This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चोत्तरशततम: सर्गः ॥२-१०५॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चोत्तरशततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcottaraśatatamaḥ sargaḥ ..2..
तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: । शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ॥ २.१०५.१ ॥
ततस् पुरुष-सिंहानाम् वृतानाम् तैः सुहृद्-गणैः । शोचताम् एव रजनी दु:खेन व्यत्यवर्त्तत ॥ २।१०५।१ ॥
tatas puruṣa-siṃhānām vṛtānām taiḥ suhṛd-gaṇaiḥ . śocatām eva rajanī du:khena vyatyavarttata .. 2.105.1 ..
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृता: । मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ २.१०५.२ ॥
रजन्याम् सु प्रभातायाम् भ्रातरः ते सुहृद्-वृताः । मन्दाकिन्याम् हुतम् जप्यम् कृत्वा रामम् उपागमन् ॥ २।१०५।२ ॥
rajanyām su prabhātāyām bhrātaraḥ te suhṛd-vṛtāḥ . mandākinyām hutam japyam kṛtvā rāmam upāgaman .. 2.105.2 ..
तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् । भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ २.१०५.३ ॥
तूष्णीम् ते समुपासीनाः न कश्चिद् किञ्चिद् अब्रवीत् । भरतः तु सुहृद्-मध्ये रामम् वचनम् अब्रवीत् ॥ २।१०५।३ ॥
tūṣṇīm te samupāsīnāḥ na kaścid kiñcid abravīt . bharataḥ tu suhṛd-madhye rāmam vacanam abravīt .. 2.105.3 ..
सान्त्विता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ २.१०५.४ ॥
सान्त्विता मामिका माता दत्तम् राज्यम् इदम् मम । तत् ददामि तव एव अहम् भुङ्क्ष्व राज्यम् अकण्टकम् ॥ २।१०५।४ ॥
sāntvitā māmikā mātā dattam rājyam idam mama . tat dadāmi tava eva aham bhuṅkṣva rājyam akaṇṭakam .. 2.105.4 ..
महतेवाम्बुवेगेन भिन्न: सेतुर्जलागमे । दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ २.१०५.५ ॥
महता इव अम्बु-वेगेन भिन्नः सेतुः जलागमे । दुरावारम् त्वद्-अन्येन राज्यखण्डम् इदम् महत् ॥ २।१०५।५ ॥
mahatā iva ambu-vegena bhinnaḥ setuḥ jalāgame . durāvāram tvad-anyena rājyakhaṇḍam idam mahat .. 2.105.5 ..
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ऺित्रण: । अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ २.१०५.६ ॥
गतिम् खरः इव अश्वस्य तार्क्ष्यस्य इव पतत् ऋत्रणः । अनुगन्तुम् न शक्तिः मे गतिम् तव महीपते ॥ २।१०५।६ ॥
gatim kharaḥ iva aśvasya tārkṣyasya iva patat ṛtraṇaḥ . anugantum na śaktiḥ me gatim tava mahīpate .. 2.105.6 ..
सुजीवं नित्यशस्तस्य य: परैरुपजीव्यते । राम तेन तु दुर्जीवं य: परानुपजीवति ॥ २.१०५.७ ॥
सु जीवम् नित्यशस् तस्य यः परैः उपजीव्यते । राम तेन तु दुर्जीवम् यः परान् उपजीवति ॥ २।१०५।७ ॥
su jīvam nityaśas tasya yaḥ paraiḥ upajīvyate . rāma tena tu durjīvam yaḥ parān upajīvati .. 2.105.7 ..
यथा तु रोपितो वृक्ष: पुरुषेण विवर्द्धित: । ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुम: ॥ २.१०५.८ ॥
यथा तु रोपितः वृक्षः पुरुषेण विवर्द्धितः । ह्रस्वकेन दुरारोहः रूढ-स्कन्धः महा-द्रुमः ॥ २।१०५।८ ॥
yathā tu ropitaḥ vṛkṣaḥ puruṣeṇa vivarddhitaḥ . hrasvakena durārohaḥ rūḍha-skandhaḥ mahā-drumaḥ .. 2.105.8 ..
स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् । स तां नानुभवेत्प्रीतिं यस्य हेतो: प्ररोपित: ॥ २.१०५.९ ॥
स यथा पुष्पितः भूत्वा फलानि न विदर्शयेत् । स ताम् न अनुभवेत् प्रीतिम् यस्य हेतोः प्ररोपितः ॥ २।१०५।९ ॥
sa yathā puṣpitaḥ bhūtvā phalāni na vidarśayet . sa tām na anubhavet prītim yasya hetoḥ praropitaḥ .. 2.105.9 ..
एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि । यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ॥ २.१०५.१० ॥
एषा उपमा महा-बाहो तम् अर्थम् वेत्तुम् अर्हसि । यदि त्वम् अस्मान् वृषभः भर्त्ता भृत्यान् न शाधि हि ॥ २।१०५।१० ॥
eṣā upamā mahā-bāho tam artham vettum arhasi . yadi tvam asmān vṛṣabhaḥ bharttā bhṛtyān na śādhi hi .. 2.105.10 ..
श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वश: । प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ २.१०५.११ ॥
श्रेणयः त्वाम् महा-राज पश्यन्तु अग्र्याः च सर्वशस् । प्रतपन्तम् इव आदित्यम् राज्ये स्थितम् अरिन्दमम् ॥ २।१०५।११ ॥
śreṇayaḥ tvām mahā-rāja paśyantu agryāḥ ca sarvaśas . pratapantam iva ādityam rājye sthitam arindamam .. 2.105.11 ..
तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जरा: । अन्त:पुरगता नार्यो नन्दन्तु सुसमाहिता: ॥ २.१०५.१२ ॥
तव अनुयाने काकुत्स्थ मत्ताः नर्दन्तु कुञ्जराः । अन्तर् पुर-गताः नार्यः नन्दन्तु सु समाहिताः ॥ २।१०५।१२ ॥
tava anuyāne kākutstha mattāḥ nardantu kuñjarāḥ . antar pura-gatāḥ nāryaḥ nandantu su samāhitāḥ .. 2.105.12 ..
तस्य साध्वित्यमन्यन्त नागरा विविधा जना: । भरतस्य वच: श्रुत्वा रामं प्रत्यनुयाचत: ॥ २.१०५.१३ ॥
तस्य साधु इति अमन्यन्त नागराः विविधाः जनाः । भरतस्य वचः श्रुत्वा रामम् प्रत्यनुयाचतः ॥ २।१०५।१३ ॥
tasya sādhu iti amanyanta nāgarāḥ vividhāḥ janāḥ . bharatasya vacaḥ śrutvā rāmam pratyanuyācataḥ .. 2.105.13 ..
तमेवं दु:खितं प्रेक्ष्य विलपन्तं यशस्विनम् । राम: कृतात्मा भरतं समाश्वासय दात्मवान् ॥ २.१०५.१४ ॥
तम् एवम् दुःखितम् प्रेक्ष्य विलपन्तम् यशस्विनम् । रामः कृत-आत्मा भरतम् समाश्वासय दात्मवान् ॥ २।१०५।१४ ॥
tam evam duḥkhitam prekṣya vilapantam yaśasvinam . rāmaḥ kṛta-ātmā bharatam samāśvāsaya dātmavān .. 2.105.14 ..
नात्मन: कामकारो ऽस्ति पुरुषो ऽयमनीश्वर: । इतश्चेतरतश्चैनं कृतान्त: परिकर्षति ॥ २.१०५.१५ ॥
न आत्मनः काम-कारः अस्ति पुरुषः अयम् अनीश्वरः । इतस् च इतरतस् च एनम् कृतान्तः परिकर्षति ॥ २।१०५।१५ ॥
na ātmanaḥ kāma-kāraḥ asti puruṣaḥ ayam anīśvaraḥ . itas ca itaratas ca enam kṛtāntaḥ parikarṣati .. 2.105.15 ..
सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रया: । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ २.१०५.१६ ॥
सर्वे क्षय-अन्ताः निचयाः पतन-अन्ताः समुच्छ्रयाः । संयोगाः विप्रयोग-अन्ताः मरण-अन्तम् च जीवितम् ॥ २।१०५।१६ ॥
sarve kṣaya-antāḥ nicayāḥ patana-antāḥ samucchrayāḥ . saṃyogāḥ viprayoga-antāḥ maraṇa-antam ca jīvitam .. 2.105.16 ..
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ २.१०५.१७ ॥
यथा फलानाम् पक्वानाम् न अन्यत्र पतनात् भयम् । एवम् नरस्य जातस्य न अन्यत्र मरणात् भयम् ॥ २।१०५।१७ ॥
yathā phalānām pakvānām na anyatra patanāt bhayam . evam narasya jātasya na anyatra maraṇāt bhayam .. 2.105.17 ..
यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति । तथैव सीदन्ति नरा जरामृत्युवशङ्गता: ॥ २.१०५.१८ ॥
यथागारम् दृढ-स्थूणम् जीर्णम् भूत्वा अवसीदति । तथा एव सीदन्ति नराः जरा-मृत्यु-वशङ्गता ॥ २।१०५।१८ ॥
yathāgāram dṛḍha-sthūṇam jīrṇam bhūtvā avasīdati . tathā eva sīdanti narāḥ jarā-mṛtyu-vaśaṅgatā .. 2.105.18 ..
अत्येति रजनी या तु सा न प्रतिनिवर्त्तते । यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ २.१०५.१९ ॥
अत्येति रजनी या तु सा न प्रतिनिवर्त्तते । याति एव यमुना पूर्णा समुद्रम् उदक-आकुलम् ॥ २।१०५।१९ ॥
atyeti rajanī yā tu sā na pratinivarttate . yāti eva yamunā pūrṇā samudram udaka-ākulam .. 2.105.19 ..
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह । आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशव: ॥ २.१०५.२० ॥
अहर्-रात्राणि गच्छन्ति सर्वेषाम् प्राणिनाम् इह । आयूंषि क्षपयन्ति आशु ग्रीष्मे जलम् इव अंशवः ॥ २।१०५।२० ॥
ahar-rātrāṇi gacchanti sarveṣām prāṇinām iha . āyūṃṣi kṣapayanti āśu grīṣme jalam iva aṃśavaḥ .. 2.105.20 ..
आत्मानमनुशोच त्वं किमन्यमनुशोचसि । आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २.१०५.२१ ॥
आत्मानम् अनुशोच त्वम् किम् अन्यम् अनुशोचसि । आयुः ते हीयते यस्य स्थितस्य च गतस्य च ॥ २।१०५।२१ ॥
ātmānam anuśoca tvam kim anyam anuśocasi . āyuḥ te hīyate yasya sthitasya ca gatasya ca .. 2.105.21 ..
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति । गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ २.१०५.२२ ॥
सह एव मृत्युः व्रजति सह मृत्युः निषीदति । गत्वा सु दीर्घम् अध्वानम् सहमृत्युः निवर्तते ॥ २।१०५।२२ ॥
saha eva mṛtyuḥ vrajati saha mṛtyuḥ niṣīdati . gatvā su dīrgham adhvānam sahamṛtyuḥ nivartate .. 2.105.22 ..
गात्रेषु वलय: प्राप्ता: श्वेताश्चैव शिरोरुहा: । जरया पुरुषो जीर्ण: किं हि कृत्वा प्रभावयेत् ॥ २.१०५.२३ ॥
गात्रेषु वलयः प्राप्ताः श्वेताः च एव शिरोरुहाः । जरया पुरुषः जीर्णः किम् हि कृत्वा प्रभावयेत् ॥ २।१०५।२३ ॥
gātreṣu valayaḥ prāptāḥ śvetāḥ ca eva śiroruhāḥ . jarayā puruṣaḥ jīrṇaḥ kim hi kṛtvā prabhāvayet .. 2.105.23 ..
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ । आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २.१०५.२४ ॥
नन्दन्ति उदिते आदित्ये नन्दन्ति अस्तमिते रवौ । आत्मनः न अवबुध्यन्ते मनुष्याः जीवित-क्षयम् ॥ २।१०५।२४ ॥
nandanti udite āditye nandanti astamite ravau . ātmanaḥ na avabudhyante manuṣyāḥ jīvita-kṣayam .. 2.105.24 ..
हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् । ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षय: ॥ २.१०५.२५ ॥
हृष्यन्ति ऋतु-मखम् दृष्ट्वा नवम् नवम् इह आगतम् । ऋतूनाम् परिवर्त्तेन प्राणिनाम् प्राण-संक्षयः ॥ २।१०५।२५ ॥
hṛṣyanti ṛtu-makham dṛṣṭvā navam navam iha āgatam . ṛtūnām parivarttena prāṇinām prāṇa-saṃkṣayaḥ .. 2.105.25 ..
यथा काष्ठं च काष्ठं च समेयातां महार्णवे । समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ २.१०५.२६ ॥
यथा काष्ठम् च काष्ठम् च समेयाताम् महा-अर्णवे । समेत्य च व्यपेयाताम् कालम् आसाद्य कञ्चन ॥ २।१०५।२६ ॥
yathā kāṣṭham ca kāṣṭham ca sameyātām mahā-arṇave . sametya ca vyapeyātām kālam āsādya kañcana .. 2.105.26 ..
एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च । समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभव: ॥ २.१०५.२७ ॥
एवम् भार्याः च पुत्राः च ज्ञातयः च घनानि च । समेत्य व्यवधावन्ति ध्रुवः हि एषाम् विनाभवः ॥ २।१०५।२७ ॥
evam bhāryāḥ ca putrāḥ ca jñātayaḥ ca ghanāni ca . sametya vyavadhāvanti dhruvaḥ hi eṣām vinābhavaḥ .. 2.105.27 ..
नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते । तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचत: ॥ २.१०५.२८ ॥
न अत्र कश्चिद् यथाभावम् प्राणी समभिवर्त्तते । तेन तस्मिन् न सामर्थ्यम् प्रेतस्य अस्ति अनुशोचतः ॥ २।१०५।२८ ॥
na atra kaścid yathābhāvam prāṇī samabhivarttate . tena tasmin na sāmarthyam pretasya asti anuśocataḥ .. 2.105.28 ..
यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थित: । अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २.१०५.२९ ॥
यथा हि सार्थम् गच्छन्तम् ब्रूयात् कश्चिद् पथि स्थितः । अहम् अपि आगमिष्यामि पृष्ठतस् भवताम् इति ॥ २।१०५।२९ ॥
yathā hi sārtham gacchantam brūyāt kaścid pathi sthitaḥ . aham api āgamiṣyāmi pṛṣṭhatas bhavatām iti .. 2.105.29 ..
एवं पूर्वैर्गतो मार्ग: पितृपैतामहो ध्रुव: । तमापन्न: कथं शोचेद्यस्ऺय नास्ति व्यतिक्रम: ॥ २.१०५.३० ॥
एवम् पूर्वैः गतः मार्गः पितृपैतामहः ध्रुवः । तम् आपन्नः कथम् शोचेत् यस्य न अस्ति व्यतिक्रमः ॥ २।१०५।३० ॥
evam pūrvaiḥ gataḥ mārgaḥ pitṛpaitāmahaḥ dhruvaḥ . tam āpannaḥ katham śocet yasya na asti vyatikramaḥ .. 2.105.30 ..
वयस: पतमानस्य स्रोतसो वा ऽनिवर्तिन: । आत्मा सुखे नियोक्तव्य: सुखभाज: प्रजा: स्मृता: ॥ २.१०५.३१ ॥
वयसः पतमानस्य स्रोतसः वा अनिवर्तिनः । आत्मा सुखे नियोक्तव्यः सुख-भाजः प्रजाः स्मृताः ॥ २।१०५।३१ ॥
vayasaḥ patamānasya srotasaḥ vā anivartinaḥ . ātmā sukhe niyoktavyaḥ sukha-bhājaḥ prajāḥ smṛtāḥ .. 2.105.31 ..
धर्मात्मा स शुभै: कृत्स्नै: क्रतुभिश्चाप्तदक्षिणैः । धूतपापो गत: स्वर्गं पिता न: पृथिवीपति: ॥ २.१०५.३२ ॥
धर्म-आत्मा स शुभैः कृत्स्नैः क्रतुभिः च आप्त-दक्षिणैः । धूत-पापः गतः स्वर्गम् पिता नः पृथिवीपतिः ॥ २।१०५।३२ ॥
dharma-ātmā sa śubhaiḥ kṛtsnaiḥ kratubhiḥ ca āpta-dakṣiṇaiḥ . dhūta-pāpaḥ gataḥ svargam pitā naḥ pṛthivīpatiḥ .. 2.105.32 ..
भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् । अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गत: ॥ २.१०५.३३ ॥
भृत्यानाम् भरणात् सम्यक् प्रजानाम् परिपालनात् । अर्थ-आदानात् च धर्मेण पिता नः त्रिदिवम् गत ॥ २।१०५।३३ ॥
bhṛtyānām bharaṇāt samyak prajānām paripālanāt . artha-ādānāt ca dharmeṇa pitā naḥ tridivam gata .. 2.105.33 ..
कर्मभिस्तु शुभैरिष्टै: क्रतुभिश्चाप्तदक्षिणै: । स्वर्गं दशरथ: प्राप्त: पिता न: पृथिवीपति: ॥ २.१०५.३४ ॥
कर्मभिः तु शुभैः इष्टैः क्रतुभिः च आप्त-दक्षिणैः । स्वर्गम् दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥ २।१०५।३४ ॥
karmabhiḥ tu śubhaiḥ iṣṭaiḥ kratubhiḥ ca āpta-dakṣiṇaiḥ . svargam daśarathaḥ prāptaḥ pitā naḥ pṛthivīpatiḥ .. 2.105.34 ..
इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् । उत्तमं चायुरासाद्य स्वर्गत: पृथिवीपति: ॥ २.१०५.३५ ॥
इष्ट्वा बहुविधैः यज्ञैः भोगान् च अवाप्य पुष्कलान् । उत्तमम् च आयुः आसाद्य स्वर्गतः पृथिवीपतिः ॥ २।१०५।३५ ॥
iṣṭvā bahuvidhaiḥ yajñaiḥ bhogān ca avāpya puṣkalān . uttamam ca āyuḥ āsādya svargataḥ pṛthivīpatiḥ .. 2.105.35 ..
आयुरुत्तममासाद्य भोगानपि च राघव: । स न शोच्य: पिता तात: स्वर्गत: सत्कृत: सताम् ॥ २.१०५.३६ ॥
आयुः उत्तमम् आसाद्य भोगान् अपि च राघवः । स न शोच्यः पिता तात स्वर्गतः सत्कृतः सताम् ॥ २।१०५।३६ ॥
āyuḥ uttamam āsādya bhogān api ca rāghavaḥ . sa na śocyaḥ pitā tāta svargataḥ satkṛtaḥ satām .. 2.105.36 ..
स जीर्णं मानुषं देहं परित्यज्य पिता हि न: । दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ २.१०५.३७ ॥
स जीर्णम् मानुषम् देहम् परित्यज्य पिता हि नः । दैवीम् ऋद्धिम् अनुप्राप्तः ब्रह्म-लोक-विहारिणीम् ॥ २।१०५।३७ ॥
sa jīrṇam mānuṣam deham parityajya pitā hi naḥ . daivīm ṛddhim anuprāptaḥ brahma-loka-vihāriṇīm .. 2.105.37 ..
तं तु नैवंविध: कश्चित् प्राज्ञ: शोचितुमर्हति । तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तर: ॥ २.१०५.३८ ॥
तम् तु न एवंविधः कश्चिद् प्राज्ञः शोचितुम् अर्हति । तद्विधः यद्विधः च अपि श्रुतवान् बुद्धिमत्तरः ॥ २।१०५।३८ ॥
tam tu na evaṃvidhaḥ kaścid prājñaḥ śocitum arhati . tadvidhaḥ yadvidhaḥ ca api śrutavān buddhimattaraḥ .. 2.105.38 ..
एते बहुविधा: शोका विलापरुदिते तथा । वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ २.१०५.३९ ॥
एते बहुविधाः शोकाः विलाप-रुदिते तथा । वर्जनीयाः हि धीरेण सर्व-अवस्थासु धीमता ॥ २।१०५।३९ ॥
ete bahuvidhāḥ śokāḥ vilāpa-rudite tathā . varjanīyāḥ hi dhīreṇa sarva-avasthāsu dhīmatā .. 2.105.39 ..
स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् । तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ॥ २.१०५.४० ॥
स स्वस्थः भव मा अशोचीः यात्वा च आवस ताम् पुरीम् । तथा पित्रा नियुक्तः असि वशिना वदताम् वर ॥ २।१०५।४० ॥
sa svasthaḥ bhava mā aśocīḥ yātvā ca āvasa tām purīm . tathā pitrā niyuktaḥ asi vaśinā vadatām vara .. 2.105.40 ..
यत्राहमपि तेनैव नियुक्त: पुण्यकर्मणा । तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥ २.१०५.४१ ॥
यत्र अहम् अपि तेन एव नियुक्तः पुण्य-कर्मणा । तत्र एव अहम् करिष्यामि पितुः आर्य्यस्य शासनम् ॥ २।१०५।४१ ॥
yatra aham api tena eva niyuktaḥ puṇya-karmaṇā . tatra eva aham kariṣyāmi pituḥ āryyasya śāsanam .. 2.105.41 ..
न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम । तत् त्वयापि सदा मान्यं स वै बन्धु: स न: पिता ॥ २.१०५.४२ ॥
न मया शासनम् तस्य त्यक्तुम् न्याय्यम् अरिन्दम । तत् त्वया अपि सदा मान्यम् स वै बन्धुः स नः पिता ॥ २।१०५।४२ ॥
na mayā śāsanam tasya tyaktum nyāyyam arindama . tat tvayā api sadā mānyam sa vai bandhuḥ sa naḥ pitā .. 2.105.42 ..
तद्वच: पितुरेवाहं सम्मतं धर्मचारिण: । कर्मणा पालयिष्यामि वनवासेन राघव ॥ २.१०५.४३ ॥
तत् वचः पितुः एव अहम् सम्मतम् धर्म-चारिणः । कर्मणा पालयिष्यामि वन-वासेन राघव ॥ २।१०५।४३ ॥
tat vacaḥ pituḥ eva aham sammatam dharma-cāriṇaḥ . karmaṇā pālayiṣyāmi vana-vāsena rāghava .. 2.105.43 ..
धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना । भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ २.१०५.४४ ॥
धीर्मिकेण अ नृशंसेन नरेण गुरु-वर्त्तिना । भवितव्यम् नर-व्याघ्र पर-लोकम् जिगीषता ॥ २।१०५।४४ ॥
dhīrmikeṇa a nṛśaṃsena nareṇa guru-varttinā . bhavitavyam nara-vyāghra para-lokam jigīṣatā .. 2.105.44 ..
आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ । निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य न: ॥ २.१०५.४५ ॥
आत्मानम् अनुतिष्ठ त्वम् स्वभावेन नर-ऋषभ । निशाम्य तु शुभम् वृत्तम् पितुः दशरथस्य न ॥ २।१०५।४५ ॥
ātmānam anutiṣṭha tvam svabhāvena nara-ṛṣabha . niśāmya tu śubham vṛttam pituḥ daśarathasya na .. 2.105.45 ..
इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् । यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम राम: ॥ २.१०५.४६ ॥
इति एवम् उक्त्वा वचनम् महात्मा पितुः निदेश-प्रतिपालन-अर्थम् । यवीयसम् भ्रातरम् अर्थवत् च प्रभुः मुहूर्तात् विरराम रामः ॥ २।१०५।४६ ॥
iti evam uktvā vacanam mahātmā pituḥ nideśa-pratipālana-artham . yavīyasam bhrātaram arthavat ca prabhuḥ muhūrtāt virarāma rāmaḥ .. 2.105.46 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततम: सर्ग: ॥ १०५ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe pañcottaraśatatamaḥ sargaḥ .. 105 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In