This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकादशोत्तरशततम:सर्गः ॥२-१११॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकादश-उत्तर-शततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekādaśa-uttara-śatatamaḥ sargaḥ ..2..
वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहित: । अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ॥ २.१११.१ ॥
वसिष्ठः तु तदा रामम् उक्त्वा राज-पुरोहितः । अब्रवीत् धर्म-संयुक्तम् पुनर् एव अपरम् वचः ॥ २।१११।१ ॥
vasiṣṭhaḥ tu tadā rāmam uktvā rāja-purohitaḥ . abravīt dharma-saṃyuktam punar eva aparam vacaḥ .. 2.111.1 ..
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: । आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २.१११.२ ॥
पुरुषस्य इह जातस्य भवन्ति गुरवः त्रयः । आचार्यः च एव काकुत्स्थ पिता माता च राघव ॥ २।१११।२ ॥
puruṣasya iha jātasya bhavanti guravaḥ trayaḥ . ācāryaḥ ca eva kākutstha pitā mātā ca rāghava .. 2.111.2 ..
पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ २.१११.३ ॥
पिता हि एनम् जनयति पुरुषम् पुरुष-ऋषभ । प्रज्ञाम् ददाति च आचार्यः तस्मात् स गुरुः उच्यते ॥ २।१११।३ ॥
pitā hi enam janayati puruṣam puruṣa-ṛṣabha . prajñām dadāti ca ācāryaḥ tasmāt sa guruḥ ucyate .. 2.111.3 ..
सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप । मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.४ ॥
सः अहम् ते पितुः आचार्य्यः तव च एव परन्तप । मम त्वम् वचनम् कुर्वन् न अतिवर्ते सता अङ्गतिम् ॥ २।१११।४ ॥
saḥ aham te pituḥ ācāryyaḥ tava ca eva parantapa . mama tvam vacanam kurvan na ativarte satā aṅgatim .. 2.111.4 ..
इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा । एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.५ ॥
इमाः हि ते परिषदः श्रेणयः च द्विजाः तथा । एषु तात चरन् धर्मम् न अतिवर्ते सताम् गतिम् ॥ २।१११।५ ॥
imāḥ hi te pariṣadaḥ śreṇayaḥ ca dvijāḥ tathā . eṣu tāta caran dharmam na ativarte satām gatim .. 2.111.5 ..
वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् । अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.६ ॥
वृद्धायाः धर्म-शीलायाः मातुः न अर्हसि अ वर्त्तितुम् । अस्याः तु वचनम् कुर्वन् न अतिवर्ते सता-अङ्गतिम् ॥ २।१११।६ ॥
vṛddhāyāḥ dharma-śīlāyāḥ mātuḥ na arhasi a varttitum . asyāḥ tu vacanam kurvan na ativarte satā-aṅgatim .. 2.111.6 ..
भरतस्य वच: कुर्वन् याचमानस्य राघव । आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ॥ २.१११.७ ॥
भरतस्य वचः कुर्वन् याचमानस्य राघव । आत्मानम् न अतिवर्त्तेः त्वम् सत्य-धर्म-पराक्रम ॥ २।१११।७ ॥
bharatasya vacaḥ kurvan yācamānasya rāghava . ātmānam na ativartteḥ tvam satya-dharma-parākrama .. 2.111.7 ..
एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् । प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ॥ २.१११.८ ॥
एवम् मधुर-मुक्तः तु गुरुणा राघवः स्वयम् । प्रत्युवाच समासीनम् वसिष्ठम् पुरुष-ऋषभः ॥ २।१११।८ ॥
evam madhura-muktaḥ tu guruṇā rāghavaḥ svayam . pratyuvāca samāsīnam vasiṣṭham puruṣa-ṛṣabhaḥ .. 2.111.8 ..
यन्मातापितरौ वृत्तं तनये कुरुत: सदा । न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ २.१११.९ ॥
यत् माता-पितरौ वृत्तम् तनये कुरुत सदा । न सु प्रतिकरम् तत् तु मात्रा पित्रा च यत् कृतम् ॥ २।१११।९ ॥
yat mātā-pitarau vṛttam tanaye kuruta sadā . na su pratikaram tat tu mātrā pitrā ca yat kṛtam .. 2.111.9 ..
यथाशक्ति प्रदानेन स्नापनोच्छादनेन च । नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ २.१११.१० ॥
यथाशक्ति प्रदानेन स्नापन-उच्छादनेन च । नित्यम् च प्रिय-वादेन तथा संवर्द्धनेन च ॥ २।१११।१० ॥
yathāśakti pradānena snāpana-ucchādanena ca . nityam ca priya-vādena tathā saṃvarddhanena ca .. 2.111.10 ..
स हि राजा जनयिता पिता दशरथो मम । आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ २.१११.११ ॥
स हि राजा जनयिता पिता दशरथः मम । आज्ञातम् यत् मया तस्य न तत् मिथ्या भविष्यति ॥ २।१११।११ ॥
sa hi rājā janayitā pitā daśarathaḥ mama . ājñātam yat mayā tasya na tat mithyā bhaviṣyati .. 2.111.11 ..
एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् । उवाच परमोदार: सूतं परमदुर्मना: ॥ २.१११.१२ ॥
एवम् उक्तः तु रामेण भरतः प्रत्यनन्तरम् । उवाच परम-उदारः सूतम् परम-दुर्मनाः ॥ २।१११।१२ ॥
evam uktaḥ tu rāmeṇa bharataḥ pratyanantaram . uvāca parama-udāraḥ sūtam parama-durmanāḥ .. 2.111.12 ..
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे । आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ २.१११.१३ ॥
इह मे स्थण्डिले शीघ्रम् कुशान् आस्तर सारथे । आर्य्यम् प्रत्युपवेक्ष्यामि यावत् मे न प्रसीदति ॥ २।१११।१३ ॥
iha me sthaṇḍile śīghram kuśān āstara sārathe . āryyam pratyupavekṣyāmi yāvat me na prasīdati .. 2.111.13 ..
अनाहारो निरालोको धनहीनो यथा द्विज: । शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ २.१११.१४ ॥
अनाहारः निरालोकः धन-हीनः यथा द्विज । शेष्ये पुरस्तात् शालायाः यावत् न प्रतियास्यति ॥ २।१११।१४ ॥
anāhāraḥ nirālokaḥ dhana-hīnaḥ yathā dvija . śeṣye purastāt śālāyāḥ yāvat na pratiyāsyati .. 2.111.14 ..
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: । कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ २.१११.१५ ॥
स तु रामम् अवेक्षन्तम् सुमन्त्रम् प्रेक्ष्य दुर्मनाः । कुश-उत्तरम् उपस्थाप्य भूमौ एव अस्तरत् स्वयम् ॥ २।१११।१५ ॥
sa tu rāmam avekṣantam sumantram prekṣya durmanāḥ . kuśa-uttaram upasthāpya bhūmau eva astarat svayam .. 2.111.15 ..
तमुवाच महातेजा रामो राजर्षिसत्तम: । किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ २.१११.१६ ॥
तम् उवाच महा-तेजाः रामः राजर्षि-सत्तमः । किम् माम् भरत कुर्वाणम् तात प्रत्युपवेक्ष्यसि ॥ २।१११।१६ ॥
tam uvāca mahā-tejāḥ rāmaḥ rājarṣi-sattamaḥ . kim mām bharata kurvāṇam tāta pratyupavekṣyasi .. 2.111.16 ..
ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति । न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ॥ २.१११.१७ ॥
ब्राह्मणः हि एक-पार्श्वेन नरान् रोद्धुम् इह अर्हति । न तु मूर्द्धाभिषिक्तानाम् विधिः प्रत्युपवेशने ॥ २।१११।१७ ॥
brāhmaṇaḥ hi eka-pārśvena narān roddhum iha arhati . na tu mūrddhābhiṣiktānām vidhiḥ pratyupaveśane .. 2.111.17 ..
उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् । पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ॥ २.१११.१८ ॥
उत्तिष्ठ नर-शार्दूल हित्वा एतत् दारुणम् व्रतम् । पुर-वर्य्या अमित क्षिप्रम् अयोध्याम् याहि राघव ॥ २।१११।१८ ॥
uttiṣṭha nara-śārdūla hitvā etat dāruṇam vratam . pura-varyyā amita kṣipram ayodhyām yāhi rāghava .. 2.111.18 ..
आसीनस्त्वेव भरत: पौरजानपदं जनम् । उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ॥ २.१११.१९ ॥
आसीनः तु एव भरत पौर-जानपदम् जनम् । उवाच सर्वतस् प्रेक्ष्य किम् आर्यम् न अनुशासथ ॥ २।१११।१९ ॥
āsīnaḥ tu eva bharata paura-jānapadam janam . uvāca sarvatas prekṣya kim āryam na anuśāsatha .. 2.111.19 ..
ते तमूचुर्महात्मानं पौरजानपदा जना: । काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ॥ २.१११.२० ॥
ते तम् ऊचुः महात्मानम् पौर-जानपदाः जनाः । काकुत्स्थम् अभिजानीमः सम्यक् वदति राघवः ॥ २।१११।२० ॥
te tam ūcuḥ mahātmānam paura-jānapadāḥ janāḥ . kākutstham abhijānīmaḥ samyak vadati rāghavaḥ .. 2.111.20 ..
एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति । अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ॥ २.१११.२१ ॥
एषः अपि हि महाभाग पितुः वचसि तिष्ठति । अतस् एव न शक्ताः स्मः व्यावर्त्तयितुम् अञ्जसा ॥ २।१११।२१ ॥
eṣaḥ api hi mahābhāga pituḥ vacasi tiṣṭhati . atas eva na śaktāḥ smaḥ vyāvarttayitum añjasā .. 2.111.21 ..
तेषामाज्ञाय वचनं रामो वचनमब्रवीत् । एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २.१११.२२ ॥
तेषाम् आज्ञाय वचनम् रामः वचनम् अब्रवीत् । एवम् निबोध वचनम् सुहृदाम् धर्म-चक्षुषाम् ॥ २।१११।२२ ॥
teṣām ājñāya vacanam rāmaḥ vacanam abravīt . evam nibodha vacanam suhṛdām dharma-cakṣuṣām .. 2.111.22 ..
एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव । उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २.१११.२३ ॥
एतत् च एव उभयम् श्रुत्वा सम्यक् सम्पश्य राघव । उत्तिष्ठ त्वम् महा-बाहो माम् च स्पृश तथा उदकम् ॥ २।१११।२३ ॥
etat ca eva ubhayam śrutvā samyak sampaśya rāghava . uttiṣṭha tvam mahā-bāho mām ca spṛśa tathā udakam .. 2.111.23 ..
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् । श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ॥ २.१११.२४ ॥
अथा उत्थाय जलम् स्पृष्ट्वा भरतः वाक्यम् अब्रवीत् । श्रृण्वन्तु मे परिषदः मन्त्रिणः श्रेणयः तथा ॥ २।१११।२४ ॥
athā utthāya jalam spṛṣṭvā bharataḥ vākyam abravīt . śrṛṇvantu me pariṣadaḥ mantriṇaḥ śreṇayaḥ tathā .. 2.111.24 ..
न याचे पितरं राज्यं नानुशासामि मातरम् । आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ २.१११.२५ ॥
न याचे पितरम् राज्यम् न अनुशासामि मातरम् । आर्यम् परम-धर्म-ज्ञम् न अनुजानामि राघवम् ॥ २।१११।२५ ॥
na yāce pitaram rājyam na anuśāsāmi mātaram . āryam parama-dharma-jñam na anujānāmi rāghavam .. 2.111.25 ..
यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: । अहमेव निवत्स्यामि चतुर्दश समा वने ॥ २.१११.२६ ॥
यदि तु अवश्यम् वस्तव्यम् कर्त्तव्यम् च पितुः वचः । अहम् एव निवत्स्यामि चतुर्दश समाः वने ॥ २।१११।२६ ॥
yadi tu avaśyam vastavyam karttavyam ca pituḥ vacaḥ . aham eva nivatsyāmi caturdaśa samāḥ vane .. 2.111.26 ..
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: । उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ॥ २.१११.२७ ॥
धर्म-आत्मा तस्य तथ्येन भ्रातुः वाक्येन विस्मितः । उवाच रामः सम्प्रेक्ष्य पौर-जानपदम् जनम् ॥ २।१११।२७ ॥
dharma-ātmā tasya tathyena bhrātuḥ vākyena vismitaḥ . uvāca rāmaḥ samprekṣya paura-jānapadam janam .. 2.111.27 ..
विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम । न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २.१११.२८ ॥
विक्रीतम् आहितम् क्रीतम् यत् पित्रा जीवता मम । न तत् लोपयितुम् शक्यम् मया वा भरतेन वा ॥ २।१११।२८ ॥
vikrītam āhitam krītam yat pitrā jīvatā mama . na tat lopayitum śakyam mayā vā bharatena vā .. 2.111.28 ..
अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: । युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २.१११.२९ ॥
अपधिः न मया कार्य्यः वन-वासे जुगुप्सित । युक्तम् उक्तम् च कैकेय्या पित्रा मे सुकृतम् कृतम् ॥ २।१११।२९ ॥
apadhiḥ na mayā kāryyaḥ vana-vāse jugupsita . yuktam uktam ca kaikeyyā pitrā me sukṛtam kṛtam .. 2.111.29 ..
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥ २.१११.३० ॥
जानामि भरतम् क्षान्तम् गुरु-सत्कार-कारिणम् । सर्वम् एव अत्र कल्याणम् सत्य-सन्धे महात्मनि ॥ २।१११।३० ॥
jānāmi bharatam kṣāntam guru-satkāra-kāriṇam . sarvam eva atra kalyāṇam satya-sandhe mahātmani .. 2.111.30 ..
अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: । भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ॥ २.१११.३१ ॥
अनेन धर्म-शीलेन वनात् प्रत्यागतः पुनर् । भ्रात्रा सह भविष्यामि पृथिव्याः पतिः उत्तमः ॥ २।१११।३१ ॥
anena dharma-śīlena vanāt pratyāgataḥ punar . bhrātrā saha bhaviṣyāmi pṛthivyāḥ patiḥ uttamaḥ .. 2.111.31 ..
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् । अनृतन्मोचयानेन पितरं तं महीपतिम् ॥ २.१११.३२ ॥
वृतः राजा हि कैकेय्या मया तद्-वचनम् कृतम् । अनृतत् मोचय अनेन पितरम् तम् महीपतिम् ॥ २।१११।३२ ॥
vṛtaḥ rājā hi kaikeyyā mayā tad-vacanam kṛtam . anṛtat mocaya anena pitaram tam mahīpatim .. 2.111.32 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततम: सर्ग: ॥ १११ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे एकादश-उत्तर-शततमः सर्गः ॥ १११ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe ekādaśa-uttara-śatatamaḥ sargaḥ .. 111 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In