This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्गः ॥२-११४॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे चतुर्दश-उत्तर-शततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe caturdaśa-uttara-śatatamaḥ sargaḥ ..2..
स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: । अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ॥ २.११४.१ ॥
स्त्रिग्ध-गम्भीर-घोषेण स्यन्दनेन उपयान् प्रभुः । अयोध्याम् भरत क्षिप्रम् प्रविवेश महा-यशाः ॥ २।११४।१ ॥
strigdha-gambhīra-ghoṣeṇa syandanena upayān prabhuḥ . ayodhyām bharata kṣipram praviveśa mahā-yaśāḥ .. 2.114.1 ..
बिडालोलूकचरितामालीननरवारणाम् । तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ २.११४.२ ॥
बिडाल-उलूक-चरिताम् आलीन-नर-वारणाम् । तिमिर-अभ्याहताम् कालीम् अप्रकाशाम् निशाम् इव ॥ २।११४।२ ॥
biḍāla-ulūka-caritām ālīna-nara-vāraṇām . timira-abhyāhatām kālīm aprakāśām niśām iva .. 2.114.2 ..
राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥ २.११४.३ ॥
राहुशत्रोः प्रियाम् पत्नीम् श्रिया प्रज्वलित-प्रभाम् । ग्रहेण अभ्युत्थिते न एकाम् रोहिणीम् इव पीडिताम् ॥ २।११४।३ ॥
rāhuśatroḥ priyām patnīm śriyā prajvalita-prabhām . graheṇa abhyutthite na ekām rohiṇīm iva pīḍitām .. 2.114.3 ..
अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् । लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ २.११४.४ ॥
अल्प-उष्ण-क्षुब्ध-सलिलाम् धर्म-उत्तप्त-विहङ्गमाम् । लीन-मीन-झष-ग्राहाम् कृशाम् गिरि-नदीम् इव ॥ २।११४।४ ॥
alpa-uṣṇa-kṣubdha-salilām dharma-uttapta-vihaṅgamām . līna-mīna-jhaṣa-grāhām kṛśām giri-nadīm iva .. 2.114.4 ..
विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् । हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ २.११४.५ ॥
विधूमाम् इव हेम-आभाम् अध्वर-अग्ने समुत्थिताम् । हविः-अभ्युक्षिताम् पश्चात् शिखाम् विप्रलयम् गताम् ॥ २।११४।५ ॥
vidhūmām iva hema-ābhām adhvara-agne samutthitām . haviḥ-abhyukṣitām paścāt śikhām vipralayam gatām .. 2.114.5 ..
विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् । हतप्रवीरामापन्नां चमूमिव महाहवे ॥ २.११४.६ ॥
विध्वस्त-कवचाम् रुग्ण-ज-वाजि-रथ-ध्वजाम् । हत-प्रवीराम् आपन्नाम् चमूम् इव महा-आहवे ॥ २।११४।६ ॥
vidhvasta-kavacām rugṇa-ja-vāji-ratha-dhvajām . hata-pravīrām āpannām camūm iva mahā-āhave .. 2.114.6 ..
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् । प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥ २.११४.७ ॥
स फेना स स्वना भूत्वा सागरस्य समुत्थिताम् । प्रशान्त-मारुत-उद्घाताम् जल-ऊर्मिम् इव निस्वनाम् ॥ २।११४।७ ॥
sa phenā sa svanā bhūtvā sāgarasya samutthitām . praśānta-māruta-udghātām jala-ūrmim iva nisvanām .. 2.114.7 ..
त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: । सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ २.११४.८ ॥
त्यक्ताम् यज्ञायुधैः सर्वैः अभिरूपैः च याजकैः । सुत्या-काले विनिर्वृत्ते वेदिम् गत-रवाम् इव ॥ २।११४।८ ॥
tyaktām yajñāyudhaiḥ sarvaiḥ abhirūpaiḥ ca yājakaiḥ . sutyā-kāle vinirvṛtte vedim gata-ravām iva .. 2.114.8 ..
गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् । गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥ २.११४.९ ॥
गोष्ठ-मध्ये स्थिताम् आर्त्ताम् अचरन्तीम् तृणम् नवम् । गो-वृषेण परित्यक्ताम् गवाम् पत्तिम् इव उत्सुकाम् ॥ २।११४।९ ॥
goṣṭha-madhye sthitām ārttām acarantīm tṛṇam navam . go-vṛṣeṇa parityaktām gavām pattim iva utsukām .. 2.114.9 ..
प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: । वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ २.११४.१० ॥
प्रभाकर-आद्यैः सु स्निग्धैः प्रज्वलद्भिः इव उत्तमैः । वियुक्ताम् मणिभिः जात्यैः नवाम् मुक्ता-आवलीम् इव ॥ २।११४।१० ॥
prabhākara-ādyaiḥ su snigdhaiḥ prajvaladbhiḥ iva uttamaiḥ . viyuktām maṇibhiḥ jātyaiḥ navām muktā-āvalīm iva .. 2.114.10 ..
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् । संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ २.११४.११ ॥
सहसा चलिताम् स्थानात् महीम् पुण्य-क्षयात् गताम् । संहृत-द्युति-विस्ताराम् ताराम् इव दिवः च्युताम् ॥ २।११४।११ ॥
sahasā calitām sthānāt mahīm puṇya-kṣayāt gatām . saṃhṛta-dyuti-vistārām tārām iva divaḥ cyutām .. 2.114.11 ..
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् । द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ २.११४.१२ ॥
पुष्प-नद्धाम् वसन्त-अन्ते मत्त-भ्रमर-नादिताम् । द्रुत-दाव-अग्नि-विप्लुष्टाम् क्लान्ताम् वन-लताम् इव ॥ २।११४।१२ ॥
puṣpa-naddhām vasanta-ante matta-bhramara-nāditām . druta-dāva-agni-vipluṣṭām klāntām vana-latām iva .. 2.114.12 ..
सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् । प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ २.११४.१३ ॥
सम्मूढ-निगमाम् स्तब्धाम् संक्षिप्त-विपण-आपणाम् । प्रच्छन्न-शऺशि-नक्षत्राम् द्याम् इव अम्बुधरैः वृताम् ॥ २।११४।१३ ॥
sammūḍha-nigamām stabdhām saṃkṣipta-vipaṇa-āpaṇām . pracchanna-śöśi-nakṣatrām dyām iva ambudharaiḥ vṛtām .. 2.114.13 ..
क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् । हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ २.११४.१४ ॥
क्षीण-पान-उत्तमैः भिन्नैः शरावैः अभिसंवृताम् । हत-शौण्डाम् इव आकाशे पान-भूमिम् असंस्कृताम् ॥ २।११४।१४ ॥
kṣīṇa-pāna-uttamaiḥ bhinnaiḥ śarāvaiḥ abhisaṃvṛtām . hata-śauṇḍām iva ākāśe pāna-bhūmim asaṃskṛtām .. 2.114.14 ..
वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् । उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ २.११४.१५ ॥
वृक्ण-भूमि-तलाम् निम्नाम् वृक्ण-पात्रैः समावृताम् । उपयुक्त-उदकाम् भग्नाम् प्रपाम् निपतिताम् इव ॥ २।११४।१५ ॥
vṛkṇa-bhūmi-talām nimnām vṛkṇa-pātraiḥ samāvṛtām . upayukta-udakām bhagnām prapām nipatitām iva .. 2.114.15 ..
विपुलां विततां चैव युक्तपाशां तरस्विनाम् । भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ २.११४.१६ ॥
विपुलाम् वितताम् च एव युक्त-पाशाम् तरस्विनाम् । भूमौ बाणैः विनिष्कृत्ताम् पतिताम् ज्याम् इव आयुधात् ॥ २।११४।१६ ॥
vipulām vitatām ca eva yukta-pāśām tarasvinām . bhūmau bāṇaiḥ viniṣkṛttām patitām jyām iva āyudhāt .. 2.114.16 ..
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् । निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ २.११४.१७ ॥
सहसा युद्ध-शौण्डेन हय-आरोहेण वाहिताम् । निक्षिप्त-भाण्डाम् उत्सृष्टाम् किशोरीम् इव दुर्बलाम् ॥ २।११४।१७ ॥
sahasā yuddha-śauṇḍena haya-āroheṇa vāhitām . nikṣipta-bhāṇḍām utsṛṣṭām kiśorīm iva durbalām .. 2.114.17 ..
शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् । प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ २.११४.१८ ॥
शुष्क-तोयाम् महा-मत्स्यैः कूर्मैः च बहुभिः वृताम् । प्रभिन्न-तट-विस्तीर्णाम् वापीम् इव हृत-उत्पलाम् ॥ २।११४।१८ ॥
śuṣka-toyām mahā-matsyaiḥ kūrmaiḥ ca bahubhiḥ vṛtām . prabhinna-taṭa-vistīrṇām vāpīm iva hṛta-utpalām .. 2.114.18 ..
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् । सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ २.११४.१९ ॥
पुरुषस्य अ प्रहृष्टस्य प्रतिषिद्ध-अनुलेपनाम् । सन्तप्ताम् इव शोकेन गात्र-यष्टिम् अभूषणाम् ॥ २।११४।१९ ॥
puruṣasya a prahṛṣṭasya pratiṣiddha-anulepanām . santaptām iva śokena gātra-yaṣṭim abhūṣaṇām .. 2.114.19 ..
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् । प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ २.११४.२० ॥
प्रावृषि प्रविगाढायाम् प्रविष्टस्य अभ्र-मण्डलम् । प्रच्छन्नाम् नील-जीमूतैः भास्करस्य प्रभाम् इव ॥ २।११४।२० ॥
prāvṛṣi pravigāḍhāyām praviṣṭasya abhra-maṇḍalam . pracchannām nīla-jīmūtaiḥ bhāskarasya prabhām iva .. 2.114.20 ..
भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: । वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ २.११४.२१ ॥
भरतः तु रथ-स्थः सन् श्रीमान् दशरथ-आत्मजः । वाहयन्तम् रथ-श्रेष्ठम् सारथिम् वाक्यम् अब्रवीत् ॥ २।११४।२१ ॥
bharataḥ tu ratha-sthaḥ san śrīmān daśaratha-ātmajaḥ . vāhayantam ratha-śreṣṭham sārathim vākyam abravīt .. 2.114.21 ..
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते । यथापुरमयोध्यायां गीतवादित्रनिस्वन: ॥ २.११४.२२ ॥
किम् नु खलु अद्य गम्भीरः मूर्च्छितः न निशम्यते । यथापुरम् अयोध्यायाम् गीत-वादित्र-निस्वनः ॥ २।११४।२२ ॥
kim nu khalu adya gambhīraḥ mūrcchitaḥ na niśamyate . yathāpuram ayodhyāyām gīta-vāditra-nisvanaḥ .. 2.114.22 ..
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: । धूपितागरुगन्धश्च न प्रवाति समन्तत: ॥ २.११४.२३ ॥
वारुणी-मद-गन्धः च माल्य-गन्धः च मूर्च्छितः । धूपित-अगरु-गन्धः च न प्रवाति समन्ततः ॥ २।११४।२३ ॥
vāruṇī-mada-gandhaḥ ca mālya-gandhaḥ ca mūrcchitaḥ . dhūpita-agaru-gandhaḥ ca na pravāti samantataḥ .. 2.114.23 ..
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: । प्रमत्तगजनादश्च महांश्च रथनिस्वन: । नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ २.११४.२४ ॥
यान-प्रवर-घोषः च स्निग्धः च हय-निस्वनः । प्रमत्त-गज-नादः च महान् च रथ-निस्वनः । न इदानीम् श्रूयते पुर्याम् अस्याम् रामे विवासिते ॥ २।११४।२४ ॥
yāna-pravara-ghoṣaḥ ca snigdhaḥ ca haya-nisvanaḥ . pramatta-gaja-nādaḥ ca mahān ca ratha-nisvanaḥ . na idānīm śrūyate puryām asyām rāme vivāsite .. 2.114.24 ..
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: । गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ॥ २.११४.२५ ॥
चन्दन-अगरु-गन्धान् च महार्हाः च नव-स्रजः । गते हि रामे तरुणाः सन्तप्ताः न उपभुञ्जते ॥ २।११४।२५ ॥
candana-agaru-gandhān ca mahārhāḥ ca nava-srajaḥ . gate hi rāme taruṇāḥ santaptāḥ na upabhuñjate .. 2.114.25 ..
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: । नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ॥ २.११४.२६ ॥
बहिस् यात्राम् न गच्छन्ति चित्र-माल्य-धराः नराः । न उत्सवाः सम्प्रवर्त्तन्ते राम-शोक-अर्दिते पुरे ॥ २।११४।२६ ॥
bahis yātrām na gacchanti citra-mālya-dharāḥ narāḥ . na utsavāḥ sampravarttante rāma-śoka-ardite pure .. 2.114.26 ..
सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता । नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ २.११४.२७ ॥
सह नूनम् मम भ्रात्रा पुरस्य आस्य-द्युतिः गता । नहि राजति अयोध्या इयम् सा असारा इव अर्जुनी क्षपा ॥ २।११४।२७ ॥
saha nūnam mama bhrātrā purasya āsya-dyutiḥ gatā . nahi rājati ayodhyā iyam sā asārā iva arjunī kṣapā .. 2.114.27 ..
कदा नु खलु मे भ्राता महोत्सव इवागत: । जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ॥ २.११४.२८ ॥
कदा नु खलु मे भ्राता महा-उत्सवे इव आगत । जनयिष्यति अयोध्यायाम् हर्षम् ग्रीष्मः इव अम्बुदः ॥ २।११४।२८ ॥
kadā nu khalu me bhrātā mahā-utsave iva āgata . janayiṣyati ayodhyāyām harṣam grīṣmaḥ iva ambudaḥ .. 2.114.28 ..
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: । सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ॥ २.११४.२९ ॥
तरुणैः चारु-वेषैः च नरैः उन्नत-गामिभिः । सम्पतद्भिः अयोध्यायाम् न अभिभान्ति महा-पथाः ॥ २।११४।२९ ॥
taruṇaiḥ cāru-veṣaiḥ ca naraiḥ unnata-gāmibhiḥ . sampatadbhiḥ ayodhyāyām na abhibhānti mahā-pathāḥ .. 2.114.29 ..
एवं बहुविधं जल्पन् विवेश वसतिं पितु: । तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ २.११४.३० ॥
एवम् बहुविधम् जल्पन् विवेश वसतिम् पितु । तेन हीनाम् नरेन्द्रेण सिंह-हीनाम् गुहाम् इव ॥ २।११४।३० ॥
evam bahuvidham jalpan viveśa vasatim pitu . tena hīnām narendreṇa siṃha-hīnām guhām iva .. 2.114.30 ..
तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् । निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ॥ २.११४.३१ ॥
तदा तद्-अन्तर् पुरम् उज्झित-प्रभम् सुरैः इव उत्सृष्टम् अभास्करम् दिनम् । निरीक्ष्य विविक्तम् आत्मवान् मुमोच बाष्पम् भरतः सु दुःखितः ॥ २।११४।३१ ॥
tadā tad-antar puram ujjhita-prabham suraiḥ iva utsṛṣṭam abhāskaram dinam . nirīkṣya viviktam ātmavān mumoca bāṣpam bharataḥ su duḥkhitaḥ .. 2.114.31 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग: ॥ ११४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे चतुर्दश-उत्तर-शततमः सर्गः ॥ ११४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe caturdaśa-uttara-śatatamaḥ sargaḥ .. 114 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In