This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोदशोत्तरशततम: सर्गः ॥२-११३॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे त्रयोदश-उत्तर-शततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe trayodaśa-uttara-śatatamaḥ sargaḥ ..2..
तत: शिरसि कृत्वा तु पादुके भरतस्तदा । आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ॥ २.११३.१ ॥
ततस् शिरसि कृत्वा तु पादुके भरतः तदा । आरुरोह रथम् हृष्टः शत्रुघ्नेन समन्वितः ॥ २।११३।१ ॥
tatas śirasi kṛtvā tu pāduke bharataḥ tadā . āruroha ratham hṛṣṭaḥ śatrughnena samanvitaḥ .. 2.113.1 ..
वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रत: । अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ॥ २.११३.२ ॥
वसिष्ठः वामदेवः च जाबालिः च दृढ-व्रतः । अग्रतस् प्रययुः सर्वे मन्त्रिणः मन्त्र-पूजिताः ॥ २।११३।२ ॥
vasiṣṭhaḥ vāmadevaḥ ca jābāliḥ ca dṛḍha-vrataḥ . agratas prayayuḥ sarve mantriṇaḥ mantra-pūjitāḥ .. 2.113.2 ..
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा । प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ २.११३.३ ॥
मन्दाकिनीम् नदीम् रम्याम् प्राच्-मुखाः ते ययुः तदा । प्रदक्षिणम् च कुर्वाणाः चित्रकूटम् महा-गिरिम् ॥ २।११३।३ ॥
mandākinīm nadīm ramyām prāc-mukhāḥ te yayuḥ tadā . pradakṣiṇam ca kurvāṇāḥ citrakūṭam mahā-girim .. 2.113.3 ..
पश्यन् धातुसहस्राणि रम्याणि विविधानि च । प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ २.११३.४ ॥
पश्यन् धातु-सहस्राणि रम्याणि विविधानि च । प्रययौ तस्य पार्श्वेन स सैन्यः भरतः तदा ॥ २।११३।४ ॥
paśyan dhātu-sahasrāṇi ramyāṇi vividhāni ca . prayayau tasya pārśvena sa sainyaḥ bharataḥ tadā .. 2.113.4 ..
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा । आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ॥ २.११३.५ ॥
अदूरात् चित्रकूटस्य ददर्श भरतः तदा । आश्रमम् यत्र स मुनिः भरद्वाजः कृत-आलयः ॥ २।११३।५ ॥
adūrāt citrakūṭasya dadarśa bharataḥ tadā . āśramam yatra sa muniḥ bharadvājaḥ kṛta-ālayaḥ .. 2.113.5 ..
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् । अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥ २.११३.६ ॥
स तम् आश्रमम् आगम्य भरद्वाजस्य बुद्धिमान् । अवतीर्य रथात् पादौ ववन्दे भरतः तदा ॥ २।११३।६ ॥
sa tam āśramam āgamya bharadvājasya buddhimān . avatīrya rathāt pādau vavande bharataḥ tadā .. 2.113.6 ..
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् । अपि कृत्यं कृतं तात रामेण च समागतम् ॥ २.११३.७ ॥
ततस् हृष्टः भरद्वाजः भरतम् वाक्यम् अब्रवीत् । अपि कृत्यम् कृतम् तात रामेण च समागतम् ॥ २।११३।७ ॥
tatas hṛṣṭaḥ bharadvājaḥ bharatam vākyam abravīt . api kṛtyam kṛtam tāta rāmeṇa ca samāgatam .. 2.113.7 ..
एवमुक्त: स तु ततो भरद्वाजेन धीमता । प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ॥ २.११३.८ ॥
एवम् उक्त स तु ततस् भरद्वाजेन धीमता । प्रत्युवाच भरद्वाजम् भरतः भ्रातृ-वत्सलः ॥ २।११३।८ ॥
evam ukta sa tu tatas bharadvājena dhīmatā . pratyuvāca bharadvājam bharataḥ bhrātṛ-vatsalaḥ .. 2.113.8 ..
स याच्यमानो गुरुणा मया च दृढविक्रम: । राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ २.११३.९ ॥
स याच्यमानः गुरुणा मया च दृढ-विक्रम । राघवः परम-प्रीतः वसिष्ठम् वाक्यम् अब्रवीत् ॥ २।११३।९ ॥
sa yācyamānaḥ guruṇā mayā ca dṛḍha-vikrama . rāghavaḥ parama-prītaḥ vasiṣṭham vākyam abravīt .. 2.113.9 ..
पितु: प्रतिज्ञां तामेव पालयिष्यामि तत्त्वत: । चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ २.११३.१० ॥
पितुः प्रतिज्ञाम् ताम् एव पालयिष्यामि तत्त्वतः । चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुः मम ॥ २।११३।१० ॥
pituḥ pratijñām tām eva pālayiṣyāmi tattvataḥ . caturdaśa hi varṣāṇi yā pratijñā pituḥ mama .. 2.113.10 ..
एवमुक्तो महाप्राज्ञो वसिष्ठ: प्रत्युवाच ह । वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ २.११३.११ ॥
एवम् उक्तः महा-प्राज्ञः वसिष्ठः प्रत्युवाच ह । वाक्य-ज्ञः वाक्य-कुशलम् राघवम् वचनम् महत् ॥ २।११३।११ ॥
evam uktaḥ mahā-prājñaḥ vasiṣṭhaḥ pratyuvāca ha . vākya-jñaḥ vākya-kuśalam rāghavam vacanam mahat .. 2.113.11 ..
एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते । अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ २.११३.१२ ॥
एते प्रयच्छ संहृष्ट पादुके हेम-भूषिते । अयोध्यायाम् महा-प्राज्ञ योगक्षेम-करे तव ॥ २।११३।१२ ॥
ete prayaccha saṃhṛṣṭa pāduke hema-bhūṣite . ayodhyāyām mahā-prājña yogakṣema-kare tava .. 2.113.12 ..
एवमुक्तो वसिष्ठेन राघव: प्राङ्मुख: स्थित: । पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥ २.११३.१३ ॥
एवम् उक्तः वसिष्ठेन राघवः प्राच्-मुखः स्थितः । पादुके अधिरुह्य एते मम राज्याय वै ददौ ॥ २।११३।१३ ॥
evam uktaḥ vasiṣṭhena rāghavaḥ prāc-mukhaḥ sthitaḥ . pāduke adhiruhya ete mama rājyāya vai dadau .. 2.113.13 ..
निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना । अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ २.११३.१४ ॥
निवृत्तः अहम् अनुज्ञातः रामेण सु महात्मना । अयोध्याम् एव गच्छामि गृहीत्वा पादुके शुभे ॥ २।११३।१४ ॥
nivṛttaḥ aham anujñātaḥ rāmeṇa su mahātmanā . ayodhyām eva gacchāmi gṛhītvā pāduke śubhe .. 2.113.14 ..
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: । भरद्वाज: शुभतरं मुनिर्वाक्यमुवाच तम् ॥ २.११३.१५ ॥
एतत् श्रुत्वा शुभम् वाक्यम् भरतस्य महात्मनः । भरद्वाज शुभतरम् मुनिः वाक्यम् उवाच तम् ॥ २।११३।१५ ॥
etat śrutvā śubham vākyam bharatasya mahātmanaḥ . bharadvāja śubhataram muniḥ vākyam uvāca tam .. 2.113.15 ..
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर । यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ २.११३.१६ ॥
न एतत् चित्रम् नर-व्याघ्र शील-वृत्तवताम् वर । यदा आर्यम् त्वयि तिष्ठेत् तु निम्ने सृष्टम् इव उदकम् ॥ २।११३।१६ ॥
na etat citram nara-vyāghra śīla-vṛttavatām vara . yadā āryam tvayi tiṣṭhet tu nimne sṛṣṭam iva udakam .. 2.113.16 ..
अमृत: स महाबाहु: पिता दशरथस्तव । यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सल: ॥ २.११३.१७ ॥
अमृत स महा-बाहुः पिता दशरथः तव । यस्य त्वम् ईदृशः पुत्रः धर्म-ज्ञः धर्म-वत्सलः ॥ २।११३।१७ ॥
amṛta sa mahā-bāhuḥ pitā daśarathaḥ tava . yasya tvam īdṛśaḥ putraḥ dharma-jñaḥ dharma-vatsalaḥ .. 2.113.17 ..
तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलि: । आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥ २.११३.१८ ॥
तम् ऋषिम् तु महात्मानम् उक्त-वाक्यम् कृताञ्जलि । आमतन्त्रयितुम् आरेभे चरणौ उपगृह्य च ॥ २।११३।१८ ॥
tam ṛṣim tu mahātmānam ukta-vākyam kṛtāñjali . āmatantrayitum ārebhe caraṇau upagṛhya ca .. 2.113.18 ..
तत: प्रदक्षिणं कृत्वा भरद्वाजं पुन:पुन: । भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभि: ॥ २.११३.१९ ॥
ततस् प्रदक्षिणम् कृत्वा भरद्वाजम् पुनर् पुनर् । भरतः तु ययौ श्रीमान् अयोध्याम् सह मन्त्रिभिः ॥ २।११३।१९ ॥
tatas pradakṣiṇam kṛtvā bharadvājam punar punar . bharataḥ tu yayau śrīmān ayodhyām saha mantribhiḥ .. 2.113.19 ..
यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: । पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २.११३.२० ॥
यानैः च शकटैः च एव हयैः नागैः च सा चमूः । पुनर् निवृत्ता विस्तीर्णा भरतस्य अनुयायिनी ॥ २।११३।२० ॥
yānaiḥ ca śakaṭaiḥ ca eva hayaiḥ nāgaiḥ ca sā camūḥ . punar nivṛttā vistīrṇā bharatasya anuyāyinī .. 2.113.20 ..
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् । ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ॥ २.११३.२१ ॥
ततस् ते यमुनाम् दिव्याम् नदीम् तीर्त्वा ऊर्मि-मालिनीम् । ददृशुः ताम् पुनर् सर्वे गङ्गाम् शुभ-जलाम् नदीम् ॥ २।११३।२१ ॥
tatas te yamunām divyām nadīm tīrtvā ūrmi-mālinīm . dadṛśuḥ tām punar sarve gaṅgām śubha-jalām nadīm .. 2.113.21 ..
तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: । शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ॥ २.११३.२२ ॥
ताम् रम्य-जल-सम्पूर्णाम् सन्तीर्य सहबान्धवः । शृङ्गिबेर-पुरम् रम्यम् प्रविवेश स सैनिकः ॥ २।११३।२२ ॥
tām ramya-jala-sampūrṇām santīrya sahabāndhavaḥ . śṛṅgibera-puram ramyam praviveśa sa sainikaḥ .. 2.113.22 ..
शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥ २.११३.२३ ॥
शृङ्गिबेर-पुरात् भूयस् तु अयोध्याम् संददर्श ह ॥ २।११३।२३ ॥
śṛṅgibera-purāt bhūyas tu ayodhyām saṃdadarśa ha .. 2.113.23 ..
अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् । भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ॥ २.११३.२४ ॥
अयोध्याम् च ततस् दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् । भरतः दु:ख-सन्तप्तः सारथिम् च इदम् अब्रवीत् ॥ २।११३।२४ ॥
ayodhyām ca tatas dṛṣṭvā pitrā bhrātrā vivarjitām . bharataḥ du:kha-santaptaḥ sārathim ca idam abravīt .. 2.113.24 ..
सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते । निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ २.११३.२५ ॥
सारथे पश्य विध्वस्ता सा अयोध्या न प्रकाशते । निराकारा निरानन्दा दीना प्रतिहत-स्वरा ॥ २।११३।२५ ॥
sārathe paśya vidhvastā sā ayodhyā na prakāśate . nirākārā nirānandā dīnā pratihata-svarā .. 2.113.25 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततम: सर्ग: ॥ ११३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe trayodaśottaraśatatamaḥ sargaḥ .. 113 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In