This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टादशः सर्गः ॥२-१८॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टादशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭādaśaḥ sargaḥ ..2..
स ददर्शासने रामो विषण्णं पितरं शुभे।कैकेय्या सहितं दीनं मुखेन परिशुष्यता॥ १॥
स ददर्श आसने रामः विषण्णम् पितरम् शुभे।कैकेय्या सहितम् दीनम् मुखेन परिशुष्यता॥ १॥
sa dadarśa āsane rāmaḥ viṣaṇṇam pitaram śubhe.kaikeyyā sahitam dīnam mukhena pariśuṣyatā.. 1..
स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्।ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः॥ २॥
स पितुः चरणौ पूर्वम् अभिवाद्य विनीत-वत्।ततस् ववन्दे चरणौ कैकेय्याः सु समाहितः॥ २॥
sa pituḥ caraṇau pūrvam abhivādya vinīta-vat.tatas vavande caraṇau kaikeyyāḥ su samāhitaḥ.. 2..
रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः।शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्॥ ३॥
राम इति उक्त्वा तु वचनम् बाष्प-पर्याकुल-ईक्षणः।शशाक नृपतिः दीनः ना ईक्षितुम् ना अभिभाषितुम्॥ ३॥
rāma iti uktvā tu vacanam bāṣpa-paryākula-īkṣaṇaḥ.śaśāka nṛpatiḥ dīnaḥ nā īkṣitum nā abhibhāṣitum.. 3..
तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्।रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्॥ ४॥
तत् अपूर्वम् नरपतेः दृष्ट्वा रूपम् भय-आवहम्।रामः अपि भयम् आपन्नः पदा स्पृष्ट्वा इव पन्नगम्॥ ४॥
tat apūrvam narapateḥ dṛṣṭvā rūpam bhaya-āvaham.rāmaḥ api bhayam āpannaḥ padā spṛṣṭvā iva pannagam.. 4..
इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम्।निःश्वसन्तं महाराजं व्यथिताकुलचेतसम्॥ ५॥
इन्द्रियैः अप्रहृष्टैः तम् शोक-संताप-कर्शितम्।निःश्वसन्तम् महा-राजम् व्यथित-आकुल-चेतसम्॥ ५॥
indriyaiḥ aprahṛṣṭaiḥ tam śoka-saṃtāpa-karśitam.niḥśvasantam mahā-rājam vyathita-ākula-cetasam.. 5..
ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्।उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा॥ ६॥
ऊर्मिमालिनम् अक्षोभ्यम् क्षुभ्यन्तम् इव सागरम्।उपप्लुतम् इव आदित्यम् उक्त-अनृतम् ऋषिम् यथा॥ ६॥
ūrmimālinam akṣobhyam kṣubhyantam iva sāgaram.upaplutam iva ādityam ukta-anṛtam ṛṣim yathā.. 6..
अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन्।बभूव संरब्धतरः समुद्र इव पर्वणि॥ ७॥
अचिन्त्य-कल्पम् नृपतेः तम् शोकम् उपधारयन्।बभूव संरब्धतरः समुद्रः इव पर्वणि॥ ७॥
acintya-kalpam nṛpateḥ tam śokam upadhārayan.babhūva saṃrabdhataraḥ samudraḥ iva parvaṇi.. 7..
चिन्तयामास चतुरो रामः पितृहिते रतः।किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति॥ ८॥
चिन्तयामास चतुरः रामः पितृ-हिते रतः।किम् स्विद् अद्या एव नृपतिः न माम् प्रत्यभिनन्दति॥ ८॥
cintayāmāsa caturaḥ rāmaḥ pitṛ-hite rataḥ.kim svid adyā eva nṛpatiḥ na mām pratyabhinandati.. 8..
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति।तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते॥ ९॥
अन्यदा माम् पिता दृष्ट्वा कुपितः अपि प्रसीदति।तस्य माम् अद्य सम्प्रेक्ष्य किम् आयासः प्रवर्तते॥ ९॥
anyadā mām pitā dṛṣṭvā kupitaḥ api prasīdati.tasya mām adya samprekṣya kim āyāsaḥ pravartate.. 9..
स दीन इव शोकार्तो विषण्णवदनद्युतिः।कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्॥ १०॥
स दीनः इव शोक-आर्तः विषण्ण-वदन-द्युतिः।कैकेयीम् अभिवाद्य एव रामः वचनम् अब्रवीत्॥ १०॥
sa dīnaḥ iva śoka-ārtaḥ viṣaṇṇa-vadana-dyutiḥ.kaikeyīm abhivādya eva rāmaḥ vacanam abravīt.. 10..
कच्चिन्मया नापराद्धमज्ञानाद् येन मे पिता।कुपितस्तन्ममाचक्ष्व त्वमेवैनं प्रसादय॥ ११॥
कच्चित् मया न अपराद्धम् अज्ञानात् येन मे पिता।कुपितः तत् मम आचक्ष्व त्वम् एव एनम् प्रसादय॥ ११॥
kaccit mayā na aparāddham ajñānāt yena me pitā.kupitaḥ tat mama ācakṣva tvam eva enam prasādaya.. 11..
अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः।विषण्णवदनो दीनः नहि मां प्रति भाषते॥ १२॥
अप्रसन्न-मनाः किम् नु सदा माम् प्रति वत्सलः।विषण्ण-वदनः दीनः नहि माम् प्रति भाषते॥ १२॥
aprasanna-manāḥ kim nu sadā mām prati vatsalaḥ.viṣaṇṇa-vadanaḥ dīnaḥ nahi mām prati bhāṣate.. 12..
शारीरो मानसो वापि कच्चिदेनं न बाधते।संतापो वाभितापो वा दुर्लभं हि सदा सुखम्॥ १३॥
शारीरः मानसः वा अपि कच्चित् एनम् न बाधते।संतापः वा अभितापः वा दुर्लभम् हि सदा सुखम्॥ १३॥
śārīraḥ mānasaḥ vā api kaccit enam na bādhate.saṃtāpaḥ vā abhitāpaḥ vā durlabham hi sadā sukham.. 13..
कच्चिन्न किंचिद् भरते कुमारे प्रियदर्शने।शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम्॥ १४॥
कच्चित् न किंचिद् भरते कुमारे प्रिय-दर्शने।शत्रुघ्ने वा महासत्त्वे मातॄणाम् वा मम अशुभम्॥ १४॥
kaccit na kiṃcid bharate kumāre priya-darśane.śatrughne vā mahāsattve mātṝṇām vā mama aśubham.. 14..
अतोषयन् महाराजमकुर्वन् वा पितुर्वचः।मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे॥ १५॥
अतोषयन् महा-राजम् अकुर्वन् वा पितुः वचः।मुहूर्तम् अपि ना इच्छेयम् जीवितुम् कुपिते नृपे॥ १५॥
atoṣayan mahā-rājam akurvan vā pituḥ vacaḥ.muhūrtam api nā iccheyam jīvitum kupite nṛpe.. 15..
यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः।कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते॥ १६॥
यतोमूलम् नरः पश्येत् प्रादुर्भावम् इह आत्मनः।कथम् तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते॥ १६॥
yatomūlam naraḥ paśyet prādurbhāvam iha ātmanaḥ.katham tasmin na varteta pratyakṣe sati daivate.. 16..
कच्चित्ते परुषं किंचिदभिमानात् पिता मम।उक्तो भवत्या रोषेण येनास्य लुलितं मनः॥ १७॥
कच्चित् ते परुषम् किंचिद् अभिमानात् पिता मम।उक्तः भवत्या रोषेण येन अस्य लुलितम् मनः॥ १७॥
kaccit te paruṣam kiṃcid abhimānāt pitā mama.uktaḥ bhavatyā roṣeṇa yena asya lulitam manaḥ.. 17..
एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः।किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे॥ १८॥
एतत् आचक्ष्व मे देवि तत्त्वेन परिपृच्छतः।किंनिमित्तम् अपूर्वः अयम् विकारः मनुज-अधिपे॥ १८॥
etat ācakṣva me devi tattvena paripṛcchataḥ.kiṃnimittam apūrvaḥ ayam vikāraḥ manuja-adhipe.. 18..
एवमुक्ता तु कैकेयी राघवेण महात्मना।उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः॥ १९॥
एवम् उक्ता तु कैकेयी राघवेण महात्मना।उवाच इदम् सु निर्लज्जा धृष्टम् आत्म-हितम् वचः॥ १९॥
evam uktā tu kaikeyī rāghaveṇa mahātmanā.uvāca idam su nirlajjā dhṛṣṭam ātma-hitam vacaḥ.. 19..
न राजा कुपितो राम व्यसनं नास्य किंचन।किंचिन्मनोगतं त्वस्य त्वद्भयान्नानुभाषते॥ २०॥
न राजा कुपितः राम व्यसनम् न अस्य किंचन।किंचिद् मनोगतम् तु अस्य त्वद्-भयात् न अनुभाषते॥ २०॥
na rājā kupitaḥ rāma vyasanam na asya kiṃcana.kiṃcid manogatam tu asya tvad-bhayāt na anubhāṣate.. 20..
प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते।तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम॥ २१॥
प्रियम् त्वाम् अप्रियम् वक्तुम् वाणी न अस्य प्रवर्तते।तत् अवश्यम् त्वया कार्यम् यत् अनेन अश्रुतम् मम॥ २१॥
priyam tvām apriyam vaktum vāṇī na asya pravartate.tat avaśyam tvayā kāryam yat anena aśrutam mama.. 21..
एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च।स पश्चात् तप्यते राजा यथान्यः प्राकृतस्तथा॥ २२॥
एष मह्यम् वरम् दत्त्वा पुरा माम् अभिपूज्य च।स पश्चात् तप्यते राजा यथा अन्यः प्राकृतः तथा॥ २२॥
eṣa mahyam varam dattvā purā mām abhipūjya ca.sa paścāt tapyate rājā yathā anyaḥ prākṛtaḥ tathā.. 22..
अतिसृज्य ददानीति वरं मम विशाम्पतिः।स निरर्थं गतजले सेतुं बन्धितुमिच्छति॥ २३॥
अतिसृज्य ददानि इति वरम् मम विशाम् पतिः।स निरर्थम् गत-जले सेतुम् बन्धितुम् इच्छति॥ २३॥
atisṛjya dadāni iti varam mama viśām patiḥ.sa nirartham gata-jale setum bandhitum icchati.. 23..
धर्ममूलमिदं राम विदितं च सतामपि।तत् सत्यं न त्यजेद् राजा कुपितस्त्वत्कृते यथा॥ २४॥
धर्म-मूलम् इदम् राम विदितम् च सताम् अपि।तत् सत्यम् न त्यजेत् राजा कुपितः त्वद्-कृते यथा॥ २४॥
dharma-mūlam idam rāma viditam ca satām api.tat satyam na tyajet rājā kupitaḥ tvad-kṛte yathā.. 24..
यदि तद् वक्ष्यते राजा शुभं वा यदि वाशुभम्।करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम्॥ २५॥
यदि तत् वक्ष्यते राजा शुभम् वा यदि वा अशुभम्।करिष्यसि ततस् सर्वम् आख्यास्यामि पुनर् तु अहम्॥ २५॥
yadi tat vakṣyate rājā śubham vā yadi vā aśubham.kariṣyasi tatas sarvam ākhyāsyāmi punar tu aham.. 25..
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते।ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति॥ २६॥
यदि तु अभिहितम् राज्ञा त्वयि तत् न विपत्स्यते।ततस् अहम् अभिधास्यामि न हि एष त्वयि वक्ष्यति॥ २६॥
yadi tu abhihitam rājñā tvayi tat na vipatsyate.tatas aham abhidhāsyāmi na hi eṣa tvayi vakṣyati.. 26..
एतत् तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्।उवाच व्यथितो रामस्तां देवीं नृपसंनिधौ॥ २७॥
एतत् तु वचनम् श्रुत्वा कैकेय्या समुदाहृतम्।उवाच व्यथितः रामः ताम् देवीम् नृप-संनिधौ॥ २७॥
etat tu vacanam śrutvā kaikeyyā samudāhṛtam.uvāca vyathitaḥ rāmaḥ tām devīm nṛpa-saṃnidhau.. 27..
अहो धिङ् नार्हसे देवि वक्तुं मामीदृशं वचः।अहं हि वचनाद् राज्ञः पतेयमपि पावके॥ २८॥
अहो धिक् ना अर्हसे देवि वक्तुम् माम् ईदृशम् वचः।अहम् हि वचनात् राज्ञः पतेयम् अपि पावके॥ २८॥
aho dhik nā arhase devi vaktum mām īdṛśam vacaḥ.aham hi vacanāt rājñaḥ pateyam api pāvake.. 28..
भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे।नियुक्तो गुरुणा पित्रा नृपेण च हितेन च॥ २९॥
भक्षयेयम् विषम् तीक्ष्णम् पतेयम् अपि च अर्णवे।नियुक्तः गुरुणा पित्रा नृपेण च हितेन च॥ २९॥
bhakṣayeyam viṣam tīkṣṇam pateyam api ca arṇave.niyuktaḥ guruṇā pitrā nṛpeṇa ca hitena ca.. 29..
तद् ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम्।करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते॥ ३०॥
तत् ब्रूहि वचनम् देवि राज्ञः यत् अभिकांक्षितम्।करिष्ये प्रतिजाने च रामः द्विस् न अभिभाषते॥ ३०॥
tat brūhi vacanam devi rājñaḥ yat abhikāṃkṣitam.kariṣye pratijāne ca rāmaḥ dvis na abhibhāṣate.. 30..
तमार्जवसमायुक्तमनार्या सत्यवादिनम्।उवाच रामं कैकेयी वचनं भृशदारुणम्॥ ३१॥
तम् आर्जव-समायुक्तम् अनार्या सत्य-वादिनम्।उवाच रामम् कैकेयी वचनम् भृश-दारुणम्॥ ३१॥
tam ārjava-samāyuktam anāryā satya-vādinam.uvāca rāmam kaikeyī vacanam bhṛśa-dāruṇam.. 31..
पुरा देवासुरे युद्धे पित्रा ते मम राघव।रक्षितेन वरौ दत्तौ सशल्येन महारणे॥ ३२॥
पुरा देवासुरे युद्धे पित्रा ते मम राघव।रक्षितेन वरौ दत्तौ स शल्येन महा-रणे॥ ३२॥
purā devāsure yuddhe pitrā te mama rāghava.rakṣitena varau dattau sa śalyena mahā-raṇe.. 32..
तत्र मे याचितो राजा भरतस्याभिषेचनम्।गमनं दण्डकारण्ये तव चाद्यैव राघव॥ ३३॥
तत्र मे याचितः राजा भरतस्य अभिषेचनम्।गमनम् दण्डक-अरण्ये तव च अद्य एव राघव॥ ३३॥
tatra me yācitaḥ rājā bharatasya abhiṣecanam.gamanam daṇḍaka-araṇye tava ca adya eva rāghava.. 33..
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि।आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु॥ ३४॥
यदि सत्य-प्रतिज्ञम् त्वम् पितरम् कर्तुम् इच्छसि।आत्मानम् च नर-श्रेष्ठ मम वाक्यम् इदम् शृणु॥ ३४॥
yadi satya-pratijñam tvam pitaram kartum icchasi.ātmānam ca nara-śreṣṭha mama vākyam idam śṛṇu.. 34..
संनिदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम्।त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च॥ ३५॥
संनिदेशे पितुः तिष्ठ यथा अनेन प्रतिश्रुतम्।त्वया अरण्यम् प्रवेष्टव्यम् नव वर्षाणि पञ्च च॥ ३५॥
saṃnideśe pituḥ tiṣṭha yathā anena pratiśrutam.tvayā araṇyam praveṣṭavyam nava varṣāṇi pañca ca.. 35..
भरतश्चाभिषिच्येत यदेतदभिषेचनम्।त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव॥ ३६॥
भरतः च अभिषिच्येत यत् एतत् अभिषेचनम्।त्वद्-अर्थे विहितम् राज्ञा तेन सर्वेण राघव॥ ३६॥
bharataḥ ca abhiṣicyeta yat etat abhiṣecanam.tvad-arthe vihitam rājñā tena sarveṇa rāghava.. 36..
सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः।अभिषेकमिदं त्यक्त्वा जटाचीरधरो भव॥ ३७॥
सप्त सप्त च वर्षाणि दण्डक-अरण्यम् आश्रितः।अभिषेकम् इदम् त्यक्त्वा जटा-चीर-धरः भव॥ ३७॥
sapta sapta ca varṣāṇi daṇḍaka-araṇyam āśritaḥ.abhiṣekam idam tyaktvā jaṭā-cīra-dharaḥ bhava.. 37..
भरतः कोसलपतेः प्रशास्तु वसुधामिमाम्।नानारत्नसमाकीर्णां सवाजिरथसंकुलाम्॥ ३८॥
भरतः कोसल-पतेः प्रशास्तु वसुधाम् इमाम्।नाना रत्न-समाकीर्णाम् स वाजि-रथ-संकुलाम्॥ ३८॥
bharataḥ kosala-pateḥ praśāstu vasudhām imām.nānā ratna-samākīrṇām sa vāji-ratha-saṃkulām.. 38..
एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः।शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम्॥ ३९॥
एतेन त्वाम् नरेन्द्रः अयम् कारुण्येन समाप्लुतः।शोकैः संक्लिष्ट-वदनः न शक्नोति निरीक्षितुम्॥ ३९॥
etena tvām narendraḥ ayam kāruṇyena samāplutaḥ.śokaiḥ saṃkliṣṭa-vadanaḥ na śaknoti nirīkṣitum.. 39..
एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन।सत्येन महता राम तारयस्व नरेश्वरम्॥ ४०॥
एतत् कुरु नरेन्द्रस्य वचनम् रघुनन्दन।सत्येन महता राम तारयस्व नरेश्वरम्॥ ४०॥
etat kuru narendrasya vacanam raghunandana.satyena mahatā rāma tārayasva nareśvaram.. 40..
इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम्।प्रविव्यथे चापि महानुभावो राजा च पुत्रव्यसनाभितप्तः॥ ४१॥
इति इव तस्याम् परुषम् वदन्त्याम् न च एव रामः प्रविवेश शोकम्।प्रविव्यथे च अपि महा-अनुभावः राजा च पुत्र-व्यसन-अभितप्तः॥ ४१॥
iti iva tasyām paruṣam vadantyām na ca eva rāmaḥ praviveśa śokam.pravivyathe ca api mahā-anubhāvaḥ rājā ca putra-vyasana-abhitaptaḥ.. 41..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टादशः सर्गः ॥२-१८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे अष्टादशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe aṣṭādaśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In