This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तोत्तरशततम:: सर्गः ॥२-१०7॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्तोत्तरशततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptottaraśatatamaḥ sargaḥ ..2..
पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: । प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ॥ २.१०७.१ ॥
पुनर् एवम् ब्रुवाणम् तम् भरतम् लक्ष्मण-अग्रज । प्रत्युवाच ततस् श्रीमान् ज्ञाति-मध्ये अभिसत्कृतः ॥ २।१०७।१ ॥
punar evam bruvāṇam tam bharatam lakṣmaṇa-agraja . pratyuvāca tatas śrīmān jñāti-madhye abhisatkṛtaḥ .. 2.107.1 ..
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: । जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ २.१०७.२ ॥
उपपन्नम् इदम् वाक्यम् यत् त्वम् एवम् अभाषथाः । जात पुत्रः दशरथात् कैकेय्याम् राज-सत्तमात् ॥ २।१०७।२ ॥
upapannam idam vākyam yat tvam evam abhāṣathāḥ . jāta putraḥ daśarathāt kaikeyyām rāja-sattamāt .. 2.107.2 ..
पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् । मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ २.१०७.३ ॥
पुरा भ्रातर् पिता नः स मातरम् ते समुद्वहन् । मातामहे समाश्रौषीत् राज्य-शुल्कम् अनुत्तमम् ॥ २।१०७।३ ॥
purā bhrātar pitā naḥ sa mātaram te samudvahan . mātāmahe samāśrauṣīt rājya-śulkam anuttamam .. 2.107.3 ..
दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव: । सम्प्रहृष्टो ददौ राजा वरमाराधित: प्रभु: ॥ २.१०७.४ ॥
दैव-आसुरे च सङ्ग्रामे जनन्यै तव पार्थिव । सम्प्रहृष्टः ददौ राजा वरम् आराधितः प्रभुः ॥ २।१०७।४ ॥
daiva-āsure ca saṅgrāme jananyai tava pārthiva . samprahṛṣṭaḥ dadau rājā varam ārādhitaḥ prabhuḥ .. 2.107.4 ..
तत: सा सम्प्रतिश्राव्य तव माता यशस्विनी । अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ २.१०७.५ ॥
ततस् सा सम्प्रतिश्राव्य तव माता यशस्विनी । अयाचत नर-श्रेष्ठम् द्वौ वरौ वरवर्णिनी ॥ २।१०७।५ ॥
tatas sā sampratiśrāvya tava mātā yaśasvinī . ayācata nara-śreṣṭham dvau varau varavarṇinī .. 2.107.5 ..
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा । तौ च राजा तदा तस्यै नियुक्त: प्रददौ वरौ ॥ २.१०७.६ ॥
तव राज्यम् नर-व्याघ्र मम प्रव्राजनम् तथा । तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥ २।१०७।६ ॥
tava rājyam nara-vyāghra mama pravrājanam tathā . tau ca rājā tadā tasyai niyuktaḥ pradadau varau .. 2.107.6 ..
तेन पित्रा ऽहमप्यत्र नियुक्त: पुरुषर्षभ । चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ २.१०७.७ ॥
तेन पित्रा अहम् अपि अत्र नियुक्तः पुरुष-ऋषभ । चतुर्दश वने वासम् वर्षाणि वर-दानिकम् ॥ २।१०७।७ ॥
tena pitrā aham api atra niyuktaḥ puruṣa-ṛṣabha . caturdaśa vane vāsam varṣāṇi vara-dānikam .. 2.107.7 ..
सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वित: । सीतया चाप्रतिद्वन्द्व: सत्यवादे स्थित: पितु: ॥ २.१०७.८ ॥
सः अहम् वनम् इदम् प्राप्तः निर्जनम् लक्ष्मण-अन्वितः । सीतया च अप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ॥ २।१०७।८ ॥
saḥ aham vanam idam prāptaḥ nirjanam lakṣmaṇa-anvitaḥ . sītayā ca apratidvandvaḥ satyavāde sthitaḥ pituḥ .. 2.107.8 ..
भवानपि तथेत्येव पितरं सत्यवादिनम् । कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ २.१०७.९ ॥
भवान् अपि तथा इति एव पितरम् सत्य-वादिनम् । कर्त्तुम् अर्हति राज-इन्द्र क्षिप्रम् एव अभिषेचनात् ॥ २।१०७।९ ॥
bhavān api tathā iti eva pitaram satya-vādinam . karttum arhati rāja-indra kṣipram eva abhiṣecanāt .. 2.107.9 ..
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् । पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ २.१०७.१० ॥
ऋणात् मोचय राजानम् मद्-कृते भरत प्रभुम् । पितरम् च अपि धर्म-ज्ञम् मातरम् च अभिनन्दय ॥ २।१०७।१० ॥
ṛṇāt mocaya rājānam mad-kṛte bharata prabhum . pitaram ca api dharma-jñam mātaram ca abhinandaya .. 2.107.10 ..
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना । गयेन यजमानेन गयेष्वेव पितऽन् प्रति ॥ २.१०७.११ ॥
श्रूयते हि पुरा तात श्रुतिः गीता यशस्विना । गयेन यजमानेन गयेषु एव पित अन् प्रति ॥ २।१०७।११ ॥
śrūyate hi purā tāta śrutiḥ gītā yaśasvinā . gayena yajamānena gayeṣu eva pita an prati .. 2.107.11 ..
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत: । तस्मात् पुत्र इति प्रोक्त: पितऽन् यत्पाति वा सुत: ॥ २.१०७.१२ ॥
पुत्-नाम्नः नरकात् यस्मात् पितरम् त्रायते सुत । तस्मात् पुत्रः इति प्रोक्तः पित यत् पाति वा सुतः ॥ २।१०७।१२ ॥
put-nāmnaḥ narakāt yasmāt pitaram trāyate suta . tasmāt putraḥ iti proktaḥ pita yat pāti vā sutaḥ .. 2.107.12 ..
एष्टव्या बहव: पुत्रा गुणवन्तो बहुश्रुता: । तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ २.१०७.१३ ॥
एष्टव्याः बहवः पुत्राः गुणवन्तः बहु-श्रुताः । तेषाम् वै समवेतानाम् अपि कश्चिद् गयाम् व्रजेत् ॥ २।१०७।१३ ॥
eṣṭavyāḥ bahavaḥ putrāḥ guṇavantaḥ bahu-śrutāḥ . teṣām vai samavetānām api kaścid gayām vrajet .. 2.107.13 ..
एवं राजर्षय: सर्वे प्रतीता राजनन्दन । तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥ २.१०७.१४ ॥
एवम् राजर्षयः सर्वे प्रतीताः राज-नन्दन । तस्मात् त्राहि नर-श्रेष्ठ पितरम् नरकात् प्रभो ॥ २।१०७।१४ ॥
evam rājarṣayaḥ sarve pratītāḥ rāja-nandana . tasmāt trāhi nara-śreṣṭha pitaram narakāt prabho .. 2.107.14 ..
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय । शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभि: ॥ २.१०७.१५ ॥
अयोध्याम् गच्छ भरत प्रकृतीः अनुरञ्जय । शत्रुघ्न-सहितः वीर सह सर्वैः द्विजातिभिः ॥ २।१०७।१५ ॥
ayodhyām gaccha bharata prakṛtīḥ anurañjaya . śatrughna-sahitaḥ vīra saha sarvaiḥ dvijātibhiḥ .. 2.107.15 ..
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् । आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ २.१०७.१६ ॥
प्रवेक्ष्ये दण्डक-अरण्यम् अहम् अपि अविलम्बयन् । आभ्याम् तु सहितः राजन् वैदेह्या लक्ष्मणेन च ॥ २।१०७।१६ ॥
pravekṣye daṇḍaka-araṇyam aham api avilambayan . ābhyām tu sahitaḥ rājan vaidehyā lakṣmaṇena ca .. 2.107.16 ..
त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् । गच्छत्वं पुरवरमद्य सम्प्रहृष्ट: संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥ २.१०७.१७ ॥
त्वम् राजा भरत भव स्वयम् नराणाम् वन्यानाम् अहम् अपि राज-राज् मृगाणाम् । गच्छत्वम् पुरवरम् अद्य सम्प्रहृष्ट संहृष्टः तु अहम् अपि दण्डकान् प्रवेक्ष्ये ॥ २।१०७।१७ ॥
tvam rājā bharata bhava svayam narāṇām vanyānām aham api rāja-rāj mṛgāṇām . gacchatvam puravaram adya samprahṛṣṭa saṃhṛṣṭaḥ tu aham api daṇḍakān pravekṣye .. 2.107.17 ..
छायां ते दिनकरभा: प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् । एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ॥ २.१०७.१८ ॥
छायाम् ते दिनकर-भास् प्रबाधमानम् वर्षत्रम् भरत करोतु मूर्ध्नि शीताम् । एतेषाम् अहम् अपि कानन-द्रुमाणाम् छायाम् ताम् अति शयिनीम् सुखी श्रयिष्ये ॥ २।१०७।१८ ॥
chāyām te dinakara-bhās prabādhamānam varṣatram bharata karotu mūrdhni śītām . eteṣām aham api kānana-drumāṇām chāyām tām ati śayinīm sukhī śrayiṣye .. 2.107.18 ..
शत्रुघ्न: कुशलमतिस्तु ते सहाय: सौमित्रिर्मम विदित: प्रधानमित्रम् । चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ २.१०७.१९ ॥
शत्रुघ्न कुशल-मतिः तु ते सहायः सौमित्रिः मम विदितः प्रधान-मित्रम् । चत्वारः तनय-वराः वयम् नरेन्द्रम् सत्यस्थम् भरत चराम मा विषादम् ॥ २।१०७।१९ ॥
śatrughna kuśala-matiḥ tu te sahāyaḥ saumitriḥ mama viditaḥ pradhāna-mitram . catvāraḥ tanaya-varāḥ vayam narendram satyastham bharata carāma mā viṣādam .. 2.107.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततम: सर्ग: ॥ १०७ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे सप्तोत्तरशततमः सर्गः ॥ १०७ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe saptottaraśatatamaḥ sargaḥ .. 107 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In