This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवोत्तरशततम: सर्गः ॥२-१०९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe navottaraśatatama: sargaḥ ..2-109..
जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: । उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ २.१०९.१ ॥
jābālestu vaca: śrutvā rāma: satyātmanāṃ vara: . uvāca parayā bhaktyā svabuddhyā cāvipannayā .. 2.109.1 ..
भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् । अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ २.१०९.२ ॥
bhavān me priyakāmārthaṃ vacanaṃ yadihoktavān . akāryyaṃ kāryyasaṅkāśamapathyaṃ pathyasammitam .. 2.109.2 ..
निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: । मानं न लभते सत्सु भिन्नचारित्रदर्शन: ॥ २.१०९.३ ॥
nirmaryādastu puruṣa: pāpācārasamanvita: . mānaṃ na labhate satsu bhinnacāritradarśana: .. 2.109.3 ..
कुलीनमकुलीनं वा वीरं पुरुषमानिनम् । चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ॥ २.१०९.४ ॥
kulīnamakulīnaṃ vā vīraṃ puruṣamāninam . cāritrameva vyākhyāti śuciṃ vā yadi vā 'śucim .. 2.109.4 ..
अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: । लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव ॥ २.१०९.५ ॥
anāryastvāryasaṅkāśa: śaucāddhīnastathā śuci: . lakṣaṇyavadalakṣaṇyo du:śīla: śīlavāniva .. 2.109.5 ..
अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् । अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ २.१०९.६ ॥
adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṅkaram . abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam .. 2.109.6 ..
कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: । बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ २.१०९.७ ॥
kaścetayāna: puruṣa: kāryākāryavicakṣaṇa: . bahumaṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam .. 2.109.7 ..
कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् । अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ २.१०९.८ ॥
kasya dhāsyāmyahaṃ vṛttaṃ kena vā svargamāpnuyām . anayā varttamāno hi vṛttyā hīnapratijñayā .. 2.109.8 ..
कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते । यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा: ॥ २.१०९.९ ॥
kāmavṛttastvayaṃ loka: kṛtsna: samupavarttate . yadvṛttā: santi rājānastadvṛttā: santi hi prajā: .. 2.109.9 ..
सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् । तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित: ॥ २.१०९.१० ॥
satyamevānṛśaṃsañca rājavṛttaṃ sanātanam . tasmātsatyātmakaṃ rājyaṃ satye loka: pratiṣṭhita: .. 2.109.10 ..
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे । सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ॥ २.१०९.११ ॥
ṛṣayaścaiva devāśca satyameva hi menire . satyavādī hi loke 'smin paramaṃ gacchati kṣayam .. 2.109.11 ..
उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: । धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ २.१०९.१२ ॥
udvijante yathā sarppānnarādanṛtavādina: . dharma: satyaṃ paro loke mūlaṃ svargasya cocyate .. 2.109.12 ..
सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा । सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ २.१०९.१३ ॥
satyameveśvaro loke satyaṃ padmā śritā sadā . satyamūlāni sarvāṇi satyānnāsti paraṃ padam .. 2.109.13 ..
दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च । वेदा: सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ २.१०९.१४ ॥
dattamiṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca . vedā: satyapratiṣṭhānāstasmāt satyaparo bhavet .. 2.109.14 ..
एक: पालयते लोकमेक: पालयते कुलम् । मज्जत्येको हि निरय एक: स्वर्गे महीयते ॥ २.१०९.१५ ॥
eka: pālayate lokameka: pālayate kulam . majjatyeko hi niraya eka: svarge mahīyate .. 2.109.15 ..
सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये । सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत: ॥ २.१०९.१६ ॥
so 'haṃ piturniyogantu kimarthaṃ nānupālaye . satyapratiśrava: satyaṃ satyena samayīkṛta: .. 2.109.16 ..
नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: । सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव: ॥ २.१०९.१७ ॥
naiva lobhānna mohādvā na hyajñānāttamonvita: . setuṃ satyasya bhetsyāmi guro: satyapratiśrava: .. 2.109.17 ..
असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: । नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम् ॥ २.१०९.१८ ॥
asatyasandhasya sataścalasyāsthiracetasa: . naiva devā na pitara: pratīcchantīti na: śrutam .. 2.109.18 ..
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् । भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ २.१०९.१९ ॥
pratyagātmamimaṃ dharmaṃ satyaṃ paśyāmyahaṃ svayam . bhāra: satpuruṣācīrṇastadarthamabhimanyate .. 2.109.19 ..
क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् । क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि: ॥ २.१०९.२० ॥
kṣāt_ötraṃ dharmamahaṃ tyakṣye hyadharmaṃ dharmasaṃhitam . kṣudrairnṛśaṃsairlubdhaiśca sevitaṃ pāpakarmabhi: .. 2.109.20 ..
कायेन कुरुते पापं मनसा सम्प्रधार्य च । अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २.१०९.२१ ॥
kāyena kurute pāpaṃ manasā sampradhārya ca . anṛtaṃ jihvayā cāha trividhaṃ karma pātakam .. 2.109.21 ..
भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि । स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ २.१०९.२२ ॥
bhūmi: kīrttiryaśo lakṣmī: puruṣaṃ prārthayanti hi . svargasthaṃ cānupaśyanti satyameva bhajeta tat .. 2.109.22 ..
श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् । आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २.१०९.२३ ॥
śreṣṭhaṃ hyanāryameva syādyadbhavānavadhāryya mām . āha yuktikarairvākyairidaṃ bhadraṃ kuruṣva ha .. 2.109.23 ..
कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ । भरतस्य करिष्यामि वचो हित्वा गुरोर्वच: ॥ २.१०९.२४ ॥
kathaṃ hyahaṃ pratijñāya vanavāsamimaṃ gurau . bharatasya kariṣyāmi vaco hitvā gurorvaca: .. 2.109.24 ..
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ । प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ २.१०९.२५ ॥
sthirā mayā pratijñātā pratijñā gurusannidhau . prahṛṣyamāṇā sā devī kaikeyī cābhavattadā .. 2.109.25 ..
वनवासं वसन्नेवं शुचिर्नियतभोजन: । मूलै: पुष्पै: फलै: पुण्यै: पितऽन् देवांश्च तर्पयन् ॥ २.१०९.२६ ॥
vanavāsaṃ vasannevaṃ śucirniyatabhojana: . mūlai: puṣpai: phalai: puṇyai: pita'n devāṃśca tarpayan .. 2.109.26 ..
सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये । अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण: ॥ २.१०९.२७ ॥
santuṣṭapañcavargo 'haṃ lokayātrāṃ pravarttaye . akuha: śraddadhānassan kāryyākāryyavicakṣaṇa: .. 2.109.27 ..
कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् । अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन: ॥ २.१०९.२८ ॥
karmabhūmimimāṃ prāpya karttavyaṃ karma yacchubham . agnirvāyuśca somaśca karmaṇāṃ phalabhāgina: .. 2.109.28 ..
शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: । तपांस्युग्राणि चास्थाय दिवं याता महर्षय: ॥ २.१०९.२९ ॥
śataṃ kratūnāmāhṛtya devarāṭ tridivaṅgata: . tapāṃsyugrāṇi cāsthāya divaṃ yātā maharṣaya: .. 2.109.29 ..
अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् । अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ २.१०९.३० ॥
amṛṣyamāṇa: punarugratejā niśamya tannāstikavākyahetum . athābravīttaṃ nṛpatestanūjo vigarhamāṇo vacanāni tasya .. 2.109.30 ..
सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च । द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त: ॥ २.१०९.३१ ॥
satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāñca . dvijātidevātithipūjanaṃ ca panthānamāhustridivasya santa: .. 2.109.31 ..
तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: । धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता: ॥ २.१०९.३२ ॥
tenaivamājñāya yathāvadarthamekodayaṃ sampratipadya viprā: . dharmaṃ caranta: sakalaṃ yathāvat kāṃkṣanti lokāgamamapramattā: .. 2.109.32 ..
निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् । बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ २.१०९.३३ ॥
nindāmyahaṃ karma pitu: kṛtaṃ tadyastvāmagṛhṇādviṣamasthabuddhim . buddhyānayaivaṃvidhayā carantaṃ sunāstikaṃ dharmapathādapetam .. 2.109.33 ..
यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि । तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ॥ २.१०९.३४ ॥
yathā hi cora: sa tathā hi buddhastathāgataṃ nāstikamatra viddhi . tasmāddhi ya: śaṅkyatama: prajānāṃ na nāstikenābhimukho budha: syāt .. 2.109.34 ..
त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: । जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च ॥ २.१०९.३५ ॥
tvatto janā: pūrvatare varāśca śubhāni karmāṇi bahūni cakru: . jitvā sademaṃ ca parañca lokaṃ tasmāddvijā: svasti hutaṃ kṛtaṃ ca .. 2.109.35 ..
धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: । अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना: ॥ २.१०९.३६ ॥
dharme ratā: satpuruṣai: sametāstejasvino dānaguṇapradhānā: . ahiṃsakā vītamalāśca loke bhavanti pūjyā munaya: pradhānā: .. 2.109.36 ..
इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् । उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र: ॥ २.१०९.३७ ॥
iti bruvantaṃ vacanaṃ saroṣaṃ rāmaṃ mahātmānamadīnasattvam . uvāca tathyaṃ punarāstikaṃ ca satyaṃ vaca: sānunayaṃ ca vipra: .. 2.109.37 ..
न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन। समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः॥२.१०९.३८॥
na nāstikānāṃ vacanaṃ bravīmyahaṃ na nāstiko'haṃ na ca nāsti kiñcana. samīkṣya kālaṃ punarāstiko'bhavaṃ bhaveya kāle punareva nāstikaḥ..2.109.38..
स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता । निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥ २.१०९.३९ ॥
sa cāpi kālo 'yamupāgata: śanairyathā mayā nāstikavāgudīritā . nivarttanārthaṃ tava rāma kāraṇāt prasādanārthaṃ tu mayaitadīritam .. 2.109.39 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे दशोत्तरशततम: सर्ग: ॥ १०९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe daśottaraśatatama: sarga: .. 109 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In