This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वाशततम: सर्गः ॥२-१०२॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe dvāśatatama: sargaḥ ..2-102..
तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् । राघवो भरतेनोक्तां बभूव गतचेतन: ॥ २.१०२.१ ॥
tāṃ śrutvā karuṇāṃ vācaṃ piturmaraṇasaṃhitām . rāghavo bharatenoktāṃ babhūva gatacetana: .. 2.102.1 ..
तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा । वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ॥ २.१०२.२ ॥
taṃ tu vajramivotsṛṣṭamāhave dānavāriṇā . vāgvajraṃ bharatenoktamamanojñaṃ parantapa: .. 2.102.2 ..
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: । वने परशुना कृत्तस्तथा भुवि पपात ह ॥ २.१०२.३ ॥
pragṛhya bāhū rāmo vai puṣpitāgro yathā druma: . vane paraśunā kṛttastathā bhuvi papāta ha .. 2.102.3 ..
तथा निपतितं रामं जगत्यां जगतीपतिम् । कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ २.१०२.४ ॥
tathā nipatitaṃ rāmaṃ jagatyāṃ jagatīpatim . kūlaghātapariśrāntaṃ prasuptamiva kuñjaram .. 2.102.4 ..
भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् । रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ॥ २.१०२.५ ॥
bhrātaraste maheṣvāsaṃ sarvata: śokakarśitam . rudanta: saha vaidehyā siṣicu: salilena vai .. 2.102.5 ..
स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् । उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ॥ २.१०२.६ ॥
sa tu saṃjñāṃ punarlabdhvā netrābhyāmāsramutsṛjan . upākrāmata kākutstha: kṛpaṇaṃ bahu bhāṣitum .. 2.102.6 ..
स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् । उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ २.१०२.७ ॥
sa rāma: svargataṃ śrutvā pitaraṃ pṛthivīpatim . uvāca bharataṃ vākyaṃ dharmātmā dharmasaṃhitam .. 2.102.7 ..
किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते । कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ॥ २.१०२.८ ॥
kiṃ kariṣyāmyayodhyāyāṃ tāte diṣṭāṃ gatiṃ gate . kastāṃ rājavarāddhīnāmayodhyāṃ pālayiṣyati .. 2.102.8 ..
किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: । यो मृतो मम शोकेन मया चापि न संस्कृत: ॥ २.१०२.९ ॥
kiṃ nu tasya mayā kāryyaṃ durjātena mahātmana: . yo mṛto mama śokena mayā cāpi na saṃskṛta: .. 2.102.9 ..
अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ । शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ॥ २.१०२.१० ॥
aho bharata siddhārtho yena rājā tvayā 'nagha . śatrughnena ca sarveṣu pretakṛtyeṣu satkṛta: .. 2.102.10 ..
निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् । निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ॥ २.१०२.११ ॥
niṣpradhānāmanekāgrāṃ narendreṇa vinā kṛtām . nivṛttavanavāsopi nāyodhyāṃ gantumutsahe .. 2.102.11 ..
समाप्तवनवासं मामयोध्यायां परन्तप । को नु शासिष्यति पुनस्ताते लोकान्तरं गते ॥ २.१०२.१२ ॥
samāptavanavāsaṃ māmayodhyāyāṃ parantapa . ko nu śāsiṣyati punastāte lokāntaraṃ gate .. 2.102.12 ..
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् । वाक्यानि तानि श्रोष्यामि कुत: कर्णसुखान्यहम् ॥ २.१०२.१३ ॥
purā prekṣya suvṛttaṃ māṃ pitā yānyāha sāntvayan . vākyāni tāni śroṣyāmi kuta: karṇasukhānyaham .. 2.102.13 ..
एवमुक्त्वा स भरतं भार्यामभ्येत्य राघव: । उवाच शोकसन्तप्त: पूर्णचन्द्रनिभाननाम् ॥ २.१०२.१४ ॥
evamuktvā sa bharataṃ bhāryāmabhyetya rāghava: . uvāca śokasantapta: pūrṇacandranibhānanām .. 2.102.14 ..
सीते मृतस्ते श्वशुर: पित्रा हीनो ऽसि लक्ष्मण । भरतो दु:खमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ २.१०२.१५ ॥
sīte mṛtaste śvaśura: pitrā hīno 'si lakṣmaṇa . bharato du:khamācaṣṭe svargataṃ pṛthivīpatim .. 2.102.15 ..
ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत । तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ २.१०२.१६ ॥
tato bahuguṇaṃ teṣāṃ bāṣpaṃ netreṣvajāyata . tathā bruvati kākutsthe kumārāṇāṃ yaśasvinām .. 2.102.16 ..
ततस्ते भ्रातर: सर्वे भृशमाश्वास्य राघवम् । अब्रुवन् जगतीभर्त्तु: क्रियतामुदकं पितु: ॥ २.१०२.१७ ॥
tataste bhrātara: sarve bhṛśamāśvāsya rāghavam . abruvan jagatībharttu: kriyatāmudakaṃ pitu: .. 2.102.17 ..
सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् । नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥ २.१०२.१८ ॥
sā sītā śvaśuraṃ śrutvā svargalokagataṃ nṛpam . netrābhyāmaśrupūrṇābhyāmaśakannekṣituṃ patim .. 2.102.18 ..
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् । उवाच लक्ष्मणं तत्र दु:खितो दु:खितं वच: ॥ २.१०२.१९ ॥
sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām . uvāca lakṣmaṇaṃ tatra du:khito du:khitaṃ vaca: .. 2.102.19 ..
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् । जलक्रियार्थं तातस्य गमिष्यामि महात्मन: ॥ २.१०२.२० ॥
ānayeṅgudipiṇyākaṃ cīramāhara cottaram . jalakriyārthaṃ tātasya gamiṣyāmi mahātmana: .. 2.102.20 ..
सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज । अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ २.१०२.२१ ॥
sītā purastādvrajatutvamenāmabhito vraja . ahaṃ paścādgamiṣyāmi gatirhyeṣā sudāruṇā .. 2.102.21 ..
ततो नित्यानुगस्तेषां विदितात्मा महामति: । मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥ २.१०२.२२ ॥
tato nityānugasteṣāṃ viditātmā mahāmati: . mṛdurdāntaśca śāntaśca rāme ca dṛḍhabhaktimān .. 2.102.22 ..
सुमन्त्रस्तैर्नृपसुतै: सार्द्धमाश्वास्य राघवम् । अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ २.१०२.२३ ॥
sumantrastairnṛpasutai: sārddhamāśvāsya rāghavam . avātārayadālambya nadīṃ mandākinīṃ śivām .. 2.102.23 ..
ते सुतीर्थां तत: कृच्छ्रादुपागम्य यशस्विन: । नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ २.१०२.२४ ॥
te sutīrthāṃ tata: kṛcchrādupāgamya yaśasvina: . nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām .. 2.102.24 ..
शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् । सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥ २.१०२.२५ ॥
śīghrasrotasamāsādya tīrthaṃ śivamakarddamam . siṣicustūdakaṃ rājñe tatraitatte bhavatviti .. 2.102.25 ..
प्रगृह्य च महीपालो जलपूरितमञ्जलिम् । दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥ २.१०२.२६ ॥
pragṛhya ca mahīpālo jalapūritamañjalim . diśaṃ yāmyāmabhimukho rudan vacanamabravīt .. 2.102.26 ..
एतत्ते राजशार्दूल विमलं तोयमक्षयम् । पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ २.१०२.२७ ॥
etatte rājaśārdūla vimalaṃ toyamakṣayam . pitṛlokagatasyādya maddattamupatiṣṭhatu .. 2.102.27 ..
ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघव: । पितुश्चकार तेजस्वी निवापं भ्रातृभि: सह ॥ २.१०२.२८ ॥
tato mandākinītīrāt pratyuttīryya sa rāghava: . pituścakāra tejasvī nivāpaṃ bhrātṛbhi: saha .. 2.102.28 ..
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे । न्यस्य राम: सुदु:खार्त्तो रुदन् वचनमब्रवीत् ॥ २.१०२.२९ ॥
aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare . nyasya rāma: sudu:khārtto rudan vacanamabravīt .. 2.102.29 ..
इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् । यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ॥ २.१०२.३० ॥
idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam . yadanna: puruṣo bhavati tadannāstasya devatā: .. 2.102.30 ..
ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् । आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ २.१०२.३१ ॥
tatastenaiva mārgeṇa pratyuttīryya nadītaṭāt . āruroha naravyāghro ramyasānuṃ mahīdharam .. 2.102.31 ..
तत: पर्णकुटीद्वारमासाद्य जगतीपति: । परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ २.१०२.३२ ॥
tata: parṇakuṭīdvāramāsādya jagatīpati: . parijagrāha bāhubhyāmubhau bharatalakṣmaṇau .. 2.102.32 ..
तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ । भ्रातऽणां सह वैदेह्या: सिंहानामिव नर्दताम् ॥ २.१०२.३३ ॥
teṣāṃ tu rudatāṃ śabdāt pratiśrutko 'bhavadgirau . bhrāta'ṇāṃ saha vaidehyā: siṃhānāmiva nardatām .. 2.102.33 ..
महाबलानां रुदतां कुर्वतामुदकं पितु: । विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिका: ॥ २.१०२.३४ ॥
mahābalānāṃ rudatāṃ kurvatāmudakaṃ pitu: . vijñāya tumulaṃ śabdaṃ trastā bharatasainikā: .. 2.102.34 ..
अब्रुवंश्चापि रामेण भरत: सङ्गतो ध्रुवम् । तेषामेव महाञ्छब्द: शोचतां पितरं मृतम् ॥ २.१०२.३५ ॥
abruvaṃścāpi rāmeṇa bharata: saṅgato dhruvam . teṣāmeva mahāñchabda: śocatāṃ pitaraṃ mṛtam .. 2.102.35 ..
अथ वासान् परित्यज्य तं सर्वे ऽभिमुखा: स्वनम् । अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता: ॥ २.१०२.३६ ॥
atha vāsān parityajya taṃ sarve 'bhimukhā: svanam . apyekamanaso jagmuryathāsthānaṃ pradhāvitā: .. 2.102.36 ..
हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतै: । सुकुमारास्तथैवान्ये पद्भिरेव नरा ययु: ॥ २.१०२.३७ ॥
hayairanye gajairanye rathairanye svalaṅkṛtai: . sukumārāstathaivānye padbhireva narā yayu: .. 2.102.37 ..
अचिरप्रोषितं रामं चिरविप्रोषितं यथा । द्रष्टुकामो जन: सर्वो जगाम सहसाश्रमम् ॥ २.१०२.३८ ॥
aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā . draṣṭukāmo jana: sarvo jagāma sahasāśramam .. 2.102.38 ..
भ्रातऽणां त्वरितास्तत्र द्रष्टुकामा: समागमम् । ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलै: ॥ २.१०२.३९ ॥
bhrāta'ṇāṃ tvaritāstatra draṣṭukāmā: samāgamam . yayurbahuvidhairyānai: khuranemisvanākulai: .. 2.102.39 ..
सा भूमिर्बहुभिर्यानै: खुरनेमिसमाहता । मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ २.१०२.४० ॥
sā bhūmirbahubhiryānai: khuranemisamāhatā . mumoca tumulaṃ śabdaṃ dyaurivābhrasamāgame .. 2.102.40 ..
तेन वित्रासिता नागा: करेणुपरिवारिता: । आवासयन्तो गन्धेन जग्मुरन्यद्वनं तत: ॥ २.१०२.४१ ॥
tena vitrāsitā nāgā: kareṇuparivāritā: . āvāsayanto gandhena jagmuranyadvanaṃ tata: .. 2.102.41 ..
वराहवृकसङ्घाश्च महिषा: सर्प्पवानरा: । व्याघ्रगोकर्णगवया: वित्रेसु: पृषतैः सह ॥ २.१०२.४२ ॥
varāhavṛkasaṅghāśca mahiṣā: sarppavānarā: . vyāghragokarṇagavayā: vitresu: pṛṣataiḥ saha .. 2.102.42 ..
रथाङ्गसाह्वा नत्यूहा: हंसा: कारण्डवा: प्लवा: । तथा पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिश: ॥ २.१०२.४३ ॥
rathāṅgasāhvā natyūhā: haṃsā: kāraṇḍavā: plavā: . tathā puṃskokilā: krauñcā visaṃjñā bhejire diśa: .. 2.102.43 ..
तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् । मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ २.१०२.४४ ॥
tena śabdena vitrastairākāśaṃ pakṣibhirvṛtam . manuṣyairāvṛtā bhūmirubhayaṃ prababhau tadā .. 2.102.44 ..
ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् । आसीनं स्थण्डिले रामं ददर्श सहसा जन: ॥ २.१०२.४५ ॥
tatastaṃ puruṣavyāghraṃ yaśasvinamarindamam . āsīnaṃ sthaṇḍile rāmaṃ dadarśa sahasā jana: .. 2.102.45 ..
विगर्हमाण: कैकेयीं सहितो मन्थरामपि । अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ॥ २.१०२.४६ ॥
vigarhamāṇa: kaikeyīṃ sahito mantharāmapi . abhigamya jano rāmaṃ bāṣpapūrṇamukho 'bhavat .. 2.102.46 ..
तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदु:खितान् । पर्य्यष्वजत धर्मज्ञ: पितृवन्मातृवच्च स: ॥ २.१०२.४७ ॥
tānnarān bāṣpapūrṇākṣān samīkṣyātha sudu:khitān . paryyaṣvajata dharmajña: pitṛvanmātṛvacca sa: .. 2.102.47 ..
स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् । चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मज: ॥ २.१०२.४८ ॥
sa tatra kāṃccit pariṣasvaje narānnarāśca kecittu tamabhyavādayan . cakāra sarvān savayasya bāndhavān yathārhamāsādya tadā nṛpātmaja: .. 2.102.48 ..
स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: । गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ॥ २.१०२.४९ ॥
sa tatra teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuninādayan svana: . guhā girīṇāṃ ca diśaśca santataṃ mṛdaṅgaghoṣapratima: praśuśruve .. 2.102.49 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्युत्तरशततम:सर्ग: ॥ १०२ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe dvyuttaraśatatama:sarga: .. 102 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In