतनः।कामी कमलपत्राक्षीमुवाच वनितामिदम्॥ २७॥
परिमृज्य च पाणिभ्याम् अभिसंत्रस्त-चेतनः।कामी कमल-पत्र-अक्षीम् उवाच वनिताम् इदम्॥ २७॥
parimṛjya ca pāṇibhyām abhisaṃtrasta-cetanaḥ.kāmī kamala-patra-akṣīm uvāca vanitām idam.. 27..
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्।देवि केनाभियुक्तासि केन वासि विमानिता॥ २८॥
न ते अहम् अभिजानामि क्रोधम् आत्मनि संश्रितम्।देवि केन अभियुक्ता असि केन वा असि विमानिता॥ २८॥
na te aham abhijānāmi krodham ātmani saṃśritam.devi kena abhiyuktā asi kena vā asi vimānitā.. 28..
यदिदं मम दुःखाय शेषे कल्याणि पांसुषु।भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि॥ २९॥
यत् इदम् मम दुःखाय शेषे कल्याणि पांसुषु।भूमौ शेषे किमर्थम् त्वम् मयि कल्याण-चेतसि॥ २९॥
yat idam mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu.bhūmau śeṣe kimartham tvam mayi kalyāṇa-cetasi.. 29..
भूतोपहतचित्तेव मम चित्तप्रमाथिनि।सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः॥ ३०॥
भूत-उपहत-चित्ता इव मम चित्त-प्रमाथिनि।सन्ति मे कुशलाः वैद्याः तु अभितुष्टाः च सर्वशस्॥ ३०॥
bhūta-upahata-cittā iva mama citta-pramāthini.santi me kuśalāḥ vaidyāḥ tu abhituṣṭāḥ ca sarvaśas.. 30..
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि।कस्य वापि प्रियं कार्यं केन वा विप्रियं कृतम्॥ ३१॥
सुखिताम् त्वाम् करिष्यन्ति व्याधिम् आचक्ष्व भामिनि।कस्य वा अपि प्रियम् कार्यम् केन वा विप्रियम् कृतम्॥ ३१॥
sukhitām tvām kariṣyanti vyādhim ācakṣva bhāmini.kasya vā api priyam kāryam kena vā vipriyam kṛtam.. 31..
कः प्रियं लभतामद्य को वा सुमहदप्रियम्।मा रौत्सीर्मा च कार्षीस्त्वं देवि सम्परिशोषणम्॥ ३२॥
कः प्रियम् लभताम् अद्य कः वा सु महत् अप्रियम्।मा रौत्सीः मा च कार्षीः त्वम् देवि सम्परिशोषणम्॥ ३२॥
kaḥ priyam labhatām adya kaḥ vā su mahat apriyam.mā rautsīḥ mā ca kārṣīḥ tvam devi sampariśoṣaṇam.. 32..
अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम्।दरिद्रः को भवेदाढ्यो द्रव्यवान् वाप्यकिंचनः॥ ३३॥
अवध्यः वध्यताम् कः वा वध्यः कः वा विमुच्यताम्।दरिद्रः कः भवेत् आढ्यः द्रव्यवान् वा अपि अकिंचनः॥ ३३॥
avadhyaḥ vadhyatām kaḥ vā vadhyaḥ kaḥ vā vimucyatām.daridraḥ kaḥ bhavet āḍhyaḥ dravyavān vā api akiṃcanaḥ.. 33..
अहं च हि मदीयाश्च सर्वे तव वशानुगाः।न ते कंचिदभिप्रायं व्याहन्तुमहमुत्सहे॥ ३४॥
अहम् च हि मदीयाः च सर्वे तव वश-अनुगाः।न ते कंचिद् अभिप्रायम् व्याहन्तुम् अहम् उत्सहे॥ ३४॥
aham ca hi madīyāḥ ca sarve tava vaśa-anugāḥ.na te kaṃcid abhiprāyam vyāhantum aham utsahe.. 34..
आत्मनो जीवितेनापि ब्रूहि यन्मनसि स्थितम्।बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि॥ ३५॥
आत्मनः जीवितेन अपि ब्रूहि यत् मनसि स्थितम्।बलम् आत्मनि जानन्ती न माम् शङ्कितुम् अर्हसि॥ ३५॥
ātmanaḥ jīvitena api brūhi yat manasi sthitam.balam ātmani jānantī na mām śaṅkitum arhasi.. 35..
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे।यावदावर्तते चक्रं तावती मे वसुंधरा॥ ३६॥
करिष्यामि तव प्रीतिम् सुकृतेन अपि ते शपे।यावत् आवर्तते चक्रम् तावती मे वसुंधरा॥ ३६॥
kariṣyāmi tava prītim sukṛtena api te śape.yāvat āvartate cakram tāvatī me vasuṃdharā.. 36..
द्राविडाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः।वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः॥ ३७॥
द्राविडाः सिन्धुसौवीराः सौराष्ट्राः दक्षिणापथाः।वङ्ग-अङ्ग-मगधाः मत्स्याः समृद्धाः काशि-कोसलाः॥ ३७॥
drāviḍāḥ sindhusauvīrāḥ saurāṣṭrāḥ dakṣiṇāpathāḥ.vaṅga-aṅga-magadhāḥ matsyāḥ samṛddhāḥ kāśi-kosalāḥ.. 37..
तत्र जातं बहु द्रव्यं धनधान्यमजाविकम्।ततो वृणीष्व कैकेयि यद् यत् त्वं मनसेच्छसि॥ ३८॥
तत्र जातम् बहु द्रव्यम् धन-धान्यम् अजाविकम्।ततस् वृणीष्व कैकेयि यत् यत् त्वम् मनसा इच्छसि॥ ३८॥
tatra jātam bahu dravyam dhana-dhānyam ajāvikam.tatas vṛṇīṣva kaikeyi yat yat tvam manasā icchasi.. 38..
किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने।तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम्।तत् ते व्यपनयिष्यामि नीहारमिव रश्मिवान्॥ ३९॥
किम् आयासेन ते भीरु उत्तिष्ठ उत्तिष्ठ शोभने।तत् त्वम् मे ब्रूहि कैकेयि यतस् ते भयम् आगतम्।तत् ते व्यपनयिष्यामि नीहारम् इव रश्मिवान्॥ ३९॥
kim āyāsena te bhīru uttiṣṭha uttiṣṭha śobhane.tat tvam me brūhi kaikeyi yatas te bhayam āgatam.tat te vyapanayiṣyāmi nīhāram iva raśmivān.. 39..
तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्।परिपीडयितुं भूयो भर्तारमुपचक्रमे॥ ४०॥
तथा उक्ता सा समाश्वस्ता वक्तु-कामा तत् अप्रियम्।परिपीडयितुम् भूयस् भर्तारम् उपचक्रमे॥ ४०॥
tathā uktā sā samāśvastā vaktu-kāmā tat apriyam.paripīḍayitum bhūyas bhartāram upacakrame.. 40..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दशमः सर्गः ॥२-१०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे दशमः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe daśamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In