This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकनवतितम: सर्गः ॥२-९१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकनवतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekanavatitamaḥ sargaḥ ..2..
क्रुद्धमाज्ञाय रामं तं वसिष्ठ: प्रत्युवाच ह । जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ २.११०.१ ॥
क्रुद्धम् आज्ञाय रामम् तम् वसिष्ठः प्रत्युवाच ह । जाबालिः अपि जानीते लोकस्य अस्य गतागतिम् ॥ २।११०।१ ॥
kruddham ājñāya rāmam tam vasiṣṭhaḥ pratyuvāca ha . jābāliḥ api jānīte lokasya asya gatāgatim .. 2.110.1 ..
निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् । इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ २.११०.२ ॥
निवर्त्तयितु-कामः तु त्वाम् एतत् वाक्यम् उक्तवान् । इमाम् लोक-समुत्पत्तिम् लोकनाथ निबोध मे ॥ २।११०।२ ॥
nivarttayitu-kāmaḥ tu tvām etat vākyam uktavān . imām loka-samutpattim lokanātha nibodha me .. 2.110.2 ..
सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता । तत: समभवद्ब्रह्मा स्वयम्भूर्दैवतै: सह । स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ॥ २.११०.३ ॥
सर्वम् सलिलम् एव आसीत् पृथिवी यत्र निर्मिता । ततस् समभवत् ब्रह्मा स्वयम्भूः दैवतैः सह । स वराहः ततस् भूत्वा प्रोज्जहार वसुन्धराम् ॥ २।११०।३ ॥
sarvam salilam eva āsīt pṛthivī yatra nirmitā . tatas samabhavat brahmā svayambhūḥ daivataiḥ saha . sa varāhaḥ tatas bhūtvā projjahāra vasundharām .. 2.110.3 ..
असृजच्च जगत् सर्वं सह पुत्रै: कृतात्मभि: । आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय: ॥ २.११०.४ ॥
असृजत् च जगत् सर्वम् सह पुत्रैः कृतात्मभिः । आकाश-प्रभवः ब्रह्मा शाश्वतः नित्य अव्ययः ॥ २।११०।४ ॥
asṛjat ca jagat sarvam saha putraiḥ kṛtātmabhiḥ . ākāśa-prabhavaḥ brahmā śāśvataḥ nitya avyayaḥ .. 2.110.4 ..
तस्मान्मरीचि: संजज्ञे मरीचे: काश्यप: सुत: ॥ २.११०.५ ॥
तस्मात् मरीचिः संजज्ञे मरीचेः काश्यप-सुत ॥ २।११०।५ ॥
tasmāt marīciḥ saṃjajñe marīceḥ kāśyapa-suta .. 2.110.5 ..
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुत: । स तु प्रजापति: पूर्वमिक्ष्वाकुस्तु मनो: सुत: ॥ २.११०.६ ॥
विवस्वान् काश्यपात् जज्ञे मनुः वैवस्वतः सुतः । स तु प्रजापतिः पूर्वम् इक्ष्वाकुः तु मनोः सुतः ॥ २।११०।६ ॥
vivasvān kāśyapāt jajñe manuḥ vaivasvataḥ sutaḥ . sa tu prajāpatiḥ pūrvam ikṣvākuḥ tu manoḥ sutaḥ .. 2.110.6 ..
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही । तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ २.११०.७ ॥
यस्य इयम् प्रथमम् दत्ता समृद्धा मनुना मही । तम् इक्ष्वाकुम् अयोध्यायाम् राजानम् विद्धि पूर्वकम् ॥ २।११०।७ ॥
yasya iyam prathamam dattā samṛddhā manunā mahī . tam ikṣvākum ayodhyāyām rājānam viddhi pūrvakam .. 2.110.7 ..
इक्ष्वाकोस्तु सुत: श्रीमान् कुक्षिरेवेति विश्रुत: । कुक्षेरथात्मजो ऺवीरो विकुक्षिरुदपद्यत ॥ २.११०.८ ॥
इक्ष्वाकोः तु सुतः श्रीमान् कुक्षिः एव इति विश्रुतः । कुक्षेः अथ आत्मजः विकुक्षिः उदपद्यत ॥ २।११०।८ ॥
ikṣvākoḥ tu sutaḥ śrīmān kukṣiḥ eva iti viśrutaḥ . kukṣeḥ atha ātmajaḥ vikukṣiḥ udapadyata .. 2.110.8 ..
विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान् । बाणस्य तु महाबाहुरनरण्यो महायशा: ॥ २.११०.९ ॥
विकुक्षेः तु महा-तेजाः बाण-पुत्रः प्रतापवान् । बाणस्य तु महा-बाहुः अनरण्यः महा-यशाः ॥ २।११०।९ ॥
vikukṣeḥ tu mahā-tejāḥ bāṇa-putraḥ pratāpavān . bāṇasya tu mahā-bāhuḥ anaraṇyaḥ mahā-yaśāḥ .. 2.110.9 ..
नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे । अनरण्ये महाराजे तस्करो नापि कश्चन ॥ २.११०.१० ॥
न अनावृष्टिः बभूव अस्मिन् न दुर्भिक्षम् सताम् वरे । अनरण्ये महा-राजे तस्करः न अपि कश्चन ॥ २।११०।१० ॥
na anāvṛṣṭiḥ babhūva asmin na durbhikṣam satām vare . anaraṇye mahā-rāje taskaraḥ na api kaścana .. 2.110.10 ..
अनरण्यान्महाबाहु: पृथू राजा बभूव ह । तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत । स सत्यवचनाद्वीर: सशरीरो दिवङ्गत: ॥ २.११०.११ ॥
अनरण्यात् महा-बाहु पृथुः राजा बभूव ह । तस्मात् पृथोः महा-राजः त्रिशङ्कुः उदपद्यत । स सत्य-वचनात् वीरः स शरीरः दिवङ्गतः ॥ २।११०।११ ॥
anaraṇyāt mahā-bāhu pṛthuḥ rājā babhūva ha . tasmāt pṛthoḥ mahā-rājaḥ triśaṅkuḥ udapadyata . sa satya-vacanāt vīraḥ sa śarīraḥ divaṅgataḥ .. 2.110.11 ..
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशा: । धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥ २.११०.१२ ॥
त्रिशङ्कोः अभवत् सूनुः धुन्धुमारः महा-यशाः । धुन्धुमारः महा-तेजाः युवनाश्वः व्यजायत ॥ २।११०।१२ ॥
triśaṅkoḥ abhavat sūnuḥ dhundhumāraḥ mahā-yaśāḥ . dhundhumāraḥ mahā-tejāḥ yuvanāśvaḥ vyajāyata .. 2.110.12 ..
युवनाश्वसुत: श्रीमान् मान्धाता समपद्यत । मान्धातुस्तु महातेजा: सुसन्धिरुदपद्यत ॥ २.११०.१३ ॥
युवनाश्व-सुतः श्रीमान् मान्धाता समपद्यत । मान्धातुः तु महा-तेजाः सुसन्धिः उदपद्यत ॥ २।११०।१३ ॥
yuvanāśva-sutaḥ śrīmān māndhātā samapadyata . māndhātuḥ tu mahā-tejāḥ susandhiḥ udapadyata .. 2.110.13 ..
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित् । यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदन: ॥ २.११०.१४ ॥
सुसन्धेः अपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् । यशस्वी ध्रुवसन्धेः तु भरतः रिपु-सूदनः ॥ २।११०।१४ ॥
susandheḥ api putrau dvau dhruvasandhiḥ prasenajit . yaśasvī dhruvasandheḥ tu bharataḥ ripu-sūdanaḥ .. 2.110.14 ..
भरतात्तु महाबाहोरसितो नाम जायत । यस्यैते प्रतिराजान उदपद्यन्त शत्रव: । हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दव: ॥ २.११०.१५ ॥
भरतात् तु महा-बाहोः असितः नाम जायत । यस्य एते प्रतिराजानः उदपद्यन्त शत्रवः । हैहयाः तालजङ्घाः च शूराः च शशिबिन्दवः ॥ २।११०।१५ ॥
bharatāt tu mahā-bāhoḥ asitaḥ nāma jāyata . yasya ete pratirājānaḥ udapadyanta śatravaḥ . haihayāḥ tālajaṅghāḥ ca śūrāḥ ca śaśibindavaḥ .. 2.110.15 ..
तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासित: । स च शैलवरे रम्ये बभूवाभिरतो मुनि: ॥ २.११०.१६ ॥
तान् तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः । स च शैलवरे रम्ये बभूव अभिरतः मुनि ॥ २।११०।१६ ॥
tān tu sarvān prativyūhya yuddhe rājā pravāsitaḥ . sa ca śailavare ramye babhūva abhirataḥ muni .. 2.110.16 ..
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुति: । एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ २.११०.१७ ॥
द्वे च अस्य भार्ये गर्भिण्यौ बभूवतुः इति श्रुति । एका गर्भ-विनाशाय सपत्न्यै सगरम् ददौ ॥ २।११०।१७ ॥
dve ca asya bhārye garbhiṇyau babhūvatuḥ iti śruti . ekā garbha-vināśāya sapatnyai sagaram dadau .. 2.110.17 ..
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित: । तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ २.११०.१८ ॥
भार्गवः च्यवनः नाम हिमवन्तम् उपाश्रितः । तम् ऋषिम् समुपागम्य कालिन्दी तु अभ्यवादयत् ॥ २।११०।१८ ॥
bhārgavaḥ cyavanaḥ nāma himavantam upāśritaḥ . tam ṛṣim samupāgamya kālindī tu abhyavādayat .. 2.110.18 ..
स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि । पुत्रस्ते भविता देवि महात्मा लोकविश्रुत: । धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदन: ॥ २.११०.१९ ॥
स ताम् अभ्यवदत् विप्रः वर-ईप्सुम् पुत्र-जन्मनि । पुत्रः ते भविता देवि महात्मा लोक-विश्रुत । धार्मिकः च सु शीलः च वंश-कर्त्ता अरि-सूदनः ॥ २।११०।१९ ॥
sa tām abhyavadat vipraḥ vara-īpsum putra-janmani . putraḥ te bhavitā devi mahātmā loka-viśruta . dhārmikaḥ ca su śīlaḥ ca vaṃśa-karttā ari-sūdanaḥ .. 2.110.19 ..
कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च । पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् । तत: सा गृहमागम्य देवी पुत्रं व्यजायत ॥ २.११०.२० ॥
कृत्वा प्रदक्षिणम् हृष्टाः मुनिम् तम् अनुमान्य च । पद्म-पत्र-समान-अक्षम् पद्मगर्भ-सम-प्रभम् । ततस् सा गृहम् आगम्य देवी पुत्रम् व्यजायत ॥ २।११०।२० ॥
kṛtvā pradakṣiṇam hṛṣṭāḥ munim tam anumānya ca . padma-patra-samāna-akṣam padmagarbha-sama-prabham . tatas sā gṛham āgamya devī putram vyajāyata .. 2.110.20 ..
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया । गरेण सह तेनैव जात: स सगरो ऽभवत् ॥ २.११०.२१ ॥
सपत्न्या तु गरः तस्यै दत्तः गर्भ-जिघांसया । गरेण सह तेन एव जात स सगरः अभवत् ॥ २।११०।२१ ॥
sapatnyā tu garaḥ tasyai dattaḥ garbha-jighāṃsayā . gareṇa saha tena eva jāta sa sagaraḥ abhavat .. 2.110.21 ..
स राजा सगरो नाम य: समुद्रमखानयत् । इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमा: प्रजा: ॥ २.११०.२२ ॥
स राजा सगरः नाम यः समुद्र-मखान् अनयत् । इष्ट्वा पर्वणि वेगेन त्रासयन्तम् इमाः प्रजाः ॥ २।११०।२२ ॥
sa rājā sagaraḥ nāma yaḥ samudra-makhān anayat . iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ .. 2.110.22 ..
असमञ्जस्तु पुत्रोभूत् सगरस्येति न: श्रुतम् । जीवन्नेव स पित्रा तु निरस्त: पापकर्मकृत् ॥ २.११०.२३ ॥
असमञ्जः तु पुत्रः भूत् सगरस्य इति न श्रुतम् । जीवन् एव स पित्रा तु निरस्तः पाप-कर्म-कृत् ॥ २।११०।२३ ॥
asamañjaḥ tu putraḥ bhūt sagarasya iti na śrutam . jīvan eva sa pitrā tu nirastaḥ pāpa-karma-kṛt .. 2.110.23 ..
अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् । दिलीपों ऽशुमत: पुत्रो दिलीपस्य भगीरथ: ॥ २.११०.२४ ॥
अंशुमान् अपि पुत्रः अभूत् असमञ्जस्य वीर्य्यवान् । दिलीपः ऊम् अशुमतः पुत्रः दिलीपस्य भगीरथः ॥ २।११०।२४ ॥
aṃśumān api putraḥ abhūt asamañjasya vīryyavān . dilīpaḥ ūm aśumataḥ putraḥ dilīpasya bhagīrathaḥ .. 2.110.24 ..
भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुता: । ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवा: ॥ २.११०.२५ ॥
भगीरथात् ककुत्स्थः तु काकुत्स्थाः येन विश्रुताः । ककुत्स्थस्य च पुत्रः अभूत् रघुः येन तु राघवाः ॥ २।११०।२५ ॥
bhagīrathāt kakutsthaḥ tu kākutsthāḥ yena viśrutāḥ . kakutsthasya ca putraḥ abhūt raghuḥ yena tu rāghavāḥ .. 2.110.25 ..
रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: । कल्माषपाद: सौदास इत्येवं प्रथितो भुवि ॥ २.११०.२६ ॥
रघोः तु पुत्रः तेजस्वी प्रवृद्धः पुरुषादकः । कल्माषपादः सौदासः इति एवम् प्रथितः भुवि ॥ २।११०।२६ ॥
raghoḥ tu putraḥ tejasvī pravṛddhaḥ puruṣādakaḥ . kalmāṣapādaḥ saudāsaḥ iti evam prathitaḥ bhuvi .. 2.110.26 ..
कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुत: । यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ २.११०.२७ ॥
कल्माषपाद-पुत्रः अभूत् शङ्खणः तु इति विश्रुतः । यः तु तद्-वीर्यम् आसाद्य सह सैन्यः व्यनीनशत् ॥ २।११०।२७ ॥
kalmāṣapāda-putraḥ abhūt śaṅkhaṇaḥ tu iti viśrutaḥ . yaḥ tu tad-vīryam āsādya saha sainyaḥ vyanīnaśat .. 2.110.27 ..
शङ्खणस्य च पुत्रो ऽभूच्छूर: श्रीमान् सुदर्शन: । सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रग: ॥ २.११०.२८ ॥
शङ्खणस्य च पुत्रः अभूत् शूरः श्रीमान् सुदर्शनः । सुदर्शनस्य अग्निवर्णः अग्निवर्णस्य शीघ्रगः ॥ २।११०।२८ ॥
śaṅkhaṇasya ca putraḥ abhūt śūraḥ śrīmān sudarśanaḥ . sudarśanasya agnivarṇaḥ agnivarṇasya śīghragaḥ .. 2.110.28 ..
शीघ्रगस्य मरु: पुत्रो मरो: पुत्र: प्रशुश्रुक: । प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युति: ॥ २.११०.२९ ॥
शीघ्रगस्य मरुः पुत्रः मरोः पुत्रः प्रशुश्रुकः । प्रशुश्रुकस्य पुत्रः अभूत् अम्बरीषः महा-द्युतिः ॥ २।११०।२९ ॥
śīghragasya maruḥ putraḥ maroḥ putraḥ praśuśrukaḥ . praśuśrukasya putraḥ abhūt ambarīṣaḥ mahā-dyutiḥ .. 2.110.29 ..
अम्बरीषस्य पुत्रो ऽभून्नहुष: सत्यविक्रम: । नहुषस्य च नाभाग: पुत्र: परमधार्मिक: ॥ २.११०.३० ॥
अम्बरीषस्य पुत्रः अभूत् नहुषः सत्य-विक्रमः । नहुषस्य च नाभागः पुत्रः परम-धार्मिकः ॥ २।११०।३० ॥
ambarīṣasya putraḥ abhūt nahuṣaḥ satya-vikramaḥ . nahuṣasya ca nābhāgaḥ putraḥ parama-dhārmikaḥ .. 2.110.30 ..
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ । अजस्य चैव धर्मात्मा राजा दशरथ: सुत: ॥ २.११०.३१ ॥
अजः च सुव्रतः च एव नाभागस्य सुतौ उभौ । अजस्य च एव धर्म-आत्मा राजा दशरथः सुतः ॥ २।११०।३१ ॥
ajaḥ ca suvrataḥ ca eva nābhāgasya sutau ubhau . ajasya ca eva dharma-ātmā rājā daśarathaḥ sutaḥ .. 2.110.31 ..
तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुत: । तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ २.११०.३२ ॥
तस्य ज्येष्ठः असि दायादः रामः इति अभिविश्रुतः । तत् गृहाण स्वकम् राज्यम् अवेक्षस्व जनम् नृप ॥ २।११०।३२ ॥
tasya jyeṣṭhaḥ asi dāyādaḥ rāmaḥ iti abhiviśrutaḥ . tat gṛhāṇa svakam rājyam avekṣasva janam nṛpa .. 2.110.32 ..
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वज: । पूर्वजे नावर: पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ॥ २.११०.३३ ॥
इक्ष्वाकूणाम् हि सर्वेषाम् राजा भवति पूर्वजः । पूर्व-जे न अवरः पुत्रः ज्येष्ठः राज्ये अभिषिच्यते ॥ २।११०।३३ ॥
ikṣvākūṇām hi sarveṣām rājā bhavati pūrvajaḥ . pūrva-je na avaraḥ putraḥ jyeṣṭhaḥ rājye abhiṣicyate .. 2.110.33 ..
स राघवाणां कुलधर्ममात्मन: सनातनं नाद्य विहन्तुमर्हसि । प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायश: ॥ २.११०.३४ ॥
स राघवाणाम् कुल-धर्मम् आत्मनः सनातनम् न अद्य विहन्तुम् अर्हसि । प्रभूत-रत्नाम् अनुशाधि मेदिनीम् प्रभूत-राष्ट्राम् पितृ-वत् महा-यशः ॥ २।११०।३४ ॥
sa rāghavāṇām kula-dharmam ātmanaḥ sanātanam na adya vihantum arhasi . prabhūta-ratnām anuśādhi medinīm prabhūta-rāṣṭrām pitṛ-vat mahā-yaśaḥ .. 2.110.34 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे दशोत्तरशततम: सर्ग: ॥ ११० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे दशोत्तरशततमः सर्गः ॥ ११० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe daśottaraśatatamaḥ sargaḥ .. 110 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In