This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षडुत्तरशततम: सर्गः ॥२-९१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे षडुत्तरशततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ṣaḍuttaraśatatamaḥ sargaḥ ..2..
एवमुक्त्वा तु विरते रामे वचनमर्थवत् । ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् । उवाच भरतश्चित्रं धार्मिको धार्मिकं वच: ॥ २.१०६.१ ॥
एवम् उक्त्वा तु विरते रामे वचनम् अर्थवत् । ततस् मन्दाकिनी-तीरे रामम् प्रकृति-वत्सलम् । उवाच भरतः चित्रम् धार्मिकः धार्मिकम् वचः ॥ २।१०६।१ ॥
evam uktvā tu virate rāme vacanam arthavat . tatas mandākinī-tīre rāmam prakṛti-vatsalam . uvāca bharataḥ citram dhārmikaḥ dhārmikam vacaḥ .. 2.106.1 ..
को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम । न त्वां प्रव्यथयेद्दु:खं प्रीतिर्वा न प्रहर्षयेत् ॥ २.१०६.२ ॥
कः हि स्यात् ईदृशः लोके यादृशः त्वम् अरिन्दम । न त्वाम् प्रव्यथयेत् दुःखम् प्रीतिः वा न प्रहर्षयेत् ॥ २।१०६।२ ॥
kaḥ hi syāt īdṛśaḥ loke yādṛśaḥ tvam arindama . na tvām pravyathayet duḥkham prītiḥ vā na praharṣayet .. 2.106.2 ..
सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ २.१०६.३ ॥
सम्मतः च असि वृद्धानाम् तान् च पृच्छसि संशयान् ॥ २।१०६।३ ॥
sammataḥ ca asi vṛddhānām tān ca pṛcchasi saṃśayān .. 2.106.3 ..
यथा मृतस्तथा जीवन् यथा ऽसति तथा सति । यस्यैष बुद्धिलाभ: स्यात्परितप्येत केन स: ॥ २.१०६.४ ॥
यथा मृतः तथा जीवन् यथा असति तथा सति । यस्य एष बुद्धि-लाभः स्यात् परितप्येत केन सः ॥ २।१०६।४ ॥
yathā mṛtaḥ tathā jīvan yathā asati tathā sati . yasya eṣa buddhi-lābhaḥ syāt paritapyeta kena saḥ .. 2.106.4 ..
परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप । स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ २.१०६.५ ॥
परावर-ज्ञः यः च स्यात् तथा त्वम् मनुज-अधिप । सः एवम् व्यसनम् प्राप्य न विषीदितुम् अर्हति ॥ २।१०६।५ ॥
parāvara-jñaḥ yaḥ ca syāt tathā tvam manuja-adhipa . saḥ evam vyasanam prāpya na viṣīditum arhati .. 2.106.5 ..
अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गर: । सर्वज्ञ: सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ २.१०६.६ ॥
अमर-उपम सत्त्वः त्वम् महात्मा सत्य-सङ्गर । सर्व-ज्ञः सर्व-दर्शी च बुद्धिमान् च असि राघव ॥ २।१०६।६ ॥
amara-upama sattvaḥ tvam mahātmā satya-saṅgara . sarva-jñaḥ sarva-darśī ca buddhimān ca asi rāghava .. 2.106.6 ..
न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् । अविषह्यतमं दु:खमासादयितुमर्हति ॥ २.१०६.७ ॥
न त्वाम् एवङ्गुणैः युक्तम् प्रभव-अभव-कोविदम् । अविषह्यतमम् दु:खम् आसादयितुम् अर्हति ॥ २।१०६।७ ॥
na tvām evaṅguṇaiḥ yuktam prabhava-abhava-kovidam . aviṣahyatamam du:kham āsādayitum arhati .. 2.106.7 ..
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् । क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥ २.१०६.८ ॥
प्रोषिते मयि यत् पापम् मात्रा मद्-कारणात् कृतम् । क्षुद्रया तत् अनिष्टम् मे प्रसीदतु भवान् मम ॥ २।१०६।८ ॥
proṣite mayi yat pāpam mātrā mad-kāraṇāt kṛtam . kṣudrayā tat aniṣṭam me prasīdatu bhavān mama .. 2.106.8 ..
धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् । हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥ २.१०६.९ ॥
धर्म-बन्धेन बद्धः अस्मि तेन इमाम् न इह मातरम् । हन्मि तीव्रेण दण्डेन दण्ड-अर्हाम् पाप-कारिणीम् ॥ २।१०६।९ ॥
dharma-bandhena baddhaḥ asmi tena imām na iha mātaram . hanmi tīvreṇa daṇḍena daṇḍa-arhām pāpa-kāriṇīm .. 2.106.9 ..
कथं दशरथाज्जात: शुद्धाभिजनकर्मण: । जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ॥ २.१०६.१० ॥
कथम् दशरथात् जातः शुद्ध-अभिजन-कर्मणः । जानन् धर्मम् अधर्मिष्ठम् कुर्य्याम् कर्म जुगुप्सितम् ॥ २।१०६।१० ॥
katham daśarathāt jātaḥ śuddha-abhijana-karmaṇaḥ . jānan dharmam adharmiṣṭham kuryyām karma jugupsitam .. 2.106.10 ..
गुरु: क्रियावान् वृद्धश्च राजा प्रेत: पितेति च । तातं न परिगर्हेयं दैवतं चेति संसदि ॥ २.१०६.११ ॥
गुरुः क्रियावान् वृद्धः च राजा प्रेतः पिता इति च । तातम् न परिगर्हेयम् दैवतम् च इति संसदि ॥ २।१०६।११ ॥
guruḥ kriyāvān vṛddhaḥ ca rājā pretaḥ pitā iti ca . tātam na parigarheyam daivatam ca iti saṃsadi .. 2.106.11 ..
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् । स्त्रिया: प्रियं चिकीर्षु: सन् कुर्याद्धर्मज्ञ धर्मवित् ॥ २.१०६.१२ ॥
कः हि धर्म-अर्थयोः हीनम् ईदृशम् कर्म किल्बिषम् । स्त्रियाः प्रियम् चिकीर्षु सन् कुर्यात् धर्म-ज्ञ धर्म-विद् ॥ २।१०६।१२ ॥
kaḥ hi dharma-arthayoḥ hīnam īdṛśam karma kilbiṣam . striyāḥ priyam cikīrṣu san kuryāt dharma-jña dharma-vid .. 2.106.12 ..
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुति: । राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुति: कृता ॥ २.१०६.१३ ॥
अन्तकाले हि भूतानि मुह्यन्ति इति पुराश्रुति । राज्ञा एवम् कुर्वता लोके प्रत्यक्षम् सा श्रुतिः कृता ॥ २।१०६।१३ ॥
antakāle hi bhūtāni muhyanti iti purāśruti . rājñā evam kurvatā loke pratyakṣam sā śrutiḥ kṛtā .. 2.106.13 ..
साध्वर्थमभिसन्धाय ऺक्रोधान्मोहाच्च साहसात् । तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ २.१०६.१४ ॥
साधु-अर्थम् अभिसन्धाय क्रोधात् मोहात् च साहसात् । तातस्य यत् अतिक्रान्तम् प्रत्याहरतु तत् भवान् ॥ २।१०६।१४ ॥
sādhu-artham abhisandhāya krodhāt mohāt ca sāhasāt . tātasya yat atikrāntam pratyāharatu tat bhavān .. 2.106.14 ..
पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥ २.१०६.१५ ॥
पितुः अपतन-हेतु-त्वात् तत् एव अपत्य-त्वेन सम्मतम् ॥ २।१०६।१५ ॥
pituḥ apatana-hetu-tvāt tat eva apatya-tvena sammatam .. 2.106.15 ..
तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितु: । अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ २.१०६.१६ ॥
तत् अपत्यम् भवान् अस्तु मा भवान् दुष्कृतम् पितु । अभिपत्ता कृतम् कर्म लोके धीर-विगर्हितम् ॥ २।१०६।१६ ॥
tat apatyam bhavān astu mā bhavān duṣkṛtam pitu . abhipattā kṛtam karma loke dhīra-vigarhitam .. 2.106.16 ..
कैकेयीं मां च तातं च सुहृदो बान्धवांश्च न: । पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ॥ २.१०६.१७ ॥
कैकेयीम् माम् च तातम् च सुहृदः बान्धवान् च नः । पौर-जानपदान् सर्वान् त्रातु सर्वम् इदम् भवान् ॥ २।१०६।१७ ॥
kaikeyīm mām ca tātam ca suhṛdaḥ bāndhavān ca naḥ . paura-jānapadān sarvān trātu sarvam idam bhavān .. 2.106.17 ..
क्व चारण्यं क्व च क्षात्ऺत्र क्व जटा: क्व च पालनम् । ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ २.१०६.१८ ॥
क्व च अरण्यम् क्व च क्षात्र क्व जटा क्व च पालनम् । ईदृशम् व्याहतम् कर्म न भवान् कर्तुम् अर्हति ॥ २।१०६।१८ ॥
kva ca araṇyam kva ca kṣātra kva jaṭā kva ca pālanam . īdṛśam vyāhatam karma na bhavān kartum arhati .. 2.106.18 ..
एष हि प्रथमो धर्म: क्षत्ऺित्रयस्याभिषेचनम् । येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ २.१०६.१९ ॥
एष हि प्रथमः धर्मः क्षत्ऺइ-त्रयस्य अभिषेचनम् । येन शक्यम् महा-प्राज्ञ प्रजानाम् परिपालनम् ॥ २।१०६।१९ ॥
eṣa hi prathamaḥ dharmaḥ kṣat_öi-trayasya abhiṣecanam . yena śakyam mahā-prājña prajānām paripālanam .. 2.106.19 ..
कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् । आयतिस्थं चरेद्धर्मं क्षत्ऺत्रबन्धुरनिश्चितम् ॥ २.१०६.२० ॥
कः च प्रत्यक्षम् उत्सृज्य संशय-स्थम् अलक्षणम् । आयति-स्थम् चरेत् धर्मम् क्षत्रबन्धुः अनिश्चितम् ॥ २।१०६।२० ॥
kaḥ ca pratyakṣam utsṛjya saṃśaya-stham alakṣaṇam . āyati-stham caret dharmam kṣatrabandhuḥ aniścitam .. 2.106.20 ..
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि । धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ २.१०६.२१ ॥
अथ क्लेश-जम् एव त्वम् धर्मम् चरितुम् इच्छसि । धर्मेण चतुरः वर्णान् पालयन् क्लेशम् आप्नुहि ॥ २।१०६।२१ ॥
atha kleśa-jam eva tvam dharmam caritum icchasi . dharmeṇa caturaḥ varṇān pālayan kleśam āpnuhi .. 2.106.21 ..
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् । प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ २.१०६.२२ ॥
चतुर्णाम् आश्रमाणाम् हि गार्हस्थ्यम् श्रेष्ठम् आश्रमम् । प्राहुः धर्म-ज्ञ धर्म-ज्ञाः तम् कथम् त्यक्तुम् अर्हसि ॥ २।१०६।२२ ॥
caturṇām āśramāṇām hi gārhasthyam śreṣṭham āśramam . prāhuḥ dharma-jña dharma-jñāḥ tam katham tyaktum arhasi .. 2.106.22 ..
श्रुतेन बाल: स्थानेन जन्मना भवतो ह्यहम् । स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ २.१०६.२३ ॥
श्रुतेन बाल स्थानेन जन्मना भवतः हि अहम् । स कथम् पालयिष्यामि भूमिम् भवति तिष्ठति ॥ २।१०६।२३ ॥
śrutena bāla sthānena janmanā bhavataḥ hi aham . sa katham pālayiṣyāmi bhūmim bhavati tiṣṭhati .. 2.106.23 ..
हीनबुद्धिगुणो बालो हीन: स्थानेन चाप्यहम् । भवता च विनाभूतो न वर्त्तयितुमुत्सहे ॥ २.१०६.२४ ॥
हीन-बुद्धि-गुणः बालः स्थानेन च अपि अहम् । भवता च विनाभूतः न वर्त्तयितुम् उत्सहे ॥ २।१०६।२४ ॥
hīna-buddhi-guṇaḥ bālaḥ sthānena ca api aham . bhavatā ca vinābhūtaḥ na varttayitum utsahe .. 2.106.24 ..
इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् । अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवै: ॥ २.१०६.२५ ॥
इदम् निखिलम् अव्यग्रम् राज्यम् पित्र्यम् अकण्टकम् । अनुशाधि स्वधर्मेण धर्म-ज्ञ सह बान्धवैः ॥ २।१०६।२५ ॥
idam nikhilam avyagram rājyam pitryam akaṇṭakam . anuśādhi svadharmeṇa dharma-jña saha bāndhavaiḥ .. 2.106.25 ..
इहैव त्वा ऽभिषिञ्चन्तु सर्वा: प्रकृतय: सह । ऋत्विज: सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदा: ॥ २.१०६.२६ ॥
इह एव त्वा अभिषिञ्चन्तु सर्वाः प्रकृतयः सह । ऋत्विजः स वसिष्ठाः च मन्त्रवत् मन्त्र-कोविदाः ॥ २।१०६।२६ ॥
iha eva tvā abhiṣiñcantu sarvāḥ prakṛtayaḥ saha . ṛtvijaḥ sa vasiṣṭhāḥ ca mantravat mantra-kovidāḥ .. 2.106.26 ..
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज । विजित्य तरसा लोकान् मरुद्भिरिव वासव: ॥ २.१०६.२७ ॥
अभिषिक्तः त्वम् अस्माभिः अयोध्याम् पालने व्रज । विजित्य तरसा लोकान् मरुद्भिः इव वासवः ॥ २।१०६।२७ ॥
abhiṣiktaḥ tvam asmābhiḥ ayodhyām pālane vraja . vijitya tarasā lokān marudbhiḥ iva vāsavaḥ .. 2.106.27 ..
ऋणानि त्रीण्यपाकुर्वन् दुर्हृद: साधु निर्द्दहन् । सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥ २.१०६.२८ ॥
ऋणानि त्रीणि अपाकुर्वन् दुर्हृदः साधु निर्द्दहन् । सुहृदः तर्पयन् कामैः त्वम् एव अत्र अनुशाधि माम् ॥ २।१०६।२८ ॥
ṛṇāni trīṇi apākurvan durhṛdaḥ sādhu nirddahan . suhṛdaḥ tarpayan kāmaiḥ tvam eva atra anuśādhi mām .. 2.106.28 ..
अद्यार्य मुदिता: सन्तु सुहृदस्ते ऽभिषेचने । अद्य भीता: पलायन्तां दुर्हृदस्ते दिशो दश ॥ २.१०६.२९ ॥
अद्य आर्य मुदिताः सन्तु सुहृदः ते अभिषेचने । अद्य भीताः पलायन्ताम् दुर्हृदः ते दिशः दश ॥ २।१०६।२९ ॥
adya ārya muditāḥ santu suhṛdaḥ te abhiṣecane . adya bhītāḥ palāyantām durhṛdaḥ te diśaḥ daśa .. 2.106.29 ..
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ । अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ २.१०६.३० ॥
आक्रोशम् मम मातुः च प्रमृज्य पुरुष-ऋषभ । अद्य तत्रभवन्तम् च पितरम् रक्ष किल्बिषात् ॥ २।१०६।३० ॥
ākrośam mama mātuḥ ca pramṛjya puruṣa-ṛṣabha . adya tatrabhavantam ca pitaram rakṣa kilbiṣāt .. 2.106.30 ..
शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि । बान्धवेषु च सर्वेषु भूतेष्विव महेश्वर: ॥ २.१०६.३१ ॥
शिरसा त्वा अभियाचे अहम् कुरुष्व करुणाम् मयि । बान्धवेषु च सर्वेषु भूतेषु इव महेश्वर ॥ २।१०६।३१ ॥
śirasā tvā abhiyāce aham kuruṣva karuṇām mayi . bāndhaveṣu ca sarveṣu bhūteṣu iva maheśvara .. 2.106.31 ..
अथैतत् पृष्ठत: कृत्वा वनमेव भवानित: । गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ॥ २.१०६.३२ ॥
अथ एतत् पृष्ठतस् कृत्वा वनम् एव भवान् इतस् । गमिष्यति गमिष्यामि भवता सार्द्धम् अपि अहम् ॥ २।१०६।३२ ॥
atha etat pṛṣṭhatas kṛtvā vanam eva bhavān itas . gamiṣyati gamiṣyāmi bhavatā sārddham api aham .. 2.106.32 ..
तथाहि रामो भरतेन ताम्यता प्रसाद्यमान: शिरसा महीपति: । न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थित: ॥ २.१०६.३३ ॥
तथा हि रामः भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः । न च एव चक्रे गमनाय सत्त्ववान् मतिम् पितुः तद्-वचने व्यवस्थितः ॥ २।१०६।३३ ॥
tathā hi rāmaḥ bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ . na ca eva cakre gamanāya sattvavān matim pituḥ tad-vacane vyavasthitaḥ .. 2.106.33 ..
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दु:खित: । न यात्ययोध्यामिति दु:खितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षित: ॥ २.१०६.३४ ॥
तत् अद्भुतम् स्थैर्यम् अवेक्ष्य राघवे समम् जनः हर्षम् अवाप दुःखितः । न याति अयोध्याम् इति दु:खितः अभवत् स्थिरप्रतिज्ञ-त्वम् अवेक्ष्य हर्षितः ॥ २।१०६।३४ ॥
tat adbhutam sthairyam avekṣya rāghave samam janaḥ harṣam avāpa duḥkhitaḥ . na yāti ayodhyām iti du:khitaḥ abhavat sthirapratijña-tvam avekṣya harṣitaḥ .. 2.106.34 ..
तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातर: । तथा ब्रुवाणं भरतं प्रतुष्टुवु: प्रणम्य रामं च ययाचिरे सह ॥ २.१०६.३५ ॥
तम् ऋत्विजः नैगम-यूथ-वल्लभाः तदा विंस-ज्ञ-अश्रु-कलाः च मातरः । तथा ब्रुवाणम् भरतम् प्रतुष्टुवुः प्रणम्य रामम् च ययाचिरे सह ॥ २।१०६।३५ ॥
tam ṛtvijaḥ naigama-yūtha-vallabhāḥ tadā viṃsa-jña-aśru-kalāḥ ca mātaraḥ . tathā bruvāṇam bharatam pratuṣṭuvuḥ praṇamya rāmam ca yayācire saha .. 2.106.35 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडुत्तरशततम: सर्ग: ॥ १०६ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे षडुत्तरशततमः सर्गः ॥ १०६ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe ṣaḍuttaraśatatamaḥ sargaḥ .. 106 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In