This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टादशोत्तरशततम: सर्गः ॥२-११८॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टादश-उत्तर-शततमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭādaśa-uttara-śatatamaḥ sargaḥ ..2..
सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया । प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ २.११८.१ ॥
सा तु एवम् उक्ता वैदेही तु अनसूया अनसूयया । प्रतिपूज्य वचः मन्दम् प्रवक्तुम् उपचक्रमे ॥ २।११८।१ ॥
sā tu evam uktā vaidehī tu anasūyā anasūyayā . pratipūjya vacaḥ mandam pravaktum upacakrame .. 2.118.1 ..
नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे । विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ॥ २.११८.२ ॥
न एतत् आश्चर्यम् आर्यायाः यत् माम् त्वम् अनुभाषसे । विदितम् तु मम अपि एतत् यथा नार्य्याः पतिः गुरुः ॥ २।११८।२ ॥
na etat āścaryam āryāyāḥ yat mām tvam anubhāṣase . viditam tu mama api etat yathā nāryyāḥ patiḥ guruḥ .. 2.118.2 ..
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: । अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ २.११८.३ ॥
यदि अपि एष भवेत् भर्ता मम आर्ये वृत्त-वर्जित । अद्वैधम् उपचर्तव्यः तथा अपि एष मया भवेत् ॥ २।११८।३ ॥
yadi api eṣa bhavet bhartā mama ārye vṛtta-varjita . advaidham upacartavyaḥ tathā api eṣa mayā bhavet .. 2.118.3 ..
किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: । स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ॥ २.११८.४ ॥
किम् पुनर् यः गुणः श्लाघ्यः स अनुक्रोशः जित-इन्द्रियः । स्थिर-अनुरागः धर्म-आत्मा मातृ-वत् पितृ-वत् प्रियः ॥ २।११८।४ ॥
kim punar yaḥ guṇaḥ ślāghyaḥ sa anukrośaḥ jita-indriyaḥ . sthira-anurāgaḥ dharma-ātmā mātṛ-vat pitṛ-vat priyaḥ .. 2.118.4 ..
यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: । तामेव नृपनारीणामन्यासामपि वर्त्तते ॥ २.११८.५ ॥
याम् वृत्तिम् वर्त्तते रामः कौसल्यायाम् महा-बलः । ताम् एव नृप-नारीणाम् अन्यासाम् अपि वर्त्तते ॥ २।११८।५ ॥
yām vṛttim varttate rāmaḥ kausalyāyām mahā-balaḥ . tām eva nṛpa-nārīṇām anyāsām api varttate .. 2.118.5 ..
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: । मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ २.११८.६ ॥
सकृत् दृष्टासु अपि स्त्रीषु नृपेण नृप-वत्सलः । मातृ-वत् वर्त्तते वीरः मानम् उत्सृज्य धर्म-विद् ॥ २।११८।६ ॥
sakṛt dṛṣṭāsu api strīṣu nṛpeṇa nṛpa-vatsalaḥ . mātṛ-vat varttate vīraḥ mānam utsṛjya dharma-vid .. 2.118.6 ..
आगच्छन्त्याश्च विजनं वनमेवं भयावहम् । समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ २.११८.७ ॥
आगच्छन्त्याः च विजनम् वनम् एवम् भय-आवहम् । समाहितम् मे श्वश्र्वा च हृदये तत् हृतम् महत् ॥ २।११८।७ ॥
āgacchantyāḥ ca vijanam vanam evam bhaya-āvaham . samāhitam me śvaśrvā ca hṛdaye tat hṛtam mahat .. 2.118.7 ..
पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ । अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ॥ २.११८.८ ॥
पाणि-प्रदान-काले च यत् पुरा तु अग्नि-सन्निधौ । अनुशिष्टा जनन्या अस्मि वाक्यम् तत् अपि मे धृतम् ॥ २।११८।८ ॥
pāṇi-pradāna-kāle ca yat purā tu agni-sannidhau . anuśiṣṭā jananyā asmi vākyam tat api me dhṛtam .. 2.118.8 ..
नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि । पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ २.११८.९ ॥
नवीकृतम् च तत् सर्वम् वाक्यैः ते धर्म-चारिणि । पति-शुश्रूषणात् नार्य्याः तपः न अन्यत् विधीयते ॥ २।११८।९ ॥
navīkṛtam ca tat sarvam vākyaiḥ te dharma-cāriṇi . pati-śuśrūṣaṇāt nāryyāḥ tapaḥ na anyat vidhīyate .. 2.118.9 ..
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ २.११८.१० ॥
सावित्री पति-शुश्रूषाम् कृत्वा स्वर्गे महीयते । तथा वृत्तिः च याता त्वम् पति-शुश्रूषया दिवम् ॥ २।११८।१० ॥
sāvitrī pati-śuśrūṣām kṛtvā svarge mahīyate . tathā vṛttiḥ ca yātā tvam pati-śuśrūṣayā divam .. 2.118.10 ..
वरिष्ठा सर्वनारीणामेषा च दिवि देवता । रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ २.११८.११ ॥
वरिष्ठा सर्व-नारीणाम् एषा च दिवि देवता । रोहिणी न विना चन्द्रम् मुहूर्त्तम् अपि दृश्यते ॥ २।११८।११ ॥
variṣṭhā sarva-nārīṇām eṣā ca divi devatā . rohiṇī na vinā candram muhūrttam api dṛśyate .. 2.118.11 ..
एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: । देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ २.११८.१२ ॥
एवंविधाः च प्रवराः स्त्रियः भर्तृ-दृढ-व्रताः । देव-लोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ २।११८।१२ ॥
evaṃvidhāḥ ca pravarāḥ striyaḥ bhartṛ-dṛḍha-vratāḥ . deva-loke mahīyante puṇyena svena karmaṇā .. 2.118.12 ..
ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: । शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ २.११८.१३ ॥
ततस् अनसूया संहृष्टा श्रुत्वा उक्तम् सीतया वचः । शिरसि आघ्राय च उवाच मैथिलीम् हर्षयन्ती उत ॥ २।११८।१३ ॥
tatas anasūyā saṃhṛṣṭā śrutvā uktam sītayā vacaḥ . śirasi āghrāya ca uvāca maithilīm harṣayantī uta .. 2.118.13 ..
नियमैर्विविधैराप्तं तपो हि महदस्ति मे । तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ २.११८.१४ ॥
नियमैः विविधैः आप्तम् तपः हि महत् अस्ति मे । तत् संश्रित्य बलम् सीते छन्दये त्वाम् शुचि-स्मिते ॥ २।११८।१४ ॥
niyamaiḥ vividhaiḥ āptam tapaḥ hi mahat asti me . tat saṃśritya balam sīte chandaye tvām śuci-smite .. 2.118.14 ..
उपपन्नं मनोज्ञं च वचनं तव मैथिलि । प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ २.११८.१५ ॥
उपपन्नम् मनोज्ञम् च वचनम् तव मैथिलि । प्रीता च अस्मि उचितम् किम् ते करवाणि ब्रवीहि मे ॥ २।११८।१५ ॥
upapannam manojñam ca vacanam tava maithili . prītā ca asmi ucitam kim te karavāṇi bravīhi me .. 2.118.15 ..
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ २.११८.१६ ॥
तस्याः तत् वचनम् श्रुत्वा विस्मिता मन्द-विस्मया कृतम् इति अब्रवीत् सीता तपः-बल-समन्विताम् ॥ २।११८।१६ ॥
tasyāḥ tat vacanam śrutvā vismitā manda-vismayā kṛtam iti abravīt sītā tapaḥ-bala-samanvitām .. 2.118.16 ..
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् । सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ २.११८.१७ ॥
सा तु एवम् उक्ता धर्म-ज्ञा तया प्रीततरा अभवत् । सफलम् च प्रहर्षम् ते हन्त सीते करोमि अहम् ॥ २।११८।१७ ॥
sā tu evam uktā dharma-jñā tayā prītatarā abhavat . saphalam ca praharṣam te hanta sīte karomi aham .. 2.118.17 ..
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च । अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ २.११८.१८ ॥
इदम् दिव्यम् वरम् माल्यम् वस्त्रम् आभरणानि च । अङ्गरागम् च वैदेहि महार्हम् च अनुलेपनम् ॥ २।११८।१८ ॥
idam divyam varam mālyam vastram ābharaṇāni ca . aṅgarāgam ca vaidehi mahārham ca anulepanam .. 2.118.18 ..
मया दत्तमिदं सीते तव गात्राणि शोभयेत् । अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ २.११८.१९ ॥
मया दत्तम् इदम् सीते तव गात्राणि शोभयेत् । अनुरूपम् असंक्लिष्टम् नित्यम् एव भविष्यति ॥ २।११८।१९ ॥
mayā dattam idam sīte tava gātrāṇi śobhayet . anurūpam asaṃkliṣṭam nityam eva bhaviṣyati .. 2.118.19 ..
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे । शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ २.११८.२० ॥
अङ्गरागेण दिव्येन लिप्त-अङ्गी जनकात्मजे । शोभयिष्यसि भर्त्तारम् यथा श्री-विष्णुम् अव्ययम् ॥ २।११८।२० ॥
aṅgarāgeṇa divyena lipta-aṅgī janakātmaje . śobhayiṣyasi bharttāram yathā śrī-viṣṇum avyayam .. 2.118.20 ..
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २.११८.२१ ॥
सा वस्त्रम् अङ्गरागम् च भूषणानि स्रजः तथा । मैथिली प्रतिजग्राह प्रीति-दानम् अनुत्तमम् ॥ २।११८।२१ ॥
sā vastram aṅgarāgam ca bhūṣaṇāni srajaḥ tathā . maithilī pratijagrāha prīti-dānam anuttamam .. 2.118.21 ..
प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ २.११८.२२ ॥
प्रतिगृह्य च तत् सीता प्रीति-दानम् यशस्विनी । श्लिष्ट-अञ्जलि-पुटा तत्र समुपास्त तपोधनाम् ॥ २।११८।२२ ॥
pratigṛhya ca tat sītā prīti-dānam yaśasvinī . śliṣṭa-añjali-puṭā tatra samupāsta tapodhanām .. 2.118.22 ..
तथा सीतासुपासीनामनसूया दृढव्रता । वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ २.११८.२३ ॥
तथा सीतासु उपासीनाम् अनसूया दृढ-व्रता । वचनम् प्रष्टुम् आरेभे काञ्चिद् प्रिय-कथाम् अनु ॥ २।११८।२३ ॥
tathā sītāsu upāsīnām anasūyā dṛḍha-vratā . vacanam praṣṭum ārebhe kāñcid priya-kathām anu .. 2.118.23 ..
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २.११८.२४ ॥
स्वयंवरे किल प्राप्ता त्वम् अनेन यशस्विना । राघवेण इति मे सीते कथा श्रुतिम् उपागता ॥ २।११८।२४ ॥
svayaṃvare kila prāptā tvam anena yaśasvinā . rāghaveṇa iti me sīte kathā śrutim upāgatā .. 2.118.24 ..
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २.११८.२५ ॥
ताम् कथाम् श्रोतुम् इच्छामि विस्तरेण च मैथिलि । यथा अनुभूतम् कार्त्स्न्येन तत् मे त्वम् वक्तुम् अर्हसि ॥ २।११८।२५ ॥
tām kathām śrotum icchāmi vistareṇa ca maithili . yathā anubhūtam kārtsnyena tat me tvam vaktum arhasi .. 2.118.25 ..
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २.११८.२६ ॥
एवम् उक्ता तु सा सीता ताम् ततस् धर्म-चारिणीम् । श्रूयताम् इति च उक्त्वा वै कथयामास ताम् कथाम् ॥ २।११८।२६ ॥
evam uktā tu sā sītā tām tatas dharma-cāriṇīm . śrūyatām iti ca uktvā vai kathayāmāsa tām kathām .. 2.118.26 ..
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । क्षत्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ॥ २.११८.२७ ॥
मिथिला-अधिपतिः वीरः जनकः नाम धर्म-विद् । क्षत्र-धर्मे हि अभिरतः न्यायतः शास्ति मेदिनीम् ॥ २।११८।२७ ॥
mithilā-adhipatiḥ vīraḥ janakaḥ nāma dharma-vid . kṣatra-dharme hi abhirataḥ nyāyataḥ śāsti medinīm .. 2.118.27 ..
तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् । अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ॥ २.११८.२८ ॥
तस्य लाङ्गल-हस्तस्य कर्षतः क्षेत्र-मण्डलम् । अहम् किल उत्थिता भित्त्वा जगतीम् नृपते सुता ॥ २।११८।२८ ॥
tasya lāṅgala-hastasya karṣataḥ kṣetra-maṇḍalam . aham kila utthitā bhittvā jagatīm nṛpate sutā .. 2.118.28 ..
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: । पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ॥ २.११८.२९ ॥
स माम् दृष्ट्वा नरपतिः मुष्टि-विक्षेप-तत्परः । पांसु-कुण्ठित-सर्व-अङ्गीम् जनकः विस्मितः अभवत् ॥ २।११८।२९ ॥
sa mām dṛṣṭvā narapatiḥ muṣṭi-vikṣepa-tatparaḥ . pāṃsu-kuṇṭhita-sarva-aṅgīm janakaḥ vismitaḥ abhavat .. 2.118.29 ..
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ॥ २.११८.३० ॥
अनपत्येन च स्नेहात् अङ्कम् आरोप्य च स्वयम् । मम इयम् तनया इति उक्त्वा स्नेहः मयि निपातितः ॥ २।११८।३० ॥
anapatyena ca snehāt aṅkam āropya ca svayam . mama iyam tanayā iti uktvā snehaḥ mayi nipātitaḥ .. 2.118.30 ..
अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल । एवमेतन्नरपते धर्मेण तनया तव ॥ २.११८.३१ ॥
अन्तरिक्षे च वाच् उक्ता प्रति मा अमानुषी किल । एवम् एतत् नरपते धर्मेण तनया तव ॥ २।११८।३१ ॥
antarikṣe ca vāc uktā prati mā amānuṣī kila . evam etat narapate dharmeṇa tanayā tava .. 2.118.31 ..
तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: । अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ॥ २.११८.३२ ॥
ततस् प्रहृष्टः धर्म-आत्मा पिता मे मिथिला-अधिप । अवाप्तः विपुलाम् ऋद्धिम् माम् अवाप्य नराधिप ॥ २।११८।३२ ॥
tatas prahṛṣṭaḥ dharma-ātmā pitā me mithilā-adhipa . avāptaḥ vipulām ṛddhim mām avāpya narādhipa .. 2.118.32 ..
दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा । तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ २.११८.३३ ॥
दत्ता च अस्मि इष्ट-वत् देव्यै ज्येष्ठायै पुण्य-कर्मणा । तया सम्भाविता च अस्मि स्निग्धया मातृ-सौहृदात् ॥ २।११८।३३ ॥
dattā ca asmi iṣṭa-vat devyai jyeṣṭhāyai puṇya-karmaṇā . tayā sambhāvitā ca asmi snigdhayā mātṛ-sauhṛdāt .. 2.118.33 ..
पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता । चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ॥ २.११८.३४ ॥
पति-संयोग-सुलभम् वयः दृष्ट्वा तु मे पिता । चिन्ताम् अभ्यगमत् दीनः वित्त-नाशात् इव अधनः ॥ २।११८।३४ ॥
pati-saṃyoga-sulabham vayaḥ dṛṣṭvā tu me pitā . cintām abhyagamat dīnaḥ vitta-nāśāt iva adhanaḥ .. 2.118.34 ..
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ २.११८.३५ ॥
सदृशात् च अपकृष्टात् च लोके कन्या-पिता जनात् । प्रधर्षणम् अवाप्नोति शक्रेण अपि समः भुवि ॥ २।११८।३५ ॥
sadṛśāt ca apakṛṣṭāt ca loke kanyā-pitā janāt . pradharṣaṇam avāpnoti śakreṇa api samaḥ bhuvi .. 2.118.35 ..
तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: । चिन्तार्णवगत: पारं नाससादाप्लवो यथा ॥ २.११८.३६ ॥
ताम् धर्षणाम् अदूर-स्थाम् दृष्ट्वा च आत्मनि पार्थिव । चिन्ता-अर्णव-गतः पारम् ना आससाद आप्लवः यथा ॥ २।११८।३६ ॥
tām dharṣaṇām adūra-sthām dṛṣṭvā ca ātmani pārthiva . cintā-arṇava-gataḥ pāram nā āsasāda āplavaḥ yathā .. 2.118.36 ..
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् । सदृशं चानुरूपं च महीपाल: पतिं मम ॥ २.११८.३७ ॥
अ योनि-जाम् हि माम् ज्ञात्वा न अध्यगच्छत् विचिन्तयन् । सदृशम् च अनुरूपम् च महीपाल पतिम् मम ॥ २।११८।३७ ॥
a yoni-jām hi mām jñātvā na adhyagacchat vicintayan . sadṛśam ca anurūpam ca mahīpāla patim mama .. 2.118.37 ..
तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । स्वयं वरं तनूजाया: करिष्यामीति धीमत: ॥ २.११८.३८ ॥
तस्य बुद्धिः इयम् जाता चिन्तयानस्य सन्ततम् । स्वयम् वरम् तनूजायाः करिष्यामि इति धीमतः ॥ २।११८।३८ ॥
tasya buddhiḥ iyam jātā cintayānasya santatam . svayam varam tanūjāyāḥ kariṣyāmi iti dhīmataḥ .. 2.118.38 ..
महायज्ञे तदा तस्य वरुणेन महात्मना । दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ २.११८.३९ ॥
महा-यज्ञे तदा तस्य वरुणेन महात्मना । दत्तम् धनुः वरम् प्रीत्या तूणी च अक्षय-सायकौ ॥ २।११८।३९ ॥
mahā-yajñe tadā tasya varuṇena mahātmanā . dattam dhanuḥ varam prītyā tūṇī ca akṣaya-sāyakau .. 2.118.39 ..
असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ॥ २.११८.४० ॥
अ सञ्चाल्यम् मनुष्यैः च यत्नेन अपि च गौरवात् । तत् न शक्ताः नमयितुम् स्वप्नेषु अपि नराधिपाः ॥ २।११८।४० ॥
a sañcālyam manuṣyaiḥ ca yatnena api ca gauravāt . tat na śaktāḥ namayitum svapneṣu api narādhipāḥ .. 2.118.40 ..
तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना । समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ २.११८.४१ ॥
तत् हनु प्राप्य मे पित्रा व्याहृतम् सत्य-वादिना । समवाये नरेन्द्राणाम् पूर्वम् आमन्त्र्य पार्थिवान् ॥ २।११८।४१ ॥
tat hanu prāpya me pitrā vyāhṛtam satya-vādinā . samavāye narendrāṇām pūrvam āmantrya pārthivān .. 2.118.41 ..
इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: । तस्य मे दुहिता भार्या भविष्यति न संशय: ॥ २.११८.४२ ॥
इदम् च धनुः उद्यम्य सज्यम् यः कुरुते नरः । तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ २।११८।४२ ॥
idam ca dhanuḥ udyamya sajyam yaḥ kurute naraḥ . tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ .. 2.118.42 ..
तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् । अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ २.११८.४३ ॥
तत् च दृष्ट्वा धनुः श्रेष्ठम् गौरवात् गिरि-सन्निभम् । अभिवाद्य नृपाः जग्मुः अशक्ताः तस्य तोलने ॥ २।११८।४३ ॥
tat ca dṛṣṭvā dhanuḥ śreṣṭham gauravāt giri-sannibham . abhivādya nṛpāḥ jagmuḥ aśaktāḥ tasya tolane .. 2.118.43 ..
सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: । विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: । लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ॥ २.११८.४४ ॥
सु दीर्घस्य तु कालस्य राघवः अयम् महा-द्युति । विश्वामित्रेण सहितः यज्ञम् द्रष्टुम् समागत । लक्ष्मणेन सह भ्रात्रा रामः सत्य-पराक्रमः ॥ २।११८।४४ ॥
su dīrghasya tu kālasya rāghavaḥ ayam mahā-dyuti . viśvāmitreṇa sahitaḥ yajñam draṣṭum samāgata . lakṣmaṇena saha bhrātrā rāmaḥ satya-parākramaḥ .. 2.118.44 ..
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: । प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ २.११८.४५ ॥
विश्वामित्रः तु धर्म-आत्मा मम पित्रा सु पूजित । प्रोवाच पितरम् तत्र भ्रातरौ राम-लक्ष्मणौ ॥ २।११८।४५ ॥
viśvāmitraḥ tu dharma-ātmā mama pitrā su pūjita . provāca pitaram tatra bhrātarau rāma-lakṣmaṇau .. 2.118.45 ..
सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ । धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ २.११८.४६ ॥
सुतौ दशरथस्य इमौ धनुः-दर्शन-कांक्षिणौ । धनुः दर्शय रामाय राज-पुत्राय दैविकम् ॥ २।११८।४६ ॥
sutau daśarathasya imau dhanuḥ-darśana-kāṃkṣiṇau . dhanuḥ darśaya rāmāya rāja-putrāya daivikam .. 2.118.46 ..
इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् । निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ २.११८.४७ ॥
इति उक्तः तेन विप्रेण तत् हनुः समुपानयत् । निमेष-अन्तर-मात्रेण तदा आनम्य स वीर्य्यवान् ॥ २।११८।४७ ॥
iti uktaḥ tena vipreṇa tat hanuḥ samupānayat . nimeṣa-antara-mātreṇa tadā ānamya sa vīryyavān .. 2.118.47 ..
ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ २.११८.४८ ॥
ज्याम् समारोप्य झटिति पूरयामास वीर्यवत् ॥ २।११८।४८ ॥
jyām samāropya jhaṭiti pūrayāmāsa vīryavat .. 2.118.48 ..
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: । तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ॥ २.११८.४९ ॥
तेन पूरयता वेगात् मध्ये भग्नम् द्विधा धनुः । तस्य शब्दः अभवत् भीमः पतितस्य अशनेः इव ॥ २।११८।४९ ॥
tena pūrayatā vegāt madhye bhagnam dvidhā dhanuḥ . tasya śabdaḥ abhavat bhīmaḥ patitasya aśaneḥ iva .. 2.118.49 ..
ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ २.११८.५० ॥
ततस् अहम् तत्र रामाय पित्रा सत्य-अभिसन्धिना । निश्चिता दातुम् उद्यम्य जल-भाजनम् उत्तमम् ॥ २।११८।५० ॥
tatas aham tatra rāmāya pitrā satya-abhisandhinā . niścitā dātum udyamya jala-bhājanam uttamam .. 2.118.50 ..
दीयमानां न तु तदा प्रतिजग्राह राघव: । अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ॥ २.११८.५१ ॥
दीयमानाम् न तु तदा प्रतिजग्राह राघवः । अ विज्ञाय पितुः छन्दम् अयोध्या-अधिपते प्रभोः ॥ २।११८।५१ ॥
dīyamānām na tu tadā pratijagrāha rāghavaḥ . a vijñāya pituḥ chandam ayodhyā-adhipate prabhoḥ .. 2.118.51 ..
तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ २.११८.५२ ॥
ततस् श्वशुरम् आमन्त्र्य वृद्धम् दशरथम् नृपम् । मम पित्रा तु अहम् दत्ता रामाय विदित-आत्मने ॥ २।११८।५२ ॥
tatas śvaśuram āmantrya vṛddham daśaratham nṛpam . mama pitrā tu aham dattā rāmāya vidita-ātmane .. 2.118.52 ..
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना । भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ २.११८.५३ ॥
मम च एव अनुजा साध्वी ऊर्मिला प्रिय-दर्शना । भार्य्या-अर्थे लक्ष्मणस्य अपि दत्ता पित्रा मम स्वयम् ॥ २।११८।५३ ॥
mama ca eva anujā sādhvī ūrmilā priya-darśanā . bhāryyā-arthe lakṣmaṇasya api dattā pitrā mama svayam .. 2.118.53 ..
एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे । अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ २.११८.५४ ॥
एवम् दत्ता अस्मि रामाय तदा तस्मिन् स्वयम्वरे । अनुरक्ता अस्मि धर्मेण पतिम् वीर्यवताम् वरम् ॥ २।११८।५४ ॥
evam dattā asmi rāmāya tadā tasmin svayamvare . anuraktā asmi dharmeṇa patim vīryavatām varam .. 2.118.54 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग: ॥ ११८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे अष्टादश-उत्तर-शततमः सर्गः ॥ ११८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe aṣṭādaśa-uttara-śatatamaḥ sargaḥ .. 118 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In