This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वाशततम: सर्गः ॥२-१०२॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे द्वाशततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe dvāśatatamaḥ sargaḥ ..2..
तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् । राघवो भरतेनोक्तां बभूव गतचेतन: ॥ २.१०२.१ ॥
ताम् श्रुत्वा करुणाम् वाचम् पितुः मरण-संहिताम् । राघवः भरतेन उक्ताम् बभूव गत-चेतनः ॥ २।१०२।१ ॥
tām śrutvā karuṇām vācam pituḥ maraṇa-saṃhitām . rāghavaḥ bharatena uktām babhūva gata-cetanaḥ .. 2.102.1 ..
तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा । वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ॥ २.१०२.२ ॥
तम् तु वज्रम् इव उत्सृष्टम् आहवे दानव-अरिणा । वाच्-वज्रम् भरतेन उक्तम् अमनोज्ञम् परन्तप ॥ २।१०२।२ ॥
tam tu vajram iva utsṛṣṭam āhave dānava-ariṇā . vāc-vajram bharatena uktam amanojñam parantapa .. 2.102.2 ..
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: । वने परशुना कृत्तस्तथा भुवि पपात ह ॥ २.१०२.३ ॥
प्रगृह्य बाहू रामः वै पुष्पित-अग्रः यथा द्रुमः । वने परशुना कृत्तः तथा भुवि पपात ह ॥ २।१०२।३ ॥
pragṛhya bāhū rāmaḥ vai puṣpita-agraḥ yathā drumaḥ . vane paraśunā kṛttaḥ tathā bhuvi papāta ha .. 2.102.3 ..
तथा निपतितं रामं जगत्यां जगतीपतिम् । कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ २.१०२.४ ॥
तथा निपतितम् रामम् जगत्याम् जगतीपतिम् । कूल-घात-परिश्रान्तम् प्रसुप्तम् इव कुञ्जरम् ॥ २।१०२।४ ॥
tathā nipatitam rāmam jagatyām jagatīpatim . kūla-ghāta-pariśrāntam prasuptam iva kuñjaram .. 2.102.4 ..
भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् । रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ॥ २.१०२.५ ॥
भ्रातरः ते महा-इष्वासम् सर्वतस् शोक-कर्शितम् । रुदन्त सह वैदेह्या सिषिचुः सलिलेन वै ॥ २।१०२।५ ॥
bhrātaraḥ te mahā-iṣvāsam sarvatas śoka-karśitam . rudanta saha vaidehyā siṣicuḥ salilena vai .. 2.102.5 ..
स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् । उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ॥ २.१०२.६ ॥
स तु संज्ञाम् पुनर् लब्ध्वा नेत्राभ्याम् आस्रम् उत्सृजन् । उपाक्रामत काकुत्स्थ कृपणम् बहु भाषितुम् ॥ २।१०२।६ ॥
sa tu saṃjñām punar labdhvā netrābhyām āsram utsṛjan . upākrāmata kākutstha kṛpaṇam bahu bhāṣitum .. 2.102.6 ..
स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् । उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ २.१०२.७ ॥
स रामः स्वर्गतम् श्रुत्वा पितरम् पृथिवीपतिम् । उवाच भरतम् वाक्यम् धर्म-आत्मा धर्म-संहितम् ॥ २।१०२।७ ॥
sa rāmaḥ svargatam śrutvā pitaram pṛthivīpatim . uvāca bharatam vākyam dharma-ātmā dharma-saṃhitam .. 2.102.7 ..
किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते । कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ॥ २.१०२.८ ॥
किम् करिष्यामि अयोध्यायाम् ताते दिष्टाम् गतिम् गते । कः ताम् राज-वरात् हीनाम् अयोध्याम् पालयिष्यति ॥ २।१०२।८ ॥
kim kariṣyāmi ayodhyāyām tāte diṣṭām gatim gate . kaḥ tām rāja-varāt hīnām ayodhyām pālayiṣyati .. 2.102.8 ..
किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: । यो मृतो मम शोकेन मया चापि न संस्कृत: ॥ २.१०२.९ ॥
किम् नु तस्य मया कार्य्यम् दुर्जातेन महात्मनः । यः मृतः मम शोकेन मया च अपि न संस्कृतः ॥ २।१०२।९ ॥
kim nu tasya mayā kāryyam durjātena mahātmanaḥ . yaḥ mṛtaḥ mama śokena mayā ca api na saṃskṛtaḥ .. 2.102.9 ..
अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ । शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ॥ २.१०२.१० ॥
अहो भरत सिद्धार्थः येन राजा त्वया अनघ । शत्रुघ्नेन च सर्वेषु प्रेत-कृत्येषु सत्कृतः ॥ २।१०२।१० ॥
aho bharata siddhārthaḥ yena rājā tvayā anagha . śatrughnena ca sarveṣu preta-kṛtyeṣu satkṛtaḥ .. 2.102.10 ..
निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् । निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ॥ २.१०२.११ ॥
निष्प्रधानाम् अनेकाग्राम् नरेन्द्रेण विना कृताम् । निवृत्त-वन-वासः अपि ना अयोध्याम् गन्तुम् उत्सहे ॥ २।१०२।११ ॥
niṣpradhānām anekāgrām narendreṇa vinā kṛtām . nivṛtta-vana-vāsaḥ api nā ayodhyām gantum utsahe .. 2.102.11 ..
समाप्तवनवासं मामयोध्यायां परन्तप । को नु शासिष्यति पुनस्ताते लोकान्तरं गते ॥ २.१०२.१२ ॥
समाप्त-वन-वासम् माम् अयोध्यायाम् परन्तप । कः नु शासिष्यति पुनर् ताते लोक-अन्तरम् गते ॥ २।१०२।१२ ॥
samāpta-vana-vāsam mām ayodhyāyām parantapa . kaḥ nu śāsiṣyati punar tāte loka-antaram gate .. 2.102.12 ..
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् । वाक्यानि तानि श्रोष्यामि कुत: कर्णसुखान्यहम् ॥ २.१०२.१३ ॥
पुरा प्रेक्ष्य सु वृत्तम् माम् पिता यानि आह सान्त्वयन् । वाक्यानि तानि श्रोष्यामि कुतस् कर्ण-सुखानि अहम् ॥ २।१०२।१३ ॥
purā prekṣya su vṛttam mām pitā yāni āha sāntvayan . vākyāni tāni śroṣyāmi kutas karṇa-sukhāni aham .. 2.102.13 ..
एवमुक्त्वा स भरतं भार्यामभ्येत्य राघव: । उवाच शोकसन्तप्त: पूर्णचन्द्रनिभाननाम् ॥ २.१०२.१४ ॥
एवम् उक्त्वा स भरतम् भार्याम् अभ्येत्य राघवः । उवाच शोक-सन्तप्तः पूर्ण-चन्द्र-निभ-आननाम् ॥ २।१०२।१४ ॥
evam uktvā sa bharatam bhāryām abhyetya rāghavaḥ . uvāca śoka-santaptaḥ pūrṇa-candra-nibha-ānanām .. 2.102.14 ..
सीते मृतस्ते श्वशुर: पित्रा हीनो ऽसि लक्ष्मण । भरतो दु:खमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ २.१०२.१५ ॥
सीते मृतः ते श्वशुरः पित्रा हीनः असि लक्ष्मण । भरतः दुःखम् आचष्टे स्वर्गतम् पृथिवीपतिम् ॥ २।१०२।१५ ॥
sīte mṛtaḥ te śvaśuraḥ pitrā hīnaḥ asi lakṣmaṇa . bharataḥ duḥkham ācaṣṭe svargatam pṛthivīpatim .. 2.102.15 ..
ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत । तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ २.१०२.१६ ॥
ततस् बहुगुणम् तेषाम् बाष्पम् नेत्रेषु अजायत । तथा ब्रुवति काकुत्स्थे कुमाराणाम् यशस्विनाम् ॥ २।१०२।१६ ॥
tatas bahuguṇam teṣām bāṣpam netreṣu ajāyata . tathā bruvati kākutsthe kumārāṇām yaśasvinām .. 2.102.16 ..
ततस्ते भ्रातर: सर्वे भृशमाश्वास्य राघवम् । अब्रुवन् जगतीभर्त्तु: क्रियतामुदकं पितु: ॥ २.१०२.१७ ॥
ततस् ते भ्रातरः सर्वे भृशम् आश्वास्य राघवम् । अब्रुवन् जगती-भर्त्तुः क्रियताम् उदकम् पितुः ॥ २।१०२।१७ ॥
tatas te bhrātaraḥ sarve bhṛśam āśvāsya rāghavam . abruvan jagatī-bharttuḥ kriyatām udakam pituḥ .. 2.102.17 ..
सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् । नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥ २.१०२.१८ ॥
सा सीता श्वशुरम् श्रुत्वा स्वर्ग-लोक-गतम् नृपम् । नेत्राभ्याम् अश्रु-पूर्णाभ्याम् अशकन् एक्षितुम् पतिम् ॥ २।१०२।१८ ॥
sā sītā śvaśuram śrutvā svarga-loka-gatam nṛpam . netrābhyām aśru-pūrṇābhyām aśakan ekṣitum patim .. 2.102.18 ..
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् । उवाच लक्ष्मणं तत्र दु:खितो दु:खितं वच: ॥ २.१०२.१९ ॥
सान्त्वयित्वा तु ताम् रामः रुदन्तीम् जनकात्मजाम् । उवाच लक्ष्मणम् तत्र दु:खितः दु:खितम् वचः ॥ २।१०२।१९ ॥
sāntvayitvā tu tām rāmaḥ rudantīm janakātmajām . uvāca lakṣmaṇam tatra du:khitaḥ du:khitam vacaḥ .. 2.102.19 ..
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् । जलक्रियार्थं तातस्य गमिष्यामि महात्मन: ॥ २.१०२.२० ॥
आनय इङ्गुदि-पिण्याकम् चीरम् आहर च उत्तरम् । जलक्रिया-अर्थम् तातस्य गमिष्यामि महात्मनः ॥ २।१०२।२० ॥
ānaya iṅgudi-piṇyākam cīram āhara ca uttaram . jalakriyā-artham tātasya gamiṣyāmi mahātmanaḥ .. 2.102.20 ..
सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज । अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ २.१०२.२१ ॥
सीता पुरस्तात् व्रजतु त्वम् एनाम् अभितस् व्रज । अहम् पश्चात् गमिष्यामि गतिः हि एषा सु दारुणा ॥ २।१०२।२१ ॥
sītā purastāt vrajatu tvam enām abhitas vraja . aham paścāt gamiṣyāmi gatiḥ hi eṣā su dāruṇā .. 2.102.21 ..
ततो नित्यानुगस्तेषां विदितात्मा महामति: । मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥ २.१०२.२२ ॥
ततस् नित्य-अनुगः तेषाम् विदित-आत्मा महामति । मृदुः दान्तः च शान्तः च रामे च दृढ-भक्तिमान् ॥ २।१०२।२२ ॥
tatas nitya-anugaḥ teṣām vidita-ātmā mahāmati . mṛduḥ dāntaḥ ca śāntaḥ ca rāme ca dṛḍha-bhaktimān .. 2.102.22 ..
सुमन्त्रस्तैर्नृपसुतै: सार्द्धमाश्वास्य राघवम् । अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ २.१०२.२३ ॥
सुमन्त्रः तैः नृप-सुतैः सार्द्धम् आश्वास्य राघवम् । अवातारयत् आलम्ब्य नदीम् मन्दाकिनीम् शिवाम् ॥ २।१०२।२३ ॥
sumantraḥ taiḥ nṛpa-sutaiḥ sārddham āśvāsya rāghavam . avātārayat ālambya nadīm mandākinīm śivām .. 2.102.23 ..
ते सुतीर्थां तत: कृच्छ्रादुपागम्य यशस्विन: । नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ २.१०२.२४ ॥
ते सु तीर्थाम् ततस् कृच्छ्रात् उपागम्य यशस्विनः । नदीम् मन्दाकिनीम् रम्याम् सदा पुष्पित-काननाम् ॥ २।१०२।२४ ॥
te su tīrthām tatas kṛcchrāt upāgamya yaśasvinaḥ . nadīm mandākinīm ramyām sadā puṣpita-kānanām .. 2.102.24 ..
शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् । सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥ २.१०२.२५ ॥
शीघ्र-स्रोतसम् आसाद्य तीर्थम् शिवम् अकर्द्दमम् । सिषिचुः तु उदकम् राज्ञे तत्र एतत् ते भवतु इति ॥ २।१०२।२५ ॥
śīghra-srotasam āsādya tīrtham śivam akarddamam . siṣicuḥ tu udakam rājñe tatra etat te bhavatu iti .. 2.102.25 ..
प्रगृह्य च महीपालो जलपूरितमञ्जलिम् । दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥ २.१०२.२६ ॥
प्रगृह्य च महीपालः जल-पूरितम् अञ्जलिम् । दिशम् याम्याम् अभिमुखः रुदन् वचनम् अब्रवीत् ॥ २।१०२।२६ ॥
pragṛhya ca mahīpālaḥ jala-pūritam añjalim . diśam yāmyām abhimukhaḥ rudan vacanam abravīt .. 2.102.26 ..
एतत्ते राजशार्दूल विमलं तोयमक्षयम् । पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ २.१०२.२७ ॥
एतत् ते राज-शार्दूल विमलम् तोयम् अक्षयम् । पितृ-लोक-गतस्य अद्य मद्-दत्तम् उपतिष्ठतु ॥ २।१०२।२७ ॥
etat te rāja-śārdūla vimalam toyam akṣayam . pitṛ-loka-gatasya adya mad-dattam upatiṣṭhatu .. 2.102.27 ..
ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघव: । पितुश्चकार तेजस्वी निवापं भ्रातृभि: सह ॥ २.१०२.२८ ॥
ततस् मन्दाकिनी-तीरात् प्रत्युत्तीर्य्य स राघवः । पितुः चकार तेजस्वी निवापम् भ्रातृभिः सह ॥ २।१०२।२८ ॥
tatas mandākinī-tīrāt pratyuttīryya sa rāghavaḥ . pituḥ cakāra tejasvī nivāpam bhrātṛbhiḥ saha .. 2.102.28 ..
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे । न्यस्य राम: सुदु:खार्त्तो रुदन् वचनमब्रवीत् ॥ २.१०२.२९ ॥
ऐङ्गुदम् बदरी-मिश्रम् पिण्याकम् दर्भ-संस्तरे । न्यस्य रामः सु दु:ख-आर्त्तः रुदन् वचनम् अब्रवीत् ॥ २।१०२।२९ ॥
aiṅgudam badarī-miśram piṇyākam darbha-saṃstare . nyasya rāmaḥ su du:kha-ārttaḥ rudan vacanam abravīt .. 2.102.29 ..
इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् । यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ॥ २.१०२.३० ॥
इदम् भुङ्क्ष्व महा-राज प्रीतः यद्-अशनाः वयम् । यद्-अन्नः पुरुषः भवति तद्-अन्नाः तस्य देवताः ॥ २।१०२।३० ॥
idam bhuṅkṣva mahā-rāja prītaḥ yad-aśanāḥ vayam . yad-annaḥ puruṣaḥ bhavati tad-annāḥ tasya devatāḥ .. 2.102.30 ..
ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् । आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ २.१०२.३१ ॥
ततस् तेन एव मार्गेण प्रत्युत्तीर्य नदी-तटात् । आरुरोह नर-व्याघ्रः रम्य-सानुम् महीधरम् ॥ २।१०२।३१ ॥
tatas tena eva mārgeṇa pratyuttīrya nadī-taṭāt . āruroha nara-vyāghraḥ ramya-sānum mahīdharam .. 2.102.31 ..
तत: पर्णकुटीद्वारमासाद्य जगतीपति: । परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ २.१०२.३२ ॥
ततस् पर्ण-कुटी-द्वारम् आसाद्य जगतीपतिः । परिजग्राह बाहुभ्याम् उभौ भरत-लक्ष्मणौ ॥ २।१०२।३२ ॥
tatas parṇa-kuṭī-dvāram āsādya jagatīpatiḥ . parijagrāha bāhubhyām ubhau bharata-lakṣmaṇau .. 2.102.32 ..
तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ । भ्रातऽणां सह वैदेह्या: सिंहानामिव नर्दताम् ॥ २.१०२.३३ ॥
तेषाम् तु रुदताम् शब्दात् प्रतिश्रुत्कः अभवत् गिरौ । सह वैदेह्याः सिंहानाम् इव नर्दताम् ॥ २।१०२।३३ ॥
teṣām tu rudatām śabdāt pratiśrutkaḥ abhavat girau . saha vaidehyāḥ siṃhānām iva nardatām .. 2.102.33 ..
महाबलानां रुदतां कुर्वतामुदकं पितु: । विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिका: ॥ २.१०२.३४ ॥
महा-बलानाम् रुदताम् कुर्वताम् उदकम् पितु । विज्ञाय तुमुलम् शब्दम् त्रस्ताः भरत-सैनिकाः ॥ २।१०२।३४ ॥
mahā-balānām rudatām kurvatām udakam pitu . vijñāya tumulam śabdam trastāḥ bharata-sainikāḥ .. 2.102.34 ..
अब्रुवंश्चापि रामेण भरत: सङ्गतो ध्रुवम् । तेषामेव महाञ्छब्द: शोचतां पितरं मृतम् ॥ २.१०२.३५ ॥
अब्रुवन् च अपि रामेण भरत सङ्गतः ध्रुवम् । तेषाम् एव महान् शब्दः शोचताम् पितरम् मृतम् ॥ २।१०२।३५ ॥
abruvan ca api rāmeṇa bharata saṅgataḥ dhruvam . teṣām eva mahān śabdaḥ śocatām pitaram mṛtam .. 2.102.35 ..
अथ वासान् परित्यज्य तं सर्वे ऽभिमुखा: स्वनम् । अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता: ॥ २.१०२.३६ ॥
अथ वासान् परित्यज्य तम् सर्वे अभिमुखाः स्वनम् । अपि एकमनसः जग्मुः यथास्थानम् प्रधाविताः ॥ २।१०२।३६ ॥
atha vāsān parityajya tam sarve abhimukhāḥ svanam . api ekamanasaḥ jagmuḥ yathāsthānam pradhāvitāḥ .. 2.102.36 ..
हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतै: । सुकुमारास्तथैवान्ये पद्भिरेव नरा ययु: ॥ २.१०२.३७ ॥
हयैः अन्ये गजैः अन्ये रथैः अन्ये सु अलङ्कृतैः । सुकुमाराः तथा एव अन्ये पद्भिः एव नराः ययुः ॥ २।१०२।३७ ॥
hayaiḥ anye gajaiḥ anye rathaiḥ anye su alaṅkṛtaiḥ . sukumārāḥ tathā eva anye padbhiḥ eva narāḥ yayuḥ .. 2.102.37 ..
अचिरप्रोषितं रामं चिरविप्रोषितं यथा । द्रष्टुकामो जन: सर्वो जगाम सहसाश्रमम् ॥ २.१०२.३८ ॥
अचिर-प्रोषितम् रामम् चिर-विप्रोषितम् यथा । द्रष्टु-कामः जनः सर्वः जगाम सहसा आश्रमम् ॥ २।१०२।३८ ॥
acira-proṣitam rāmam cira-viproṣitam yathā . draṣṭu-kāmaḥ janaḥ sarvaḥ jagāma sahasā āśramam .. 2.102.38 ..
भ्रातऽणां त्वरितास्तत्र द्रष्टुकामा: समागमम् । ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलै: ॥ २.१०२.३९ ॥
त्वरिताः तत्र द्रष्टु-कामाः समागमम् । ययुः बहुविधैः यानैः खुर-नेमि-स्वन-आकुलैः ॥ २।१०२।३९ ॥
tvaritāḥ tatra draṣṭu-kāmāḥ samāgamam . yayuḥ bahuvidhaiḥ yānaiḥ khura-nemi-svana-ākulaiḥ .. 2.102.39 ..
सा भूमिर्बहुभिर्यानै: खुरनेमिसमाहता । मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ २.१०२.४० ॥
सा भूमिः बहुभिः यानैः खुर-नेमि-समाहता । मुमोच तुमुलम् शब्दम् द्यौः इव अभ्र-समागमे ॥ २।१०२।४० ॥
sā bhūmiḥ bahubhiḥ yānaiḥ khura-nemi-samāhatā . mumoca tumulam śabdam dyauḥ iva abhra-samāgame .. 2.102.40 ..
तेन वित्रासिता नागा: करेणुपरिवारिता: । आवासयन्तो गन्धेन जग्मुरन्यद्वनं तत: ॥ २.१०२.४१ ॥
तेन वित्रासिताः नागाः करेणु-परिवारिताः । आवासयन्तः गन्धेन जग्मुः अन्यत् वनम् ततस् ॥ २।१०२।४१ ॥
tena vitrāsitāḥ nāgāḥ kareṇu-parivāritāḥ . āvāsayantaḥ gandhena jagmuḥ anyat vanam tatas .. 2.102.41 ..
वराहवृकसङ्घाश्च महिषा: सर्प्पवानरा: । व्याघ्रगोकर्णगवया: वित्रेसु: पृषतैः सह ॥ २.१०२.४२ ॥
वराह-वृक-सङ्घाः च महिषाः सर्प्प-वानराः । व्याघ्र-गोकर्ण-गवयाः पृषतैः सह ॥ २।१०२।४२ ॥
varāha-vṛka-saṅghāḥ ca mahiṣāḥ sarppa-vānarāḥ . vyāghra-gokarṇa-gavayāḥ pṛṣataiḥ saha .. 2.102.42 ..
रथाङ्गसाह्वा नत्यूहा: हंसा: कारण्डवा: प्लवा: । तथा पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिश: ॥ २.१०२.४३ ॥
रथाङ्ग-साह्वाः नत्यूहाः हंसाः कारण्डवाः प्लवाः । तथा पुंस्कोकिलाः क्रौञ्चाः विसंज्ञाः भेजिरे दिशः ॥ २।१०२।४३ ॥
rathāṅga-sāhvāḥ natyūhāḥ haṃsāḥ kāraṇḍavāḥ plavāḥ . tathā puṃskokilāḥ krauñcāḥ visaṃjñāḥ bhejire diśaḥ .. 2.102.43 ..
तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् । मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ २.१०२.४४ ॥
तेन शब्देन वित्रस्तैः आकाशम् पक्षिभिः वृतम् । मनुष्यैः आवृता भूमिः उभयम् प्रबभौ तदा ॥ २।१०२।४४ ॥
tena śabdena vitrastaiḥ ākāśam pakṣibhiḥ vṛtam . manuṣyaiḥ āvṛtā bhūmiḥ ubhayam prababhau tadā .. 2.102.44 ..
ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् । आसीनं स्थण्डिले रामं ददर्श सहसा जन: ॥ २.१०२.४५ ॥
ततस् तम् पुरुष-व्याघ्रम् यशस्विनम् अरिन्दमम् । आसीनम् स्थण्डिले रामम् ददर्श सहसा जनः ॥ २।१०२।४५ ॥
tatas tam puruṣa-vyāghram yaśasvinam arindamam . āsīnam sthaṇḍile rāmam dadarśa sahasā janaḥ .. 2.102.45 ..
विगर्हमाण: कैकेयीं सहितो मन्थरामपि । अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ॥ २.१०२.४६ ॥
विगर्हमाणः कैकेयीम् सहितः मन्थराम् अपि । अभिगम्य जनः रामम् बाष्प-पूर्ण-मुखः अभवत् ॥ २।१०२।४६ ॥
vigarhamāṇaḥ kaikeyīm sahitaḥ mantharām api . abhigamya janaḥ rāmam bāṣpa-pūrṇa-mukhaḥ abhavat .. 2.102.46 ..
तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदु:खितान् । पर्य्यष्वजत धर्मज्ञ: पितृवन्मातृवच्च स: ॥ २.१०२.४७ ॥
तान् नरान् बाष्प-पूर्ण-अक्षान् समीक्ष्य अथ सु दु:खितान् । पर्यष्वजत धर्म-ज्ञः पितृ-वत् मातृ-वत् च सः ॥ २।१०२।४७ ॥
tān narān bāṣpa-pūrṇa-akṣān samīkṣya atha su du:khitān . paryaṣvajata dharma-jñaḥ pitṛ-vat mātṛ-vat ca saḥ .. 2.102.47 ..
स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् । चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मज: ॥ २.१०२.४८ ॥
स तत्र कांचिद् परिषस्वजे नरान् नराः च केचिद् तु तम् अभ्यवादयन् । चकार सर्वान् स वयस्य बान्धवान् यथार्हम् आसाद्य तदा नृप-आत्मजः ॥ २।१०२।४८ ॥
sa tatra kāṃcid pariṣasvaje narān narāḥ ca kecid tu tam abhyavādayan . cakāra sarvān sa vayasya bāndhavān yathārham āsādya tadā nṛpa-ātmajaḥ .. 2.102.48 ..
स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: । गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ॥ २.१०२.४९ ॥
स तत्र तेषाम् रुदताम् महात्मनाम् भुवम् च खम् च अनुनिनादयन् स्वनः । गुहाः गिरीणाम् च दिशः च सन्ततम् मृदङ्ग-घोष-प्रतिमः प्रशुश्रुवे ॥ २।१०२।४९ ॥
sa tatra teṣām rudatām mahātmanām bhuvam ca kham ca anuninādayan svanaḥ . guhāḥ girīṇām ca diśaḥ ca santatam mṛdaṅga-ghoṣa-pratimaḥ praśuśruve .. 2.102.49 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्युत्तरशततम:सर्ग: ॥ १०२ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे द्व्युत्तरशततमः सर्गः ॥ १०२ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe dvyuttaraśatatamaḥ sargaḥ .. 102 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In