This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चदशः सर्गः ॥२-१५॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चदशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcadaśaḥ sargaḥ ..2..
ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः।उपतस्थुरुपस्थानं सह राजपुरोहिताः॥ १॥
ते तु ताम् रजनीम् उष्य ब्राह्मणाः वेदपारगाः।उपतस्थुः उपस्थानम् सह राज-पुरोहिताः॥ १॥
te tu tām rajanīm uṣya brāhmaṇāḥ vedapāragāḥ.upatasthuḥ upasthānam saha rāja-purohitāḥ.. 1..
अमात्या बलमुख्याश्च मुख्या ये निगमस्य च।राघवस्याभिषेकार्थे प्रीयमाणाः सुसंगताः॥ २॥
अमात्याः बल-मुख्याः च मुख्याः ये निगमस्य च।राघवस्य अभिषेक-अर्थे प्रीयमाणाः सु संगताः॥ २॥
amātyāḥ bala-mukhyāḥ ca mukhyāḥ ye nigamasya ca.rāghavasya abhiṣeka-arthe prīyamāṇāḥ su saṃgatāḥ.. 2..
उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि।लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते॥ ३॥
उदिते विमले सूर्ये पुष्ये च अभ्यागते अहनि।लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते॥ ३॥
udite vimale sūrye puṣye ca abhyāgate ahani.lagne karkaṭake prāpte janma rāmasya ca sthite.. 3..
अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्।काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम्॥ ४॥
अभिषेकाय रामस्य द्विजेन्द्रैः उपकल्पितम्।काञ्चनाः जल-कुम्भाः च भद्रपीठम् सु अलंकृतम्॥ ४॥
abhiṣekāya rāmasya dvijendraiḥ upakalpitam.kāñcanāḥ jala-kumbhāḥ ca bhadrapīṭham su alaṃkṛtam.. 4..
रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा।गङ्गायमुनयोः पुण्यात् संगमादाहृतं जलम्॥ ५॥
रथः च सम्यक् आस्तीर्णः भास्वता व्याघ्र-चर्मणा।गङ्गा-यमुनयोः पुण्यात् संगमात् आहृतम् जलम्॥ ५॥
rathaḥ ca samyak āstīrṇaḥ bhāsvatā vyāghra-carmaṇā.gaṅgā-yamunayoḥ puṇyāt saṃgamāt āhṛtam jalam.. 5..
याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च।प्राग्वहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाश्च क्षीरिणः॥ ६॥
याः च अन्याः सरितः पुण्याः ह्रदाः कूपाः सरांसि च।प्राच्-वहाः च ऊर्ध्व-वाहाः च तिर्यक्-वाहाः च क्षीरिणः॥ ६॥
yāḥ ca anyāḥ saritaḥ puṇyāḥ hradāḥ kūpāḥ sarāṃsi ca.prāc-vahāḥ ca ūrdhva-vāhāḥ ca tiryak-vāhāḥ ca kṣīriṇaḥ.. 6..
ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः।क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः॥ ७॥
ताभ्यः च एव आहृतम् तोयम् समुद्रेभ्यः च सर्वशस्।क्षौद्रम् दधि घृतम् लाजाः दर्भाः सुमनसः पयः॥ ७॥
tābhyaḥ ca eva āhṛtam toyam samudrebhyaḥ ca sarvaśas.kṣaudram dadhi ghṛtam lājāḥ darbhāḥ sumanasaḥ payaḥ.. 7..
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः।सजलाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः॥ ८॥
अष्टौ च कन्याः रुचिराः मत्तः च वर-वारणः।स जलाः क्षीरिभिः छन्नाः घटाः काञ्चन-राजताः॥ ८॥
aṣṭau ca kanyāḥ rucirāḥ mattaḥ ca vara-vāraṇaḥ.sa jalāḥ kṣīribhiḥ channāḥ ghaṭāḥ kāñcana-rājatāḥ.. 8..
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा।चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम्॥ ९॥
पद्म-उत्पल-युताः भान्ति पूर्णाः परम-वारिणा।चन्द्र-अंशु-विकच-प्रख्यम् पाण्डुरम् रत्न-भूषितम्॥ ९॥
padma-utpala-yutāḥ bhānti pūrṇāḥ parama-vāriṇā.candra-aṃśu-vikaca-prakhyam pāṇḍuram ratna-bhūṣitam.. 9..
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् । चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम्॥ १०॥
सज्जम् तिष्ठति रामस्य वाल-व्यजनम् उत्तमम् । चन्द्र-मण्डल-संकाशम् आतपत्रम् च पाण्डुरम्॥ १०॥
sajjam tiṣṭhati rāmasya vāla-vyajanam uttamam . candra-maṇḍala-saṃkāśam ātapatram ca pāṇḍuram.. 10..
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्सरम्।पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च संस्थितः॥ ११॥
सज्जम् द्युति-करम् श्रीमत्-अभिषेक-पुरस्सरम्।पाण्डुरः च वृषः सज्जः पाण्डुराश्वः च संस्थितः॥ ११॥
sajjam dyuti-karam śrīmat-abhiṣeka-purassaram.pāṇḍuraḥ ca vṛṣaḥ sajjaḥ pāṇḍurāśvaḥ ca saṃsthitaḥ.. 11..
वादित्राणि च सर्वाणि वन्दिनश्च तथापरे।इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम्॥ १२॥
वादित्राणि च सर्वाणि वन्दिनः च तथा अपरे।इक्ष्वाकूणाम् यथा राज्ये सम्भ्रियेत अभिषेचनम्॥ १२॥
vāditrāṇi ca sarvāṇi vandinaḥ ca tathā apare.ikṣvākūṇām yathā rājye sambhriyeta abhiṣecanam.. 12..
तथाजातीयमादाय राजपुत्राभिषेचनम्।ते राजवचनात् तत्र समवेता महीपतिम्॥ १३॥
तथाजातीयम् आदाय राज-पुत्र-अभिषेचनम्।ते राज-वचनात् तत्र समवेताः महीपतिम्॥ १३॥
tathājātīyam ādāya rāja-putra-abhiṣecanam.te rāja-vacanāt tatra samavetāḥ mahīpatim.. 13..
अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत्।न पश्यामश्च राजानमुदितश्च दिवाकरः॥ १४॥
अ पश्यन्तः अब्रुवन् कः नु राज्ञः नः प्रतिवेदयेत्।न पश्यामः च राजानम् उदितः च दिवाकरः॥ १४॥
a paśyantaḥ abruvan kaḥ nu rājñaḥ naḥ prativedayet.na paśyāmaḥ ca rājānam uditaḥ ca divākaraḥ.. 14..
यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः।इति तेषु ब्रुवाणेषु सर्वांस्तांश्च महीपतीन्॥ १५॥
यौवराज्य-अभिषेकः च सज्जः रामस्य धीमतः।इति तेषु ब्रुवाणेषु सर्वान् तान् च महीपतीन्॥ १५॥
yauvarājya-abhiṣekaḥ ca sajjaḥ rāmasya dhīmataḥ.iti teṣu bruvāṇeṣu sarvān tān ca mahīpatīn.. 15..
अब्रवीत् तानिदं वाक्यं सुमन्त्रो राजसत्कृतः।रामं राज्ञो नियोगेन त्वरया प्रस्थितो ह्यहम्॥ १६॥
अब्रवीत् तान् इदम् वाक्यम् सुमन्त्रः राज-सत्कृतः।रामम् राज्ञः नियोगेन त्वरया प्रस्थितः हि अहम्॥ १६॥
abravīt tān idam vākyam sumantraḥ rāja-satkṛtaḥ.rāmam rājñaḥ niyogena tvarayā prasthitaḥ hi aham.. 16..
पूज्या राज्ञो भवन्तश्च रामस्य तु विशेषतः।अयं पृच्छामि वचनात् सुखमायुष्मतामहम्॥ १७॥
पूज्याः राज्ञः भवन्तः च रामस्य तु विशेषतः।अयम् पृच्छामि वचनात् सुखम् आयुष्मताम् अहम्॥ १७॥
pūjyāḥ rājñaḥ bhavantaḥ ca rāmasya tu viśeṣataḥ.ayam pṛcchāmi vacanāt sukham āyuṣmatām aham.. 17..
राज्ञः सम्प्रतिबुद्धस्य चानागमनकारणम्।इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित्॥ १८॥
राज्ञः सम्प्रतिबुद्धस्य च अन् आगमन-कारणम्।इति उक्त्वा अन्तःपुर-द्वारम् आजगाम पुराण-विद्॥ १८॥
rājñaḥ sampratibuddhasya ca an āgamana-kāraṇam.iti uktvā antaḥpura-dvāram ājagāma purāṇa-vid.. 18..
सदा सक्तं च तद् वेश्म सुमन्त्रः प्रविवेश ह।तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः॥ १९॥
सदा सक्तम् च तत् वेश्म सुमन्त्रः प्रविवेश ह।तुष्टाव अस्य तदा वंशम् प्रविश्य स विशाम् पतेः॥ १९॥
sadā saktam ca tat veśma sumantraḥ praviveśa ha.tuṣṭāva asya tadā vaṃśam praviśya sa viśām pateḥ.. 19..
शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत।सोऽत्यासाद्य तु तद् वेश्म तिरस्करणिमन्तरा॥ २०॥
शयनीयम् नरेन्द्रस्य तत् आसाद्य व्यतिष्ठत।सः अत्यासाद्य तु तत् वेश्म तिरस्करणिम् अन्तरा॥ २०॥
śayanīyam narendrasya tat āsādya vyatiṣṭhata.saḥ atyāsādya tu tat veśma tiraskaraṇim antarā.. 20..
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्।सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि॥ २१॥
आशीर्भिः गुण-युक्ताभिः अभितुष्टाव राघवम्।सोम-सूर्यौ च काकुत्स्थ शिव-वैश्रवणौ अपि॥ २१॥
āśīrbhiḥ guṇa-yuktābhiḥ abhituṣṭāva rāghavam.soma-sūryau ca kākutstha śiva-vaiśravaṇau api.. 21..
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते।गता भगवती रात्रिरहः शिवमुपस्थितम्॥ २२॥
वरुणः च अग्निः इन्द्रः च विजयम् प्रदिशन्तु ते।गता भगवती रात्रिः अहर् शिवम् उपस्थितम्॥ २२॥
varuṇaḥ ca agniḥ indraḥ ca vijayam pradiśantu te.gatā bhagavatī rātriḥ ahar śivam upasthitam.. 22..
बुद्ध्यस्व राजशार्दूल कुरु कार्यमनन्तरम्।ब्राह्मणा बलमुख्याश्च नैगमाश्चागतास्त्विह॥ २३॥
बुद्ध्यस्व राज-शार्दूल कुरु कार्यम् अनन्तरम्।ब्राह्मणाः बल-मुख्याः च नैगमाः च आगताः तु इह॥ २३॥
buddhyasva rāja-śārdūla kuru kāryam anantaram.brāhmaṇāḥ bala-mukhyāḥ ca naigamāḥ ca āgatāḥ tu iha.. 23..
दर्शनं तेऽभिकांक्षन्ते प्रतिबुद्ध्यस्व राघव।स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्॥ २४॥
दर्शनम् ते अभिकांक्षन्ते प्रतिबुद्ध्यस्व राघव।स्तुवन्तम् तम् तदा सूतम् सुमन्त्रम् मन्त्र-कोविदम्॥ २४॥
darśanam te abhikāṃkṣante pratibuddhyasva rāghava.stuvantam tam tadā sūtam sumantram mantra-kovidam.. 24..
प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत्।राममानय सूतेति यदस्यभिहितो मया॥ २५॥
प्रतिबुद्ध्य ततस् राजा इदम् वचनम् अब्रवीत्।रामम् आनय सूत इति यत् असि अभिहितः मया॥ २५॥
pratibuddhya tatas rājā idam vacanam abravīt.rāmam ānaya sūta iti yat asi abhihitaḥ mayā.. 25..
किमिदं कारणं येन ममाज्ञा प्रतिवाह्यते।न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम्॥ २६॥
किम् इदम् कारणम् येन मम आज्ञा प्रतिवाह्यते।न च एव सम्प्रसुप्तः अहम् आनय इह आशु राघवम्॥ २६॥
kim idam kāraṇam yena mama ājñā prativāhyate.na ca eva samprasuptaḥ aham ānaya iha āśu rāghavam.. 26..
इति राजा दशरथः सूतं तत्रान्वशात् पुनः।स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्॥ २७॥
इति राजा दशरथः सूतम् तत्र अन्वशात् पुनर्।स राज-वचनम् श्रुत्वा शिरसा प्रतिपूज्य तम्॥ २७॥
iti rājā daśarathaḥ sūtam tatra anvaśāt punar.sa rāja-vacanam śrutvā śirasā pratipūjya tam.. 27..
निर्जगाम नृपावासान्मन्यमानः प्रियं महत्।प्रपन्नो राजमार्गं च पताकाध्वजशोभितम्॥ २८॥
निर्जगाम नृप-आवासात् मन्यमानः प्रियम् महत्।प्रपन्नः राजमार्गम् च पताका-ध्वज-शोभितम्॥ २८॥
nirjagāma nṛpa-āvāsāt manyamānaḥ priyam mahat.prapannaḥ rājamārgam ca patākā-dhvaja-śobhitam.. 28..
हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन्।स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः॥ २९॥
हृष्टः प्रमुदितः सूतः जगाम आशु विलोकयन्।स सूतः तत्र शुश्राव राम-अधिकरणाः कथाः॥ २९॥
hṛṣṭaḥ pramuditaḥ sūtaḥ jagāma āśu vilokayan.sa sūtaḥ tatra śuśrāva rāma-adhikaraṇāḥ kathāḥ.. 29..
अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत्।ततो ददर्श रुचिरं कैलाससदृशप्रभम्॥ ३०॥
अभिषेचन-संयुक्ताः सर्व-लोकस्य हृष्ट-वत्।ततस् ददर्श रुचिरम् कैलास-सदृश-प्रभम्॥ ३०॥
abhiṣecana-saṃyuktāḥ sarva-lokasya hṛṣṭa-vat.tatas dadarśa ruciram kailāsa-sadṛśa-prabham.. 30..
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्।महाकपाटपिहितं वितर्दिशतशोभितम्॥ ३१॥
राम-वेश्म सुमन्त्रः तु शक्र-वेश्म-सम-प्रभम्।महा-कपाट-पिहितम् वितर्दि-शत-शोभितम्॥ ३१॥
rāma-veśma sumantraḥ tu śakra-veśma-sama-prabham.mahā-kapāṭa-pihitam vitardi-śata-śobhitam.. 31..
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम्।शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहासमम्॥ ३२॥
काञ्चन-प्रतिमा-एकाग्रम् मणि-विद्रुम-तोरणम्।शारद-अभ्र-घन-प्रख्यम् दीप्तम् मेरु-गुहा-समम्॥ ३२॥
kāñcana-pratimā-ekāgram maṇi-vidruma-toraṇam.śārada-abhra-ghana-prakhyam dīptam meru-guhā-samam.. 32..
मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम्।मुक्तामणिभिराकीर्णं चन्दनागुरुभूषितम्॥ ३३॥
मणिभिः वर-माल्यानाम् सु महद्भिः अलंकृतम्।मुक्ता-मणिभिः आकीर्णम् चन्दन-अगुरु-भूषितम्॥ ३३॥
maṇibhiḥ vara-mālyānām su mahadbhiḥ alaṃkṛtam.muktā-maṇibhiḥ ākīrṇam candana-aguru-bhūṣitam.. 33..
गन्धान् मनोज्ञान् विसृजद् दार्दुरं शिखरं यथा।सारसैश्च मयूरैश्च विनदद्भिर्विराजितम्॥ ३४॥
गन्धान् मनोज्ञान् विसृजत् दार्दुरम् शिखरम् यथा।सारसैः च मयूरैः च विनदद्भिः विराजितम्॥ ३४॥
gandhān manojñān visṛjat dārduram śikharam yathā.sārasaiḥ ca mayūraiḥ ca vinadadbhiḥ virājitam.. 34..
सुकृतेहामृगाकीर्णमुत्कीर्णं भक्तिभिस्तथा।मनश्चक्षुश्च भूतानामाददत् तिग्मतेजसा॥ ३५॥
सुकृत-ईहामृग-आकीर्णम् उत्कीर्णम् भक्तिभिः तथा।मनः चक्षुः च भूतानाम् आददत् तिग्म-तेजसा॥ ३५॥
sukṛta-īhāmṛga-ākīrṇam utkīrṇam bhaktibhiḥ tathā.manaḥ cakṣuḥ ca bhūtānām ādadat tigma-tejasā.. 35..
चन्द्रभास्करसंकाशं कुबेरभवनोपमम्।महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम्॥ ३६॥
चन्द्र-भास्कर-संकाशम् कुबेर-भवन-उपमम्।महा-इन्द्र-धाम-प्रतिमम् नाना पक्षि-समाकुलम्॥ ३६॥
candra-bhāskara-saṃkāśam kubera-bhavana-upamam.mahā-indra-dhāma-pratimam nānā pakṣi-samākulam.. 36..
मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह।उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः॥ ३७॥
मेरु-शृङ्ग-समम् सूतः राम-वेश्म ददर्श ह।उपस्थितैः समाकीर्णम् जनैः अञ्जलि-कारिभिः॥ ३७॥
meru-śṛṅga-samam sūtaḥ rāma-veśma dadarśa ha.upasthitaiḥ samākīrṇam janaiḥ añjali-kāribhiḥ.. 37..
उपादाय समाक्रान्तैस्तदा जानपदैर्जनैः।रामाभिषेकसुमुखैरुन्मुखैः समलंकृतम्॥ ३८॥
उपादाय समाक्रान्तैः तदा जानपदैः जनैः।राम-अभिषेक-सुमुखैः उन्मुखैः समलंकृतम्॥ ३८॥
upādāya samākrāntaiḥ tadā jānapadaiḥ janaiḥ.rāma-abhiṣeka-sumukhaiḥ unmukhaiḥ samalaṃkṛtam.. 38..
महामेघसमप्रख्यमुदग्रं सुविराजितम्।नानारत्नसमाकीर्णं कुब्जकैरपि चावृतम्॥ ३९॥
महा-मेघ-सम-प्रख्यम् उदग्रम् सुविराजितम्।नाना रत्न-समाकीर्णम् कुब्जकैः अपि च आवृतम्॥ ३९॥
mahā-megha-sama-prakhyam udagram suvirājitam.nānā ratna-samākīrṇam kubjakaiḥ api ca āvṛtam.. 39..
स वाजियुक्तेन रथेन सारथिः समाकुलं राजकुलं विराजयन्।वरूथिना राजगृहाभिपातिना पुरस्य सर्वस्य मनांसि हर्षयन्॥ ४०॥
स वाजि-युक्तेन रथेन सारथिः समाकुलम् राज-कुलम् विराजयन्।वरूथिना राजगृह-अभिपातिना पुरस्य सर्वस्य मनांसि हर्षयन्॥ ४०॥
sa vāji-yuktena rathena sārathiḥ samākulam rāja-kulam virājayan.varūthinā rājagṛha-abhipātinā purasya sarvasya manāṃsi harṣayan.. 40..
ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथिः।मृगैर्मयूरैश्च समाकुलोल्बणं गृहं वरार्हस्य शचीपतेरिव॥ ४१॥
ततस् समासाद्य महाधनम् महत् प्रहृष्ट-रोमा स बभूव सारथिः।मृगैः मयूरैः च समाकुल-उल्बणम् गृहम् वर-अर्हस्य शचीपतेः इव॥ ४१॥
tatas samāsādya mahādhanam mahat prahṛṣṭa-romā sa babhūva sārathiḥ.mṛgaiḥ mayūraiḥ ca samākula-ulbaṇam gṛham vara-arhasya śacīpateḥ iva.. 41..
स तत्र कैलासनिभाः स्वलंकृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः।प्रियान् वरान् राममते स्थितान् बहून् व्यपोह्य शुद्धान्तमुपस्थितौ रथी॥ ४२॥
स तत्र कैलास-निभाः सु अलंकृताः प्रविश्य कक्ष्याः त्रिदशालय-उपमाः।प्रियान् वरान् राम-मते स्थितान् बहून् व्यपोह्य शुद्धान्तम् उपस्थितौ रथी॥ ४२॥
sa tatra kailāsa-nibhāḥ su alaṃkṛtāḥ praviśya kakṣyāḥ tridaśālaya-upamāḥ.priyān varān rāma-mate sthitān bahūn vyapohya śuddhāntam upasthitau rathī.. 42..
स तत्र शुश्राव च हर्षयुक्ता रामाभिषेकार्थकृतां जनानाम्।नरेन्द्रसूनोरभिमङ्गलार्थाः सर्वस्य लोकस्य गिरः प्रहृष्टाः॥ ४३॥
स तत्र शुश्राव च हर्ष-युक्ताः राम-अभिषेक-अर्थ-कृताम् जनानाम्।नरेन्द्र-सूनोः अभिमङ्गल-अर्थाः सर्वस्य लोकस्य गिरः प्रहृष्टाः॥ ४३॥
sa tatra śuśrāva ca harṣa-yuktāḥ rāma-abhiṣeka-artha-kṛtām janānām.narendra-sūnoḥ abhimaṅgala-arthāḥ sarvasya lokasya giraḥ prahṛṣṭāḥ.. 43..
महेन्द्रसद्मप्रतिमं च वेश्म रामस्य रम्यं मृगपक्षिजुष्टम्।ददर्श मेरोरिव शृङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः॥ ४४॥
महा-इन्द्र-सद्म-प्रतिमम् च वेश्म रामस्य रम्यम् मृग-पक्षि-जुष्टम्।ददर्श मेरोः इव शृङ्गम् उच्चम् विभ्राजमानम् प्रभया सुमन्त्रः॥ ४४॥
mahā-indra-sadma-pratimam ca veśma rāmasya ramyam mṛga-pakṣi-juṣṭam.dadarśa meroḥ iva śṛṅgam uccam vibhrājamānam prabhayā sumantraḥ.. 44..
उपस्थितैरञ्जलिकारिभिश्च सोपायनैर्जानपदैर्जनैश्च।कोट्या परार्धैश्च विमुक्तयानैः समाकुलं द्वारपदं ददर्श॥ ४५॥
उपस्थितैः अञ्जलि-कारिभिः च स उपायनैः जानपदैः जनैः च।कोट्या परार्धैः च विमुक्त-यानैः समाकुलम् द्वार-पदम् ददर्श॥ ४५॥
upasthitaiḥ añjali-kāribhiḥ ca sa upāyanaiḥ jānapadaiḥ janaiḥ ca.koṭyā parārdhaiḥ ca vimukta-yānaiḥ samākulam dvāra-padam dadarśa.. 45..
ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमत्यसह्यम्।रामोपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम्॥ ४६॥
ततस् महा-मेघ-महीधर-आभम् प्रभिन्नम् अत्यङ्कुशम् अत्यसह्यम्।राम-उपवाह्यम् रुचिरम् ददर्श शत्रुञ्जयम् नागम् उदग्र-कायम्॥ ४६॥
tatas mahā-megha-mahīdhara-ābham prabhinnam atyaṅkuśam atyasahyam.rāma-upavāhyam ruciram dadarśa śatruñjayam nāgam udagra-kāyam.. 46..
स्वलंकृतान् साश्वरथान् सकुञ्जरा- नमात्यमुख्यांश्च ददर्श वल्लभान्।व्यपोह्य सूतः सहितान् समन्ततः समृद्धमन्तःपुरमाविवेश ह॥ ४७॥
सु अलंकृतान् स अश्व-रथान् स कुञ्जर-अन् अमात्य-मुख्यान् च ददर्श वल्लभान्।व्यपोह्य सूतः सहितान् समन्ततः समृद्धम् अन्तःपुरम् आविवेश ह॥ ४७॥
su alaṃkṛtān sa aśva-rathān sa kuñjara-an amātya-mukhyān ca dadarśa vallabhān.vyapohya sūtaḥ sahitān samantataḥ samṛddham antaḥpuram āviveśa ha.. 47..
ततोऽद्रिकूटाचलमेघसंनिभं महाविमानोपमवेश्मसंयुतम्।अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम्॥ ४८॥
ततस् अद्रि-कूट-अचल-मेघ-संनिभम् महा-विमान-उपम-वेश्म-संयुतम्।अ वार्यमाणः प्रविवेश सारथिः प्रभूत-रत्नम् मकरः यथा अर्णवम्॥ ४८॥
tatas adri-kūṭa-acala-megha-saṃnibham mahā-vimāna-upama-veśma-saṃyutam.a vāryamāṇaḥ praviveśa sārathiḥ prabhūta-ratnam makaraḥ yathā arṇavam.. 48..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चदशः सर्गः ॥२-१५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे पञ्चदशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe pañcadaśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In