This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्र्युत्तरशततम:: सर्गः ॥२-१०३॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे त्र्युत्तरशततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe tryuttaraśatatamaḥ sargaḥ ..2..
वसिष्ठ: पुरत: कृत्वा दारान् दशरथस्य च । अभिचक्राम तं देशं रामदर्शनतर्षित: ॥ २.१०३.१ ॥
वसिष्ठः पुरतस् कृत्वा दारान् दशरथस्य च । अभिचक्राम तम् देशम् राम-दर्शन-तर्षितः ॥ २।१०३।१ ॥
vasiṣṭhaḥ puratas kṛtvā dārān daśarathasya ca . abhicakrāma tam deśam rāma-darśana-tarṣitaḥ .. 2.103.1 ..
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति । ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ २.१०३.२ ॥
राज-पत्न्यः च गच्छन्त्यः मन्दम् मन्दाकिनीम् प्रति । ददृशुः तत्र तत् तीर्थम् राम-लक्ष्मण-सेवितम् ॥ २।१०३।२ ॥
rāja-patnyaḥ ca gacchantyaḥ mandam mandākinīm prati . dadṛśuḥ tatra tat tīrtham rāma-lakṣmaṇa-sevitam .. 2.103.2 ..
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता । सुमित्रामब्रवीद्दीना याश्ऺचान्या राजयोषित: ॥ २.१०३.३ ॥
कौसल्या बाष्प-पूर्णेन मुखेन परिशुष्यता । सुमित्राम् अब्रवीत् दीनाः याः च अन्याः राज-योषितः ॥ २।१०३।३ ॥
kausalyā bāṣpa-pūrṇena mukhena pariśuṣyatā . sumitrām abravīt dīnāḥ yāḥ ca anyāḥ rāja-yoṣitaḥ .. 2.103.3 ..
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् । वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृता: ॥ २.१०३.४ ॥
इदम् तेषाम् अनाथानाम् क्लिष्टम् अक्लिष्ट-कर्मणाम् । वने प्राक् केवलम् तीर्थम् ये ते निर्विषयीकृताः ॥ २।१०३।४ ॥
idam teṣām anāthānām kliṣṭam akliṣṭa-karmaṇām . vane prāk kevalam tīrtham ye te nirviṣayīkṛtāḥ .. 2.103.4 ..
इत: सुमित्रे पुत्रस्ते सदा जलमतन्द्रित: । स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ २.१०३.५ ॥
इतस् सुमित्रे पुत्रः ते सदा जलम् अतन्द्रितः । स्वयम् हरति सौमित्रिः मम पुत्रस्य कारणात् ॥ २।१०३।५ ॥
itas sumitre putraḥ te sadā jalam atandritaḥ . svayam harati saumitriḥ mama putrasya kāraṇāt .. 2.103.5 ..
जघन्यमपि ते पुत्र: कृतवान्न तु गर्हित: । भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणै: ॥ २.१०३.६ ॥
जघन्यम् अपि ते पुत्र कृतवान् न तु गर्हितः । भ्रातुः यत् अर्थ-सहितम् सर्वम् तत् विहितम् गुणैः ॥ २।१०३।६ ॥
jaghanyam api te putra kṛtavān na tu garhitaḥ . bhrātuḥ yat artha-sahitam sarvam tat vihitam guṇaiḥ .. 2.103.6 ..
अद्यायमपि ते पुत्र: क्लेशानामतथोचित: । नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥ २.१०३.७ ॥
अद्य अयम् अपि ते पुत्र क्लेशानाम् अ तथा उचितः । नीच-अनर्थ-समाचारम् सज्जम् कर्म प्रमुञ्चतु ॥ २।१०३।७ ॥
adya ayam api te putra kleśānām a tathā ucitaḥ . nīca-anartha-samācāram sajjam karma pramuñcatu .. 2.103.7 ..
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले । पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ २.१०३.८ ॥
दक्षिण-अग्रेषु दर्भेषु सा ददर्श मही-तले । पितुः इङ्गुदि-पिण्याकम् न्यस्तम् आयत-लोचना ॥ २।१०३।८ ॥
dakṣiṇa-agreṣu darbheṣu sā dadarśa mahī-tale . pituḥ iṅgudi-piṇyākam nyastam āyata-locanā .. 2.103.8 ..
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा । उवाच देवी कौसल्या सर्वा दशरथस्त्रिय: ॥ २.१०३.९ ॥
तम् भूमौ पितुः आर्तेन न्यस्तम् रामेण वीक्ष्य सा । उवाच देवी कौसल्या सर्वाः दशरथ-स्त्रियः ॥ २।१०३।९ ॥
tam bhūmau pituḥ ārtena nyastam rāmeṇa vīkṣya sā . uvāca devī kausalyā sarvāḥ daśaratha-striyaḥ .. 2.103.9 ..
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मन: । राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ २.१०३.१० ॥
इदम् इक्ष्वाकु-नाथस्य राघवस्य महात्मनः । राघवेण पितुः दत्तम् पश्यत एतत् यथाविधि ॥ २।१०३।१० ॥
idam ikṣvāku-nāthasya rāghavasya mahātmanaḥ . rāghaveṇa pituḥ dattam paśyata etat yathāvidhi .. 2.103.10 ..
तस्य देवसमानस्य पार्थिवस्य महात्मन: । नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ २.१०३.११ ॥
तस्य देव-समानस्य पार्थिवस्य महात्मनः । न एतत् औपयिकम् मन्ये भुक्त-भोगस्य भोजनम् ॥ २।१०३।११ ॥
tasya deva-samānasya pārthivasya mahātmanaḥ . na etat aupayikam manye bhukta-bhogasya bhojanam .. 2.103.11 ..
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभु: । कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिप: ॥ २.१०३.१२ ॥
चतुर्-अन्ताम् महीम् भुक्त्वा महा-इन्द्र-सदृशः विभुः । कथम् इङ्गुदि-पिण्याकम् स भुङ्क्ते वसुधाधिप ॥ २।१०३।१२ ॥
catur-antām mahīm bhuktvā mahā-indra-sadṛśaḥ vibhuḥ . katham iṅgudi-piṇyākam sa bhuṅkte vasudhādhipa .. 2.103.12 ..
अतो दु:खतरं लोके न किञ्चित् प्रतिभाति मा । यत्र राम: पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ २.१०३.१३ ॥
अतस् दुःखतरम् लोके न किञ्चिद् प्रतिभाति मा । यत्र रामः पितुः दद्यात् इङ्गुदी-क्षोदम् ऋद्धिमान् ॥ २।१०३।१३ ॥
atas duḥkhataram loke na kiñcid pratibhāti mā . yatra rāmaḥ pituḥ dadyāt iṅgudī-kṣodam ṛddhimān .. 2.103.13 ..
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे । कथं दु:खेन हृदयं न स्फोटति सहस्रधा ॥ २.१०३.१४ ॥
रामेण इङ्गुदि-पिण्याकम् पितुः दत्तम् समीक्ष्य मे । कथम् दु:खेन हृदयम् न स्फोटति सहस्रधा ॥ २।१०३।१४ ॥
rāmeṇa iṅgudi-piṇyākam pituḥ dattam samīkṣya me . katham du:khena hṛdayam na sphoṭati sahasradhā .. 2.103.14 ..
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा । यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ॥ २.१०३.१५ ॥
श्रुतिः तु खलु इयम् सत्या लौकिकी प्रतिभाति मा । यद्-अन्नः पुरुषः भवति तद्-अन्नाः तस्य देवताः ॥ २।१०३।१५ ॥
śrutiḥ tu khalu iyam satyā laukikī pratibhāti mā . yad-annaḥ puruṣaḥ bhavati tad-annāḥ tasya devatāḥ .. 2.103.15 ..
एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा । ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ २.१०३.१६ ॥
एवम् आर्त्ताम् सपत्न्यः ताः जग्मुः आश्वास्य ताम् तदा । ददृशुः च आश्रमे रामम् स्वर्ग-च्युतम् इव अमरम् ॥ २।१०३।१६ ॥
evam ārttām sapatnyaḥ tāḥ jagmuḥ āśvāsya tām tadā . dadṛśuḥ ca āśrame rāmam svarga-cyutam iva amaram .. 2.103.16 ..
सर्वभोगै: परित्यक्तं रामं सम्प्रेक्ष्य मातर: । आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिता: ॥ २.१०३.१७ ॥
सर्व-भोगैः परित्यक्तम् रामम् सम्प्रेक्ष्य मातरः । आर्त्ताः मुमुचुः अश्रूणि स स्वरम् शोक-कर्शिताः ॥ २।१०३।१७ ॥
sarva-bhogaiḥ parityaktam rāmam samprekṣya mātaraḥ . ārttāḥ mumucuḥ aśrūṇi sa svaram śoka-karśitāḥ .. 2.103.17 ..
तासां राम: समुत्थाय जग्राह चरणान् शुभान् । मातऽणां मनुजव्याघ्र: सर्वासां सत्यसङ्गर: ॥ २.१०३.१८ ॥
तासाम् रामः समुत्थाय जग्राह चरणान् शुभान् । मात अणाम् मनुज-व्याघ्र सर्वासाम् सत्य-सङ्गरः ॥ २।१०३।१८ ॥
tāsām rāmaḥ samutthāya jagrāha caraṇān śubhān . māta aṇām manuja-vyāghra sarvāsām satya-saṅgaraḥ .. 2.103.18 ..
ता: पाणिभि: सुखस्पर्शैर्मृद्वङ्गुलितलै: शुभै: । प्रममार्जू रज: पृष्ठाद्रामस्यायतलोचना: ॥ २.१०३.१९ ॥
ताः पाणिभिः सुख-स्पर्शैः मृदु-अङ्गुलि-तलैः शुभैः । प्रममार्जुः रजः पृष्ठात् रामस्य आयत-लोचनाः ॥ २।१०३।१९ ॥
tāḥ pāṇibhiḥ sukha-sparśaiḥ mṛdu-aṅguli-talaiḥ śubhaiḥ . pramamārjuḥ rajaḥ pṛṣṭhāt rāmasya āyata-locanāḥ .. 2.103.19 ..
सौमित्रिरपि ता: सर्वा: मातऽ: सम्प्रेक्ष्य दु:खित: । अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ २.१०३.२० ॥
सौमित्रिः अपि ताः सर्वाः मातर् सम्प्रेक्ष्य दुःखितः । अभ्यवादयत आसक्तम् शनैस् रामात् अनन्तरम् ॥ २।१०३।२० ॥
saumitriḥ api tāḥ sarvāḥ mātar samprekṣya duḥkhitaḥ . abhyavādayata āsaktam śanais rāmāt anantaram .. 2.103.20 ..
यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रिय: । वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ २.१०३.२१ ॥
यथा रामे तथा तस्मिन् सर्वाः ववृतिरे स्त्रियः । वृत्तिम् दशरथात् जाते लक्ष्मणे शुभ-लक्षणे ॥ २।१०३।२१ ॥
yathā rāme tathā tasmin sarvāḥ vavṛtire striyaḥ . vṛttim daśarathāt jāte lakṣmaṇe śubha-lakṣaṇe .. 2.103.21 ..
सीतापि चरणांस्तासामुपसंगृह्य दु:खिता । श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रत: स्थिता ॥ २.१०३.२२ ॥
सीता अपि चरणान् तासाम् उपसंगृह्य दु:खिता । श्वश्रूणाम् अश्रु-पूर्ण-अक्षी सा बभूव अग्रतस् स्थिता ॥ २।१०३।२२ ॥
sītā api caraṇān tāsām upasaṃgṛhya du:khitā . śvaśrūṇām aśru-pūrṇa-akṣī sā babhūva agratas sthitā .. 2.103.22 ..
तां परिष्वज्य दु:खार्त्तां माता दुहितरं यथा । वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २.१०३.२३ ॥
ताम् परिष्वज्य दुःख-आर्त्ताम् माता दुहितरम् यथा । वन-वास-कृशाम् दीनाम् कौसल्या वाक्यम् अब्रवीत् ॥ २।१०३।२३ ॥
tām pariṣvajya duḥkha-ārttām mātā duhitaram yathā . vana-vāsa-kṛśām dīnām kausalyā vākyam abravīt .. 2.103.23 ..
विदेहराजस्य सुता स्नुषा दशरथस्य च । रामपत्नी कथं दु:खं सम्प्राप्ता निर्जने वने ॥ २.१०३.२४ ॥
विदेह-राजस्य सुता स्नुषा दशरथस्य च । राम-पत्नी कथम् दु:खम् सम्प्राप्ता निर्जने वने ॥ २।१०३।२४ ॥
videha-rājasya sutā snuṣā daśarathasya ca . rāma-patnī katham du:kham samprāptā nirjane vane .. 2.103.24 ..
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् । काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदै: ॥ २.१०३.२५ ॥
पद्मम् आतप-सन्तप्तम् परिक्लिष्टम् इव उत्पलम् । काञ्चनम् रजसा ध्वस्तम् क्लिष्टम् चन्द्रम् इव अम्बुदैः ॥ २।१०३।२५ ॥
padmam ātapa-santaptam parikliṣṭam iva utpalam . kāñcanam rajasā dhvastam kliṣṭam candram iva ambudaiḥ .. 2.103.25 ..
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भव: ॥ २.१०३.२६ ॥
मुखम् ते प्रेक्ष्य माम् शोकः दहति अग्निः इव आश्रयम् भृशम् मनसि वैदेहि व्यसन-अरणि-सम्भव ॥ २।१०३।२६ ॥
mukham te prekṣya mām śokaḥ dahati agniḥ iva āśrayam bhṛśam manasi vaidehi vyasana-araṇi-sambhava .. 2.103.26 ..
ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रज: । पादावासाद्य जग्राह वसिष्ठस्य च राघव: ॥ २.१०३.२७ ॥
ब्रुवन्त्याम् एवम् आर्त्तायाम् जनन्याम् भरताग्रजः । पादौ आसाद्य जग्राह वसिष्ठस्य च राघवः ॥ २।१०३।२७ ॥
bruvantyām evam ārttāyām jananyām bharatāgrajaḥ . pādau āsādya jagrāha vasiṣṭhasya ca rāghavaḥ .. 2.103.27 ..
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिप: । प्रगृह्य पादौ सुसमृद्धतेजस: सहैव तेनोपविवेश राघव: ॥ २.१०३.२८ ॥
पुरोहितस्य अग्नि-समस्य वै तदा बृहस्पतेः इन्द्रः इव अमर-अधिप । प्रगृह्य पादौ सु समृद्ध-तेजसः सह एव तेन उपविवेश राघवः ॥ २।१०३।२८ ॥
purohitasya agni-samasya vai tadā bṛhaspateḥ indraḥ iva amara-adhipa . pragṛhya pādau su samṛddha-tejasaḥ saha eva tena upaviveśa rāghavaḥ .. 2.103.28 ..
ततो जघन्यं सहितै: समन्त्रिभि: पुरप्रधानैश्च सहैव सैनिकै: । जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ २.१०३.२९ ॥
ततस् जघन्यम् सहितैः स मन्त्रिभिः पुर-प्रधानैः च सह एव सैनिकैः । जनेन धर्म-ज्ञतमेन धर्मवान् उपोपविष्टः भरतः तदा अग्रजम् ॥ २।१०३।२९ ॥
tatas jaghanyam sahitaiḥ sa mantribhiḥ pura-pradhānaiḥ ca saha eva sainikaiḥ . janena dharma-jñatamena dharmavān upopaviṣṭaḥ bharataḥ tadā agrajam .. 2.103.29 ..
उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् । श्रिया ज्वलन्तं भरत: कृताञ्जलिर्यथा महेन्द्र: प्रयत: प्रजापतिम् ॥ २.१०३.३० ॥
उपोपविष्टः तु तथा स वीर्यवान् तपस्वि-वेषेण समीक्ष्य राघवम् । श्रिया ज्वलन्तम् भरतः कृताञ्जलिः यथा महा-इन्द्रः प्रयतः प्रजापतिम् ॥ २।१०३।३० ॥
upopaviṣṭaḥ tu tathā sa vīryavān tapasvi-veṣeṇa samīkṣya rāghavam . śriyā jvalantam bharataḥ kṛtāñjaliḥ yathā mahā-indraḥ prayataḥ prajāpatim .. 2.103.30 ..
किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति । इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ २.१०३.३१ ॥
किम् एष वाक्यम् भरतः अद्य राघवम् प्रणम्य सत्कृत्य च साधु वक्ष्यति । इति इव तस्य आर्य-जनस्य तत्त्वतः बभूव कौतूहलम् उत्तमम् तदा ॥ २।१०३।३१ ॥
kim eṣa vākyam bharataḥ adya rāghavam praṇamya satkṛtya ca sādhu vakṣyati . iti iva tasya ārya-janasya tattvataḥ babhūva kautūhalam uttamam tadā .. 2.103.31 ..
स राघव: सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिक: । वृता: सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यै: सहितास्त्रयो ऽग्नय: ॥ २.१०३.३२ ॥
स राघवः सत्य-धृतिः च लक्ष्मणः महा-अनुभवः भरतः च धार्मिकः । वृताः सुहृद्भिः च विरेजुः अध्वरे यथा सदस्यैः सहिताः त्रयः अग्नयः ॥ २।१०३।३२ ॥
sa rāghavaḥ satya-dhṛtiḥ ca lakṣmaṇaḥ mahā-anubhavaḥ bharataḥ ca dhārmikaḥ . vṛtāḥ suhṛdbhiḥ ca virejuḥ adhvare yathā sadasyaiḥ sahitāḥ trayaḥ agnayaḥ .. 2.103.32 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्युत्तरशततम: सर्ग: ॥ १०३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे त्रि-उत्तर-शततमः सर्गः ॥ १०३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe tri-uttara-śatatamaḥ sargaḥ .. 103 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In