This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टादशोत्तरशततम: सर्गः ॥२-११८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭādaśottaraśatatama: sargaḥ ..2-118..
सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया । प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ २.११८.१ ॥
sā tvevamuktā vaidehī tvanasūyā 'nasūyayā . pratipūjya vaco mandaṃ pravaktumupacakrame .. 2.118.1 ..
नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे । विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ॥ २.११८.२ ॥
naitadāścaryyamāryāyā yanmāṃ tvamanubhāṣase . viditaṃ tu mamāpyetadyathā nāryyā: patirguru: .. 2.118.2 ..
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: । अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ २.११८.३ ॥
yadyapyeṣa bhavedbhartā mamārye vṛttavarjita: . advaidhamupacartavyastathāpyeṣa mayā bhavet .. 2.118.3 ..
किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: । स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ॥ २.११८.४ ॥
kiṃ punaryo guṇa: ślāghya: sānukrośo jitendriya: . sthirānurāgo dharmātmā mātṛvatpitṛvatpriya: .. 2.118.4 ..
यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: । तामेव नृपनारीणामन्यासामपि वर्त्तते ॥ २.११८.५ ॥
yāṃ vṛttiṃ varttate rāma: kausalyāyāṃ mahābala: . tāmeva nṛpanārīṇāmanyāsāmapi varttate .. 2.118.5 ..
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: । मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ २.११८.६ ॥
sakṛddṛṣṭāsvapi strīṣu nṛpeṇa nṛpavatsala: . mātṛvadvarttate vīro mānamutsṛjya dharmavit .. 2.118.6 ..
आगच्छन्त्याश्च विजनं वनमेवं भयावहम् । समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ २.११८.७ ॥
āgacchantyāśca vijanaṃ vanamevaṃ bhayāvaham . samāhitaṃ me śvaśrvā ca hṛdaye taddhṛtaṃ mahat .. 2.118.7 ..
पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ । अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ॥ २.११८.८ ॥
pāṇipradānakāle ca yatpurā tvagnisannidhau . anuśiṣṭā jananyā 'smi vākyaṃ tadapi me dhṛtam .. 2.118.8 ..
नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि । पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ २.११८.९ ॥
navīkṛtaṃ ca tatsarvaṃ vākyaiste dharmacāriṇi . patiśuśrūṣaṇānnāryyāstapo nānyadvidhīyate .. 2.118.9 ..
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ २.११८.१० ॥
sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate . tathāvṛttiśca yātā tvaṃ patiśuśrūṣayā divam .. 2.118.10 ..
वरिष्ठा सर्वनारीणामेषा च दिवि देवता । रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ २.११८.११ ॥
variṣṭhā sarvanārīṇāmeṣā ca divi devatā . rohiṇī na vinā candraṃ muhūrttamapi dṛśyate .. 2.118.11 ..
एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: । देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ २.११८.१२ ॥
evaṃvidhāśca pravarā: striyo bhartṛdṛḍhavratā: . devaloke mahīyante puṇyena svena karmaṇā .. 2.118.12 ..
ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: । शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ २.११८.१३ ॥
tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vaca: . śirasyāghrāya covāca maithilīṃ harṣayantyuta .. 2.118.13 ..
नियमैर्विविधैराप्तं तपो हि महदस्ति मे । तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ २.११८.१४ ॥
niyamairvividhairāptaṃ tapo hi mahadasti me . tatsaṃśritya balaṃ sīte chandaye tvāṃ śucismite .. 2.118.14 ..
उपपन्नं मनोज्ञं च वचनं तव मैथिलि । प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ २.११८.१५ ॥
upapannaṃ manojñaṃ ca vacanaṃ tava maithili . prītā cāsmyucitaṃ kiṃ te karavāṇi bravīhi me .. 2.118.15 ..
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ २.११८.१६ ॥
tasyāstadvacanaṃ śrutvā vismitā mandavismayā kṛtamityabravītsītā tapobalasamanvitām .. 2.118.16 ..
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् । सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ २.११८.१७ ॥
sā tvevamuktā dharmajñā tayā prītatarā 'bhavat . saphalaṃ ca praharṣaṃ te hanta sīte karomyaham .. 2.118.17 ..
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च । अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ २.११८.१८ ॥
idaṃ divyaṃ varaṃ mālyaṃ vastramābharaṇāni ca . aṅgarāgaṃ ca vaidehi mahārhaṃ cānulepanam .. 2.118.18 ..
मया दत्तमिदं सीते तव गात्राणि शोभयेत् । अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ २.११८.१९ ॥
mayā dattamidaṃ sīte tava gātrāṇi śobhayet . anurūpamasaṃkliṣṭaṃ nityameva bhaviṣyati .. 2.118.19 ..
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे । शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ २.११८.२० ॥
aṅgarāgeṇa divyena liptāṅgī janakātmaje . śobhayiṣyasi bharttāraṃ yathā śrīviṣṇumavyayam .. 2.118.20 ..
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २.११८.२१ ॥
sā vastramaṅgarāgaṃ ca bhūṣaṇāni srajastathā . maithilī pratijagrāha prītidānamanuttamam .. 2.118.21 ..
प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ २.११८.२२ ॥
pratigṛhya ca tat sītā prītidānaṃ yaśasvinī . śliṣṭāñjalipuṭā tatra samupāsta tapodhanām .. 2.118.22 ..
तथा सीतासुपासीनामनसूया दृढव्रता । वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ २.११८.२३ ॥
tathā sītāsupāsīnāmanasūyā dṛḍhavratā . vacanaṃ praṣṭumārebhe kāñcit priyakathāmanu .. 2.118.23 ..
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २.११८.२४ ॥
svayaṃvare kila prāptā tvamanena yaśasvinā . rāghaveṇeti me sīte kathā śrutimupāgatā .. 2.118.24 ..
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २.११८.२५ ॥
tāṃ kathāṃ śrotumicchāmi vistareṇa ca maithili . yathānubhūtaṃ kārtsnyena tanme tvaṃ vaktumarhasi .. 2.118.25 ..
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २.११८.२६ ॥
evamuktā tu sā sītā tāṃ tato dharmacāriṇīm . śrūyatāmiti coktvā vai kathayāmāsa tāṃ kathām .. 2.118.26 ..
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । क्षत्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ॥ २.११८.२७ ॥
mithilādhipatirvīro janako nāma dharmavit . kṣatradharme hyabhirato nyāyata: śāsti medinīm .. 2.118.27 ..
तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् । अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ॥ २.११८.२८ ॥
tasya lāṅgalahastasya karṣata: kṣetramaṇḍalam . ahaṃ kilotthitā bhittvā jagatīṃ nṛpate: sutā .. 2.118.28 ..
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: । पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ॥ २.११८.२९ ॥
sa māṃ dṛṣṭvā narapatirmuṣṭivikṣepatatpara: . pāṃsukuṇṭhitasarvāṅgīṃ janako vismito 'bhavat .. 2.118.29 ..
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ॥ २.११८.३० ॥
anapatyena ca snehādaṅkamāropya ca svayam . mameyaṃ tanayetyuktvā sneho mayi nipātita: .. 2.118.30 ..
अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल । एवमेतन्नरपते धर्मेण तनया तव ॥ २.११८.३१ ॥
antarikṣe ca vāguktā prati mā 'mānuṣī kila . evametannarapate dharmeṇa tanayā tava .. 2.118.31 ..
तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: । अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ॥ २.११८.३२ ॥
tata: prahṛṣṭo dharmātmā pitā me mithilādhipa: . avāpto vipulāmṛddhiṃ māmavāpya narādhipa: .. 2.118.32 ..
दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा । तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ २.११८.३३ ॥
dattā cāsmīṣṭavaddevyai jyeṣṭhāyai puṇyakarmaṇā . tayā sambhāvitā cāsmi snigdhayā mātṛsauhṛdāt .. 2.118.33 ..
पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता । चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ॥ २.११८.३४ ॥
patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā . cintāmabhyagamaddīno vittanāśādivādhana: .. 2.118.34 ..
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ २.११८.३५ ॥
sadṛśāccāpakṛṣṭācca loke kanyāpitā janāt . pradharṣaṇamavāpnoti śakreṇāpi samo bhuvi .. 2.118.35 ..
तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: । चिन्तार्णवगत: पारं नाससादाप्लवो यथा ॥ २.११८.३६ ॥
tāṃ dharṣaṇāmadūrasthāṃ dṛṣṭvā cātmani pārthiva: . cintārṇavagata: pāraṃ nāsasādāplavo yathā .. 2.118.36 ..
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् । सदृशं चानुरूपं च महीपाल: पतिं मम ॥ २.११८.३७ ॥
ayonijāṃ hi māṃ jñātvā nādhyagacchadvicintayan . sadṛśaṃ cānurūpaṃ ca mahīpāla: patiṃ mama .. 2.118.37 ..
तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । स्वयं वरं तनूजाया: करिष्यामीति धीमत: ॥ २.११८.३८ ॥
tasya buddhiriyaṃ jātā cintayānasya santatam . svayaṃ varaṃ tanūjāyā: kariṣyāmīti dhīmata: .. 2.118.38 ..
महायज्ञे तदा तस्य वरुणेन महात्मना । दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ २.११८.३९ ॥
mahāyajñe tadā tasya varuṇena mahātmanā . dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayasāyakau .. 2.118.39 ..
असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ॥ २.११८.४० ॥
asañcālyaṃ manuṣyaiśca yatnenāpi ca gauravāt . tanna śaktā namayituṃ svapneṣvapi narādhipā: .. 2.118.40 ..
तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना । समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ २.११८.४१ ॥
taddhanu: prāpya me pitrā vyāhṛtaṃ satyavādinā . samavāye narendrāṇāṃ pūrvamāmantrya pārthivān .. 2.118.41 ..
इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: । तस्य मे दुहिता भार्या भविष्यति न संशय: ॥ २.११८.४२ ॥
idaṃ ca dhanurudyamya sajyaṃ ya: kurute nara: . tasya me duhitā bhāryā bhaviṣyati na saṃśaya: .. 2.118.42 ..
तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् । अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ २.११८.४३ ॥
tacca dṛṣṭvā dhanu: śreṣṭhaṃ gauravādgirisannibham . abhivādya nṛpā jagmuraśaktāstasya tolane .. 2.118.43 ..
सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: । विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: । लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ॥ २.११८.४४ ॥
sudīrghasya tu kālasya rāghavo 'yaṃ mahādyuti: . viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgata: . lakṣmaṇena saha bhrātrā rāma: satyaparākrama: .. 2.118.44 ..
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: । प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ २.११८.४५ ॥
viśvāmitrastu dharmātmā mama pitrā supūjita: . provāca pitaraṃ tatra bhrātarau rāmalakṣmaṇau .. 2.118.45 ..
सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ । धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ २.११८.४६ ॥
sutau daśarathasyemau dhanurdarśanakāṃkṣiṇau . dhanurdarśaya rāmāya rājaputrāya daivikam .. 2.118.46 ..
इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् । निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ २.११८.४७ ॥
ityuktastena vipreṇa taddhanu: samupānayat . nimeṣāntaramātreṇa tadānamya sa vīryyavān .. 2.118.47 ..
ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ २.११८.४८ ॥
jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavat .. 2.118.48 ..
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: । तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ॥ २.११८.४९ ॥
tena pūrayatā vegānmadhye bhagnaṃ dvidhā dhanu: . tasya śabdo 'bhavadbhīma: patitasyāśaneriva .. 2.118.49 ..
ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ २.११८.५० ॥
tato 'haṃ tatra rāmāya pitrā satyābhisandhinā . niścitā dātumudyamya jalabhājanamuttamam .. 2.118.50 ..
दीयमानां न तु तदा प्रतिजग्राह राघव: । अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ॥ २.११८.५१ ॥
dīyamānāṃ na tu tadā pratijagrāha rāghava: . avijñāya pituśchandamayodhyādhipate: prabho: .. 2.118.51 ..
तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ २.११८.५२ ॥
tata: śvaśuramāmantrya vṛddhaṃ daśarathaṃ nṛpam . mama pitrā tvahaṃ dattā rāmāya viditātmane .. 2.118.52 ..
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना । भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ २.११८.५३ ॥
mama caivānujā sādhvī ūrmilā priyadarśanā . bhāryyārthe lakṣmaṇasyāpi dattā pitrā mama svayam .. 2.118.53 ..
एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे । अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ २.११८.५४ ॥
evaṃ dattāsmi rāmāya tadā tasmin svayamvare . anuraktāsmi dharmeṇa patiṃ vīryavatāṃ varam .. 2.118.54 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग: ॥ ११८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe aṣṭādaśottaraśatatama: sarga: .. 118 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In