This overlay will guide you through the buttons:

| |
|
स तदन्तःपुरद्वारं समतीत्य जनाकुलम्।प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्॥ १॥
स तत् अन्तःपुर-द्वारम् समतीत्य जन-आकुलम्।प्रविविक्ताम् ततस् कक्ष्याम् आससाद पुराण-विद्॥ १॥
sa tat antaḥpura-dvāram samatītya jana-ākulam.praviviktām tatas kakṣyām āsasāda purāṇa-vid.. 1..
प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः । अप्रमादिभिरेकाग्रैः स्वानुरक्तैरधिष्ठिताम्॥ २॥
प्रास-कार्मुक-बिभ्रद्भिः युवभिः मृष्ट-कुण्डलैः । अप्रमादिभिः एकाग्रैः स्व-अनुरक्तैः अधिष्ठिताम्॥ २॥
prāsa-kārmuka-bibhradbhiḥ yuvabhiḥ mṛṣṭa-kuṇḍalaiḥ . apramādibhiḥ ekāgraiḥ sva-anuraktaiḥ adhiṣṭhitām.. 2..
तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान्।ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् समाहितान्॥ ३॥
तत्र काषायिणः वृद्धान् वेत्र-पाणीन् सु अलंकृतान्।ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् समाहितान्॥ ३॥
tatra kāṣāyiṇaḥ vṛddhān vetra-pāṇīn su alaṃkṛtān.dadarśa viṣṭhitān dvāri stryadhyakṣān samāhitān.. 3..
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः।सहसोत्पतिताः सर्वे ह्यासनेभ्यः ससम्भ्रमाः॥ ४॥
ते समीक्ष्य समायान्तम् राम-प्रिय-चिकीर्षवः।सहसा उत्पतिताः सर्वे हि आसनेभ्यः स सम्भ्रमाः॥ ४॥
te samīkṣya samāyāntam rāma-priya-cikīrṣavaḥ.sahasā utpatitāḥ sarve hi āsanebhyaḥ sa sambhramāḥ.. 4..
तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः।क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति॥ ५॥
तान् उवाच विनीत-आत्मा सूतपुत्रः प्रदक्षिणः।क्षिप्रम् आख्यात रामाय सुमन्त्रः द्वारि तिष्ठति॥ ५॥
tān uvāca vinīta-ātmā sūtaputraḥ pradakṣiṇaḥ.kṣipram ākhyāta rāmāya sumantraḥ dvāri tiṣṭhati.. 5..
ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः।सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे॥ ६॥
ते रामम् उपसङ्गम्य भर्तुः प्रिय-चिकीर्षवः।सहभार्याय रामाय क्षिप्रम् एव आचचक्षिरे॥ ६॥
te rāmam upasaṅgamya bhartuḥ priya-cikīrṣavaḥ.sahabhāryāya rāmāya kṣipram eva ācacakṣire.. 6..
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः।तत्रैवानाययामास राघवः प्रियकाम्यया॥ ७॥
प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरम् पितुः।तत्र एव आनाययामास राघवः प्रिय-काम्यया॥ ७॥
prativeditam ājñāya sūtam abhyantaram pituḥ.tatra eva ānāyayāmāsa rāghavaḥ priya-kāmyayā.. 7..
तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम्।ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे॥ ८॥
तम् वैश्रवण-संकाशम् उपविष्टम् सु अलंकृतम्।ददर्श सूतः पर्यङ्के सौवर्णे स उत्तरच्छदे॥ ८॥
tam vaiśravaṇa-saṃkāśam upaviṣṭam su alaṃkṛtam.dadarśa sūtaḥ paryaṅke sauvarṇe sa uttaracchade.. 8..
वराहरुधिराभेण शुचिना च सुगन्धिना।अनुलिप्तं परार्घ्येन चन्दनेन परंतपम्॥ ९॥
वराह-रुधिर-आभेण शुचिना च सुगन्धिना।अनुलिप्तम् पर-अर्घ्येन चन्दनेन परंतपम्॥ ९॥
varāha-rudhira-ābheṇa śucinā ca sugandhinā.anuliptam para-arghyena candanena paraṃtapam.. 9..
स्थितया पार्श्वतश्चापि वालव्यजनहस्तया।उपेतं सीतया भूयश्चित्रया शशिनं यथा॥ १०॥
स्थितया पार्श्वतस् च अपि वाल-व्यजन-हस्तया।उपेतम् सीतया भूयस् चित्रया शशिनम् यथा॥ १०॥
sthitayā pārśvatas ca api vāla-vyajana-hastayā.upetam sītayā bhūyas citrayā śaśinam yathā.. 10..
तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा।ववन्दे वरदं वन्दी विनयज्ञो विनीतवत्॥ ११॥
तम् तपन्तम् इव आदित्यम् उपपन्नम् स्व-तेजसा।ववन्दे वर-दम् वन्दी विनय-ज्ञः विनीत-वत्॥ ११॥
tam tapantam iva ādityam upapannam sva-tejasā.vavande vara-dam vandī vinaya-jñaḥ vinīta-vat.. 11..
प्राञ्जलिः सुमुखं दृष्ट्वा विहारशयनासने।राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः॥ १२॥
प्राञ्जलिः सु मुखम् दृष्ट्वा विहार-शयन-आसने।राज-पुत्रम् उवाच इदम् सुमन्त्रः राज-सत्कृतः॥ १२॥
prāñjaliḥ su mukham dṛṣṭvā vihāra-śayana-āsane.rāja-putram uvāca idam sumantraḥ rāja-satkṛtaḥ.. 12..
कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति।महिष्यापि हि कैकेय्या गम्यतां तत्र मा चिरम्॥ १३॥
कौसल्या सुप्रजाः राम पिता त्वाम् द्रष्टुम् इच्छति।महिष्या अपि हि कैकेय्या गम्यताम् तत्र मा चिरम्॥ १३॥
kausalyā suprajāḥ rāma pitā tvām draṣṭum icchati.mahiṣyā api hi kaikeyyā gamyatām tatra mā ciram.. 13..
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः।ततः सम्मानयामास सीतामिदमुवाच ह॥ १४॥
एवम् उक्तः तु संहृष्टः नर-सिंहः महा-द्युतिः।ततस् सम्मानयामास सीताम् इदम् उवाच ह॥ १४॥
evam uktaḥ tu saṃhṛṣṭaḥ nara-siṃhaḥ mahā-dyutiḥ.tatas sammānayāmāsa sītām idam uvāca ha.. 14..
देवि देवश्च देवी च समागम्य मदन्तरे।मन्त्रयेते ध्रुवं किंचिदभिषेचनसंहितम्॥ १५॥
देवि देवः च देवी च समागम्य मद्-अन्तरे।मन्त्रयेते ध्रुवम् किंचिद् अभिषेचन-संहितम्॥ १५॥
devi devaḥ ca devī ca samāgamya mad-antare.mantrayete dhruvam kiṃcid abhiṣecana-saṃhitam.. 15..
लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा।संचोदयति राजानं मदर्थमसितेक्षणा॥ १६॥
लक्षयित्वा हि अभिप्रायम् प्रिय-कामा सु दक्षिणा।संचोदयति राजानम् मद्-अर्थम् असित-ईक्षणा॥ १६॥
lakṣayitvā hi abhiprāyam priya-kāmā su dakṣiṇā.saṃcodayati rājānam mad-artham asita-īkṣaṇā.. 16..
सा प्रहृष्टा महाराजं हितकामानुवर्तिनी।जननी चार्थकामा मे केकयाधिपतेः सुता॥ १७॥
सा प्रहृष्टा महा-राजम् हित-काम-अनुवर्तिनी।जननी च अर्थ-कामा मे केकय-अधिपतेः सुता॥ १७॥
sā prahṛṣṭā mahā-rājam hita-kāma-anuvartinī.jananī ca artha-kāmā me kekaya-adhipateḥ sutā.. 17..
दिष्ट्या खलु महाराजो महिष्या प्रियया सह।सुमन्त्रं प्राहिणोद् दूतमर्थकामकरं मम॥ १८॥
दिष्ट्या खलु महा-राजः महिष्या प्रियया सह।सुमन्त्रम् प्राहिणोत् दूतम् अर्थ-काम-करम् मम॥ १८॥
diṣṭyā khalu mahā-rājaḥ mahiṣyā priyayā saha.sumantram prāhiṇot dūtam artha-kāma-karam mama.. 18..
यादृशी परिषत् तत्र तादृशो दूत आगतः।ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति॥ १९॥
यादृशी परिषद् तत्र तादृशः दूतः आगतः।ध्रुवम् अद्य एव माम् राजा यौवराज्ये अभिषेक्ष्यति॥ १९॥
yādṛśī pariṣad tatra tādṛśaḥ dūtaḥ āgataḥ.dhruvam adya eva mām rājā yauvarājye abhiṣekṣyati.. 19..
हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्।सह त्वं परिवारेण सुखमास्स्व रमस्व च॥ २०॥
हन्त शीघ्रम् इतस् गत्वा द्रक्ष्यामि च महीपतिम्।सह त्वम् परिवारेण सुखम् आस्स्व रमस्व च॥ २०॥
hanta śīghram itas gatvā drakṣyāmi ca mahīpatim.saha tvam parivāreṇa sukham āssva ramasva ca.. 20..
पतिसम्मानिता सीता भर्तारमसितेक्षणा।आ द्वारमनुवव्राज मङ्गलान्यभिदध्युषी॥ २१॥
पति-सम्मानिता सीता भर्तारम् असित-ईक्षणा।आ द्वारम् अनुवव्राज मङ्गलानि अभिदध्युषी॥ २१॥
pati-sammānitā sītā bhartāram asita-īkṣaṇā.ā dvāram anuvavrāja maṅgalāni abhidadhyuṣī.. 21..
राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्।कर्तुमर्हति ते राजा वासवस्येव लोककृत्॥ २२॥
राज्यम् द्विजातिभिः जुष्टम् राजसूय-अभिषेचनम्।कर्तुम् अर्हति ते राजा वासवस्य इव लोक-कृत्॥ २२॥
rājyam dvijātibhiḥ juṣṭam rājasūya-abhiṣecanam.kartum arhati te rājā vāsavasya iva loka-kṛt.. 22..
दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्।कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम्॥ २३॥
दीक्षितम् व्रत-सम्पन्नम् वर-अजिन-धरम् शुचिम्।कुरङ्ग-शृङ्ग-पाणिम् च पश्यन्ती त्वाम् भजामि अहम्॥ २३॥
dīkṣitam vrata-sampannam vara-ajina-dharam śucim.kuraṅga-śṛṅga-pāṇim ca paśyantī tvām bhajāmi aham.. 23..
पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः।वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्॥ २४॥
पूर्वाम् दिशम् वज्रधरः दक्षिणाम् पातु ते यमः।वरुणः पश्चिमाम् आशाम् धनेशः तु उत्तराम् दिशम्॥ २४॥
pūrvām diśam vajradharaḥ dakṣiṇām pātu te yamaḥ.varuṇaḥ paścimām āśām dhaneśaḥ tu uttarām diśam.. 24..
अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः।निश्चक्राम सुमन्त्रेण सह रामो निवेशनात्॥ २५॥
अथ सीताम् अनुज्ञाप्य कृत-कौतुकमङ्गलः।निश्चक्राम सुमन्त्रेण सह रामः निवेशनात्॥ २५॥
atha sītām anujñāpya kṛta-kautukamaṅgalaḥ.niścakrāma sumantreṇa saha rāmaḥ niveśanāt.. 25..
पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः।लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम्॥ २६॥
पर्वतात् इव निष्क्रम्य सिंहः गिरि-गुहा-आशयः।लक्ष्मणम् द्वारि सः अपश्यत् प्रह्व-अञ्जलि-पुटम् स्थितम्॥ २६॥
parvatāt iva niṣkramya siṃhaḥ giri-guhā-āśayaḥ.lakṣmaṇam dvāri saḥ apaśyat prahva-añjali-puṭam sthitam.. 26..
अथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः।स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च॥ २७॥
अथ मध्यम-कक्ष्यायाम् समागच्छत् सुहृद्-जनैः।स सर्व-अनर्थिनः दृष्ट्वा समेत्य प्रतिनन्द्य च॥ २७॥
atha madhyama-kakṣyāyām samāgacchat suhṛd-janaiḥ.sa sarva-anarthinaḥ dṛṣṭvā sametya pratinandya ca.. 27..
ततः पावकसंकाशमारुरोह रथोत्तमम्।वैयाघ्रं पुरुषव्याघ्रो राजितं राजनन्दनः॥ २८॥
ततस् पावक-संकाशम् आरुरोह रथ-उत्तमम्।वैयाघ्रम् पुरुष-व्याघ्रः राजितम् राज-नन्दनः॥ २८॥
tatas pāvaka-saṃkāśam āruroha ratha-uttamam.vaiyāghram puruṣa-vyāghraḥ rājitam rāja-nandanaḥ.. 28..
मेघनादमसम्बाधं मणिहेमविभूषितम्।मुष्णन्तमिव चक्षूंषि प्रभया मेरुवर्चसम्॥ २९॥
मेघ-नादम् असंबाधम् मणि-हेम-विभूषितम्।मुष्णन्तम् इव चक्षूंषि प्रभया मेरु-वर्चसम्॥ २९॥
megha-nādam asaṃbādham maṇi-hema-vibhūṣitam.muṣṇantam iva cakṣūṃṣi prabhayā meru-varcasam.. 29..
करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः।हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्॥ ३०॥
करेणु-शिशु-कल्पैः च युक्तम् परम-वाजिभिः।हरि-युक्तम् सहस्राक्षः रथम् इन्द्रः इव आशु-गम्॥ ३०॥
kareṇu-śiśu-kalpaiḥ ca yuktam parama-vājibhiḥ.hari-yuktam sahasrākṣaḥ ratham indraḥ iva āśu-gam.. 30..
प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया।स पर्जन्य इवाकाशे स्वनवानभिनादयन्॥ ३१॥
प्रययौ तूर्णम् आस्थाय राघवः ज्वलितः श्रिया।स पर्जन्यः इव आकाशे स्वनवान् अभिनादयन्॥ ३१॥
prayayau tūrṇam āsthāya rāghavaḥ jvalitaḥ śriyā.sa parjanyaḥ iva ākāśe svanavān abhinādayan.. 31..
निकेतान्निर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः।चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः॥ ३२॥
निकेतात् निर्ययौ श्रीमान् महा-अभ्रात् इव चन्द्रमाः।चित्र-चामर-पाणिः तु लक्ष्मणः राघव-अनुजः॥ ३२॥
niketāt niryayau śrīmān mahā-abhrāt iva candramāḥ.citra-cāmara-pāṇiḥ tu lakṣmaṇaḥ rāghava-anujaḥ.. 32..
जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः।ततो हलहलाशब्दस्तुमुलः समजायत॥ ३३॥
जुगोप भ्रातरम् भ्राता रथम् आस्थाय पृष्ठतस्।ततस् हलहला शब्दः तुमुलः समजायत॥ ३३॥
jugopa bhrātaram bhrātā ratham āsthāya pṛṣṭhatas.tatas halahalā śabdaḥ tumulaḥ samajāyata.. 33..
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः।ततो हयवरा मुख्या नागाश्च गिरिसंनिभाः॥ ३४॥
तस्य निष्क्रममाणस्य जन-ओघस्य समन्ततः।ततस् हय-वराः मुख्याः नागाः च गिरि-संनिभाः॥ ३४॥
tasya niṣkramamāṇasya jana-oghasya samantataḥ.tatas haya-varāḥ mukhyāḥ nāgāḥ ca giri-saṃnibhāḥ.. 34..
अनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः।अग्रतश्चास्य संनद्धाश्चन्दनागुरुभूषिताः॥ ३५॥
अनुजग्मुः तथा रामम् शतशस् अथ सहस्रशस्।अग्रतस् च अस्य संनद्धाः चन्दन-अगुरु-भूषिताः॥ ३५॥
anujagmuḥ tathā rāmam śataśas atha sahasraśas.agratas ca asya saṃnaddhāḥ candana-aguru-bhūṣitāḥ.. 35..
खड्गचापधराः शूरा जग्मुराशंसवो जनाः।ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम्॥ ३६॥
खड्ग-चाप-धराः शूराः जग्मुः आशंसवः जनाः।ततस् वादित्र-शब्दाः च स्तुति-शब्दाः च वन्दिनाम्॥ ३६॥
khaḍga-cāpa-dharāḥ śūrāḥ jagmuḥ āśaṃsavaḥ janāḥ.tatas vāditra-śabdāḥ ca stuti-śabdāḥ ca vandinām.. 36..
सिंहनादाश्च शूराणां ततः शुश्रुविरे पथि।हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः॥ ३७॥
सिंहनादाः च शूराणाम् ततस् शुश्रुविरे पथि।हर्म्य-वातायन-स्थाभिः भूषिताभिः समन्ततः॥ ३७॥
siṃhanādāḥ ca śūrāṇām tatas śuśruvire pathi.harmya-vātāyana-sthābhiḥ bhūṣitābhiḥ samantataḥ.. 37..
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिंदमः।रामं सर्वानवद्याङ्ग्यो रामपिप्रीषया ततः॥ ३८॥
कीर्यमाणः सु पुष्प-ओघैः ययौ स्त्रीभिः अरिंदमः।रामम् सर्व-अनवद्य-अङ्ग्यः राम-पिप्रीषया ततस्॥ ३८॥
kīryamāṇaḥ su puṣpa-oghaiḥ yayau strībhiḥ ariṃdamaḥ.rāmam sarva-anavadya-aṅgyaḥ rāma-piprīṣayā tatas.. 38..
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे।नूनं नन्दति ते माता कौसल्या मातृनन्दन॥ ३९॥
वचोभिः अग्र्यैः हर्म्य-स्थाः क्षिति-स्थाः च ववन्दिरे।नूनम् नन्दति ते माता कौसल्या मातृ-नन्दन॥ ३९॥
vacobhiḥ agryaiḥ harmya-sthāḥ kṣiti-sthāḥ ca vavandire.nūnam nandati te mātā kausalyā mātṛ-nandana.. 39..
पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमुपस्थितम्।सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम्॥ ४०॥
पश्यन्ती सिद्ध-यात्रम् त्वाम् पित्र्यम् राज्यम् उपस्थितम्।सर्व-सीमन्तिनीभ्यः च सीताम् सीमन्तिनीम् वराम्॥ ४०॥
paśyantī siddha-yātram tvām pitryam rājyam upasthitam.sarva-sīmantinībhyaḥ ca sītām sīmantinīm varām.. 40..
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्।तया सुचरितं देव्या पुरा नूनं महत् तपः॥ ४१॥
अमन्यन्त हि ताः नार्यः रामस्य हृदय-प्रियाम्।तया सु चरितम् देव्या पुरा नूनम् महत् तपः॥ ४१॥
amanyanta hi tāḥ nāryaḥ rāmasya hṛdaya-priyām.tayā su caritam devyā purā nūnam mahat tapaḥ.. 41..
रोहिणीव शशाङ्केन रामसंयोगमाप या।इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः।शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः॥ ४२॥
रोहिणी इव शशाङ्केन राम-संयोगम् आप या।इति प्रासाद-शृङ्गेषु प्रमदाभिः नर-उत्तमः।शुश्राव राजमार्ग-स्थः प्रियाः वाचः उदाहृताः॥ ४२॥
rohiṇī iva śaśāṅkena rāma-saṃyogam āpa yā.iti prāsāda-śṛṅgeṣu pramadābhiḥ nara-uttamaḥ.śuśrāva rājamārga-sthaḥ priyāḥ vācaḥ udāhṛtāḥ.. 42..
स राघवस्तत्र तदा प्रलापान् शुश्राव लोकस्य समागतस्य।आत्माधिकारा विविधाश्च वाचः प्रहृष्टरूपस्य पुरे जनस्य॥ ४३॥
स राघवः तत्र तदा प्रलापान् शुश्राव लोकस्य समागतस्य।आत्म-अधिकाराः विविधाः च वाचः प्रहृष्ट-रूपस्य पुरे जनस्य॥ ४३॥
sa rāghavaḥ tatra tadā pralāpān śuśrāva lokasya samāgatasya.ātma-adhikārāḥ vividhāḥ ca vācaḥ prahṛṣṭa-rūpasya pure janasya.. 43..
एष श्रियं गच्छति राघवोऽद्य राजप्रसादाद् विपुलां गमिष्यन्।एते वयं सर्वसमृद्धकामा येषामयं नो भविता प्रशास्ता॥ ४४॥
एष श्रियम् गच्छति राघवः अद्य राज-प्रसादात् विपुलाम् गमिष्यन्।एते वयम् सर्व-समृद्ध-कामाः येषाम् अयम् नः भविता प्रशास्ता॥ ४४॥
eṣa śriyam gacchati rāghavaḥ adya rāja-prasādāt vipulām gamiṣyan.ete vayam sarva-samṛddha-kāmāḥ yeṣām ayam naḥ bhavitā praśāstā.. 44..
लाभो जनस्यास्य यदेष सर्वं प्रपत्स्यते राष्ट्रमिदं चिराय।न ह्यप्रियं किंचन जातु कश्चित् पश्येन्न दुःखं मनुजाधिपेऽस्मिन्॥ ४५॥
लाभः जनस्य अस्य यत् एष सर्वम् प्रपत्स्यते राष्ट्रम् इदम् चिराय।न हि अप्रियम् किंचन जातु कश्चिद् पश्येत् न दुःखम् मनुज-अधिपे अस्मिन्॥ ४५॥
lābhaḥ janasya asya yat eṣa sarvam prapatsyate rāṣṭram idam cirāya.na hi apriyam kiṃcana jātu kaścid paśyet na duḥkham manuja-adhipe asmin.. 45..
स घोषवद्भिश्च हयैः सनागैः पुरःसरैः स्वस्तिकसूतमागधैः।महीयमानः प्रवरैश्च वादकै- रभिष्टुतो वैश्रवणो यथा ययौ॥ ४६॥
स घोषवद्भिः च हयैः स नागैः पुरःसरैः स्वस्तिक-सूत-मागधैः।महीयमानः प्रवरैः च वादकैः अभिष्टुतः वैश्रवणः यथा ययौ॥ ४६॥
sa ghoṣavadbhiḥ ca hayaiḥ sa nāgaiḥ puraḥsaraiḥ svastika-sūta-māgadhaiḥ.mahīyamānaḥ pravaraiḥ ca vādakaiḥ abhiṣṭutaḥ vaiśravaṇaḥ yathā yayau.. 46..
करेणुमातङ्गरथाश्वसंकुलं महाजनौघैः परिपूर्णचत्वरम्।प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो विमलं महापथम्॥ ४७॥
करेणु-मातङ्ग-रथ-अश्व-संकुलम् महा-जन-ओघैः परिपूर्ण-चत्वरम्।प्रभूत-रत्नम् बहु-पण्य-संचयम् ददर्श रामः विमलम् महापथम्॥ ४७॥
kareṇu-mātaṅga-ratha-aśva-saṃkulam mahā-jana-oghaiḥ paripūrṇa-catvaram.prabhūta-ratnam bahu-paṇya-saṃcayam dadarśa rāmaḥ vimalam mahāpatham.. 47..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे षोडशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe ṣoḍaśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In