This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकशततम सर्गः ॥२-१०१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकशततम सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekaśatatama sargaḥ ..2..
रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह । किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ॥ २.१०१.१ ॥
रामस्य वचनम् श्रुत्वा भरतः प्रत्युवाच ह । किम् मे धर्मात् विहीनस्य राज-धर्मः करिष्यति ॥ २।१०१।१ ॥
rāmasya vacanam śrutvā bharataḥ pratyuvāca ha . kim me dharmāt vihīnasya rāja-dharmaḥ kariṣyati .. 2.101.1 ..
शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ । ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥ २.१०१.२ ॥
शाश्वतः अयम् सदा धर्म्मः स्थितः अस्मासु नर-ऋषभ । ज्येष्ठ-पुत्रे स्थिते राजन् न कनीयान् नृपः भवेत् ॥ २।१०१।२ ॥
śāśvataḥ ayam sadā dharmmaḥ sthitaḥ asmāsu nara-ṛṣabha . jyeṣṭha-putre sthite rājan na kanīyān nṛpaḥ bhavet .. 2.101.2 ..
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय न: ॥ २.१०१.३ ॥
स समृद्धाम् मया सार्द्धम् अयोध्याम् गच्छ राघव । अभिषेचय च आत्मानम् कुलस्य अस्य भवाय नः ॥ २।१०१।३ ॥
sa samṛddhām mayā sārddham ayodhyām gaccha rāghava . abhiṣecaya ca ātmānam kulasya asya bhavāya naḥ .. 2.101.3 ..
राजानं मानुषं प्राहुर्देवत्वे स मतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ २.१०१.४ ॥
राजानम् मानुषम् प्राहुः देव-त्वे स मतः मम । यस्य धर्म-अर्थ-सहितम् वृत्तम् आहुः अमानुषम् ॥ २।१०१।४ ॥
rājānam mānuṣam prāhuḥ deva-tve sa mataḥ mama . yasya dharma-artha-sahitam vṛttam āhuḥ amānuṣam .. 2.101.4 ..
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते । दिवमार्यो गतो राजा यायजूक: सतां मत: ॥ २.१०१.५ ॥
केकय-स्थे च मयि तु त्वयि च अरण्यम् आश्रिते । दिवम् आर्यः गतः राजा यायजूकः सताम् मतः ॥ २।१०१।५ ॥
kekaya-sthe ca mayi tu tvayi ca araṇyam āśrite . divam āryaḥ gataḥ rājā yāyajūkaḥ satām mataḥ .. 2.101.5 ..
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ २.१०१.६ ॥
निष्क्रान्त-मात्रे भवति सहसीते स लक्ष्मणे । दु:ख-शोक-अभिभूतः तु राजा त्रिदिवम् अभ्यगात् ॥ २।१०१।६ ॥
niṣkrānta-mātre bhavati sahasīte sa lakṣmaṇe . du:kha-śoka-abhibhūtaḥ tu rājā tridivam abhyagāt .. 2.101.6 ..
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: । ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ॥ २.१०१.७ ॥
उत्तिष्ठ पुरुष-व्याघ्र क्रियताम् उदकम् पितु । अहम् च अयम् च शत्रुघ्न पूर्वम् एव कृत-उदकौ ॥ २।१०१।७ ॥
uttiṣṭha puruṣa-vyāghra kriyatām udakam pitu . aham ca ayam ca śatrughna pūrvam eva kṛta-udakau .. 2.101.7 ..
प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ॥ २.१०१.८ ॥
प्रियेण खलु दत्तम् हि पितृ-लोकेषु राघव । अक्षय्यम् भवति इति आहुः भवान् च एव पितुः प्रियः ॥ २।१०१।८ ॥
priyeṇa khalu dattam hi pitṛ-lokeṣu rāghava . akṣayyam bhavati iti āhuḥ bhavān ca eva pituḥ priyaḥ .. 2.101.8 ..
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ॥ २.१०१.९ ॥
त्वाम् एव शोचन् तव दर्शन-ईप्सुः त्वयि एव सक्ताम् अ निवर्त्य बुद्धिम् । त्वया विहीनः तव शोक-रुग्णः त्वाम् संस्मरन् अस्तमित पिता ते ॥ २।१०१।९ ॥
tvām eva śocan tava darśana-īpsuḥ tvayi eva saktām a nivartya buddhim . tvayā vihīnaḥ tava śoka-rugṇaḥ tvām saṃsmaran astamita pitā te .. 2.101.9 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग: ॥ १०१ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे एक-उत्तर-शततमः सर्गः ॥ १०१ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe eka-uttara-śatatamaḥ sargaḥ .. 101 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In