This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोदशः सर्गः ॥२-१३॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे त्रयोदशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe trayodaśaḥ sargaḥ ..2..
अतदर्हं महाराजं शयानमतथोचितम्।ययातिमिव पुण्यान्ते देवलोकात् परिच्युतम्॥ १॥
अतदर्हम् महा-राजम् शयानम् अ तथा उचितम्।ययातिम् इव पुण्य-अन्ते देव-लोकात् परिच्युतम्॥ १॥
atadarham mahā-rājam śayānam a tathā ucitam.yayātim iva puṇya-ante deva-lokāt paricyutam.. 1..
अनर्थरूपासिद्धार्था ह्यभीता भयदर्शिनी।पुनराकारयामास तमेव वरमङ्गना॥ २॥
अनर्थ-रूपा अ सिद्धार्था हि अभीता भय-दर्शिनी।पुनर् आकारयामास तम् एव वरम् अङ्गना॥ २॥
anartha-rūpā a siddhārthā hi abhītā bhaya-darśinī.punar ākārayāmāsa tam eva varam aṅganā.. 2..
त्वं कत्थसे महाराज सत्यवादी दृढव्रतः।मम चेदं वरं कस्माद् विधारयितुमिच्छसि॥ ३॥
त्वम् कत्थसे महा-राज सत्य-वादी दृढ-व्रतः।मम च इदम् वरम् कस्मात् विधारयितुम् इच्छसि॥ ३॥
tvam katthase mahā-rāja satya-vādī dṛḍha-vrataḥ.mama ca idam varam kasmāt vidhārayitum icchasi.. 3..
एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा।प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव॥ ४॥
एवम् उक्तः तु कैकेय्याः राजा दशरथः तदा।प्रत्युवाच ततस् क्रुद्धः मुहूर्तम् विह्वलन् इव॥ ४॥
evam uktaḥ tu kaikeyyāḥ rājā daśarathaḥ tadā.pratyuvāca tatas kruddhaḥ muhūrtam vihvalan iva.. 4..
मृते मयि गते रामे वनं मनुजपुङ्गवे।हन्तानार्ये ममामित्रे सकामा सुखिनी भव॥ ५॥
मृते मयि गते रामे वनम् मनुज-पुङ्गवे।हन्त अनार्ये मम अमित्रे स कामा सुखिनी भव॥ ५॥
mṛte mayi gate rāme vanam manuja-puṅgave.hanta anārye mama amitre sa kāmā sukhinī bhava.. 5..
स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम्।प्रत्यादेशादभिहितं धारयिष्ये कथं बत॥ ६॥
स्वर्गे अपि खलु रामस्य कुशलम् दैवतैः अहम्।प्रत्यादेशात् अभिहितम् धारयिष्ये कथम् बत॥ ६॥
svarge api khalu rāmasya kuśalam daivataiḥ aham.pratyādeśāt abhihitam dhārayiṣye katham bata.. 6..
कैकेय्याः प्रियकामेन रामः प्रव्राजितो वनम्।यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति॥ ७॥
कैकेय्याः प्रिय-कामेन रामः प्रव्राजितः वनम्।यदि सत्यम् ब्रवीमि एतत् तत् असत्यम् भविष्यति॥ ७॥
kaikeyyāḥ priya-kāmena rāmaḥ pravrājitaḥ vanam.yadi satyam bravīmi etat tat asatyam bhaviṣyati.. 7..
अपुत्रेण मया पुत्रः श्रमेण महता महान्।रामो लब्धो महातेजाः स कथं त्यज्यते मया॥ ८॥
अपुत्रेण मया पुत्रः श्रमेण महता महान्।रामः लब्धः महा-तेजाः स कथम् त्यज्यते मया॥ ८॥
aputreṇa mayā putraḥ śrameṇa mahatā mahān.rāmaḥ labdhaḥ mahā-tejāḥ sa katham tyajyate mayā.. 8..
शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः।कथं कमलपत्राक्षो मया रामो विवास्यते॥ ९॥
शूरः च कृत-विद्यः च जित-क्रोधः क्षमा-परः।कथम् कमल-पत्र-अक्षः मया रामः विवास्यते॥ ९॥
śūraḥ ca kṛta-vidyaḥ ca jita-krodhaḥ kṣamā-paraḥ.katham kamala-patra-akṣaḥ mayā rāmaḥ vivāsyate.. 9..
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम्।अभिराममहं रामं स्थापयिष्यामि दण्डकान्॥ १०॥
कथम् इन्दीवर-श्यामम् दीर्घ-बाहुम् महा-बलम्।अभिरामम् अहम् रामम् स्थापयिष्यामि दण्डकान्॥ १०॥
katham indīvara-śyāmam dīrgha-bāhum mahā-balam.abhirāmam aham rāmam sthāpayiṣyāmi daṇḍakān.. 10..
सुखानामुचितस्यैव दुःखैरनुचितस्य च।दुःखं नामानुपश्येयं कथं रामस्य धीमतः॥ ११॥
सुखानाम् उचितस्य एव दुःखैः अनुचितस्य च।दुःखम् नाम अनुपश्येयम् कथम् रामस्य धीमतः॥ ११॥
sukhānām ucitasya eva duḥkhaiḥ anucitasya ca.duḥkham nāma anupaśyeyam katham rāmasya dhīmataḥ.. 11..
यदि दुःखमकृत्वा तु मम संक्रमणं भवेत्।अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम्॥ १२॥
यदि दुःखम् अ कृत्वा तु मम संक्रमणम् भवेत्।अदुःख-अर्हस्य रामस्य ततस् सुखम् अवाप्नुयाम्॥ १२॥
yadi duḥkham a kṛtvā tu mama saṃkramaṇam bhavet.aduḥkha-arhasya rāmasya tatas sukham avāpnuyām.. 12..
नृशंसे पापसंकल्पे रामं सत्यपराक्रमम्।किं विप्रियेण कैकेयि प्रियं योजयसे मम॥ १३॥
नृशंसे पाप-संकल्पे रामम् सत्य-पराक्रमम्।किम् विप्रियेण कैकेयि प्रियम् योजयसे मम॥ १३॥
nṛśaṃse pāpa-saṃkalpe rāmam satya-parākramam.kim vipriyeṇa kaikeyi priyam yojayase mama.. 13..
अकीर्तिरतुला लोके ध्रुवं परिभविष्यति।तथा विलपतस्तस्य परिभ्रमितचेतसः॥ १४॥
अकीर्तिः अतुला लोके ध्रुवम् परिभविष्यति।तथा विलपतः तस्य परिभ्रमित-चेतसः॥ १४॥
akīrtiḥ atulā loke dhruvam paribhaviṣyati.tathā vilapataḥ tasya paribhramita-cetasaḥ.. 14..
अस्तमभ्यागमत् सूर्यो रजनी चाभ्यवर्तत।सा त्रियामा तदार्तस्य चन्द्रमण्डलमण्डिता॥ १५॥
अस्तम् अभ्यागमत् सूर्यः रजनी च अभ्यवर्तत।सा त्रियामा तदा आर्तस्य चन्द्र-मण्डल-मण्डिता॥ १५॥
astam abhyāgamat sūryaḥ rajanī ca abhyavartata.sā triyāmā tadā ārtasya candra-maṇḍala-maṇḍitā.. 15..
राज्ञो विलपमानस्य न व्यभासत शर्वरी।सदैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः॥ १६॥
राज्ञः विलपमानस्य न व्यभासत शर्वरी।सदा एवा उष्णम् विनिःश्वस्य वृद्धः दशरथः नृपः॥ १६॥
rājñaḥ vilapamānasya na vyabhāsata śarvarī.sadā evā uṣṇam viniḥśvasya vṛddhaḥ daśarathaḥ nṛpaḥ.. 16..
विललापार्तवद् दुःखं गगनासक्तलोचनः।न प्रभातं त्वयेच्छामि निशे नक्षत्रभूषिते॥ १६॥
विललाप आर्त-वत् दुःखम् गगन-आसक्त-लोचनः।न प्रभातम् त्वया इच्छामि निशे नक्षत्र-भूषिते॥ १६॥
vilalāpa ārta-vat duḥkham gagana-āsakta-locanaḥ.na prabhātam tvayā icchāmi niśe nakṣatra-bhūṣite.. 16..
क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः।अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्॥ १८॥
क्रियताम् मे दया भद्रे मया अयम् रचितः अञ्जलिः।अथवा गम्यताम् शीघ्रम् न अहम् इच्छामि निर्घृणाम्॥ १८॥
kriyatām me dayā bhadre mayā ayam racitaḥ añjaliḥ.athavā gamyatām śīghram na aham icchāmi nirghṛṇām.. 18..
नृशंसां केकयीं द्रष्टुं यत्कृते व्यसनं मम।एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः॥ १९॥
नृशंसाम् केकयीम् द्रष्टुम् यद्-कृते व्यसनम् मम।एवम् उक्त्वा ततस् राजा कैकेयीम् संयत-अञ्जलिः॥ १९॥
nṛśaṃsām kekayīm draṣṭum yad-kṛte vyasanam mama.evam uktvā tatas rājā kaikeyīm saṃyata-añjaliḥ.. 19..
प्रसादयामास पुनः कैकेयीं राजधर्मवित्।साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः॥ २०॥
प्रसादयामास पुनर् कैकेयीम् राज-धर्म-विद्।साधु-वृत्तस्य दीनस्य त्वद्-गतस्य गत-आयुषः॥ २०॥
prasādayāmāsa punar kaikeyīm rāja-dharma-vid.sādhu-vṛttasya dīnasya tvad-gatasya gata-āyuṣaḥ.. 20..
प्रसादः क्रियतां भद्रे देवि राज्ञो विशेषतः।शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम्॥ २१॥
प्रसादः क्रियताम् भद्रे देवि राज्ञः विशेषतः।शून्ये न खलु सुश्रोणि मया इदम् समुदाहृतम्॥ २१॥
prasādaḥ kriyatām bhadre devi rājñaḥ viśeṣataḥ.śūnye na khalu suśroṇi mayā idam samudāhṛtam.. 21..
कुरु साधुप्रसादं मे बाले सहृदया ह्यसि।प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम्॥ २२॥
कुरु साधु-प्रसादम् मे बाले सहृदया हि असि।प्रसीद देवि रामः मे त्वद्-दत्तम् राज्यम् अव्ययम्॥ २२॥
kuru sādhu-prasādam me bāle sahṛdayā hi asi.prasīda devi rāmaḥ me tvad-dattam rājyam avyayam.. 22..
लभतामसितापाङ्गे यशः परमवाप्स्यसि।मम रामस्य लोकस्य गुरूणां भरतस्य च।प्रियमेतद् गुरुश्रोणि कुरु चारुमुखेक्षणे॥ २३॥
लभताम् असित-अपाङ्गे यशः परम् अवाप्स्यसि।मम रामस्य लोकस्य गुरूणाम् भरतस्य च।प्रियम् एतत् गुरु-श्रोणि कुरु चारु-मुख-ईक्षणे॥ २३॥
labhatām asita-apāṅge yaśaḥ param avāpsyasi.mama rāmasya lokasya gurūṇām bharatasya ca.priyam etat guru-śroṇi kuru cāru-mukha-īkṣaṇe.. 23..
विशुद्धभावस्य हि दुष्टभावादीनस्य ताम्राश्रुकलस्य राज्ञः।श्रुत्वा विचित्रं करुणं विलापंभर्तुर्नृशंसा न चकार वाक्यम्॥ २४॥
विशुद्ध-भावस्य हि दुष्ट-भाव-अदीनस्य ताम्र-अश्रु-कलस्य राज्ञः।श्रुत्वा विचित्रम् करुणम् विलापम् भर्तुः नृशंसा न चकार वाक्यम्॥ २४॥
viśuddha-bhāvasya hi duṣṭa-bhāva-adīnasya tāmra-aśru-kalasya rājñaḥ.śrutvā vicitram karuṇam vilāpam bhartuḥ nṛśaṃsā na cakāra vākyam.. 24..
ततः स राजा पुनरेव मूर्च्छितः प्रियामतुष्टां प्रतिकूलभाषिणीम्।समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः॥ २५॥
ततस् स राजा पुनर् एव मूर्च्छितः प्रियाम् अतुष्टाम् प्रतिकूल-भाषिणीम्।समीक्ष्य पुत्रस्य विवासनम् प्रति क्षितौ विसंज्ञः निपपात दुःखितः॥ २५॥
tatas sa rājā punar eva mūrcchitaḥ priyām atuṣṭām pratikūla-bhāṣiṇīm.samīkṣya putrasya vivāsanam prati kṣitau visaṃjñaḥ nipapāta duḥkhitaḥ.. 25..
इतीव राज्ञो व्यथितस्य सा निशा जगाम घोरं श्वसतो मनस्विनः।विबोध्यमानः प्रतिबोधनं तदा निवारयामास स राजसत्तमः॥ २६॥
इति इव राज्ञः व्यथितस्य सा निशा जगाम घोरम् श्वसतः मनस्विनः।विबोध्यमानः प्रतिबोधनम् तदा निवारयामास स राज-सत्तमः॥ २६॥
iti iva rājñaḥ vyathitasya sā niśā jagāma ghoram śvasataḥ manasvinaḥ.vibodhyamānaḥ pratibodhanam tadā nivārayāmāsa sa rāja-sattamaḥ.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोदशः सर्गः ॥२-१३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे त्रयोदशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe trayodaśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In