This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुरधिकशततम: सर्गः ॥२-९१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे चतुर्-अधिक-शततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe catur-adhika-śatatamaḥ sargaḥ ..2..
तं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम् । लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ २.१०४.१ ॥
तम् तु रामः समाज्ञाय भ्रातरम् गुरु-वत्सलम् । लक्ष्मणेन सह भ्रात्रा प्रष्टुम् समुपचक्रमे ॥ २।१०४।१ ॥
tam tu rāmaḥ samājñāya bhrātaram guru-vatsalam . lakṣmaṇena saha bhrātrā praṣṭum samupacakrame .. 2.104.1 ..
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया । यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ २.१०४.२ ॥
किम् एतत् इच्छेयम् अहम् श्रोतुम् प्रव्याहृतम् त्वया । यस्मात् त्वम् आगतः देशम् इमम् चीर-जटाजिनी ॥ २।१०४।२ ॥
kim etat iccheyam aham śrotum pravyāhṛtam tvayā . yasmāt tvam āgataḥ deśam imam cīra-jaṭājinī .. 2.104.2 ..
किं निमित्तमिमं देशं कृष्णाजिनजटाधर: । हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ २.१०४.३ ॥
किम् निमित्तम् इमम् देशम् कृष्णाजिन-जटा-धरः । हित्वा राज्यम् प्रविष्टः त्वम् तत् सर्वम् वक्तुम् अर्हसि ॥ २।१०४।३ ॥
kim nimittam imam deśam kṛṣṇājina-jaṭā-dharaḥ . hitvā rājyam praviṣṭaḥ tvam tat sarvam vaktum arhasi .. 2.104.3 ..
इत्युक्त: कैकयीपुत्र: काकुत्स्थेन महात्मना । प्रगृह्य बलवद्भूय: प्राञ्जलिर्वाक्यमब्रवीत् ॥ २.१०४.४ ॥
इति उक्तः कैकयी-पुत्र काकुत्स्थेन महात्मना । प्रगृह्य बलवत् भूयस् प्राञ्जलिः वाक्यम् अब्रवीत् ॥ २।१०४।४ ॥
iti uktaḥ kaikayī-putra kākutsthena mahātmanā . pragṛhya balavat bhūyas prāñjaliḥ vākyam abravīt .. 2.104.4 ..
आर्य्यं तात: परित्यज्य कृत्वा कर्म सुदुष्करम् । गत: स्वर्गं महाबाहु: पुत्रशोकाभिपीडित: ॥ २.१०४.५ ॥
आर्य्यम् तात परित्यज्य कृत्वा कर्म सु दुष्करम् । गतः स्वर्गम् महा-बाहुः पुत्र-शोक-अभिपीडितः ॥ २।१०४।५ ॥
āryyam tāta parityajya kṛtvā karma su duṣkaram . gataḥ svargam mahā-bāhuḥ putra-śoka-abhipīḍitaḥ .. 2.104.5 ..
स्त्रिया नियुक्त: कैकेय्या मम मात्रा परन्तप । चकार सुमहत्पापमिदमात्मयशोहरम् ॥ २.१०४.६ ॥
स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप । चकार सु महत् पापम् इदम् आत्म-यशः-हरम् ॥ २।१०४।६ ॥
striyā niyuktaḥ kaikeyyā mama mātrā parantapa . cakāra su mahat pāpam idam ātma-yaśaḥ-haram .. 2.104.6 ..
सा राज्यफलमप्राप्य विधवा शोककर्शिता । पतिष्यति महाघोरे निरये जननी मम ॥ २.१०४.७ ॥
सा राज्य-फलम् अ प्राप्य विधवा शोक-कर्शिता । पतिष्यति महा-घोरे निरये जननी मम ॥ २।१०४।७ ॥
sā rājya-phalam a prāpya vidhavā śoka-karśitā . patiṣyati mahā-ghore niraye jananī mama .. 2.104.7 ..
तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि । अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ॥ २.१०४.८ ॥
तस्य मे दास-भूतस्य प्रसादम् कर्त्तुम् अर्हसि । अभिषिञ्चस्व च अद्य एव राज्येनप मघवान् इव ॥ २।१०४।८ ॥
tasya me dāsa-bhūtasya prasādam karttum arhasi . abhiṣiñcasva ca adya eva rājyenapa maghavān iva .. 2.104.8 ..
इमा: प्रकृतय: सर्वा विधवा मातरश्च या: । त्वत्सकाशमनुप्राप्ता: प्रसादं कर्त्तुमर्हसि ॥ २.१०४.९ ॥
इमाः प्रकृतयः सर्वाः विधवाः मातरः च याः । त्वद्-सकाशम् अनुप्राप्ता प्रसादम् कर्त्तुम् अर्हसि ॥ २।१०४।९ ॥
imāḥ prakṛtayaḥ sarvāḥ vidhavāḥ mātaraḥ ca yāḥ . tvad-sakāśam anuprāptā prasādam karttum arhasi .. 2.104.9 ..
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद । राज्यं प्राप्नुहि धर्मेण सकामान् सुहृद: कुरु ॥ २.१०४.१० ॥
तदा आनुपूर्व्या युक्तम् च युक्तम् च आत्मनि मानद । राज्यम् प्राप्नुहि धर्मेण स कामान् सुहृदः कुरु ॥ २।१०४।१० ॥
tadā ānupūrvyā yuktam ca yuktam ca ātmani mānada . rājyam prāpnuhi dharmeṇa sa kāmān suhṛdaḥ kuru .. 2.104.10 ..
भवत्वविधवा भूमि: समग्रा पतिना त्वया । शशिना विमलेनेव शारदी रजनी यथा ॥ २.१०४.११ ॥
भवतु अविधवा भूमि समग्रा पतिना त्वया । शशिना विमलेन इव शारदी रजनी यथा ॥ २।१०४।११ ॥
bhavatu avidhavā bhūmi samagrā patinā tvayā . śaśinā vimalena iva śāradī rajanī yathā .. 2.104.11 ..
एभिश्च सचिवै: सार्द्धं शिरसा याचितो मया । भ्रातु: शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ॥ २.१०४.१२ ॥
एभिः च सचिवैः सार्द्धम् शिरसा याचितः मया । भ्रातुः शिष्यस्य दासस्य प्रसादम् कर्त्तुम् अर्हसि ॥ २।१०४।१२ ॥
ebhiḥ ca sacivaiḥ sārddham śirasā yācitaḥ mayā . bhrātuḥ śiṣyasya dāsasya prasādam karttum arhasi .. 2.104.12 ..
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् । पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ २.१०४.१३ ॥
तत् इदम् शाश्वतम् पित्र्यम् सर्वम् प्रकृति-मण्डलम् । पूजितम् पुरुष-व्याघ्र न अतिक्रमितुम् अर्हसि ॥ २।१०४।१३ ॥
tat idam śāśvatam pitryam sarvam prakṛti-maṇḍalam . pūjitam puruṣa-vyāghra na atikramitum arhasi .. 2.104.13 ..
एवमुक्त्वा महाबाहु: सबाष्प: कैकयीसुत: । रामस्य शिरसा पादौ जग्राह विधिवत्पुन: ॥ २.१०४.१४ ॥
एवम् उक्त्वा महा-बाहु: स बाष्पः कैकयी-सुतः । रामस्य शिरसा पादौ जग्राह विधिवत् पुनर् ॥ २।१०४।१४ ॥
evam uktvā mahā-bāhu: sa bāṣpaḥ kaikayī-sutaḥ . rāmasya śirasā pādau jagrāha vidhivat punar .. 2.104.14 ..
तं मत्तमिव मातङ्गं नि:श्वसन्तं पुन:पुन: । भ्रातरं भरतं राम: परिष्वज्येदमब्रवीत् ॥ २.१०४.१५ ॥
तम् मत्तम् इव मातङ्गम् निःश्वसन्तम् पुनर् पुनर् । भ्रातरम् भरतम् राम परिष्वज्य इदम् अब्रवीत् ॥ २।१०४।१५ ॥
tam mattam iva mātaṅgam niḥśvasantam punar punar . bhrātaram bharatam rāma pariṣvajya idam abravīt .. 2.104.15 ..
कुलीन: सत्त्वसम्पन्नस्तेजस्वी चरितव्रत: । राज्यहेतो: कथं पापमाचरेत्त्वद्विधो जन: ॥ २.१०४.१६ ॥
कुलीनः सत्त्व-सम्पन्नः तेजस्वी चरित-व्रतः । राज्य-हेतोः कथम् पापम् आचरेत् त्वद्विधः जनः ॥ २।१०४।१६ ॥
kulīnaḥ sattva-sampannaḥ tejasvī carita-vrataḥ . rājya-hetoḥ katham pāpam ācaret tvadvidhaḥ janaḥ .. 2.104.16 ..
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन । न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥ २.१०४.१७ ॥
न दोषम् त्वयि पश्यामि सूक्ष्मम् अपि अरि-सूदन । न च अपि जननीम् बाल्यात् त्वम् विगर्हितुम् अर्हसि ॥ २।१०४।१७ ॥
na doṣam tvayi paśyāmi sūkṣmam api ari-sūdana . na ca api jananīm bālyāt tvam vigarhitum arhasi .. 2.104.17 ..
कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ २.१०४.१८ ॥
कामकारः महा-प्राज्ञ गुरूणाम् सर्वदा अनघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ २।१०४।१८ ॥
kāmakāraḥ mahā-prājña gurūṇām sarvadā anagha . upapanneṣu dāreṣu putreṣu ca vidhīyate .. 2.104.18 ..
वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभि: । भार्य्या: पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥ २.१०४.१९ ॥
वयम् अस्य यथा लोके सङ्ख्याताः सौम्य साधुभिः । भार्य्याः पुत्राः च शिष्याः च त्वम् अनु ज्ञातुम् अर्हसि ॥ २।१०४।१९ ॥
vayam asya yathā loke saṅkhyātāḥ saumya sādhubhiḥ . bhāryyāḥ putrāḥ ca śiṣyāḥ ca tvam anu jñātum arhasi .. 2.104.19 ..
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् । राज्ये वापि महाराजो मां वासयितुमीश्वर: ॥ २.१०४.२० ॥
वने वा चीर-वसनम् सौम्य कृष्ण-अजिन-अम्बरम् । राज्ये वा अपि महा-राजः माम् वासयितुम् ईश्वरः ॥ २।१०४।२० ॥
vane vā cīra-vasanam saumya kṛṣṇa-ajina-ambaram . rājye vā api mahā-rājaḥ mām vāsayitum īśvaraḥ .. 2.104.20 ..
यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् । तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ २.१०४.२१ ॥
यावत् पितरि धर्म-ज्ञे गौरवम् लोक-सत्कृतम् । तावत् धर्म-भृताम् श्रेष्ठ जनन्याम् अपि गौरवम् ॥ २।१०४।२१ ॥
yāvat pitari dharma-jñe gauravam loka-satkṛtam . tāvat dharma-bhṛtām śreṣṭha jananyām api gauravam .. 2.104.21 ..
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव । मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ॥ २.१०४.२२ ॥
एताभ्याम् धर्म-शीलाभ्याम् वनम् गच्छ इति राघव । माता-पितृभ्याम् उक्तः अहम् कथम् अन्यत् समाचरे ॥ २।१०४।२२ ॥
etābhyām dharma-śīlābhyām vanam gaccha iti rāghava . mātā-pitṛbhyām uktaḥ aham katham anyat samācare .. 2.104.22 ..
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् । वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २.१०४.२३ ॥
त्वया राज्यम् अयोध्यायाम् प्राप्तव्यम् लोक-सत्कृतम् । वस्तव्यम् दण्डक-अरण्ये मया वल्कल-वाससा ॥ २।१०४।२३ ॥
tvayā rājyam ayodhyāyām prāptavyam loka-satkṛtam . vastavyam daṇḍaka-araṇye mayā valkala-vāsasā .. 2.104.23 ..
एवं कृत्वा महाराजो विभागं लोकसन्निधौ । व्यादिश्य च महातेजा दिवं दशरथो गत: ॥ २.१०४.२४ ॥
एवम् कृत्वा महा-राजः विभागम् लोक-सन्निधौ । व्यादिश्य च महा-तेजाः दिवम् दशरथः गतः ॥ २।१०४।२४ ॥
evam kṛtvā mahā-rājaḥ vibhāgam loka-sannidhau . vyādiśya ca mahā-tejāḥ divam daśarathaḥ gataḥ .. 2.104.24 ..
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव । पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ २.१०४.२५ ॥
स च प्रमाणम् धर्म-आत्मा राजा लोक-गुरुः तव । पित्रा दत्तम् यथाभागम् उपभोक्तुम् त्वम् अर्हसि ॥ २।१०४।२५ ॥
sa ca pramāṇam dharma-ātmā rājā loka-guruḥ tava . pitrā dattam yathābhāgam upabhoktum tvam arhasi .. 2.104.25 ..
चतुर्दशसमा: सौम्य दण्डकारण्यमाश्रित: । उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ २.१०४.२६ ॥
चतुर्दश-समाः सौम्य दण्डक-अरण्यम् आश्रितः । उपभोक्ष्ये तु अहम् दत्तम् भागम् पित्रा महात्मना ॥ २।१०४।२६ ॥
caturdaśa-samāḥ saumya daṇḍaka-araṇyam āśritaḥ . upabhokṣye tu aham dattam bhāgam pitrā mahātmanā .. 2.104.26 ..
यदब्रवीन्मां नरलोकसत्कृत: पिता महात्मा विबुधाधिपोपम: । तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥ २.१०४.२७ ॥
यत् अब्रवीत् माम् नर-लोक-सत्कृतः पिता महात्मा विबुध-अधिप-उपमः । तत् एव मन्ये परमात्मनः हितम् न सर्व-लोक-ईश्वर-भावम् अपि अहम् ॥ २।१०४।२७ ॥
yat abravīt mām nara-loka-satkṛtaḥ pitā mahātmā vibudha-adhipa-upamaḥ . tat eva manye paramātmanaḥ hitam na sarva-loka-īśvara-bhāvam api aham .. 2.104.27 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरधिकशततम: सर्ग: ॥ १०४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे चतुर्-अधिक-शततमः सर्गः ॥ १०४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe catur-adhika-śatatamaḥ sargaḥ .. 104 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In