This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्गः ॥२-११५॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चदश-उत्तर-शततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcadaśa-uttara-śatatamaḥ sargaḥ ..2..
ततो निक्षिप्य मातऽ: स अयोध्यायां दृढव्रत: । भरत: शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥ २.११५.१ ॥
ततस् निक्षिप्य स अयोध्यायाम् दृढ-व्रतः । भरत शोक-सन्तप्तः गुरून् इदम् अथ अब्रवीत् ॥ २।११५।१ ॥
tatas nikṣipya sa ayodhyāyām dṛḍha-vrataḥ . bharata śoka-santaptaḥ gurūn idam atha abravīt .. 2.115.1 ..
नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: । तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ॥ २.११५.२ ॥
नन्दिग्रामम् गमिष्यामि सर्वान् आमन्त्रये अद्य वः । तत्र दु:खम् इदम् सर्वम् सहिष्ये राघवम् विना ॥ २।११५।२ ॥
nandigrāmam gamiṣyāmi sarvān āmantraye adya vaḥ . tatra du:kham idam sarvam sahiṣye rāghavam vinā .. 2.115.2 ..
गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम । रामं प्रतीक्षे राज्याय स हि राजा महायशा: ॥ २.११५.३ ॥
गतः च हि दिवम् राजा वन-स्थः च गुरुः मम । रामम् प्रतीक्षे राज्याय स हि राजा महा-यशाः ॥ २।११५।३ ॥
gataḥ ca hi divam rājā vana-sthaḥ ca guruḥ mama . rāmam pratīkṣe rājyāya sa hi rājā mahā-yaśāḥ .. 2.115.3 ..
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: । अब्रुवन् मन्त्रिण: सर्वे वसिष्ठश्च पुरोहित: ॥ २.११५.४ ॥
एतत् श्रुत्वा शुभम् वाक्यम् भरतस्य महात्मनः । अब्रुवन् मन्त्रिणः सर्वे वसिष्ठः च पुरोहितः ॥ २।११५।४ ॥
etat śrutvā śubham vākyam bharatasya mahātmanaḥ . abruvan mantriṇaḥ sarve vasiṣṭhaḥ ca purohitaḥ .. 2.115.4 ..
सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया । वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ २.११५.५ ॥
सु भृशम् श्लाघनीयम् च यत् उक्तम् भरत त्वया । वचनम् भ्रातृ-वात्सल्यात् अनुरूपम् तव एव तत् ॥ २।११५।५ ॥
su bhṛśam ślāghanīyam ca yat uktam bharata tvayā . vacanam bhrātṛ-vātsalyāt anurūpam tava eva tat .. 2.115.5 ..
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे । आर्यमार्गं प्रपन्नस्य नानुमन्येत क: पुमान् ॥ २.११५.६ ॥
नित्यम् ते बन्धु-लुब्धस्य तिष्ठतः भ्रातृ-सौहृदे । आर्य-मार्गम् प्रपन्नस्य न अनुमन्येत कः पुमान् ॥ २।११५।६ ॥
nityam te bandhu-lubdhasya tiṣṭhataḥ bhrātṛ-sauhṛde . ārya-mārgam prapannasya na anumanyeta kaḥ pumān .. 2.115.6 ..
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् । अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ २.११५.७ ॥
मन्त्रिणाम् वचनम् श्रुत्वा यथा अभिलषितम् प्रियम् । अब्रवीत् सारथिम् वाक्यम् रथः मे युज्यताम् इति ॥ २।११५।७ ॥
mantriṇām vacanam śrutvā yathā abhilaṣitam priyam . abravīt sārathim vākyam rathaḥ me yujyatām iti .. 2.115.7 ..
प्रहृष्टवदन: सर्वा मातऽ: समभिवाद्य स: । आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वित: ॥ २.११५.८ ॥
प्रहृष्ट-वदनः सर्वाः मातर् समभिवाद्य सः । आरुरोह रथम् श्रीमान् शत्रुघ्नेन समन्वितः ॥ २।११५।८ ॥
prahṛṣṭa-vadanaḥ sarvāḥ mātar samabhivādya saḥ . āruroha ratham śrīmān śatrughnena samanvitaḥ .. 2.115.8 ..
आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ। ययतु: परमप्रीतौ वृतौ मन्त्रिपुरोहितै: ॥ २.११५.९ ॥
आरुह्य च रथम् शीघ्रम् शत्रुघ्न-भरतौ उभौ। ययतु परम-प्रीतौ वृतौ मन्त्रि-पुरोहितैः ॥ २।११५।९ ॥
āruhya ca ratham śīghram śatrughna-bharatau ubhau. yayatu parama-prītau vṛtau mantri-purohitaiḥ .. 2.115.9 ..
अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजा: । प्रययु: प्राङ्मुखा: सर्वे नन्दिग्रामो यतो ऽभवत् ॥ २.११५.१० ॥
अग्रतस् गुरवः तत्र वसिष्ठ-प्रमुखाः द्विजाः । प्रययुः प्राच्-मुखाः सर्वे नन्दिग्रामः यतस् अभवत् ॥ २।११५।१० ॥
agratas guravaḥ tatra vasiṣṭha-pramukhāḥ dvijāḥ . prayayuḥ prāc-mukhāḥ sarve nandigrāmaḥ yatas abhavat .. 2.115.10 ..
बलं च तदनाहूतं गजाश्वरथसङ्कुलम् । प्रययौ भरते याते सर्वे च पुरवासिन: ॥ २.११५.११ ॥
बलम् च तत् अनाहूतम् गज-अश्व-रथ-सङ्कुलम् । प्रययौ भरते याते सर्वे च पुर-वासिनः ॥ २।११५।११ ॥
balam ca tat anāhūtam gaja-aśva-ratha-saṅkulam . prayayau bharate yāte sarve ca pura-vāsinaḥ .. 2.115.11 ..
रथस्थ: स हि धर्मात्मा भरतो भ्रातृवत्सल: । नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥ २.११५.१२ ॥
रथ-स्थः स हि धर्म-आत्मा भरतः भ्रातृ-वत्सलः । नन्दिग्रामम् ययौ तूर्णम् शिरसि आधाय पादुके ॥ २।११५।१२ ॥
ratha-sthaḥ sa hi dharma-ātmā bharataḥ bhrātṛ-vatsalaḥ . nandigrāmam yayau tūrṇam śirasi ādhāya pāduke .. 2.115.12 ..
ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: । अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ॥ २.११५.१३ ॥
ततस् तु भरतः क्षिप्रम् नन्दिग्रामम् प्रविश्य स । अवतीर्य रथात् तूर्णम् गुरून् इदम् उवाच ह ॥ २।११५।१३ ॥
tatas tu bharataḥ kṣipram nandigrāmam praviśya sa . avatīrya rathāt tūrṇam gurūn idam uvāca ha .. 2.115.13 ..
एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् । योगक्षेमवहे चेमे पादुके हेमभूषिते ॥ २.११५.१४ ॥
एतत् राज्यम् मम भ्रात्रा दत्तम् संन्यास-वत् स्वयम् । योगक्षेम-वहे च इमे पादुके हेम-भूषिते ॥ २।११५।१४ ॥
etat rājyam mama bhrātrā dattam saṃnyāsa-vat svayam . yogakṣema-vahe ca ime pāduke hema-bhūṣite .. 2.115.14 ..
भरत: शिरसा कृत्वा संन्यासं पादुके तत: । अब्रवीद्दु:खसन्तप्त: सर्वं प्रकृतिमण्डलम् ॥ २.११५.१५ ॥
भरतः शिरसा कृत्वा संन्यासम् पादुके ततस् । अब्रवीत् दुःख-सन्तप्त सर्वम् प्रकृति-मण्डलम् ॥ २।११५।१५ ॥
bharataḥ śirasā kṛtvā saṃnyāsam pāduke tatas . abravīt duḥkha-santapta sarvam prakṛti-maṇḍalam .. 2.115.15 ..
छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ । आभ्यां राज्ये स्थितो धर्म: पादुकाभ्यां गुरोर्मम ॥ २.११५.१६ ॥
छत्रम् धारयत क्षिप्रम् आर्य-पादौ इमौ मतौ । आभ्याम् राज्ये स्थितः धर्म पादुकाभ्याम् गुरोः मम ॥ २।११५।१६ ॥
chatram dhārayata kṣipram ārya-pādau imau matau . ābhyām rājye sthitaḥ dharma pādukābhyām guroḥ mama .. 2.115.16 ..
भ्रात्रा हि मयि संन्यासो निक्षिप्त: सौहृदादयम् । तमिमं पालयिष्यामि राघवागमनं प्रति ॥ २.११५.१७ ॥
भ्रात्रा हि मयि संन्यासः निक्षिप्तः सौहृदात् अयम् । तम् इमम् पालयिष्यामि राघव-आगमनम् प्रति ॥ २।११५।१७ ॥
bhrātrā hi mayi saṃnyāsaḥ nikṣiptaḥ sauhṛdāt ayam . tam imam pālayiṣyāmi rāghava-āgamanam prati .. 2.115.17 ..
क्षिप्रं संयोजयित्वा तु राघवस्य पुन: स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ २.११५.१८ ॥
क्षिप्रम् संयोजयित्वा तु राघवस्य पुनर् स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सह पादुकौ ॥ २।११५।१८ ॥
kṣipram saṃyojayitvā tu rāghavasya punar svayam . caraṇau tau tu rāmasya drakṣyāmi saha pādukau .. 2.115.18 ..
ततो निक्षिप्तभारो ऽहं राघवेण समागत: । निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ २.११५.१९ ॥
ततस् निक्षिप्त-भारः अहम् राघवेण समागत । निवेद्य गुरवे राज्यम् भजिष्ये गुरु-वृत्ति-ताम् ॥ २।११५।१९ ॥
tatas nikṣipta-bhāraḥ aham rāghaveṇa samāgata . nivedya gurave rājyam bhajiṣye guru-vṛtti-tām .. 2.115.19 ..
राघवाय च संन्यासं दत्त्वे मे वरपादुके । राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ २.११५.२० ॥
राघवाय च संन्यासम् दत्त्वे मे वर-पादुके । राज्यम् च इदम् अयोध्याम् च धूत-पापः भवामि च ॥ २।११५।२० ॥
rāghavāya ca saṃnyāsam dattve me vara-pāduke . rājyam ca idam ayodhyām ca dhūta-pāpaḥ bhavāmi ca .. 2.115.20 ..
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने । प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ २.११५.२१ ॥
अभिषिक्ते तु काकुत्स्थे प्रहृष्ट-मुदिते जने । प्रीतिः मम यशः च एव भवेत् राज्यात् चतुर्गुणम् ॥ २।११५।२१ ॥
abhiṣikte tu kākutsthe prahṛṣṭa-mudite jane . prītiḥ mama yaśaḥ ca eva bhavet rājyāt caturguṇam .. 2.115.21 ..
एवं तु विलपन् दीनो भरत: स महायशा: । नन्दिग्रामे ऽकरोद्राज्यं दु:खितो मन्त्रिभि: सह ॥ २.११५.२२ ॥
एवम् तु विलपन् दीनः भरत स महा-यशाः । नन्दिग्रामे अकरोत् राज्यम् दु:खितः मन्त्रिभिः सह ॥ २।११५।२२ ॥
evam tu vilapan dīnaḥ bharata sa mahā-yaśāḥ . nandigrāme akarot rājyam du:khitaḥ mantribhiḥ saha .. 2.115.22 ..
स वल्कलजटाधारी मुनिवेषधर: प्रभु: । नन्दिग्रामे ऽवसद्वीर: ससैन्यो भरतस्तदा ॥ २.११५.२३ ॥
स वल्कल-जटा-धारी मुनि-वेष-धरः प्रभुः । नन्दिग्रामे अवसत् वीर स सैन्यः भरतः तदा ॥ २।११५।२३ ॥
sa valkala-jaṭā-dhārī muni-veṣa-dharaḥ prabhuḥ . nandigrāme avasat vīra sa sainyaḥ bharataḥ tadā .. 2.115.23 ..
रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सल: । भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥ २.११५.२४ ॥
राम-आगमनम् आकाङ्क्षन् भरतः भ्रातृ-वत्सलः । भ्रातुः वचन-कारी च प्रतिज्ञा-पारगः तथा ॥ २।११५।२४ ॥
rāma-āgamanam ākāṅkṣan bharataḥ bhrātṛ-vatsalaḥ . bhrātuḥ vacana-kārī ca pratijñā-pāragaḥ tathā .. 2.115.24 ..
पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा । भरत: शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ २.११५.२५ ॥
पादुके तु अभिषिच्य अथ नन्द्रिग्रामे अवसत् तदा । भरत शासनम् सर्वम् पादुकाभ्याम् न्यवेदयत् ॥ २।११५।२५ ॥
pāduke tu abhiṣicya atha nandrigrāme avasat tadā . bharata śāsanam sarvam pādukābhyām nyavedayat .. 2.115.25 ..
ततस्तु भरत: श्रीमानभिषिच्यार्य्यपादुके । तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ २.११५.२६ ॥
ततस् तु भरत श्रीमान् अभिषिच्य आर्य्य-पादुके । तद्-अधीनः तदा राज्यम् कारयामास सर्वदा ॥ २।११५।२६ ॥
tatas tu bharata śrīmān abhiṣicya āryya-pāduke . tad-adhīnaḥ tadā rājyam kārayāmāsa sarvadā .. 2.115.26 ..
तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् । स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ॥ २.११५.२७ ॥
तदा हि यत् कार्य्यम् उपैति किञ्चिद् उपायनम् च उपहृतम् महार्हम् । स पादुकाभ्याम् प्रथमम् निवेद्य चकार पश्चात् भरतः यथावत् ॥ २।११५।२७ ॥
tadā hi yat kāryyam upaiti kiñcid upāyanam ca upahṛtam mahārham . sa pādukābhyām prathamam nivedya cakāra paścāt bharataḥ yathāvat .. 2.115.27 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्ग: ॥ ११५ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे पञ्चदश-उत्तर-शततमः सर्गः ॥ ११५ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe pañcadaśa-uttara-śatatamaḥ sargaḥ .. 115 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In