This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे शततम: सर्गः ॥२-१००॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे शततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe śatatamaḥ sargaḥ ..2..
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ २.१००.१ ॥
जटिलम् चीर-वसनम् प्राञ्जलिम् पतितम् भुवि । ददर्श रामः दुर्दर्शम् युग-अन्ते भास्करम् यथा ॥ २।१००।१ ॥
jaṭilam cīra-vasanam prāñjalim patitam bhuvi . dadarśa rāmaḥ durdarśam yuga-ante bhāskaram yathā .. 2.100.1 ..
कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् । भ्रातरं भरतं राम: परिजग्राह बाहुना ॥ २.१००.२ ॥
कथञ्चिद् अभिविज्ञाय विवर्ण-वदनम् कृशम् । भ्रातरम् भरतम् राम परिजग्राह बाहुना ॥ २।१००।२ ॥
kathañcid abhivijñāya vivarṇa-vadanam kṛśam . bhrātaram bharatam rāma parijagrāha bāhunā .. 2.100.2 ..
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघव: । अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ २.१००.३ ॥
आघ्राय रामः तम् मूर्ध्नि परिष्वज्य च राघवः । अङ्के भरतम् आरोप्य पर्यपृच्छत् समाहितः ॥ २।१००।३ ॥
āghrāya rāmaḥ tam mūrdhni pariṣvajya ca rāghavaḥ . aṅke bharatam āropya paryapṛcchat samāhitaḥ .. 2.100.3 ..
क्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागत: । न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ २.१००.४ ॥
क्व नु ते अभूत् पिता तात यत् अरण्यम् त्वम् आगतः । न हि त्वम् जीवतः तस्य वनम् आगन्तुम् अर्हसि ॥ २।१००।४ ॥
kva nu te abhūt pitā tāta yat araṇyam tvam āgataḥ . na hi tvam jīvataḥ tasya vanam āgantum arhasi .. 2.100.4 ..
चिरस्य बत पश्यामि दूराद्भरतमागतम् । दुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागत: ॥ २.१००.५ ॥
चिरस्य बत पश्यामि दूरात् भरतम् आगतम् । दुष्प्रतीकम् अरण्ये अस्मिन् किम् तात वनम् आगत ॥ २।१००।५ ॥
cirasya bata paśyāmi dūrāt bharatam āgatam . duṣpratīkam araṇye asmin kim tāta vanam āgata .. 2.100.5 ..
कच्चिद्धारयते तात राजा यत्त्वमिहागत: । कच्चिन्न दीन: सहसा राजा लोकान्तरं गत: ॥ २.१००.६ ॥
कच्चित् धारयते तात राजा यत् त्वम् इह आगतः । कच्चित् न दीनः सहसा राजा लोक-अन्तरम् गतः ॥ २।१००।६ ॥
kaccit dhārayate tāta rājā yat tvam iha āgataḥ . kaccit na dīnaḥ sahasā rājā loka-antaram gataḥ .. 2.100.6 ..
कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ २.१००.७ ॥ कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ २.१००.८ ॥
कच्चित् सौम्य न ते राज्यम् भ्रष्टम् बालस्य शाश्वतम् ॥ २।१००।७ ॥ कच्चित् शुश्रूषसे तात पितरम् सत्य-विक्रमम् ॥ २।१००।८ ॥
kaccit saumya na te rājyam bhraṣṭam bālasya śāśvatam .. 2.100.7 .. kaccit śuśrūṣase tāta pitaram satya-vikramam .. 2.100.8 ..
कच्चिद्दशरथो राजा कुशली सत्यसङ्गर: । राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चय: ॥ २.१००.९ ॥
कच्चित् दशरथः राजा कुशली सत्य-सङ्गरः । राजसूय-अश्वमेधानाम् आहर्त्ता धर्म-निश्चयः ॥ २।१००।९ ॥
kaccit daśarathaḥ rājā kuśalī satya-saṅgaraḥ . rājasūya-aśvamedhānām āharttā dharma-niścayaḥ .. 2.100.9 ..
स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युति: । इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ २.१००.१० ॥
स कच्चित् ब्राह्मणः विद्वान् धर्म-नित्यः महा-द्युतिः । इक्ष्वाकूणाम् उपाध्यायः यथावत् तात पूज्यते ॥ २।१००।१० ॥
sa kaccit brāhmaṇaḥ vidvān dharma-nityaḥ mahā-dyutiḥ . ikṣvākūṇām upādhyāyaḥ yathāvat tāta pūjyate .. 2.100.10 ..
सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती । सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥ २.१००.११ ॥
सा तात कच्चित् कौसल्या सुमित्रा च प्रजावती । सुखिनी कच्चित् आर्य्या च देवी नन्दति कैकयी ॥ २।१००।११ ॥
sā tāta kaccit kausalyā sumitrā ca prajāvatī . sukhinī kaccit āryyā ca devī nandati kaikayī .. 2.100.11 ..
कच्चिद्विनयसम्पन्न: कुलपुत्रो बहुश्रुत: । अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहित: ॥ २.१००.१२ ॥
कच्चित् विनय-सम्पन्नः कुल-पुत्रः बहु-श्रुतः । अनसूयुः अनुद्रष्टा सत्कृतः ते पुरोहित ॥ २।१००।१२ ॥
kaccit vinaya-sampannaḥ kula-putraḥ bahu-śrutaḥ . anasūyuḥ anudraṣṭā satkṛtaḥ te purohita .. 2.100.12 ..
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजु: । हुतं च होष्यमाणं च काले वेदयते सदा ॥ २.१००.१३ ॥
कच्चित् अग्निषु ते युक्तः विधि-ज्ञः मतिमान् ऋजु । हुतम् च होष्यमाणम् च काले वेदयते सदा ॥ २।१००।१३ ॥
kaccit agniṣu te yuktaḥ vidhi-jñaḥ matimān ṛju . hutam ca hoṣyamāṇam ca kāle vedayate sadā .. 2.100.13 ..
कच्चिद्देवान् पितऽन् मातऽर्गुरून् पितृसमानपि । वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ २.१००.१४ ॥
कच्चित् देवान् मातर् गुरून् पितृ-समान् अपि । वृद्धान् च तत वैद्यान् च ब्राह्मणान् च अभिमन्यसे ॥ २।१००।१४ ॥
kaccit devān mātar gurūn pitṛ-samān api . vṛddhān ca tata vaidyān ca brāhmaṇān ca abhimanyase .. 2.100.14 ..
इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् । सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ २.१००.१५ ॥
इषु-अस्त्र-वर-सम्पन्नम् अर्थशास्त्र-विशारदम् । सुधन्वानम् उपाध्यायम् कच्चित् त्वम् तात मन्यसे ॥ २।१००।१५ ॥
iṣu-astra-vara-sampannam arthaśāstra-viśāradam . sudhanvānam upādhyāyam kaccit tvam tāta manyase .. 2.100.15 ..
कच्चिदात्मसमा: शूरा: श्रुतवन्तो जितेन्द्रिया: । कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिण: ॥ २.१००.१६ ॥
कच्चित् आत्म-समाः शूराः श्रुतवन्तः जित-इन्द्रियाः । कुलीनाः च इङ्गित-ज्ञाः च कृताः ते तात मन्त्रिणः ॥ २।१००।१६ ॥
kaccit ātma-samāḥ śūrāḥ śrutavantaḥ jita-indriyāḥ . kulīnāḥ ca iṅgita-jñāḥ ca kṛtāḥ te tāta mantriṇaḥ .. 2.100.16 ..
मन्त्रो विजयमूलं हि राज्ञां भवति राघव । सुसंवृतो मन्त्रधरैरमात्यै: शास्त्रकोविदै: ॥ २.१००.१७ ॥
मन्त्रः विजय-मूलम् हि राज्ञाम् भवति राघव । सु संवृतः मन्त्र-धरैः अमात्यैः शास्त्र-कोविदैः ॥ २।१००।१७ ॥
mantraḥ vijaya-mūlam hi rājñām bhavati rāghava . su saṃvṛtaḥ mantra-dharaiḥ amātyaiḥ śāstra-kovidaiḥ .. 2.100.17 ..
कच्चिन्निद्रावशं नैषी: कच्चित्काले प्रबुध्यसे । कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ २.१००.१८ ॥
कच्चित् निद्रा-वशम् न एषी कच्चित् काले प्रबुध्यसे । कच्चित् च अपररात्रेषु चिन्तयसि अर्थ-नैपुणम् ॥ २।१००।१८ ॥
kaccit nidrā-vaśam na eṣī kaccit kāle prabudhyase . kaccit ca apararātreṣu cintayasi artha-naipuṇam .. 2.100.18 ..
कच्चिन्मन्त्रयसे नैक: कच्चिन्न बहुभि: सह । कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ २.१००.१९ ॥
कच्चित् मन्त्रयसे न एकः कच्चित् न बहुभिः सह । कच्चित् ते मन्त्रितः मन्त्रः राष्ट्रम् न परिधावति ॥ २।१००।१९ ॥
kaccit mantrayase na ekaḥ kaccit na bahubhiḥ saha . kaccit te mantritaḥ mantraḥ rāṣṭram na paridhāvati .. 2.100.19 ..
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् । क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥ २.१००.२० ॥
कच्चित् अर्थम् विनिश्चित्य लघु-मूलम् महा-उदयम् । क्षिप्रम् आरभसे कर्त्तुम् न दीर्घयसि राघव ॥ २।१००।२० ॥
kaccit artham viniścitya laghu-mūlam mahā-udayam . kṣipram ārabhase karttum na dīrghayasi rāghava .. 2.100.20 ..
कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुन: । विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवा: ॥ २.१००.२१ ॥
कच्चित् ते सु कृतानि एव कृत-रूपाणि वा पुनर् । विदुः ते सर्व-कार्याणि न कर्त्तव्यानि पार्थिवाः ॥ २।१००।२१ ॥
kaccit te su kṛtāni eva kṛta-rūpāṇi vā punar . viduḥ te sarva-kāryāṇi na karttavyāni pārthivāḥ .. 2.100.21 ..
कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिता: । त्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ २.१००.२२ ॥
कच्चित् न तर्कैः युक्त्या वा ये च अपि अपरिकीर्तिताः । त्वया वा वा अमात्यैः बुध्यते तात मन्त्रितम् ॥ २।१००।२२ ॥
kaccit na tarkaiḥ yuktyā vā ye ca api aparikīrtitāḥ . tvayā vā vā amātyaiḥ budhyate tāta mantritam .. 2.100.22 ..
कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्नि:श्रेयसं महत् ॥ २.१००.२३ ॥
कच्चित् सहस्रात् मूर्खाणाम् एकम् इच्छसि पण्डितम् । पण्डितः हि अर्थ-कृच्छ्रेषु कुर्य्यात् निःश्रेयसम् महत् ॥ २।१००।२३ ॥
kaccit sahasrāt mūrkhāṇām ekam icchasi paṇḍitam . paṇḍitaḥ hi artha-kṛcchreṣu kuryyāt niḥśreyasam mahat .. 2.100.23 ..
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपति: । अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ २.१००.२४ ॥
सहस्राणि अपि मूर्खाणाम् यदि उपास्ते महीपतिः । अथवा अपि अयुतानि एव ना अस्ति तेषु सहाय-ता ॥ २।१००।२४ ॥
sahasrāṇi api mūrkhāṇām yadi upāste mahīpatiḥ . athavā api ayutāni eva nā asti teṣu sahāya-tā .. 2.100.24 ..
एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षण: । राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ २.१००.२५ ॥
एक-उपी अमात्यः मेधावी शूरः दक्षः विचक्षणः । राजानम् राजमात्रम् वा प्रापयेत् महतीम् श्रियम् ॥ २।१००।२५ ॥
eka-upī amātyaḥ medhāvī śūraḥ dakṣaḥ vicakṣaṇaḥ . rājānam rājamātram vā prāpayet mahatīm śriyam .. 2.100.25 ..
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमा: । जघन्यास्तु जघन्येषु भृत्या: कर्मसु योजिता: ॥ २.१००.२६ ॥
कच्चित् मुख्याः महत्सु एव मध्यमेषु च मध्यमाः । जघन्याः तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ २।१००।२६ ॥
kaccit mukhyāḥ mahatsu eva madhyameṣu ca madhyamāḥ . jaghanyāḥ tu jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ .. 2.100.26 ..
अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् । श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २.१००.२७ ॥
अमात्यान् उपधा-अतीतान् पितृपैतामहान् शुचीन् । श्रेष्ठान् श्रेष्ठेषु कच्चित् त्वम् नियोजयसि कर्मसु ॥ २।१००।२७ ॥
amātyān upadhā-atītān pitṛpaitāmahān śucīn . śreṣṭhān śreṣṭheṣu kaccit tvam niyojayasi karmasu .. 2.100.27 ..
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् । राष्ट्रं तवानुजानन्ति मन्त्रिण: कैकयीसुत ॥ २.१००.२८ ॥
कच्चित् न उग्रेण दण्डेन भृशम् उद्वेजित-प्रजम् । राष्ट्रम् तव अनुजानन्ति मन्त्रिणः कैकयी-सुत ॥ २।१००।२८ ॥
kaccit na ugreṇa daṇḍena bhṛśam udvejita-prajam . rāṣṭram tava anujānanti mantriṇaḥ kaikayī-suta .. 2.100.28 ..
कच्चित्त्वां नावजानन्ति याजका: पतितं यथा । उग्रप्रतिग्रहीतारं कामयानमिव स्त्रिय: ॥ २.१००.२९ ॥
कच्चित् त्वाम् न अवजानन्ति याजकाः पतितम् यथा । उग्र-प्रतिग्रहीतारम् कामयानम् इव स्त्रियः ॥ २।१००।२९ ॥
kaccit tvām na avajānanti yājakāḥ patitam yathā . ugra-pratigrahītāram kāmayānam iva striyaḥ .. 2.100.29 ..
उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् । शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ २.१००.३० ॥
उपाय-कुशलम् वैद्यम् भृत्य-सन्दूषणे रतम् । शूरम् ऐश्वर्य-कामम् च यः न हन्ति स वध्यते ॥ २।१००।३० ॥
upāya-kuśalam vaidyam bhṛtya-sandūṣaṇe ratam . śūram aiśvarya-kāmam ca yaḥ na hanti sa vadhyate .. 2.100.30 ..
कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचि: । कुलीनश्चानुरक्तश्च दक्ष: सेनापति: कृत: ॥ २.१००.३१ ॥
कच्चित् धृष्टः च शूरः च मतिमान् धृतिमान् शुचि । कुलीनः च अनुरक्तः च दक्षः सेनापतिः कृतः ॥ २।१००।३१ ॥
kaccit dhṛṣṭaḥ ca śūraḥ ca matimān dhṛtimān śuci . kulīnaḥ ca anuraktaḥ ca dakṣaḥ senāpatiḥ kṛtaḥ .. 2.100.31 ..
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदा: । दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिता: ॥ २.१००.३२ ॥
बलवन्तः च कच्चित् ते मुख्याः युद्ध-विशारदाः । दृष्ट-अपदानाः विक्रान्ताः त्वया सत्कृत्य मानिता ॥ २।१००।३२ ॥
balavantaḥ ca kaccit te mukhyāḥ yuddha-viśāradāḥ . dṛṣṭa-apadānāḥ vikrāntāḥ tvayā satkṛtya mānitā .. 2.100.32 ..
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् । सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ २.१००.३३ ॥
कच्चित् बलस्य भक्तम् च वेतनम् च यथोचितम् । सम्प्राप्त-कालम् दातव्यम् ददासि न विलम्बसे ॥ २।१००।३३ ॥
kaccit balasya bhaktam ca vetanam ca yathocitam . samprāpta-kālam dātavyam dadāsi na vilambase .. 2.100.33 ..
कालातिक्रमणाच्चैव भक्तवेतनयोर्भृता: । भर्त्तु: कुप्यन्ति दुष्यन्ति सो ऽनर्थ: सुमहान् स्मृत: ॥ २.१००.३४ ॥
काल-अतिक्रमणात् च एव भक्त-वेतनयोः भृताः । भर्त्तुः कुप्यन्ति दुष्यन्ति सः अनर्थः सु महान् स्मृतः ॥ २।१००।३४ ॥
kāla-atikramaṇāt ca eva bhakta-vetanayoḥ bhṛtāḥ . bharttuḥ kupyanti duṣyanti saḥ anarthaḥ su mahān smṛtaḥ .. 2.100.34 ..
कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्रा: प्रधानत: । कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिता: ॥ २.१००.३५ ॥
कच्चित् सर्वे अनुरक्ताः त्वाम् कुल-पुत्राः प्रधानतः । कच्चित् प्राणान् तव अर्थेषु सन्त्यजन्ति समाहिताः ॥ २।१००।३५ ॥
kaccit sarve anuraktāḥ tvām kula-putrāḥ pradhānataḥ . kaccit prāṇān tava artheṣu santyajanti samāhitāḥ .. 2.100.35 ..
कच्चिज्जानपदो विद्वान् दक्षिण: प्रतिभानवान् । यथोक्तवादी दूतस्ते कृतो भरत पण्डित: ॥ २.१००.३६ ॥
कच्चित् जानपदः विद्वान् दक्षिणः प्रतिभानवान् । यथा उक्त-वादी दूतः ते कृतः भरत पण्डित ॥ २।१००।३६ ॥
kaccit jānapadaḥ vidvān dakṣiṇaḥ pratibhānavān . yathā ukta-vādī dūtaḥ te kṛtaḥ bharata paṇḍita .. 2.100.36 ..
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकै: ॥ २.१००.३७ ॥
कच्चित् अष्टादश अन्येषु स्व-पक्षे दश पञ्च च । त्रिभिः त्रिभिः अविज्ञातैः वेत्सि तीर्थानि चारकैः ॥ २।१००।३७ ॥
kaccit aṣṭādaśa anyeṣu sva-pakṣe daśa pañca ca . tribhiḥ tribhiḥ avijñātaiḥ vetsi tīrthāni cārakaiḥ .. 2.100.37 ..
कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा । दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥ २.१००.३८ ॥
कच्चित् व्यपास्तान् अहितान् प्रतियातान् च सर्वदा । दुर्बलान् अन् अवज्ञाय वर्त्तसे रिपु-सूदन ॥ २।१००।३८ ॥
kaccit vyapāstān ahitān pratiyātān ca sarvadā . durbalān an avajñāya varttase ripu-sūdana .. 2.100.38 ..
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । अनर्थकुशला ह्येते बाला: पण्डितमानिन: ॥ २.१००.३९ ॥
कच्चित् न लोकायतिकान् ब्राह्मणान् तात सेवसे । अनर्थ-कुशलाः हि एते बालाः पण्डित-मानिनः ॥ २।१००।३९ ॥
kaccit na lokāyatikān brāhmaṇān tāta sevase . anartha-kuśalāḥ hi ete bālāḥ paṇḍita-māninaḥ .. 2.100.39 ..
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधा: । बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ २.१००.४० ॥
धर्म-शास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिम् आन्वीक्षिकीम् प्राप्य निरर्थम् प्रवदन्ति ते ॥ २।१००।४० ॥
dharma-śāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ . buddhim ānvīkṣikīm prāpya nirartham pravadanti te .. 2.100.40 ..
वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकै: । सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ २.१००.४१ ॥
वीरैः अध्युषिताम् पूर्वम् अस्माकम् तात पूर्वकैः । सत्य-नामाम् दृढ-द्वाराम् हस्ति-अश्व-रथ-सङ्कुलाम् ॥ २।१००।४१ ॥
vīraiḥ adhyuṣitām pūrvam asmākam tāta pūrvakaiḥ . satya-nāmām dṛḍha-dvārām hasti-aśva-ratha-saṅkulām .. 2.100.41 ..
ब्राह्मणै: क्षत्ऺित्रयैर्वैश्यै: स्वकर्मनिरतै: सदा । जितेन्द्रियैर्महोत्साहैर्वृतामार्यै: सहस्रश: ॥ २.१००.४२ ॥
ब्राह्मणैः स्व-कर्म-निरतैः सदा । जित-इन्द्रियैः महा-उत्साहैः वृताम् आर्यैः सहस्रशस् ॥ २।१००।४२ ॥
brāhmaṇaiḥ sva-karma-nirataiḥ sadā . jita-indriyaiḥ mahā-utsāhaiḥ vṛtām āryaiḥ sahasraśas .. 2.100.42 ..
प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् । कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ २.१००.४३ ॥
प्रासादैः विविध-आकारैः वृताम् वैद्य-जन-आकुलाम् । कच्चित् सु मुदिताम् स्फीताम् अयोध्याम् परिरक्षसि ॥ २।१००।४३ ॥
prāsādaiḥ vividha-ākāraiḥ vṛtām vaidya-jana-ākulām . kaccit su muditām sphītām ayodhyām parirakṣasi .. 2.100.43 ..
कच्चिच्चित्यशतैर्जुष्ट: सुनिविष्टजनाकुल: । देवस्थानै: प्रपाभिश्च तटाकैश्चोपशोभित: ॥ २.१००.४४ ॥
कच्चित् चित्य-शतैः जुष्टः सु निविष्ट-जन-आकुलः । देवस्थानैः प्रपाभिः च तटाकैः च उपशोभितः ॥ २।१००।४४ ॥
kaccit citya-śataiḥ juṣṭaḥ su niviṣṭa-jana-ākulaḥ . devasthānaiḥ prapābhiḥ ca taṭākaiḥ ca upaśobhitaḥ .. 2.100.44 ..
प्रहृष्टनरनारीक: समाजोत्सवशोभित: । सुकृष्टसीमा पशुमान् हिंसाभि: परिवर्जित: ॥ २.१००.४५ ॥
प्रहृष्ट-नर-नारीकः समाज-उत्सव-शोभितः । सु कृष्ट-सीमा पशुमान् हिंसाभिः परिवर्जितः ॥ २।१००।४५ ॥
prahṛṣṭa-nara-nārīkaḥ samāja-utsava-śobhitaḥ . su kṛṣṭa-sīmā paśumān hiṃsābhiḥ parivarjitaḥ .. 2.100.45 ..
अदेवमातृको रम्य: श्वापदै: परिवर्जित: । परित्यक्तो भयै: सर्वै: खनिभिश्चोपशोभित: ॥ २.१००.४६ ॥
अ देव-मातृकः रम्यः श्वापदैः परिवर्जितः । परित्यक्तः भयैः सर्वैः खनिभिः च उपशोभितः ॥ २।१००।४६ ॥
a deva-mātṛkaḥ ramyaḥ śvāpadaiḥ parivarjitaḥ . parityaktaḥ bhayaiḥ sarvaiḥ khanibhiḥ ca upaśobhitaḥ .. 2.100.46 ..
विवर्जितो नरै: पापैर्मम पूर्वै: सुरक्षित: । कच्चिज्जनपद: स्फीत: सुखं वसति राघव ॥ २.१००.४७ ॥
विवर्जितः नरैः पापैः मम पूर्वैः सु रक्षितः । कच्चित् जनपदः स्फीतः सुखम् वसति राघव ॥ २।१००।४७ ॥
vivarjitaḥ naraiḥ pāpaiḥ mama pūrvaiḥ su rakṣitaḥ . kaccit janapadaḥ sphītaḥ sukham vasati rāghava .. 2.100.47 ..
कच्चित्ते दयिता: सर्वे कृषिगोरक्षजीविन: । वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥ २.१००.४८ ॥
कच्चित् ते दयिताः सर्वे कृषि-गोरक्ष-जीविनः । वार्त्तायाम् संश्रितः तात लोकः हि सुखम् एधते ॥ २।१००।४८ ॥
kaccit te dayitāḥ sarve kṛṣi-gorakṣa-jīvinaḥ . vārttāyām saṃśritaḥ tāta lokaḥ hi sukham edhate .. 2.100.48 ..
तेषां गुप्तिपरीहारै: कच्चित्ते भरणं कृतम् । रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिन: ॥ २.१००.४९ ॥
तेषाम् गुप्ति-परीहारैः कच्चित् ते भरणम् कृतम् । रक्ष्याः हि राज्ञा धर्मेण सर्वे विषय-वासिनः ॥ २।१००।४९ ॥
teṣām gupti-parīhāraiḥ kaccit te bharaṇam kṛtam . rakṣyāḥ hi rājñā dharmeṇa sarve viṣaya-vāsinaḥ .. 2.100.49 ..
कच्चित् स्त्रिय: सान्त्वयसि कच्चित्ताश्च सुरक्षिता: । कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ २.१००.५० ॥
कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताः च सु रक्षिताः । कच्चित् न श्रद्दधासि आसाम् कच्चित् गुह्यम् न भाषसे ॥ २।१००।५० ॥
kaccit striyaḥ sāntvayasi kaccit tāḥ ca su rakṣitāḥ . kaccit na śraddadhāsi āsām kaccit guhyam na bhāṣase .. 2.100.50 ..
कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुका: । कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ २.१००.५१ ॥
कच्चित् नाग-वनम् गुप्तम् कच्चित् ते सन्ति धेनुकाः । कच्चित् न गणिका-अश्वानाम् कुञ्जराणाम् च तृप्यसि ॥ २।१००।५१ ॥
kaccit nāga-vanam guptam kaccit te santi dhenukāḥ . kaccit na gaṇikā-aśvānām kuñjarāṇām ca tṛpyasi .. 2.100.51 ..
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् । उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ २.१००.५२ ॥
कच्चित् दर्शयसे नित्यम् मनुष्याणाम् विभूषितम् । उत्थाय उत्थाय पूर्वाह्णे राज-पुत्र महापथे ॥ २।१००।५२ ॥
kaccit darśayase nityam manuṣyāṇām vibhūṣitam . utthāya utthāya pūrvāhṇe rāja-putra mahāpathe .. 2.100.52 ..
कच्चिन्न सर्वे कर्मान्ता: प्रत्यक्षास्ते ऽविशङ्कया । सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ २.१००.५३ ॥
कच्चित् न सर्वे कर्मान्ताः प्रत्यक्षाः ते अविशङ्कया । सर्वे वा पुनर् उत्सृष्टाः मध्यम् एव अत्र कारणम् ॥ २।१००।५३ ॥
kaccit na sarve karmāntāḥ pratyakṣāḥ te aviśaṅkayā . sarve vā punar utsṛṣṭāḥ madhyam eva atra kāraṇam .. 2.100.53 ..
कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकै: । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥ २.१००.५४ ॥
कच्चित् सर्वाणि दुर्गाणि धन-धान्य-आयुध-उदकैः । यन्त्रैः च परिपूर्णानि तथा शिल्पि-धनुर्द्धरैः ॥ २।१००।५४ ॥
kaccit sarvāṇi durgāṇi dhana-dhānya-āyudha-udakaiḥ . yantraiḥ ca paripūrṇāni tathā śilpi-dhanurddharaiḥ .. 2.100.54 ..
आयस्ते विपुल: कच्चित् कच्चिदल्पतरो व्यय: । अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ २.१००.५५ ॥
आयस्ते विपुलः कच्चित् कच्चित् अल्पतरः व्ययः । अपात्रेषु न ते कच्चित् कोशः गच्छति राघव ॥ २।१००।५५ ॥
āyaste vipulaḥ kaccit kaccit alpataraḥ vyayaḥ . apātreṣu na te kaccit kośaḥ gacchati rāghava .. 2.100.55 ..
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्यय: ॥ २.१००.५६ ॥
देवता-अर्थे च पितृ-अर्थे ब्राह्मण-अभ्यागतेषु च । योधेषु मित्र-वर्गेषु कच्चित् गच्छति ते व्ययः ॥ २।१००।५६ ॥
devatā-arthe ca pitṛ-arthe brāhmaṇa-abhyāgateṣu ca . yodheṣu mitra-vargeṣu kaccit gacchati te vyayaḥ .. 2.100.56 ..
कच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा । अपृष्ट: शास्त्रकुशलैर्न लोभाद्वध्यते शुचि: ॥ २.१००.५७ ॥
कच्चित् आर्य्यः विशुद्ध-आत्मा ऽ क्षारितः चोर-कर्मणा । अ पृष्टः शास्त्र-कुशलैः न लोभात् वध्यते शुचिः ॥ २।१००।५७ ॥
kaccit āryyaḥ viśuddha-ātmā ' kṣāritaḥ cora-karmaṇā . a pṛṣṭaḥ śāstra-kuśalaiḥ na lobhāt vadhyate śuciḥ .. 2.100.57 ..
गृहीतश्चैव पृष्टश्च काले दृष्ट: सकारण: । कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ २.१००.५८ ॥
गृहीतः च एव पृष्टः च काले दृष्टः स कारणः । कच्चित् न मुच्यते चोरः धन-लोभात् नर-ऋषभ ॥ २।१००।५८ ॥
gṛhītaḥ ca eva pṛṣṭaḥ ca kāle dṛṣṭaḥ sa kāraṇaḥ . kaccit na mucyate coraḥ dhana-lobhāt nara-ṛṣabha .. 2.100.58 ..
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव । अर्थं विरागा: पश्यन्ति तवामात्या बहुश्रुता: ॥ २.१००.५९ ॥
व्यसने कच्चित् आढ्यस्य दुर्गतस्य च राघव । अर्थम् विरागाः पश्यन्ति तव अमात्याः बहु-श्रुताः ॥ २।१००।५९ ॥
vyasane kaccit āḍhyasya durgatasya ca rāghava . artham virāgāḥ paśyanti tava amātyāḥ bahu-śrutāḥ .. 2.100.59 ..
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव । तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासत: ॥ २.१००.६० ॥
यानि मिथ्या अभिशस्तानाम् पतन्ति अस्राणि राघव । तानि पुत्र-पशून् घ्नन्ति प्रीति-अर्थम् अनुशासत ॥ २।१००।६० ॥
yāni mithyā abhiśastānām patanti asrāṇi rāghava . tāni putra-paśūn ghnanti prīti-artham anuśāsata .. 2.100.60 ..
कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव । दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ २.१००.६१ ॥
कच्चित् वृद्धान् च बालान् च वैद्य-मुख्यान् च राघव । दानेन मनसा वाचा त्रिभिः एतैः बुभूषसे ॥ २।१००।६१ ॥
kaccit vṛddhān ca bālān ca vaidya-mukhyān ca rāghava . dānena manasā vācā tribhiḥ etaiḥ bubhūṣase .. 2.100.61 ..
कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् । चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ २.१००.६२ ॥
कच्चित् गुरून् च वृद्धान् च तापसान् देवता-अतिथीन् । चैत्यान् च सर्वान् सिद्धार्थान् ब्राह्मणान् च नमस्यसि ॥ २।१००।६२ ॥
kaccit gurūn ca vṛddhān ca tāpasān devatā-atithīn . caityān ca sarvān siddhārthān brāhmaṇān ca namasyasi .. 2.100.62 ..
कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुन: । उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ २.१००.६३ ॥
कच्चित् अर्थेन वा धर्मम् अर्थम् धर्मेण वा पुनर् । उभौ वा प्रीति-लोभेन कामेन च न बाधसे ॥ २।१००।६३ ॥
kaccit arthena vā dharmam artham dharmeṇa vā punar . ubhau vā prīti-lobhena kāmena ca na bādhase .. 2.100.63 ..
कच्चिदर्थं च धर्मं च कामं च जयतां वर । विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ २.१००.६४ ॥
कच्चित् अर्थम् च धर्मम् च कामम् च जयताम् वर । विभज्य काले काल-ज्ञ सर्वान् वर-द सेवसे ॥ २।१००।६४ ॥
kaccit artham ca dharmam ca kāmam ca jayatām vara . vibhajya kāle kāla-jña sarvān vara-da sevase .. 2.100.64 ..
कच्चित्ते ब्राह्मणा: शर्म सर्वशास्त्रार्थकोविदा: । आशंसन्ते महाप्राज्ञ पौरजानपदै: सह ॥ २.१००.६५ ॥
कच्चित् ते ब्राह्मणाः शर्म सर्व-शास्त्र-अर्थ-कोविदाः । आशंसन्ते महा-प्राज्ञ पौर-जानपदैः सह ॥ २।१००।६५ ॥
kaccit te brāhmaṇāḥ śarma sarva-śāstra-artha-kovidāḥ . āśaṃsante mahā-prājña paura-jānapadaiḥ saha .. 2.100.65 ..
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ २.१००.६६ ॥
नास्तिक्यम् अनृतम् क्रोधम् प्रमादम् दीर्घसूत्र-ताम् । अदर्शनम् ज्ञानवताम् आलस्यम् पञ्च-वृत्ति-ताम् ॥ २।१००।६६ ॥
nāstikyam anṛtam krodham pramādam dīrghasūtra-tām . adarśanam jñānavatām ālasyam pañca-vṛtti-tām .. 2.100.66 ..
एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ २.१००.६७ ॥
एक-चिन्तनम् अर्थानाम् अनर्थ-ज्ञैः च मन्त्रणम् । निश्चितानाम् अनारम्भम् मन्त्रस्य अपरिरक्षणम् ॥ २।१००।६७ ॥
eka-cintanam arthānām anartha-jñaiḥ ca mantraṇam . niścitānām anārambham mantrasya aparirakṣaṇam .. 2.100.67 ..
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वत: । कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ २.१००.६८ ॥
मङ्गलस्य अ प्रयोगम् च प्रत्युत्थानम् च सर्वतस् । कच्चित् त्वम् वर्जयसि एतान् राज-दोषान् चतुर्दश ॥ २।१००।६८ ॥
maṅgalasya a prayogam ca pratyutthānam ca sarvatas . kaccit tvam varjayasi etān rāja-doṣān caturdaśa .. 2.100.68 ..
दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वत: । अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ २.१००.६९ ॥
दश पञ्च चतुर्वर्गान् सप्तवर्गम् च तत्त्वतः । अष्टवर्गम् त्रिवर्गम् च विद्याः तिस्रः च राघव ॥ २।१००।६९ ॥
daśa pañca caturvargān saptavargam ca tattvataḥ . aṣṭavargam trivargam ca vidyāḥ tisraḥ ca rāghava .. 2.100.69 ..
इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् । कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ २.१००.७० ॥
इन्द्रियाणाम् जयम् बुद्ध्वा षाङ्गुण्यम् दैव-मानुषम् । कृत्यम् विंशति-वर्गम् च तथा प्रकृति-मण्डलम् ॥ २।१००।७० ॥
indriyāṇām jayam buddhvā ṣāṅguṇyam daiva-mānuṣam . kṛtyam viṃśati-vargam ca tathā prakṛti-maṇḍalam .. 2.100.70 ..
यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ । कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ २.१००.७१ ॥
यात्रा-दण्ड-विधानञ्च च द्वि-योनी सन्धि-विग्रहौ । कच्चित् एतान् महा-प्राज्ञ यथावत् अनुमन्यसे ॥ २।१००।७१ ॥
yātrā-daṇḍa-vidhānañca ca dvi-yonī sandhi-vigrahau . kaccit etān mahā-prājña yathāvat anumanyase .. 2.100.71 ..
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा । कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथ: ॥ २.१००.७२ ॥
मन्त्रिभिः त्वम् यथा उद्दिष्टैः चतुर्भिः त्रिभिः एव वा । कच्चित् समस्तैः व्यस्तैः च मन्त्र मन्त्रयसे मिथस् ॥ २।१००।७२ ॥
mantribhiḥ tvam yathā uddiṣṭaiḥ caturbhiḥ tribhiḥ eva vā . kaccit samastaiḥ vyastaiḥ ca mantra mantrayase mithas .. 2.100.72 ..
कच्चित्ते सफला वेदा: कच्चित्ते सफला: क्रिया: । कच्चित्ते सफला दारा: कच्चित्ते सफलं श्रुतम् ॥ २.१००.७३ ॥
कच्चित् ते सफलाः वेदाः कच्चित् ते सफला क्रियाः । कच्चित् ते सफलाः दाराः कच्चित् ते सफलम् श्रुतम् ॥ २।१००।७३ ॥
kaccit te saphalāḥ vedāḥ kaccit te saphalā kriyāḥ . kaccit te saphalāḥ dārāḥ kaccit te saphalam śrutam .. 2.100.73 ..
कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ २.१००.७४ ॥
कच्चित् एषा एव ते बुद्धिः यथा उक्ता मम राघव । आयुष्या च यशस्या च धर्म-काम-अर्थ-संहिता ॥ २।१००।७४ ॥
kaccit eṣā eva te buddhiḥ yathā uktā mama rāghava . āyuṣyā ca yaśasyā ca dharma-kāma-artha-saṃhitā .. 2.100.74 ..
यां वृत्तिं वर्त्तते तातो यां च न: प्रपितामहा: । तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ २.१००.७५ ॥
याम् वृत्तिम् वर्त्तते तातः याम् च नः प्रपितामहाः । ताम् वृत्तिम् वर्त्तसे कच्चित् या च सत्-पथगा शुभा ॥ २।१००।७५ ॥
yām vṛttim varttate tātaḥ yām ca naḥ prapitāmahāḥ . tām vṛttim varttase kaccit yā ca sat-pathagā śubhā .. 2.100.75 ..
कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव । कच्चिदाशंसमानेभ्यो मित्रेभ्य: सम्प्रयच्छसि ॥ २.१००.७६ ॥
कच्चित् स्वादु कृतम् भोज्यम् एकः ना अश्नासि राघव । कच्चित् आशंसमानेभ्यः मित्रेभ्यः सम्प्रयच्छसि ॥ २।१००।७६ ॥
kaccit svādu kṛtam bhojyam ekaḥ nā aśnāsi rāghava . kaccit āśaṃsamānebhyaḥ mitrebhyaḥ samprayacchasi .. 2.100.76 ..
राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधर: प्रजानाम् । अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत: स्वर्गमुपैति विद्वान् ॥ २.१००.७७ ॥
राजा तु धर्मेण हि पालयित्वा महामतिः दण्ड-धरः प्रजानाम् । अवाप्य कृत्स्नाम् वसुधाम् यथावत् इतस् च्युतः स्वर्गम् उपैति विद्वान् ॥ २।१००।७७ ॥
rājā tu dharmeṇa hi pālayitvā mahāmatiḥ daṇḍa-dharaḥ prajānām . avāpya kṛtsnām vasudhām yathāvat itas cyutaḥ svargam upaiti vidvān .. 2.100.77 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे शततम: सर्ग: ॥ १०० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे शततमः सर्गः ॥ १०० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe śatatamaḥ sargaḥ .. 100 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In