This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवोत्तरशततम: सर्गः ॥२-१०९॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे नवोत्तरशततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe navottaraśatatamaḥ sargaḥ ..2..
जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: । उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ २.१०९.१ ॥
जाबालेः तु वचः श्रुत्वा रामः सत्य-आत्मनाम् वरः । उवाच परया भक्त्या स्व-बुद्ध्या च अविपन्नया ॥ २।१०९।१ ॥
jābāleḥ tu vacaḥ śrutvā rāmaḥ satya-ātmanām varaḥ . uvāca parayā bhaktyā sva-buddhyā ca avipannayā .. 2.109.1 ..
भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् । अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ २.१०९.२ ॥
भवान् मे प्रिय-काम-अर्थम् वचनम् यत् इह उक्तवान् । अकार्य्यम् कार्य्य-सङ्काशम् अपथ्यम् पथ्य-सम्मितम् ॥ २।१०९।२ ॥
bhavān me priya-kāma-artham vacanam yat iha uktavān . akāryyam kāryya-saṅkāśam apathyam pathya-sammitam .. 2.109.2 ..
निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: । मानं न लभते सत्सु भिन्नचारित्रदर्शन: ॥ २.१०९.३ ॥
निर्मर्यादः तु पुरुषः पाप-आचार-समन्वितः । मानम् न लभते सत्सु भिन्न-चारित्र-दर्शनः ॥ २।१०९।३ ॥
nirmaryādaḥ tu puruṣaḥ pāpa-ācāra-samanvitaḥ . mānam na labhate satsu bhinna-cāritra-darśanaḥ .. 2.109.3 ..
कुलीनमकुलीनं वा वीरं पुरुषमानिनम् । चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ॥ २.१०९.४ ॥
कुलीनम् अकुलीनम् वा वीरम् पुरुष-मानिनम् । चारित्रम् एव व्याख्याति शुचिम् वा यदि वा अशुचिम् ॥ २।१०९।४ ॥
kulīnam akulīnam vā vīram puruṣa-māninam . cāritram eva vyākhyāti śucim vā yadi vā aśucim .. 2.109.4 ..
अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: । लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव ॥ २.१०९.५ ॥
अनार्यः तु आर्य-सङ्काशः शौचात् हीनः तथा शुचिः । लक्षण्य-वत् अलक्षण्यः शीलवान् इव ॥ २।१०९।५ ॥
anāryaḥ tu ārya-saṅkāśaḥ śaucāt hīnaḥ tathā śuciḥ . lakṣaṇya-vat alakṣaṇyaḥ śīlavān iva .. 2.109.5 ..
अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् । अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ २.१०९.६ ॥
अधर्मम् धर्म-वेषेण यदि इमम् लोक-सङ्करम् । अभिपत्स्ये शुभम् हित्वा क्रिया-विधि-विवर्जितम् ॥ २।१०९।६ ॥
adharmam dharma-veṣeṇa yadi imam loka-saṅkaram . abhipatsye śubham hitvā kriyā-vidhi-vivarjitam .. 2.109.6 ..
कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: । बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ २.१०९.७ ॥
कः चेतयानः पुरुषः कार्य-अकार्य-विचक्षणः । बहु-मंस्यति माम् लोके दुर्वृत्तम् लोक-दूषणम् ॥ २।१०९।७ ॥
kaḥ cetayānaḥ puruṣaḥ kārya-akārya-vicakṣaṇaḥ . bahu-maṃsyati mām loke durvṛttam loka-dūṣaṇam .. 2.109.7 ..
कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् । अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ २.१०९.८ ॥
कस्य धास्यामि अहम् वृत्तम् केन वा स्वर्गम् आप्नुयाम् । अनया वर्त्तमानः हि वृत्त्या हीन-प्रतिज्ञया ॥ २।१०९।८ ॥
kasya dhāsyāmi aham vṛttam kena vā svargam āpnuyām . anayā varttamānaḥ hi vṛttyā hīna-pratijñayā .. 2.109.8 ..
कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते । यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा: ॥ २.१०९.९ ॥
काम-वृत्तः तु अयम् लोकः कृत्स्नः समुपवर्त्तते । यद्-वृत्ताः सन्ति राजानः तद्-वृत्ताः सन्ति हि प्रजाः ॥ २।१०९।९ ॥
kāma-vṛttaḥ tu ayam lokaḥ kṛtsnaḥ samupavarttate . yad-vṛttāḥ santi rājānaḥ tad-vṛttāḥ santi hi prajāḥ .. 2.109.9 ..
सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् । तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित: ॥ २.१०९.१० ॥
सत्यम् एव अनृशंसम् च राज-वृत्तम् सनातनम् । तस्मात् सत्य-आत्मकम् राज्यम् सत्ये लोकः प्रतिष्ठितः ॥ २।१०९।१० ॥
satyam eva anṛśaṃsam ca rāja-vṛttam sanātanam . tasmāt satya-ātmakam rājyam satye lokaḥ pratiṣṭhitaḥ .. 2.109.10 ..
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे । सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ॥ २.१०९.११ ॥
ऋषयः च एव देवाः च सत्यम् एव हि मेनिरे । सत्य-वादी हि लोके अस्मिन् परमम् गच्छति क्षयम् ॥ २।१०९।११ ॥
ṛṣayaḥ ca eva devāḥ ca satyam eva hi menire . satya-vādī hi loke asmin paramam gacchati kṣayam .. 2.109.11 ..
उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: । धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ २.१०९.१२ ॥
उद्विजन्ते यथा सर्प्पात् नरात् अनृत-वादिनः । धर्मः सत्यम् परः लोके मूलम् स्वर्गस्य च उच्यते ॥ २।१०९।१२ ॥
udvijante yathā sarppāt narāt anṛta-vādinaḥ . dharmaḥ satyam paraḥ loke mūlam svargasya ca ucyate .. 2.109.12 ..
सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा । सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ २.१०९.१३ ॥
सत्यम् एव ईश्वरः लोके सत्यम् पद्मा श्रिता सदा । सत्य-मूलानि सर्वाणि सत्यात् न अस्ति परम् पदम् ॥ २।१०९।१३ ॥
satyam eva īśvaraḥ loke satyam padmā śritā sadā . satya-mūlāni sarvāṇi satyāt na asti param padam .. 2.109.13 ..
दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च । वेदा: सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ २.१०९.१४ ॥
दत्तम् इष्टम् हुतम् च एव तप्तानि च तपांसि च । वेदाः सत्य-प्रतिष्ठानाः तस्मात् सत्य-परः भवेत् ॥ २।१०९।१४ ॥
dattam iṣṭam hutam ca eva taptāni ca tapāṃsi ca . vedāḥ satya-pratiṣṭhānāḥ tasmāt satya-paraḥ bhavet .. 2.109.14 ..
एक: पालयते लोकमेक: पालयते कुलम् । मज्जत्येको हि निरय एक: स्वर्गे महीयते ॥ २.१०९.१५ ॥
एकः पालयते लोकम् एकः पालयते कुलम् । मज्जति एकः हि निरये एकः स्वर्गे महीयते ॥ २।१०९।१५ ॥
ekaḥ pālayate lokam ekaḥ pālayate kulam . majjati ekaḥ hi niraye ekaḥ svarge mahīyate .. 2.109.15 ..
सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये । सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत: ॥ २.१०९.१६ ॥
सः अहम् पितुः नियोगम् तु किमर्थम् न अनुपालये । सत्य-प्रतिश्रवः सत्यम् सत्येन समयीकृतः ॥ २।१०९।१६ ॥
saḥ aham pituḥ niyogam tu kimartham na anupālaye . satya-pratiśravaḥ satyam satyena samayīkṛtaḥ .. 2.109.16 ..
नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: । सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव: ॥ २.१०९.१७ ॥
न एव लोभात् न मोहात् वा न हि अज्ञानात् तमः-न्वितः । सेतुम् सत्यस्य भेत्स्यामि गुरो सत्य-प्रतिश्रवः ॥ २।१०९।१७ ॥
na eva lobhāt na mohāt vā na hi ajñānāt tamaḥ-nvitaḥ . setum satyasya bhetsyāmi guro satya-pratiśravaḥ .. 2.109.17 ..
असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: । नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम् ॥ २.१०९.१८ ॥
असत्य-सन्धस्य सतः चलस्य अस्थिर-चेतसः । न एव देवाः न पितरः प्रतीच्छन्ति इति नः श्रुतम् ॥ २।१०९।१८ ॥
asatya-sandhasya sataḥ calasya asthira-cetasaḥ . na eva devāḥ na pitaraḥ pratīcchanti iti naḥ śrutam .. 2.109.18 ..
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् । भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ २.१०९.१९ ॥
प्रत्यगात्मम् इमम् धर्मम् सत्यम् पश्यामि अहम् स्वयम् । भारः सत्-पुरुष-आचीर्णः तद्-अर्थम् अभिमन्यते ॥ २।१०९।१९ ॥
pratyagātmam imam dharmam satyam paśyāmi aham svayam . bhāraḥ sat-puruṣa-ācīrṇaḥ tad-artham abhimanyate .. 2.109.19 ..
क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् । क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि: ॥ २.१०९.२० ॥
क्षात्रम् धर्मम् अहम् त्यक्ष्ये हि अधर्मम् धर्म-संहितम् । क्षुद्रैः नृशंसैः लुब्धैः च सेवितम् पाप-कर्मभिः ॥ २।१०९।२० ॥
kṣātram dharmam aham tyakṣye hi adharmam dharma-saṃhitam . kṣudraiḥ nṛśaṃsaiḥ lubdhaiḥ ca sevitam pāpa-karmabhiḥ .. 2.109.20 ..
कायेन कुरुते पापं मनसा सम्प्रधार्य च । अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २.१०९.२१ ॥
कायेन कुरुते पापम् मनसा सम्प्रधार्य च । अनृतम् जिह्वया च आह त्रिविधम् कर्म पातकम् ॥ २।१०९।२१ ॥
kāyena kurute pāpam manasā sampradhārya ca . anṛtam jihvayā ca āha trividham karma pātakam .. 2.109.21 ..
भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि । स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ २.१०९.२२ ॥
भूमिः कीर्त्तिः यशः लक्ष्मी पुरुषम् प्रार्थयन्ति हि । स्वर्ग-स्थम् च अनुपश्यन्ति सत्यम् एव भजेत तत् ॥ २।१०९।२२ ॥
bhūmiḥ kīrttiḥ yaśaḥ lakṣmī puruṣam prārthayanti hi . svarga-stham ca anupaśyanti satyam eva bhajeta tat .. 2.109.22 ..
श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् । आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २.१०९.२३ ॥
श्रेष्ठम् हि अनार्यम् एव स्यात् यत् भवान् अवधार्य्य माम् । आह युक्तिकरैः वाक्यैः इदम् भद्रम् कुरुष्व ह ॥ २।१०९।२३ ॥
śreṣṭham hi anāryam eva syāt yat bhavān avadhāryya mām . āha yuktikaraiḥ vākyaiḥ idam bhadram kuruṣva ha .. 2.109.23 ..
कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ । भरतस्य करिष्यामि वचो हित्वा गुरोर्वच: ॥ २.१०९.२४ ॥
कथम् हि अहम् प्रतिज्ञाय वन-वासम् इमम् गुरौ । भरतस्य करिष्यामि वचः हित्वा गुरोः वचः ॥ २।१०९।२४ ॥
katham hi aham pratijñāya vana-vāsam imam gurau . bharatasya kariṣyāmi vacaḥ hitvā guroḥ vacaḥ .. 2.109.24 ..
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ । प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ २.१०९.२५ ॥
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरु-सन्निधौ । प्रहृष्यमाणा सा देवी कैकेयी च भवत् तदा ॥ २।१०९।२५ ॥
sthirā mayā pratijñātā pratijñā guru-sannidhau . prahṛṣyamāṇā sā devī kaikeyī ca bhavat tadā .. 2.109.25 ..
वनवासं वसन्नेवं शुचिर्नियतभोजन: । मूलै: पुष्पै: फलै: पुण्यै: पितऽन् देवांश्च तर्पयन् ॥ २.१०९.२६ ॥
वन-वासम् वसन् एवम् शुचिः नियत-भोजनः । मूलैः पुष्पैः फलैः पुण्यैः पित देवान् च तर्पयन् ॥ २।१०९।२६ ॥
vana-vāsam vasan evam śuciḥ niyata-bhojanaḥ . mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pita devān ca tarpayan .. 2.109.26 ..
सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये । अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण: ॥ २.१०९.२७ ॥
सन्तुष्ट-पञ्चवर्गः अहम् लोकयात्राम् प्रवर्त्तये । अकुहः श्रद्दधानः सन् कार्य्य-अकार्य्य-विचक्षणः ॥ २।१०९।२७ ॥
santuṣṭa-pañcavargaḥ aham lokayātrām pravarttaye . akuhaḥ śraddadhānaḥ san kāryya-akāryya-vicakṣaṇaḥ .. 2.109.27 ..
कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् । अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन: ॥ २.१०९.२८ ॥
कर्म-भूमिम् इमाम् प्राप्य कर्त्तव्यम् कर्म यत् शुभम् । अग्निः वायुः च सोमः च कर्मणाम् फल-भागिनः ॥ २।१०९।२८ ॥
karma-bhūmim imām prāpya karttavyam karma yat śubham . agniḥ vāyuḥ ca somaḥ ca karmaṇām phala-bhāginaḥ .. 2.109.28 ..
शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: । तपांस्युग्राणि चास्थाय दिवं याता महर्षय: ॥ २.१०९.२९ ॥
शतम् क्रतूनाम् आहृत्य देवराज् त्रिदिवङ्गतः । तपांसि उग्राणि च आस्थाय दिवम् याताः महा-ऋषयः ॥ २।१०९।२९ ॥
śatam kratūnām āhṛtya devarāj tridivaṅgataḥ . tapāṃsi ugrāṇi ca āsthāya divam yātāḥ mahā-ṛṣayaḥ .. 2.109.29 ..
अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् । अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ २.१०९.३० ॥
अमृष्यमाणः पुनर् उग्र-तेजाः निशम्य तद्-नास्तिक-वाक्य-हेतुम् । अथा अब्रवीत् तम् नृपतेः तनूजः विगर्हमाणः वचनानि तस्य ॥ २।१०९।३० ॥
amṛṣyamāṇaḥ punar ugra-tejāḥ niśamya tad-nāstika-vākya-hetum . athā abravīt tam nṛpateḥ tanūjaḥ vigarhamāṇaḥ vacanāni tasya .. 2.109.30 ..
सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च । द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त: ॥ २.१०९.३१ ॥
सत्यम् च धर्मम् च पराक्रमम् च भूत-अनुकम्पाम् प्रिय-वादि-ताम् च । द्विजाति-देव-अतिथि-पूजनम् च पन्थानम् आहुः त्रिदिवस्य सन्तः ॥ २।१०९।३१ ॥
satyam ca dharmam ca parākramam ca bhūta-anukampām priya-vādi-tām ca . dvijāti-deva-atithi-pūjanam ca panthānam āhuḥ tridivasya santaḥ .. 2.109.31 ..
तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: । धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता: ॥ २.१०९.३२ ॥
तेन एवम् आज्ञाय यथावत् अर्थम् एक-उदयम् सम्प्रतिपद्य विप्राः । धर्मम् चरन्तः सकलम् यथावत् कांक्षन्ति लोक-आगमम् अप्रमत्ताः ॥ २।१०९।३२ ॥
tena evam ājñāya yathāvat artham eka-udayam sampratipadya viprāḥ . dharmam carantaḥ sakalam yathāvat kāṃkṣanti loka-āgamam apramattāḥ .. 2.109.32 ..
निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् । बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ २.१०९.३३ ॥
निन्दामि अहम् कर्म पितुः कृतम् तत् यः त्वाम् अगृह्णात् विषम-स्थ-बुद्धिम् । बुद्ध्या अनया एवंविधया चरन्तम् सु नास्तिकम् धर्म-पथात् अपेतम् ॥ २।१०९।३३ ॥
nindāmi aham karma pituḥ kṛtam tat yaḥ tvām agṛhṇāt viṣama-stha-buddhim . buddhyā anayā evaṃvidhayā carantam su nāstikam dharma-pathāt apetam .. 2.109.33 ..
यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि । तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ॥ २.१०९.३४ ॥
यथा हि चोर स तथा हि बुद्धः तथागतम् नास्तिकम् अत्र विद्धि । तस्मात् हि यः शङ्क्यतमः प्रजानाम् न नास्तिकेन अभिमुखः बुधः स्यात् ॥ २।१०९।३४ ॥
yathā hi cora sa tathā hi buddhaḥ tathāgatam nāstikam atra viddhi . tasmāt hi yaḥ śaṅkyatamaḥ prajānām na nāstikena abhimukhaḥ budhaḥ syāt .. 2.109.34 ..
त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: । जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च ॥ २.१०९.३५ ॥
त्वत्तः जनाः पूर्वतरे वराः च शुभानि कर्माणि बहूनि चक्रुः । जित्वा सदा इमम् च परन् च लोकम् तस्मात् द्विजाः स्वस्ति हुतम् कृतम् च ॥ २।१०९।३५ ॥
tvattaḥ janāḥ pūrvatare varāḥ ca śubhāni karmāṇi bahūni cakruḥ . jitvā sadā imam ca paran ca lokam tasmāt dvijāḥ svasti hutam kṛtam ca .. 2.109.35 ..
धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: । अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना: ॥ २.१०९.३६ ॥
धर्मे रताः सत्-पुरुषैः समेताः तेजस्विनः दान-गुण-प्रधानाः । अहिंसकाः वीत-मलाः च लोके भवन्ति पूज्याः मुनयः प्रधानाः ॥ २।१०९।३६ ॥
dharme ratāḥ sat-puruṣaiḥ sametāḥ tejasvinaḥ dāna-guṇa-pradhānāḥ . ahiṃsakāḥ vīta-malāḥ ca loke bhavanti pūjyāḥ munayaḥ pradhānāḥ .. 2.109.36 ..
इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् । उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र: ॥ २.१०९.३७ ॥
इति ब्रुवन्तम् वचनम् स रोषम् रामम् महात्मानम् अदीन-सत्त्वम् । उवाच तथ्यम् पुनर् आस्तिकम् च सत्यम् वचः स अनुनयम् च विप्र ॥ २।१०९।३७ ॥
iti bruvantam vacanam sa roṣam rāmam mahātmānam adīna-sattvam . uvāca tathyam punar āstikam ca satyam vacaḥ sa anunayam ca vipra .. 2.109.37 ..
न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन। समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः॥२.१०९.३८॥
न नास्तिकानाम् वचनम् ब्रवीमि अहम् न नास्तिकः अहम् न च ना अस्ति किञ्चन। समीक्ष्य कालम् पुनर् आस्तिकः अभवम् भवेय काले पुनर् एव नास्तिकः॥२।१०९।३८॥
na nāstikānām vacanam bravīmi aham na nāstikaḥ aham na ca nā asti kiñcana. samīkṣya kālam punar āstikaḥ abhavam bhaveya kāle punar eva nāstikaḥ..2.109.38..
स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता । निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥ २.१०९.३९ ॥
स च अपि कालः अयम् उपागत शनैस् यथा मया नास्तिक-वाच् उदीरिता । निवर्त्तन-अर्थम् तव राम कारणात् प्रसादन-अर्थम् तु मया एतत् ईरितम् ॥ २।१०९।३९ ॥
sa ca api kālaḥ ayam upāgata śanais yathā mayā nāstika-vāc udīritā . nivarttana-artham tava rāma kāraṇāt prasādana-artham tu mayā etat īritam .. 2.109.39 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे दशोत्तरशततम: सर्ग: ॥ १०९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे दशोत्तरशततमः सर्गः ॥ १०९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe daśottaraśatatamaḥ sargaḥ .. 109 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In