This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे चतुर्दशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe caturdaśaḥ sargaḥ ..2..
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि।विचेष्टमानमुत्प्रेक्ष्य ऐक्ष्वाकमिदमब्रवीत्॥ १॥
पुत्र-शोक-अर्दितम् पापा विसंज्ञम् पतितम् भुवि।विचेष्टमानम् उत्प्रेक्ष्य ऐक्ष्वाकम् इदम् अब्रवीत्॥ १॥
putra-śoka-arditam pāpā visaṃjñam patitam bhuvi.viceṣṭamānam utprekṣya aikṣvākam idam abravīt.. 1..
पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम्।शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि॥ २॥
पापम् कृत्वा इव किम् इदम् मम संश्रुत्य संश्रवम्।शेषे क्षिति-तले सन्नः स्थित्याम् स्थातुम् त्वम् अर्हसि॥ २॥
pāpam kṛtvā iva kim idam mama saṃśrutya saṃśravam.śeṣe kṣiti-tale sannaḥ sthityām sthātum tvam arhasi.. 2..
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः।सत्यमाश्रित्य च मया त्वं धर्मं प्रतिचोदितः॥ ३॥
आहुः सत्यम् हि परमम् धर्मम् धर्म-विदः जनाः।सत्यम् आश्रित्य च मया त्वम् धर्मम् प्रतिचोदितः॥ ३॥
āhuḥ satyam hi paramam dharmam dharma-vidaḥ janāḥ.satyam āśritya ca mayā tvam dharmam praticoditaḥ.. 3..
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः।प्रदाय पक्षिणे राजा जगाम गतिमुत्तमाम्॥ ४॥
संश्रुत्य शैब्यः श्येनाय स्वाम् तनुम् जगतीपतिः।प्रदाय पक्षिणे राजा जगाम गतिम् उत्तमाम्॥ ४॥
saṃśrutya śaibyaḥ śyenāya svām tanum jagatīpatiḥ.pradāya pakṣiṇe rājā jagāma gatim uttamām.. 4..
तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे।याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ॥ ५॥
तथा हि अलर्कः तेजस्वी ब्राह्मणे वेदपारगे।याचमाने स्वके नेत्रे उद्धृत्य अविमनाः ददौ॥ ५॥
tathā hi alarkaḥ tejasvī brāhmaṇe vedapārage.yācamāne svake netre uddhṛtya avimanāḥ dadau.. 5..
सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः।सत्यानुरोधात् समये वेलां स्वां नातिवर्तते॥ ६॥
सरिताम् तु पतिः सु अल्पाम् मर्यादाम् सत्यम् अन्वितः।सत्य-अनुरोधात् समये वेलाम् स्वाम् ना अतिवर्तते॥ ६॥
saritām tu patiḥ su alpām maryādām satyam anvitaḥ.satya-anurodhāt samaye velām svām nā ativartate.. 6..
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः।सत्यमेवाक्षया वेदाः सत्येनावाप्यते परम्॥ ७॥
सत्यम् एक-पदम् ब्रह्म सत्ये धर्मः प्रतिष्ठितः।सत्यम् एव अक्षयाः वेदाः सत्येन अवाप्यते परम्॥ ७॥
satyam eka-padam brahma satye dharmaḥ pratiṣṭhitaḥ.satyam eva akṣayāḥ vedāḥ satyena avāpyate param.. 7..
सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः।स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम॥ ८॥
सत्यम् समनुवर्तस्व यदि धर्मे धृता मतिः।स वरः सफलः मे अस्तु वर-दः हि असि सत्तम॥ ८॥
satyam samanuvartasva yadi dharme dhṛtā matiḥ.sa varaḥ saphalaḥ me astu vara-daḥ hi asi sattama.. 8..
धर्मस्यैवाभिकामार्थं मम चैवाभिचोदनात्।प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम्॥ ९॥
धर्मस्य एव अभिकाम-अर्थम् मम च एव अभिचोदनात्।प्रव्राजय सुतम् रामम् त्रिस् खलु त्वाम् ब्रवीमि अहम्॥ ९॥
dharmasya eva abhikāma-artham mama ca eva abhicodanāt.pravrājaya sutam rāmam tris khalu tvām bravīmi aham.. 9..
समयं च ममार्येमं यदि त्वं न करिष्यसि।अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम्॥ १०॥
समयम् च मम आर्य इमम् यदि त्वम् न करिष्यसि।अग्रतस् ते परित्यक्ता परित्यक्ष्यामि जीवितम्॥ १०॥
samayam ca mama ārya imam yadi tvam na kariṣyasi.agratas te parityaktā parityakṣyāmi jīvitam.. 10..
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया।नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा॥ ११॥
एवम् प्रचोदितः राजा कैकेय्या निर्विशङ्कया।ना अशकत् पाशम् उन्मोक्तुम् बलिः इन्द्र-कृतम् यथा॥ ११॥
evam pracoditaḥ rājā kaikeyyā nirviśaṅkayā.nā aśakat pāśam unmoktum baliḥ indra-kṛtam yathā.. 11..
उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्।स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा॥ १२॥
उद्भ्रान्त-हृदयः च अपि विवर्ण-वदनः अभवत्।स धुर्यः वै परिस्पन्दन् युग-चक्र-अन्तरम् यथा॥ १२॥
udbhrānta-hṛdayaḥ ca api vivarṇa-vadanaḥ abhavat.sa dhuryaḥ vai parispandan yuga-cakra-antaram yathā.. 12..
विकलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः।कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत्॥ १३॥
विकलाभ्याम् च नेत्राभ्याम् अपश्यन् इव भूमिपः।कृच्छ्रात् धैर्येण संस्तभ्य कैकेयीम् इदम् अब्रवीत्॥ १३॥
vikalābhyām ca netrābhyām apaśyan iva bhūmipaḥ.kṛcchrāt dhairyeṇa saṃstabhya kaikeyīm idam abravīt.. 13..
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः।संत्यजामि स्वजं चैव तव पुत्रं सह त्वया॥ १४॥
यः ते मन्त्र-कृतः पाणिः अग्नौ पापे मया धृतः।संत्यजामि स्वजम् च एव तव पुत्रम् सह त्वया॥ १४॥
yaḥ te mantra-kṛtaḥ pāṇiḥ agnau pāpe mayā dhṛtaḥ.saṃtyajāmi svajam ca eva tava putram saha tvayā.. 14..
प्रयाता रजनी देवि सूर्यस्योदयनं प्रति।अभिषेकाय हि जनस्त्वरयिष्यति मां ध्रुवम्॥ १५॥
प्रयाता रजनी देवि सूर्यस्य उदयनम् प्रति।अभिषेकाय हि जनः त्वरयिष्यति माम् ध्रुवम्॥ १५॥
prayātā rajanī devi sūryasya udayanam prati.abhiṣekāya hi janaḥ tvarayiṣyati mām dhruvam.. 15..
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः।रामः कारयितव्यो मे मृतस्य सलिलक्रियाम्॥ १६॥
राम-अभिषेक-सम्भारैः तद्-अर्थम् उपकल्पितैः।रामः कारयितव्यः मे मृतस्य सलिलक्रियाम्॥ १६॥
rāma-abhiṣeka-sambhāraiḥ tad-artham upakalpitaiḥ.rāmaḥ kārayitavyaḥ me mṛtasya salilakriyām.. 16..
सपुत्रया त्वया नैव कर्तव्या सलिलक्रिया।व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम्॥ १७॥
स पुत्रया त्वया ना एव कर्तव्या सलिलक्रिया।व्याहन्ता असि अशुभ-आचारे यदि राम-अभिषेचनम्॥ १७॥
sa putrayā tvayā nā eva kartavyā salilakriyā.vyāhantā asi aśubha-ācāre yadi rāma-abhiṣecanam.. 17..
न शक्तोऽद्यास्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथामुखम्।हतहर्षं तथानन्दं पुनर्जनमवाङ्मुखम्॥ १८॥
न शक्तः अद्य अस्मि अहम् द्रष्टुम् दृष्ट्वा पूर्वम् तथामुखम्।हत-हर्षम् तथा आनन्दम् पुनर् जनम् अवाङ्मुखम्॥ १८॥
na śaktaḥ adya asmi aham draṣṭum dṛṣṭvā pūrvam tathāmukham.hata-harṣam tathā ānandam punar janam avāṅmukham.. 18..
तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः।प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रमालिनी॥ १९॥
ताम् तथा ब्रुवतः तस्य भूमिपस्य महात्मनः।प्रभाता शर्वरी पुण्या चन्द्र-नक्षत्र-मालिनी॥ १९॥
tām tathā bruvataḥ tasya bhūmipasya mahātmanaḥ.prabhātā śarvarī puṇyā candra-nakṣatra-mālinī.. 19..
ततः पापसमाचारा कैकेयी पार्थिवं पुनः।उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता॥ २०॥
ततस् पाप-समाचारा कैकेयी पार्थिवम् पुनर्।उवाच परुषम् वाक्यम् वाक्य-ज्ञा रोष-मूर्च्छिता॥ २०॥
tatas pāpa-samācārā kaikeyī pārthivam punar.uvāca paruṣam vākyam vākya-jñā roṣa-mūrcchitā.. 20..
किमिदं भाषसे राजन् वाक्यं गररुजोपमम्।आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि॥ २१॥
किम् इदम् भाषसे राजन् वाक्यम् गर-रुजा-उपमम्।आनाययितुम् अक्लिष्टम् पुत्रम् रामम् इह अर्हसि॥ २१॥
kim idam bhāṣase rājan vākyam gara-rujā-upamam.ānāyayitum akliṣṭam putram rāmam iha arhasi.. 21..
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्।निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि॥ २२॥
स्थाप्य राज्ये मम सुतम् कृत्वा रामम् वनेचरम्।निःसपत्नाम् च माम् कृत्वा कृतकृत्यः भविष्यसि॥ २२॥
sthāpya rājye mama sutam kṛtvā rāmam vanecaram.niḥsapatnām ca mām kṛtvā kṛtakṛtyaḥ bhaviṣyasi.. 22..
स तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः।राजा प्रचोदितोऽभीक्ष्णं कैकेय्या वाक्यमब्रवीत्॥ २३॥
स तुन्नः इव तीक्ष्णेन प्रतोदेन हय-उत्तमः।राजा प्रचोदितः अभीक्ष्णम् कैकेय्याः वाक्यम् अब्रवीत्॥ २३॥
sa tunnaḥ iva tīkṣṇena pratodena haya-uttamaḥ.rājā pracoditaḥ abhīkṣṇam kaikeyyāḥ vākyam abravīt.. 23..
धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना।ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम्॥ २४॥
धर्म-बन्धेन बद्धः अस्मि नष्टा च मम चेतना।ज्येष्ठम् पुत्रम् प्रियम् रामम् द्रष्टुम् इच्छामि धार्मिकम्॥ २४॥
dharma-bandhena baddhaḥ asmi naṣṭā ca mama cetanā.jyeṣṭham putram priyam rāmam draṣṭum icchāmi dhārmikam.. 24..
ततः प्रभातां रजनीमुदिते च दिवाकरे।पुण्ये नक्षत्रयोगे च मुहूर्ते च समागते॥ २५॥
ततस् प्रभाताम् रजनीम् उदिते च दिवाकरे।पुण्ये नक्षत्र-योगे च मुहूर्ते च समागते॥ २५॥
tatas prabhātām rajanīm udite ca divākare.puṇye nakṣatra-yoge ca muhūrte ca samāgate.. 25..
वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तथा।उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम्॥ २६॥
वसिष्ठः गुण-सम्पन्नः शिष्यैः परिवृतः तथा।उपगृह्य आशु सम्भारान् प्रविवेश पुर-उत्तमम्॥ २६॥
vasiṣṭhaḥ guṇa-sampannaḥ śiṣyaiḥ parivṛtaḥ tathā.upagṛhya āśu sambhārān praviveśa pura-uttamam.. 26..
सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम्।संहृष्टमनुजोपेतां समृद्धविपणापणाम्॥ २७॥
सिक्त-सम्मार्जित-पथाम् पताका-उत्तम-भूषिताम्।संहृष्ट-मनुज-उपेताम् समृद्ध-विपण-आपणाम्॥ २७॥
sikta-sammārjita-pathām patākā-uttama-bhūṣitām.saṃhṛṣṭa-manuja-upetām samṛddha-vipaṇa-āpaṇām.. 27..
महोत्सवसमायुक्तां राघवार्थे समुत्सुकाम्।चन्दनागुरुधूपैश्च सर्वतः परिधूमिताम्॥ २८॥
महा-उत्सव-समायुक्ताम् राघव-अर्थे समुत्सुकाम्।चन्दन-अगुरु-धूपैः च सर्वतस् परिधूमिताम्॥ २८॥
mahā-utsava-samāyuktām rāghava-arthe samutsukām.candana-aguru-dhūpaiḥ ca sarvatas paridhūmitām.. 28..
तां पुरीं समतिक्रम्य पुरंदरपुरोपमाम्।ददर्शान्तःपुरं श्रीमान् नानाध्वजगणायुतम्॥ २९॥
ताम् पुरीम् समतिक्रम्य पुरंदर-पुर-उपमाम्।ददर्श अन्तःपुरम् श्रीमान् नाना ध्वज-गण-आयुतम्॥ २९॥
tām purīm samatikramya puraṃdara-pura-upamām.dadarśa antaḥpuram śrīmān nānā dhvaja-gaṇa-āyutam.. 29..
पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्।यष्टिमद्भिः सुसम्पूर्णं सदश्वैः परमार्चितैः॥ ३०॥
पौर-जानपद-आकीर्णम् ब्राह्मणैः उपशोभितम्।यष्टिमद्भिः सु सम्पूर्णम् सत्-अश्वैः परम-अर्चितैः॥ ३०॥
paura-jānapada-ākīrṇam brāhmaṇaiḥ upaśobhitam.yaṣṭimadbhiḥ su sampūrṇam sat-aśvaiḥ parama-arcitaiḥ.. 30..
तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम्।वसिष्ठः परमप्रीतः परमर्षिभिरावृतः॥ ३१॥
तत् अन्तःपुरम् आसाद्य व्यतिचक्राम तम् जनम्।वसिष्ठः परम-प्रीतः परम-ऋषिभिः आवृतः॥ ३१॥
tat antaḥpuram āsādya vyaticakrāma tam janam.vasiṣṭhaḥ parama-prītaḥ parama-ṛṣibhiḥ āvṛtaḥ.. 31..
स त्वपश्यद् विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्।द्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम्॥३२॥
स तु अपश्यत् विनिष्क्रान्तम् सुमन्त्रम् नाम सारथिम्।द्वारे मनुज-सिंहस्य सचिवम् प्रिय-दर्शनम्॥३२॥
sa tu apaśyat viniṣkrāntam sumantram nāma sārathim.dvāre manuja-siṃhasya sacivam priya-darśanam..32..
तमुवाच महातेजाः सूतपुत्रं विशारदम्।वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम्॥ ३३॥
तम् उवाच महा-तेजाः सूतपुत्रम् विशारदम्।वसिष्ठः क्षिप्रम् आचक्ष्व नृपतेः माम् इह आगतम्॥ ३३॥
tam uvāca mahā-tejāḥ sūtaputram viśāradam.vasiṣṭhaḥ kṣipram ācakṣva nṛpateḥ mām iha āgatam.. 33..
इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः।औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम्॥ ३४॥
इमे गङ्गा-उदक-घटाः सागरेभ्यः च काञ्चनाः।औदुम्बरम् भद्रपीठम् अभिषेक-अर्थम् आहृतम्॥ ३४॥
ime gaṅgā-udaka-ghaṭāḥ sāgarebhyaḥ ca kāñcanāḥ.audumbaram bhadrapīṭham abhiṣeka-artham āhṛtam.. 34..
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च।क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः॥ ३५॥
सर्व-बीजानि गन्धाः च रत्नानि विविधानि च।क्षौद्रम् दधि घृतम् लाजाः दर्भाः सुमनसः पयः॥ ३५॥
sarva-bījāni gandhāḥ ca ratnāni vividhāni ca.kṣaudram dadhi ghṛtam lājāḥ darbhāḥ sumanasaḥ payaḥ.. 35..
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः।चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम्॥ ३६॥
अष्टौ च कन्याः रुचिराः मत्तः च वर-वारणः।चतुर्-अश्वः रथः श्रीमान् निस्त्रिंशः धनुः उत्तमम्॥ ३६॥
aṣṭau ca kanyāḥ rucirāḥ mattaḥ ca vara-vāraṇaḥ.catur-aśvaḥ rathaḥ śrīmān nistriṃśaḥ dhanuḥ uttamam.. 36..
वाहनं नरसंयुक्तं छत्रं च शशिसंनिभम्।श्वेते च वालव्यजने भृङ्गारं च हिरण्मयम्॥ ३७॥
वाहनम् नर-संयुक्तम् छत्रम् च शशि-संनिभम्।श्वेते च वाल-व्यजने भृङ्गारम् च हिरण्मयम्॥ ३७॥
vāhanam nara-saṃyuktam chatram ca śaśi-saṃnibham.śvete ca vāla-vyajane bhṛṅgāram ca hiraṇmayam.. 37..
हेमदामपिनद्धश्च ककुद्मान् पाण्डुरो वृषः।केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः॥ ३८॥
हेमदाम् अपिनद्धः च ककुद्मान् पाण्डुरः वृषः।केसरी च चतुर्-दंष्ट्रः हरि-श्रेष्ठः महा-बलः॥ ३८॥
hemadām apinaddhaḥ ca kakudmān pāṇḍuraḥ vṛṣaḥ.kesarī ca catur-daṃṣṭraḥ hari-śreṣṭhaḥ mahā-balaḥ.. 38..
सिंहासनं व्याघ्रतनुः समिधश्च हुताशनः।सर्वे वादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः॥ ३९॥
सिंहासनम् व्याघ्र-तनुः समिधः च हुताशनः।सर्वे वादित्र-सङ्घाः च वेश्याः च अलंकृताः स्त्रियः॥ ३९॥
siṃhāsanam vyāghra-tanuḥ samidhaḥ ca hutāśanaḥ.sarve vāditra-saṅghāḥ ca veśyāḥ ca alaṃkṛtāḥ striyaḥ.. 39..
आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः।पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह॥ ४०॥
आचार्याः ब्राह्मणाः गावः पुण्याः च मृग-पक्षिणः।पौर-जानपद-श्रेष्ठाः नैगमाः च गणैः सह॥ ४०॥
ācāryāḥ brāhmaṇāḥ gāvaḥ puṇyāḥ ca mṛga-pakṣiṇaḥ.paura-jānapada-śreṣṭhāḥ naigamāḥ ca gaṇaiḥ saha.. 40..
एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः।अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः॥ ४१॥
एते च अन्ये च बहवः प्रीयमाणाः प्रियंवदाः।अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः॥ ४१॥
ete ca anye ca bahavaḥ prīyamāṇāḥ priyaṃvadāḥ.abhiṣekāya rāmasya saha tiṣṭhanti pārthivaiḥ.. 41..
त्वरयस्व महाराजं यथा समुदितेऽहनि।पुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात्॥ ४२॥
त्वरयस्व महा-राजम् यथा समुदिते अहनि।पुष्ये नक्षत्र-योगे च रामः राज्यम् अवाप्नुयात्॥ ४२॥
tvarayasva mahā-rājam yathā samudite ahani.puṣye nakṣatra-yoge ca rāmaḥ rājyam avāpnuyāt.. 42..
इति तस्य वचः श्रुत्वा सूतपुत्रो महाबलः।स्तुवन् नृपतिशार्दूलं प्रविवेश निवेशनम्॥ ४३॥
इति तस्य वचः श्रुत्वा सूतपुत्रः महा-बलः।स्तुवन् नृपति-शार्दूलम् प्रविवेश निवेशनम्॥ ४३॥
iti tasya vacaḥ śrutvā sūtaputraḥ mahā-balaḥ.stuvan nṛpati-śārdūlam praviveśa niveśanam.. 43..
तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मताः।न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः॥ ४४॥
तम् तु पूर्व-उदितम् वृद्धम् द्वारस्थाः राज-सम्मताः।न शेकुः अभिसंरोद्धुम् राज्ञः प्रिय-चिकीर्षवः॥ ४४॥
tam tu pūrva-uditam vṛddham dvārasthāḥ rāja-sammatāḥ.na śekuḥ abhisaṃroddhum rājñaḥ priya-cikīrṣavaḥ.. 44..
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्।वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे॥ ४५॥
स समीप-स्थितः राज्ञः ताम् अवस्थाम् अजज्ञिवान्।वाग्भिः परम-तुष्टाभिः अभिष्टोतुम् प्रचक्रमे॥ ४५॥
sa samīpa-sthitaḥ rājñaḥ tām avasthām ajajñivān.vāgbhiḥ parama-tuṣṭābhiḥ abhiṣṭotum pracakrame.. 45..
ततः सूतो यथापूर्वं पार्थिवस्य निवेशने।सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्॥ ४६॥
ततस् सूतः यथापूर्वम् पार्थिवस्य निवेशने।सुमन्त्रः प्राञ्जलिः भूत्वा तुष्टाव जगतीपतिम्॥ ४६॥
tatas sūtaḥ yathāpūrvam pārthivasya niveśane.sumantraḥ prāñjaliḥ bhūtvā tuṣṭāva jagatīpatim.. 46..
यथा नन्दति तेजस्वी सागरो भास्करोदये।प्रीतः प्रीतेन मनसा तथा नन्दय नस्ततः॥ ४७॥
यथा नन्दति तेजस्वी सागरः भास्कर-उदये।प्रीतः प्रीतेन मनसा तथा नन्दय नः ततस्॥ ४७॥
yathā nandati tejasvī sāgaraḥ bhāskara-udaye.prītaḥ prītena manasā tathā nandaya naḥ tatas.. 47..
इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः।सोऽजयद् दानवान् सर्वांस्तथा त्वां बोधयाम्यहम्॥ ४८॥
इन्द्रमस्याम् तु वेलायाम् अभितुष्टाव मातलिः।सः अजयत् दानवान् सर्वान् तथा त्वाम् बोधयामि अहम्॥ ४८॥
indramasyām tu velāyām abhituṣṭāva mātaliḥ.saḥ ajayat dānavān sarvān tathā tvām bodhayāmi aham.. 48..
वेदाः सहाङ्गा विद्याश्च यथा ह्यात्मभुवं प्रभुम्।ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्॥ ४९॥
वेदाः सह अङ्गाः विद्याः च यथा हि आत्मभुवम् प्रभुम्।ब्रह्माणम् बोधयन्ति अद्य तथा त्वाम् बोधयामि अहम्॥ ४९॥
vedāḥ saha aṅgāḥ vidyāḥ ca yathā hi ātmabhuvam prabhum.brahmāṇam bodhayanti adya tathā tvām bodhayāmi aham.. 49..
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्।बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्॥ ५०॥
आदित्यः सह चन्द्रेण यथा भूत-धराम् शुभाम्।बोधयति अद्य पृथिवीम् तथा त्वाम् बोधयामि अहम्॥ ५०॥
ādityaḥ saha candreṇa yathā bhūta-dharām śubhām.bodhayati adya pṛthivīm tathā tvām bodhayāmi aham.. 50..
उत्तिष्ठ सुमहाराज कृतकौतुकमङ्गलः।विराजमानो वपुषा मेरोरिव दिवाकरः॥ ५१॥
उत्तिष्ठ सु महा-राज कृत-कौतुकमङ्गलः।विराजमानः वपुषा मेरोः इव दिवाकरः॥ ५१॥
uttiṣṭha su mahā-rāja kṛta-kautukamaṅgalaḥ.virājamānaḥ vapuṣā meroḥ iva divākaraḥ.. 51..
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि।वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते॥ ५२॥
सोम-सूर्यौ च काकुत्स्थ शिव-वैश्रवणौ अपि।वरुणः च अग्निः इन्द्रः च विजयम् प्रदिशन्तु ते॥ ५२॥
soma-sūryau ca kākutstha śiva-vaiśravaṇau api.varuṇaḥ ca agniḥ indraḥ ca vijayam pradiśantu te.. 52..
गता भगवती रात्रिः कृतं कृत्यमिदं तव।बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्॥ ५३॥
गता भगवती रात्रिः कृतम् कृत्यम् इदम् तव।बुध्यस्व नृप-शार्दूल कुरु कार्यम् अनन्तरम्॥ ५३॥
gatā bhagavatī rātriḥ kṛtam kṛtyam idam tava.budhyasva nṛpa-śārdūla kuru kāryam anantaram.. 53..
उदतिष्ठत रामस्य समग्रमभिषेचनम्।पौरजानपदाश्चापि नैगमश्च कृताञ्जलिः॥ ५४॥
उदतिष्ठत रामस्य समग्रम् अभिषेचनम्।पौर-जानपदाः च अपि नैगमः च कृताञ्जलिः॥ ५४॥
udatiṣṭhata rāmasya samagram abhiṣecanam.paura-jānapadāḥ ca api naigamaḥ ca kṛtāñjaliḥ.. 54..
स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति।क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम्॥ ५५॥
स्वयम् वसिष्ठः भगवान् ब्राह्मणैः सह तिष्ठति।क्षिप्रम् आज्ञाप्यताम् राजन् राघवस्य अभिषेचनम्॥ ५५॥
svayam vasiṣṭhaḥ bhagavān brāhmaṇaiḥ saha tiṣṭhati.kṣipram ājñāpyatām rājan rāghavasya abhiṣecanam.. 55..
यथा ह्यपालाः पशवो यथा सेना ह्यनायका।यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम्॥ ५६॥
यथा हि अपालाः पशवः यथा सेना हि अनायका।यथा चन्द्रम् विना रात्रिः यथा गावः विना वृषम्॥ ५६॥
yathā hi apālāḥ paśavaḥ yathā senā hi anāyakā.yathā candram vinā rātriḥ yathā gāvaḥ vinā vṛṣam.. 56..
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते।एवं तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत्॥ ५७॥
एवम् हि भविता राष्ट्रम् यत्र राजा न दृश्यते।एवम् तस्य वचः श्रुत्वा सान्त्व-पूर्वम् इव अर्थवत्॥ ५७॥
evam hi bhavitā rāṣṭram yatra rājā na dṛśyate.evam tasya vacaḥ śrutvā sāntva-pūrvam iva arthavat.. 57..
अभ्यकीर्यत शोकेन भूय एव महीपतिः।ततस्तु राजा तं सूतं सन्नहर्षः सुतं प्रति॥ ५८॥
अभ्यकीर्यत शोकेन भूयस् एव महीपतिः।ततस् तु राजा तम् सूतम् सन्न-हर्षः सुतम् प्रति॥ ५८॥
abhyakīryata śokena bhūyas eva mahīpatiḥ.tatas tu rājā tam sūtam sanna-harṣaḥ sutam prati.. 58..
शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः।वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि॥ ५९॥
शोक-रक्त-ईक्षणः श्रीमान् उद्वीक्ष्य उवाच धार्मिकः।वाक्यैः तु खलु मर्माणि मम भूयस् निकृन्तसि॥ ५९॥
śoka-rakta-īkṣaṇaḥ śrīmān udvīkṣya uvāca dhārmikaḥ.vākyaiḥ tu khalu marmāṇi mama bhūyas nikṛntasi.. 59..
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्।प्रगृहीताञ्जलिः किंचित् तस्माद् देशादपाक्रमत्॥ ६०॥
सुमन्त्रः करुणम् श्रुत्वा दृष्ट्वा दीनम् च पार्थिवम्।प्रगृहीत-अञ्जलिः किंचिद् तस्मात् देशात् अपाक्रमत्॥ ६०॥
sumantraḥ karuṇam śrutvā dṛṣṭvā dīnam ca pārthivam.pragṛhīta-añjaliḥ kiṃcid tasmāt deśāt apākramat.. 60..
यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः।तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह॥ ६१॥
यदा वक्तुम् स्वयम् दैन्यात् न शशाक महीपतिः।तदा सुमन्त्रम् मन्त्र-ज्ञा कैकेयी प्रत्युवाच ह॥ ६१॥
yadā vaktum svayam dainyāt na śaśāka mahīpatiḥ.tadā sumantram mantra-jñā kaikeyī pratyuvāca ha.. 61..
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः।प्रजागरपरिश्रान्तो निद्रावशमुपागतः॥ ६२॥
सुमन्त्र राजा रजनीम् राम-हर्ष-समुत्सुकः।प्रजागर-परिश्रान्तः निद्रा-वशम् उपागतः॥ ६२॥
sumantra rājā rajanīm rāma-harṣa-samutsukaḥ.prajāgara-pariśrāntaḥ nidrā-vaśam upāgataḥ.. 62..
तद् गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्।राममानय भद्रं ते नात्र कार्या विचारणा॥ ६३॥
तत् गच्छ त्वरितम् सूत राज-पुत्रम् यशस्विनम्।रामम् आनय भद्रम् ते न अत्र कार्या विचारणा॥ ६३॥
tat gaccha tvaritam sūta rāja-putram yaśasvinam.rāmam ānaya bhadram te na atra kāryā vicāraṇā.. 63..
अश्रुत्वा राजवचनं कथं गच्छामि भामिनि।तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत्॥ ६४॥
अ श्रुत्वा राज-वचनम् कथम् गच्छामि भामिनि।तत् श्रुत्वा मन्त्रिणः वाक्यम् राजा मन्त्रिणम् अब्रवीत्॥ ६४॥
a śrutvā rāja-vacanam katham gacchāmi bhāmini.tat śrutvā mantriṇaḥ vākyam rājā mantriṇam abravīt.. 64..
सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्।स मन्यमानः कल्याणं हृदयेन ननन्द च॥ ६५॥
सुमन्त्र रामम् द्रक्ष्यामि शीघ्रम् आनय सुन्दरम्।स मन्यमानः कल्याणम् हृदयेन ननन्द च॥ ६५॥
sumantra rāmam drakṣyāmi śīghram ānaya sundaram.sa manyamānaḥ kalyāṇam hṛdayena nananda ca.. 65..
निर्जगाम च स प्रीत्या त्वरितो राजशासनात्।सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया॥ ६६॥
निर्जगाम च स प्रीत्या त्वरितः राज-शासनात्।सुमन्त्रः चिन्तयामास त्वरितम् चोदितः तया॥ ६६॥
nirjagāma ca sa prītyā tvaritaḥ rāja-śāsanāt.sumantraḥ cintayāmāsa tvaritam coditaḥ tayā.. 66..
व्यक्तं रामाभिषेकार्थे इहायास्यति धर्मराट्।इति सूतो मतिं कृत्वा हर्षेण महता पुनः॥ ६७॥
व्यक्तम् राम-अभिषेक-अर्थे इह आयास्यति धर्मराज्।इति सूतः मतिम् कृत्वा हर्षेण महता पुनर्॥ ६७॥
vyaktam rāma-abhiṣeka-arthe iha āyāsyati dharmarāj.iti sūtaḥ matim kṛtvā harṣeṇa mahatā punar.. 67..
निर्जगाम महातेजा राघवस्य दिदृक्षया। सागरह्रदसंकाशात्सुमन्त्रोऽन्तः पुराच्छुभात् । निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः॥ ६८॥
निर्जगाम महा-तेजाः राघवस्य दिदृक्षया। सागरह्रद-संकाशात् सुमन्त्रः अन्तर् पुरात् शुभात् । निष्क्रम्य जन-सम्बाधम् ददर्श द्वारम् अग्रतस्॥ ६८॥
nirjagāma mahā-tejāḥ rāghavasya didṛkṣayā. sāgarahrada-saṃkāśāt sumantraḥ antar purāt śubhāt . niṣkramya jana-sambādham dadarśa dvāram agratas.. 68..
ततः पुरस्तात् सहसा विनिःसृतो महीपतेर्द्वारगतान् विलोकयन्।ददर्श पौरान् विविधान् महाधना- नुपस्थितान् द्वारमुपेत्य विष्ठितान्॥ ६९॥
ततस् पुरस्तात् सहसा विनिःसृतः महीपतेः द्वार-गतान् विलोकयन्।ददर्श पौरान् विविधान् महाधनान् उपस्थितान् द्वारम् उपेत्य विष्ठितान्॥ ६९॥
tatas purastāt sahasā viniḥsṛtaḥ mahīpateḥ dvāra-gatān vilokayan.dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān.. 69..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे चतुर्दशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe caturdaśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In