This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवदशोत्तरशततम सर्गः ॥२-११९॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे नवदश-उत्तर-शततम सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe navadaśa-uttara-śatatama sargaḥ ..2..
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् । पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ २.११९.१ ॥
अनसूया तु धर्म-ज्ञा श्रुत्वा ताम् महतीम् कथाम् । पर्यष्वजत बाहुभ्याम् शिरसि आघ्राय मैथिलीम् ॥ २।११९।१ ॥
anasūyā tu dharma-jñā śrutvā tām mahatīm kathām . paryaṣvajata bāhubhyām śirasi āghrāya maithilīm .. 2.119.1 ..
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया । यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया । रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ॥ २.११९.२ ॥
व्यक्त-अक्षर-पदम् चित्रम् भाषितम् मधुरम् त्वया । यथा स्वयम्वरम् वृत्तम् तत् सर्वम् हि श्रुतम् मया । रमे अहम् कथया ते तु दृढम् मधुर-भाषिणि ॥ २।११९।२ ॥
vyakta-akṣara-padam citram bhāṣitam madhuram tvayā . yathā svayamvaram vṛttam tat sarvam hi śrutam mayā . rame aham kathayā te tu dṛḍham madhura-bhāṣiṇi .. 2.119.2 ..
रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् । दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् । सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ॥ २.११९.३ ॥
रविः अस्तम् गतः श्रीमान् उपोह्य रजनीम् शिवाम् । दिवसम् प्रतिकीर्णानाम् आहार-अर्थम् । सन्ध्या-काले निलीनानाम् निद्रा-अर्थम् श्रूयते ध्वनिः ॥ २।११९।३ ॥
raviḥ astam gataḥ śrīmān upohya rajanīm śivām . divasam pratikīrṇānām āhāra-artham . sandhyā-kāle nilīnānām nidrā-artham śrūyate dhvaniḥ .. 2.119.3 ..
एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: । सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ॥ २.११९.४ ॥
एते च अपि अभिषेक-आर्द्राः मुनयः कलश-उद्यताः । सहिताः उपवर्तन्ते सलिल-आप्लुत-वल्कलाः ॥ २।११९।४ ॥
ete ca api abhiṣeka-ārdrāḥ munayaḥ kalaśa-udyatāḥ . sahitāḥ upavartante salila-āpluta-valkalāḥ .. 2.119.4 ..
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् । कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ॥ २.११९.५ ॥
ऋषीणाम् अग्निहोत्रेषु हुतेषु विधि-पूर्वकम् । कपोत-अङ्ग-अरुणः धूमः दृश्यते पवन-उद्धत ॥ २।११९।५ ॥
ṛṣīṇām agnihotreṣu huteṣu vidhi-pūrvakam . kapota-aṅga-aruṇaḥ dhūmaḥ dṛśyate pavana-uddhata .. 2.119.5 ..
अल्पपर्णाहि तरवो घनीभूता: समन्तत: । विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ॥ २.११९.६ ॥
अल्प-पर्णा अहि तरवः घनीभूताः समन्ततः । विप्रकृष्टे अपि देशे अस्मिन् न प्रकाशन्ति वै दिशः ॥ २।११९।६ ॥
alpa-parṇā ahi taravaḥ ghanībhūtāḥ samantataḥ . viprakṛṣṭe api deśe asmin na prakāśanti vai diśaḥ .. 2.119.6 ..
रजनीचरसत्त्वानि प्रचरन्ति समन्तत: । तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ २.११९.७ ॥
रजनी-चर-सत्त्वानि प्रचरन्ति समन्ततः । तपः-वन-मृगाः हि एते वेदि-तीर्थेषु शेरते ॥ २।११९।७ ॥
rajanī-cara-sattvāni pracaranti samantataḥ . tapaḥ-vana-mṛgāḥ hi ete vedi-tīrtheṣu śerate .. 2.119.7 ..
सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता । जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ॥ २.११९.८ ॥
सम्प्रवृद्धा निशा सीते नक्षत्र-समलङ्कृता । जोत्स्ना-प्रावरणः चन्द्रः दृश्यते अभ्युदितः अम्बरे ॥ २।११९।८ ॥
sampravṛddhā niśā sīte nakṣatra-samalaṅkṛtā . jotsnā-prāvaraṇaḥ candraḥ dṛśyate abhyuditaḥ ambare .. 2.119.8 ..
गम्यतामनुजानामि रामस्यानुचरी भव । कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥ २.११९.९ ॥
गम्यताम् अनुजानामि रामस्य अनुचरी भव । कथयन्त्या हि मधुरम् त्वया अहम् परितोषिता ॥ २।११९।९ ॥
gamyatām anujānāmi rāmasya anucarī bhava . kathayantyā hi madhuram tvayā aham paritoṣitā .. 2.119.9 ..
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि । प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥ २.११९.१० ॥
अलङ्कुरु च तावत् त्वम् प्रत्यक्षम् मम मैथिलि । प्रीतिम् जनय मे वत्से दिव्य-अलङ्कार-शोभिता ॥ २।११९।१० ॥
alaṅkuru ca tāvat tvam pratyakṣam mama maithili . prītim janaya me vatse divya-alaṅkāra-śobhitā .. 2.119.10 ..
सा तथा समलंकृत्य सीता सुरसुतोपमा । प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ २.११९.११ ॥
सा तथा समलंकृत्य सीता सुर-सुता-उपमा । प्रणम्य शिरसा तस्यै रामम् तु अभिमुखी ययौ ॥ २।११९।११ ॥
sā tathā samalaṃkṛtya sītā sura-sutā-upamā . praṇamya śirasā tasyai rāmam tu abhimukhī yayau .. 2.119.11 ..
तथा तु भूषितां सीतां ददर्श वदतां वर: । राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ॥ २.११९.१२ ॥
तथा तु भूषिताम् सीताम् ददर्श वदताम् वरः । राघवः प्रीति-दानेन तपस्विन्याः जहर्ष च ॥ २।११९।१२ ॥
tathā tu bhūṣitām sītām dadarśa vadatām varaḥ . rāghavaḥ prīti-dānena tapasvinyāḥ jaharṣa ca .. 2.119.12 ..
न्यवेदयत्तत: सर्वं सीता रामाय मैथिली । प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ २.११९.१३ ॥
न्यवेदयत् ततस् सर्वम् सीता रामाय मैथिली । प्रीति-दानम् तपस्विन्याः वसन-आभरण-स्रजम् ॥ २।११९।१३ ॥
nyavedayat tatas sarvam sītā rāmāya maithilī . prīti-dānam tapasvinyāḥ vasana-ābharaṇa-srajam .. 2.119.13 ..
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: । मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ २.११९.१४ ॥
प्रहृष्टः तु अभवत् रामः लक्ष्मणः च महा-रथः । मैथिल्याः सत्क्रियाम् दृष्ट्वा मानुषेषु सु दुर्लभाम् ॥ २।११९।१४ ॥
prahṛṣṭaḥ tu abhavat rāmaḥ lakṣmaṇaḥ ca mahā-rathaḥ . maithilyāḥ satkriyām dṛṣṭvā mānuṣeṣu su durlabhām .. 2.119.14 ..
ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: । अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ॥ २.११९.१५ ॥
ततस् ताम् शर्वरीम् प्रीतः पुण्याम् शशि-निभ-आननः । अर्चितः तापसैः सिद्धैः उवास रघुनन्दनः ॥ २।११९।१५ ॥
tatas tām śarvarīm prītaḥ puṇyām śaśi-nibha-ānanaḥ . arcitaḥ tāpasaiḥ siddhaiḥ uvāsa raghunandanaḥ .. 2.119.15 ..
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् । आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥ २.११९.१६ ॥
तस्याम् रात्र्याम् व्यतीतायाम् अभिषिच्य हुताग्निकान् । आपृच्छेताम् नर-व्याघ्रौ तापसान् वन-गोचरान् ॥ २।११९।१६ ॥
tasyām rātryām vyatītāyām abhiṣicya hutāgnikān . āpṛcchetām nara-vyāghrau tāpasān vana-gocarān .. 2.119.16 ..
तावूचुस्ते वनचरास्तापसा धर्मचारिण: । वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ॥ २.११९.१७ ॥
तौ ऊचुः ते वन-चराः तापसाः धर्म-चारिणः । वनस्य तस्य सञ्चारम् राक्षसैः समभिप्लुतम् ॥ २।११९।१७ ॥
tau ūcuḥ te vana-carāḥ tāpasāḥ dharma-cāriṇaḥ . vanasya tasya sañcāram rākṣasaiḥ samabhiplutam .. 2.119.17 ..
रक्षांसि पुरुषादानि नानारूपाणि राघव । वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ॥ २.११९.१८ ॥
रक्षांसि पुरुष-आदानि नाना रूपाणि राघव । वसन्ति अस्मिन् महा-अरण्ये व्यालाः च रुधिर-अशनाः ॥ २।११९।१८ ॥
rakṣāṃsi puruṣa-ādāni nānā rūpāṇi rāghava . vasanti asmin mahā-araṇye vyālāḥ ca rudhira-aśanāḥ .. 2.119.18 ..
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् । अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ॥ २.११९.१९ ॥
उच्छिष्टम् वा प्रमत्तम् वा तापसम् धर्म-चारिणम् । अदन्ति अस्मिन् महा-अरण्ये तान् निवारय राघव ॥ २।११९।१९ ॥
ucchiṣṭam vā pramattam vā tāpasam dharma-cāriṇam . adanti asmin mahā-araṇye tān nivāraya rāghava .. 2.119.19 ..
एष पन्था महर्षीणां फलान्याहरतां वने । अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ २.११९.२० ॥
एष पन्थाः महा-ऋषीणाम् फलानि आहरताम् वने । अनेन तु वनम् दुर्गम् गन्तुम् राघव ते क्षमम् ॥ २।११९।२० ॥
eṣa panthāḥ mahā-ṛṣīṇām phalāni āharatām vane . anena tu vanam durgam gantum rāghava te kṣamam .. 2.119.20 ..
इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: । वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ॥ २.११९.२१ ॥
इति इव तैः प्राञ्जलिभिः तपस्विभिः द्विजैः कृत स्वस्त्ययनः परम् तपः । वनम् स भार्य्यः प्रविऺवेश राघवः स लक्ष्मणः सूर्य्यम् इव अभ्र-मण्डलम् ॥ २।११९।२१ ॥
iti iva taiḥ prāñjalibhiḥ tapasvibhiḥ dvijaiḥ kṛta svastyayanaḥ param tapaḥ . vanam sa bhāryyaḥ praviöveśa rāghavaḥ sa lakṣmaṇaḥ sūryyam iva abhra-maṇḍalam .. 2.119.21 ..
इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंश्त्युत्तरशततम: सर्ग: ॥ ११९ ॥ ॥
इति आर्षे श्रीमत्-रामायणे श्रीमत्-वाल्मीकीये आदिकाव्ये चतुर्विंशत्-सहस्रिकायाम् संहितायाम् श्रीमत्-अयोध्या-काण्डे एकोनविंश्ति-उत्तर-शततमः सर्गः ॥ ११९ ॥ ॥
iti ārṣe śrīmat-rāmāyaṇe śrīmat-vālmīkīye ādikāvye caturviṃśat-sahasrikāyām saṃhitāyām śrīmat-ayodhyā-kāṇḍe ekonaviṃśti-uttara-śatatamaḥ sargaḥ .. 119 .. ..
इत्ययोध्याकाण्ड: समाप्तः ॥ ॥ श्रीसीतारामचन्द्रार्पणमस्तु ॥
इति अयोध्या-काण्डः समाप्तः ॥ ॥ श्री-सीता-राम-चन्द्र-अर्पणम् अस्तु ॥
iti ayodhyā-kāṇḍaḥ samāptaḥ .. .. śrī-sītā-rāma-candra-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In