This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकादशः सर्गः ॥२-११॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकादशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekādaśaḥ sargaḥ ..2..
तं मन्मथशरैर्विद्धं कामवेगवशानुगम्।उवाच पृथिवीपालं कैकेयी दारुणं वचः॥ १॥
तम् मन्मथ-शरैः विद्धम् काम-वेग-वश-अनुगम्।उवाच पृथिवीपालम् कैकेयी दारुणम् वचः॥ १॥
tam manmatha-śaraiḥ viddham kāma-vega-vaśa-anugam.uvāca pṛthivīpālam kaikeyī dāruṇam vacaḥ.. 1..
नास्मि विप्रकृता देव केनचिन्नावमानिता।अभिप्रायस्तु मे कश्चित् तमिच्छामि त्वया कृतम्॥ २॥
न अस्मि विप्रकृता देव केनचिद् ना अवमानिता।अभिप्रायः तु मे कश्चिद् तम् इच्छामि त्वया कृतम्॥ २॥
na asmi viprakṛtā deva kenacid nā avamānitā.abhiprāyaḥ tu me kaścid tam icchāmi tvayā kṛtam.. 2..
प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि।अथ ते व्याहरिष्यामि यथाभिप्रार्थितं मया॥ ३॥
प्रतिज्ञाम् प्रतिजानीष्व यदि त्वम् कर्तुम् इच्छसि।अथ ते व्याहरिष्यामि यथा अभिप्रार्थितम् मया॥ ३॥
pratijñām pratijānīṣva yadi tvam kartum icchasi.atha te vyāhariṣyāmi yathā abhiprārthitam mayā.. 3..
तामुवाच महाराजः कैकेयीमीषदुत्स्मयः।कामी हस्तेन संगृह्य मूर्धजेषु भुवि स्थिताम्॥ ४॥
ताम् उवाच महा-राजः कैकेयीम् ईषत् उत्स्मयः।कामी हस्तेन संगृह्य मूर्धजेषु भुवि स्थिताम्॥ ४॥
tām uvāca mahā-rājaḥ kaikeyīm īṣat utsmayaḥ.kāmī hastena saṃgṛhya mūrdhajeṣu bhuvi sthitām.. 4..
अवलिप्ते न जानासि त्वत्तः प्रियतरो मम।मनुजो मनुजव्याघ्राद् रामादन्यो न विद्यते॥५॥
अवलिप्ते न जानासि त्वत्तः प्रियतरः मम।मनुजः मनुज-व्याघ्रात् रामात् अन्यः न विद्यते॥५॥
avalipte na jānāsi tvattaḥ priyataraḥ mama.manujaḥ manuja-vyāghrāt rāmāt anyaḥ na vidyate..5..
तेनाजय्येन मुख्येन राघवेण महात्मना।शपे ते जीवनार्हेण ब्रूहि यन्मनसेप्सितम्॥ ६॥
तेन अजय्येन मुख्येन राघवेण महात्मना।शपे ते जीवन-अर्हेण ब्रूहि यत् मनसा ईप्सितम्॥ ६॥
tena ajayyena mukhyena rāghaveṇa mahātmanā.śape te jīvana-arheṇa brūhi yat manasā īpsitam.. 6..
यं मुहूर्तमपश्यंस्तु न जीवे तमहं ध्रुवम्।तेन रामेण कैकेयि शपे ते वचनक्रियाम्॥ ७॥
यम् मुहूर्तम् अपश्यान् तु न जीवे तम् अहम् ध्रुवम्।तेन रामेण कैकेयि शपे ते वचनक्रियाम्॥ ७॥
yam muhūrtam apaśyān tu na jīve tam aham dhruvam.tena rāmeṇa kaikeyi śape te vacanakriyām.. 7..
आत्मना चात्मजैश्चान्यैर्वृणे यं मनुजर्षभम्।तेन रामेण कैकेयि शपे ते वचनक्रियाम्॥ ८॥
आत्मना च आत्मजैः च अन्यैः वृणे यम् मनुज-ऋषभम्।तेन रामेण कैकेयि शपे ते वचनक्रियाम्॥ ८॥
ātmanā ca ātmajaiḥ ca anyaiḥ vṛṇe yam manuja-ṛṣabham.tena rāmeṇa kaikeyi śape te vacanakriyām.. 8..
भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे।एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे॥ ९॥
भद्रे हृदयम् अपि एतत् अनुमृश्य उद्धरस्व मे।एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे॥ ९॥
bhadre hṛdayam api etat anumṛśya uddharasva me.etat samīkṣya kaikeyi brūhi yat sādhu manyase.. 9..
बलमात्मनि पश्यन्ती न विशङ्कितुमर्हसि।करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे॥ १०॥
बलम् आत्मनि पश्यन्ती न विशङ्कितुम् अर्हसि।करिष्यामि तव प्रीतिम् सुकृतेन अपि ते शपे॥ १०॥
balam ātmani paśyantī na viśaṅkitum arhasi.kariṣyāmi tava prītim sukṛtena api te śape.. 10..
सा तदर्थमना देवी तमभिप्रायमागतम्।निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः॥ ११॥
सा तद्-अर्थ-मनाः देवी तम् अभिप्रायम् आगतम्।निर्माध्यस्थ्यात् च हर्षात् च बभाषे दुर्वचम् वचः॥ ११॥
sā tad-artha-manāḥ devī tam abhiprāyam āgatam.nirmādhyasthyāt ca harṣāt ca babhāṣe durvacam vacaḥ.. 11..
तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः।व्याजहार महाघोरमभ्यागतमिवान्तकम्॥ १२॥
तेन वाक्येन संहृष्टा तम् अभिप्रायम् आत्मनः।व्याजहार महा-घोरम् अभ्यागतम् इव अन्तकम्॥ १२॥
tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ.vyājahāra mahā-ghoram abhyāgatam iva antakam.. 12..
यथा क्रमेण शपसे वरं मम ददासि च।तच्छृण्वन्तु त्रयस्त्रिंशद् देवाः सेन्द्रपुरोगमाः॥ १३॥
यथा क्रमेण शपसे वरम् मम ददासि च।तत् शृण्वन्तु त्रयस्त्रिंशत् देवाः स इन्द्र-पुरोगमाः॥ १३॥
yathā krameṇa śapase varam mama dadāsi ca.tat śṛṇvantu trayastriṃśat devāḥ sa indra-purogamāḥ.. 13..
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः।जगच्च पृथिवी चेयं सगन्धर्वाः सराक्षसाः॥ १४॥
चन्द्र-आदित्यौ नभः च एव ग्रहाः रात्रि-अहनी दिशः।जगत् च पृथिवी च इयम् स गन्धर्वाः स राक्षसाः॥ १४॥
candra-ādityau nabhaḥ ca eva grahāḥ rātri-ahanī diśaḥ.jagat ca pṛthivī ca iyam sa gandharvāḥ sa rākṣasāḥ.. 14..
निशाचराणि भूतानि गृहेषु गृहदेवताः।यानि चान्यानि भूतानि जानीयुर्भाषितं तव॥ १५॥
निशाचराणि भूतानि गृहेषु गृह-देवताः।यानि च अन्यानि भूतानि जानीयुः भाषितम् तव॥ १५॥
niśācarāṇi bhūtāni gṛheṣu gṛha-devatāḥ.yāni ca anyāni bhūtāni jānīyuḥ bhāṣitam tava.. 15..
सत्यसंधो महातेजा धर्मज्ञः सत्यवाक्शुचिः।वरं मम ददात्येष सर्वे शृण्वन्तु दैवताः॥ १६॥
सत्य-संधः महा-तेजाः धर्म-ज्ञः सत्य-वाच् शुचिः।वरम् मम ददाति एष सर्वे शृण्वन्तु दैवताः॥ १६॥
satya-saṃdhaḥ mahā-tejāḥ dharma-jñaḥ satya-vāc śuciḥ.varam mama dadāti eṣa sarve śṛṇvantu daivatāḥ.. 16..
इति देवी महेष्वासं परिगृह्याभिशस्य च।ततः परमुवाचेदं वरदं काममोहितम्॥ १७॥
इति देवी महा-इष्वासम् परिगृह्य अभिशस्य च।ततस् परम् उवाच इदम् वर-दम् काम-मोहितम्॥ १७॥
iti devī mahā-iṣvāsam parigṛhya abhiśasya ca.tatas param uvāca idam vara-dam kāma-mohitam.. 17..
स्मर राजन् पुरा वृत्तं तस्मिन् देवासुरे रणे।तत्र त्वां च्यावयच्छत्रुस्तव जीवितमन्तरा॥ १८॥
स्मर राजन् पुरा वृत्तम् तस्मिन् देवासुरे रणे।तत्र त्वाम् च्यावयत् शत्रुः तव जीवितम् अन्तरा॥ १८॥
smara rājan purā vṛttam tasmin devāsure raṇe.tatra tvām cyāvayat śatruḥ tava jīvitam antarā.. 18..
तत्र चापि मया देव यत् त्वं समभिरक्षितः।जाग्रत्या यतमानायास्ततो मे प्रददौ वरौ॥ १९॥
तत्र च अपि मया देव यत् त्वम् समभिरक्षितः।जाग्रत्याः यतमानायाः ततस् मे प्रददौ वरौ॥ १९॥
tatra ca api mayā deva yat tvam samabhirakṣitaḥ.jāgratyāḥ yatamānāyāḥ tatas me pradadau varau.. 19..
तौ दत्तौ च वरौ देव निक्षेपौ मृगयाम्यहम्।तवैव पृथिवीपाल सकाशे रघुनन्दन॥ २०॥
तौ दत्तौ च वरौ देव निक्षेपौ मृगयामि अहम्।तव एव पृथिवीपाल सकाशे रघुनन्दन॥ २०॥
tau dattau ca varau deva nikṣepau mṛgayāmi aham.tava eva pṛthivīpāla sakāśe raghunandana.. 20..
तत् प्रतिश्रुत्य धर्मेण न चेद् दास्यसि मे वरम्।अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता॥ २१॥
तत् प्रतिश्रुत्य धर्मेण न चेद् दास्यसि मे वरम्।अद्या एव हि प्रहास्यामि जीवितम् त्वद्-विमानिता॥ २१॥
tat pratiśrutya dharmeṇa na ced dāsyasi me varam.adyā eva hi prahāsyāmi jīvitam tvad-vimānitā.. 21..
वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः।प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः॥ २२॥
वाच्-मात्रेण तदा राजा कैकेय्या स्व-वशे कृतः।प्रचस्कन्द विनाशाय पाशम् मृगः इव आत्मनः॥ २२॥
vāc-mātreṇa tadā rājā kaikeyyā sva-vaśe kṛtaḥ.pracaskanda vināśāya pāśam mṛgaḥ iva ātmanaḥ.. 22..
ततः परमुवाचेदं वरदं काममोहितम्।वरौ देयौ त्वया देव तदा दत्तौ महीपते॥ २३॥
ततस् परम् उवाच इदम् वर-दम् काम-मोहितम्।वरौ देयौ त्वया देव तदा दत्तौ महीपते॥ २३॥
tatas param uvāca idam vara-dam kāma-mohitam.varau deyau tvayā deva tadā dattau mahīpate.. 23..
तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः।अभिषेकसमारम्भो राघवस्योपकल्पितः॥ २४॥
तौ तावत् अहम् अद्य एव वक्ष्यामि शृणु मे वचः।अभिषेक-समारम्भः राघवस्य उपकल्पितः॥ २४॥
tau tāvat aham adya eva vakṣyāmi śṛṇu me vacaḥ.abhiṣeka-samārambhaḥ rāghavasya upakalpitaḥ.. 24..
अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम्।यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया॥ २५॥
अनेन एव अभिषेकेण भरतः मे अभिषिच्यताम्।यः द्वितीयः वरः देव दत्तः प्रीतेन मे त्वया॥ २५॥
anena eva abhiṣekeṇa bharataḥ me abhiṣicyatām.yaḥ dvitīyaḥ varaḥ deva dattaḥ prītena me tvayā.. 25..
तदा देवासुरे युद्धे तस्य कालोऽयमागतः।नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः॥ २६॥
तदा देवासुरे युद्धे तस्य कालः अयम् आगतः।नव पञ्च च वर्षाणि दण्डक-अरण्यम् आश्रितः॥ २६॥
tadā devāsure yuddhe tasya kālaḥ ayam āgataḥ.nava pañca ca varṣāṇi daṇḍaka-araṇyam āśritaḥ.. 26..
चीराजिनधरो धीरो रामो भवतु तापसः।भरतो भजतामद्य यौवराज्यमकण्टकम्॥ २७॥
चीर-अजिन-धरः धीरः रामः भवतु तापसः।भरतः भजताम् अद्य यौवराज्यम् अकण्टकम्॥ २७॥
cīra-ajina-dharaḥ dhīraḥ rāmaḥ bhavatu tāpasaḥ.bharataḥ bhajatām adya yauvarājyam akaṇṭakam.. 27..
एष मे परमः कामो दत्तमेव वरं वृणे।अद्य चैव हि पश्येयं प्रयान्तं राघवं वने॥ २८॥
एष मे परमः कामः दत्तम् एव वरम् वृणे।अद्य च एव हि पश्येयम् प्रयान्तम् राघवम् वने॥ २८॥
eṣa me paramaḥ kāmaḥ dattam eva varam vṛṇe.adya ca eva hi paśyeyam prayāntam rāghavam vane.. 28..
स राजराजो भव सत्यसंगरः कुलं च शीलं च हि जन्म रक्ष च।परत्र वासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम्॥ २९॥
स राज-राजः भव सत्य-संगरः कुलम् च शीलम् च हि जन्म रक्ष च।परत्र वासे हि वदन्ति अनुत्तमम् तपोधनाः सत्य-वचः हितम् नृणाम्॥ २९॥
sa rāja-rājaḥ bhava satya-saṃgaraḥ kulam ca śīlam ca hi janma rakṣa ca.paratra vāse hi vadanti anuttamam tapodhanāḥ satya-vacaḥ hitam nṛṇām.. 29..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकादशः सर्गः ॥२-११॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे एकादशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe ekādaśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In