This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वादशोत्तरशततम: : सर्गः ॥२-११२॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे द्वादशोत्तरशततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe dvādaśottaraśatatamaḥ sargaḥ ..2..
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ॥ २.११२.१ ॥
तम् अप्रतिम-तेजोभ्याम् भ्रातृभ्याम् रोमहर्षणम् । विस्मिताः सङ्गमम् प्रेक्ष्य समवेताः महा-ऋषयः ॥ २।११२।१ ॥
tam apratima-tejobhyām bhrātṛbhyām romaharṣaṇam . vismitāḥ saṅgamam prekṣya samavetāḥ mahā-ṛṣayaḥ .. 2.112.1 ..
अन्तर्हितास्त्वृषिगणा: सिद्धाश्च परमर्षय: । तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २.११२.२ ॥
अन्तर्हिताः तु ऋषि-गणाः सिद्धाः च परम-ऋषयः । तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २।११२।२ ॥
antarhitāḥ tu ṛṣi-gaṇāḥ siddhāḥ ca parama-ṛṣayaḥ . tau bhrātarau mahātmānau mahātmānau kākutsthau praśaśaṃsire .. 2.112.2 ..
स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ । श्रुत्वा वयं हि सम्भाषामुभयो: स्पृहयामहे ॥ २.११२.३ ॥
स धन्यः यस्य पुत्रौ द्वौ धर्म-ज्ञौ धर्म-विक्रमौ । श्रुत्वा वयम् हि सम्भाषाम् उभयोः स्पृहयामहे ॥ २।११२।३ ॥
sa dhanyaḥ yasya putrau dvau dharma-jñau dharma-vikramau . śrutvā vayam hi sambhāṣām ubhayoḥ spṛhayāmahe .. 2.112.3 ..
ततस्त्वृषिगणा: क्षिप्रं दशग्रीववधैषिण: । भरतं राजशार्दूलमित्यूचु: सङ्गता वच: ॥ २.११२.४ ॥
ततस् तु ऋषि-गणाः क्षिप्रम् दशग्रीव-वध-एषिणः । भरतम् राज-शार्दूलम् इति ऊचुः सङ्ग-ता वचः ॥ २।११२।४ ॥
tatas tu ṛṣi-gaṇāḥ kṣipram daśagrīva-vadha-eṣiṇaḥ . bharatam rāja-śārdūlam iti ūcuḥ saṅga-tā vacaḥ .. 2.112.4 ..
कुले जात महाप्राज्ञ महावृत्त महायश: । ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ २.११२.५ ॥
कुले जात महा-प्राज्ञ महा-वृत्त महा-यशः । ग्राह्यम् रामस्य वाक्यम् ते पितरम् यदि अवेक्षसे ॥ २।११२।५ ॥
kule jāta mahā-prājña mahā-vṛtta mahā-yaśaḥ . grāhyam rāmasya vākyam te pitaram yadi avekṣase .. 2.112.5 ..
सदानृणमिमं रामं वयमिच्छामहे पितु: । अनृणत्वाच्च कैकेय्या: स्वर्गं दशरथो गत: ॥ २.११२.६ ॥
सदा अनृणम् इमम् रामम् वयम् इच्छामहे पितु । अनृण-त्वात् च कैकेय्याः स्वर्गम् दशरथः गतः ॥ २।११२।६ ॥
sadā anṛṇam imam rāmam vayam icchāmahe pitu . anṛṇa-tvāt ca kaikeyyāḥ svargam daśarathaḥ gataḥ .. 2.112.6 ..
एतावदुक्त्वा वचनं गन्धर्वा: समहर्षय: । राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गता: ॥ २.११२.७ ॥
एतावत् उक्त्वा वचनम् गन्धर्वाः स महा-ऋषयः । राजर्षयः च एव तदा सर्वे स्वाम् स्वाम् गतिम् गताः ॥ २।११२।७ ॥
etāvat uktvā vacanam gandharvāḥ sa mahā-ṛṣayaḥ . rājarṣayaḥ ca eva tadā sarve svām svām gatim gatāḥ .. 2.112.7 ..
ह्लादितस्तेन वाक्येन शुभेन शुभदर्शन: । राम: संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ २.११२.८ ॥
ह्लादितः तेन वाक्येन शुभेन शुभ-दर्शनः । रामः संहृष्ट-वदनः तान् ऋषीन् अभ्यपूजयत् ॥ २।११२।८ ॥
hlāditaḥ tena vākyena śubhena śubha-darśanaḥ . rāmaḥ saṃhṛṣṭa-vadanaḥ tān ṛṣīn abhyapūjayat .. 2.112.8 ..
स्रस्तगात्रस्तु भरत: स वाचा सज्जमानया । कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ २.११२.९ ॥
स्रस्त-गात्रः तु भरत स वाचा सज्जमानया । कृताञ्जलिः इदम् वाक्यम् राघवम् पुनर् अब्रवीत् ॥ २।११२।९ ॥
srasta-gātraḥ tu bharata sa vācā sajjamānayā . kṛtāñjaliḥ idam vākyam rāghavam punar abravīt .. 2.112.9 ..
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् । कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ २.११२.१० ॥
राज-धर्मम् अनुप्रेक्ष्य कुल-धर्म-अनुसन्ततिम् । कर्त्तुम् अर्हसि काकुत्स्थ मम मातुः च याचनाम् ॥ २।११२।१० ॥
rāja-dharmam anuprekṣya kula-dharma-anusantatim . karttum arhasi kākutstha mama mātuḥ ca yācanām .. 2.112.10 ..
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे । पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥ २.११२.११ ॥
रक्षितुम् सु महत् राज्यम् अहम् एकः तु ना उत्सहे । पौर-जानपदान् च अपि रक्तान् रञ्जयितुम् तथा ॥ २।११२।११ ॥
rakṣitum su mahat rājyam aham ekaḥ tu nā utsahe . paura-jānapadān ca api raktān rañjayitum tathā .. 2.112.11 ..
ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च न: । त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षका: ॥ २.११२.१२ ॥
ज्ञातयः च हि योधाः च मित्राणि सुहृदः च नः । त्वाम् एव प्रतिकांक्षन्ते पर्जन्यम् इव कर्षकाः ॥ २।११२।१२ ॥
jñātayaḥ ca hi yodhāḥ ca mitrāṇi suhṛdaḥ ca naḥ . tvām eva pratikāṃkṣante parjanyam iva karṣakāḥ .. 2.112.12 ..
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि । शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ २.११२.१३ ॥
इदम् राज्यम् महा-प्राज्ञ स्थापय प्रतिपद्य हि । शक्तिमान् असि काकुत्स्थ लोकस्य परिपालने ॥ २।११२।१३ ॥
idam rājyam mahā-prājña sthāpaya pratipadya hi . śaktimān asi kākutstha lokasya paripālane .. 2.112.13 ..
इत्युक्त्वा न्यपतद् भ्रातु: पादयोर्भरतस्तदा । भृशं सम्प्रार्थयामास राममेव प्रियंवद: ॥ २.११२.१४ ॥
इति उक्त्वा न्यपतत् पादयोः भरतः तदा । भृशम् सम्प्रार्थयामास रामम् एव प्रियंवद ॥ २।११२।१४ ॥
iti uktvā nyapatat pādayoḥ bharataḥ tadā . bhṛśam samprārthayāmāsa rāmam eva priyaṃvada .. 2.112.14 ..
तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् । श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ २.११२.१५ ॥
तम् अङ्के भ्रातरम् कृत्वा रामः वचनम् अब्रवीत् । श्यामम् नलिन-पत्र-अक्षम् मत्त-हंस-स्वरम् स्वयम् ॥ २।११२।१५ ॥
tam aṅke bhrātaram kṛtvā rāmaḥ vacanam abravīt . śyāmam nalina-patra-akṣam matta-haṃsa-svaram svayam .. 2.112.15 ..
आगता त्वामियं बुद्धि: स्वजा वैनयिकी च या । भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ २.११२.१६ ॥
आगता त्वाम् इयम् बुद्धिः स्वजा वैनयिकी च या । भृशम् उत्सहसे तात रक्षितुम् पृथिवीम् अपि ॥ २।११२।१६ ॥
āgatā tvām iyam buddhiḥ svajā vainayikī ca yā . bhṛśam utsahase tāta rakṣitum pṛthivīm api .. 2.112.16 ..
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभि: । सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥ २.११२.१७ ॥
अमात्यैः च सुहृद्भिः च बुद्धिमद्भिः च मन्त्रिभिः । सर्व-कार्याणि सम्मन्त्र्य सु महान्ति अपि कारय ॥ २।११२।१७ ॥
amātyaiḥ ca suhṛdbhiḥ ca buddhimadbhiḥ ca mantribhiḥ . sarva-kāryāṇi sammantrya su mahānti api kāraya .. 2.112.17 ..
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् । अतीयात् सागरो वेलां न प्रतिज्ञामहं पितु: ॥ २.११२.१८ ॥
लक्ष्मीः चन्द्रात् अपेयात् वा हिमवान् वा हिमम् त्यजेत् । अतीयात् सागरः वेलाम् न प्रतिज्ञाम् अहम् पितु ॥ २।११२।१८ ॥
lakṣmīḥ candrāt apeyāt vā himavān vā himam tyajet . atīyāt sāgaraḥ velām na pratijñām aham pitu .. 2.112.18 ..
कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् । न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ॥ २.११२.१९ ॥
कामात् वा तात लोभात् वा मात्रा तुभ्यम् इदम् कृतम् । न तत् मनसि कर्त्तव्यम् वर्त्तितव्यम् च मातृ-वत् ॥ २।११२।१९ ॥
kāmāt vā tāta lobhāt vā mātrā tubhyam idam kṛtam . na tat manasi karttavyam varttitavyam ca mātṛ-vat .. 2.112.19 ..
एवं ब्रुवाणं भरत: कौसल्यासुतमब्रवीत् । तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ २.११२.२० ॥
एवम् ब्रुवाणम् भरत कौसल्यासुतम् अब्रवीत् । तेजसा आदित्य-सङ्काशम् प्रतिपद्-चन्द्र-दर्शनम् ॥ २।११२।२० ॥
evam bruvāṇam bharata kausalyāsutam abravīt . tejasā āditya-saṅkāśam pratipad-candra-darśanam .. 2.112.20 ..
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्यत: ॥ २.११२.२१ ॥
अधिरोह आर्य पादाभ्याम् पादुके हेम-भूषिते । एते हि सर्व-लोकस्य योगक्षेमम् विधास्यत ॥ २।११२।२१ ॥
adhiroha ārya pādābhyām pāduke hema-bhūṣite . ete hi sarva-lokasya yogakṣemam vidhāsyata .. 2.112.21 ..
सो ऽधिरुह्य नरव्याघ्र: पादुके ह्यवरुह्य च । प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ २.११२.२२ ॥
सः अधिरुह्य नर-व्याघ्र पादुके हि अवरुह्य च । प्रायच्छत् सु महा-तेजाः भरताय महात्मने ॥ २।११२।२२ ॥
saḥ adhiruhya nara-vyāghra pāduke hi avaruhya ca . prāyacchat su mahā-tejāḥ bharatāya mahātmane .. 2.112.22 ..
स पादुके सम्प्रणम्य रामं वचनमब्रवीत् । चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ २.११२.२३ ॥
स पादुके सम्प्रणम्य रामम् वचनम् अब्रवीत् । चतुर्दश हि वर्षाणि जटा-चीर-धरः हि अहम् ॥ २।११२।२३ ॥
sa pāduke sampraṇamya rāmam vacanam abravīt . caturdaśa hi varṣāṇi jaṭā-cīra-dharaḥ hi aham .. 2.112.23 ..
फलमूलाशनो वीर भवेयं रघुनन्दन । तवागमनमाकांक्षन् वसन् वै नगराद्बहि: ॥ २.११२.२४ ॥
फल-मूल-अशनः वीर भवेयम् रघुनन्दन । तव आगमनम् आकांक्षन् वसन् वै नगरात् बहि ॥ २।११२।२४ ॥
phala-mūla-aśanaḥ vīra bhaveyam raghunandana . tava āgamanam ākāṃkṣan vasan vai nagarāt bahi .. 2.112.24 ..
तव पादुकयोर्न्यस्तराज्यतन्त्र: परन्तप । चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ २.११२.२५ ॥
तव पादुकयोः न्यस्त-राज्य-तन्त्रः परन्तप । चतुर्दशे हि सम्पूर्णे वर्षे अहनि रघूत्तम । न द्रक्ष्यामि यदि त्वाम् तु प्रवेक्ष्यामि हुताशनम् ॥ २।११२।२५ ॥
tava pādukayoḥ nyasta-rājya-tantraḥ parantapa . caturdaśe hi sampūrṇe varṣe ahani raghūttama . na drakṣyāmi yadi tvām tu pravekṣyāmi hutāśanam .. 2.112.25 ..
तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् । शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥ २.११२.२६ ॥
तथा इति च प्रतिज्ञाय तम् परिष्वज्य स आदरम् । शत्रुघ्नम् च परिष्वज्य भरतम् च इदम् अब्रवीत् ॥ २।११२।२६ ॥
tathā iti ca pratijñāya tam pariṣvajya sa ādaram . śatrughnam ca pariṣvajya bharatam ca idam abravīt .. 2.112.26 ..
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति । मया च सीतया चैव शप्तो ऽसि रघुसत्तम ॥ २.११२.२७ ॥
मातरम् रक्ष कैकेयीम् मा रोषम् कुरु ताम् प्रति । मया च सीतया च एव शप्तः असि रघु-सत्तम ॥ २।११२।२७ ॥
mātaram rakṣa kaikeyīm mā roṣam kuru tām prati . mayā ca sītayā ca eva śaptaḥ asi raghu-sattama .. 2.112.27 ..
इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ऺह ॥ २.११२.२८ ॥
इति उक्त्वा अश्रु-परीत-अक्षः भ्रातरम् विससर्ज ह ॥ २।११२।२८ ॥
iti uktvā aśru-parīta-akṣaḥ bhrātaram visasarja ha .. 2.112.28 ..
स पादुके ते भरत: प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् । प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ॥ २.११२.२९ ॥
स पादुके ते भरत प्रतापवान् सु अलङ्कृते सम्परिपूज्य धर्म-विद् । प्रदक्षिणम् च एव चकार राघवम् चकार च एव उत्तम-नाग-मूर्द्धनि ॥ २।११२।२९ ॥
sa pāduke te bharata pratāpavān su alaṅkṛte samparipūjya dharma-vid . pradakṣiṇam ca eva cakāra rāghavam cakāra ca eva uttama-nāga-mūrddhani .. 2.112.29 ..
अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ । व्यसर्जयद्राघववंशवर्द्धन: स्थिर: स्वधर्मे हिमवानिवाचल: ॥ २.११२.३० ॥
अथ आनुपूर्व्यात् प्रतिनन्द्य तम् जनम् गुरून् च मन्त्रि-प्रकृतीः तथा अनुजौ । व्यसर्जयत् राघव-वंश-वर्द्धनः स्थिरः स्वधर्मे हिमवान् इव अचलः ॥ २।११२।३० ॥
atha ānupūrvyāt pratinandya tam janam gurūn ca mantri-prakṛtīḥ tathā anujau . vyasarjayat rāghava-vaṃśa-varddhanaḥ sthiraḥ svadharme himavān iva acalaḥ .. 2.112.30 ..
तं मातरो बाष्पगृहीतकण्ठ्यो दु:खेन नामन्त्रयितुं हि शेकु: । स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश राम: ॥ २.११२.३१ ॥
तम् मातरः बाष्प-गृहीत-कण्ठ्यः दु:खेन न आमन्त्रयितुम् हि शेकुः । स तु एव सर्वाः रुदन् कुटीम् स्वाम् प्रविवेश रामः ॥ २।११२।३१ ॥
tam mātaraḥ bāṣpa-gṛhīta-kaṇṭhyaḥ du:khena na āmantrayitum hi śekuḥ . sa tu eva sarvāḥ rudan kuṭīm svām praviveśa rāmaḥ .. 2.112.31 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशोत्तरशततम: सर्ग: ॥ ११२ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे द्वादशोत्तरशततमः सर्गः ॥ ११२ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe dvādaśottaraśatatamaḥ sargaḥ .. 112 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In