This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनविंशः सर्गः ॥२-१९॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकोनविंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekonaviṃśaḥ sargaḥ ..2..
तदप्रियममित्रघ्नो वचनं मरणोपमम्।श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत्॥ १॥
तत् अप्रियम् अमित्र-घ्नः वचनम् मरण-उपमम्।श्रुत्वा न विव्यथे रामः कैकेयीम् च इदम् अब्रवीत्॥ १॥
tat apriyam amitra-ghnaḥ vacanam maraṇa-upamam.śrutvā na vivyathe rāmaḥ kaikeyīm ca idam abravīt.. 1..
एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः।जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन्॥ २॥
एवम् अस्तु गमिष्यामि वनम् वस्तुम् अहम् तु इतस्।जटा-चीर-धरः राज्ञः प्रतिज्ञाम् अनुपालयन्॥ २॥
evam astu gamiṣyāmi vanam vastum aham tu itas.jaṭā-cīra-dharaḥ rājñaḥ pratijñām anupālayan.. 2..
इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः।नाभिनन्दति दुर्धर्षो यथापूर्वमरिंदमः॥ ३॥
इदम् तु ज्ञातुम् इच्छामि किम् अर्थम् माम् महीपतिः।न अभिनन्दति दुर्धर्षः यथापूर्वम् अरिंदमः॥ ३॥
idam tu jñātum icchāmi kim artham mām mahīpatiḥ.na abhinandati durdharṣaḥ yathāpūrvam ariṃdamaḥ.. 3..
मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः।यास्यामि भव सुप्रीता वनं चीरजटाधरः॥ ४॥
मन्युः न च त्वया कार्यः देवि ब्रूमि तव अग्रतस्।यास्यामि भव सु प्रीता वनम् चीर-जटा-धरः॥ ४॥
manyuḥ na ca tvayā kāryaḥ devi brūmi tava agratas.yāsyāmi bhava su prītā vanam cīra-jaṭā-dharaḥ.. 4..
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च।नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम्॥ ५॥
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च।नियुज्यमानः विस्रब्धः किम् न कुर्याम् अहम् प्रियम्॥ ५॥
hitena guruṇā pitrā kṛtajñena nṛpeṇa ca.niyujyamānaḥ visrabdhaḥ kim na kuryām aham priyam.. 5..
अलीकं मानसं त्वेकं हृदयं दहते मम।स्वयं यन्नाह मां राजा भरतस्याभिषेचनम्॥ ६॥
अलीकम् मानसम् तु एकम् हृदयम् दहते मम।स्वयम् यन् ना आह माम् राजा भरतस्य अभिषेचनम्॥ ६॥
alīkam mānasam tu ekam hṛdayam dahate mama.svayam yan nā āha mām rājā bharatasya abhiṣecanam.. 6..
अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च।हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः॥ ७॥
अहम् हि सीताम् राज्यम् च प्राणान् इष्टान् धनानि च।हृष्टः भ्रात्रे स्वयम् दद्याम् भरताय अ प्रचोदितः॥ ७॥
aham hi sītām rājyam ca prāṇān iṣṭān dhanāni ca.hṛṣṭaḥ bhrātre svayam dadyām bharatāya a pracoditaḥ.. 7..
किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः।तव च प्रियकामार्थं प्रतिज्ञामनुपालयन्॥ ८॥
किम् पुनर् मनुज-इन्द्रेण स्वयम् पित्रा प्रचोदितः।तव च प्रिय-काम-अर्थम् प्रतिज्ञाम् अनुपालयन्॥ ८॥
kim punar manuja-indreṇa svayam pitrā pracoditaḥ.tava ca priya-kāma-artham pratijñām anupālayan.. 8..
तथाश्वासय ह्रीमन्तं किं त्विदं यन्महीपतिः।वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति॥ ९॥
तथा आश्वासय ह्रीमन्तम् किम् तु इदम् यत् महीपतिः।वसुधा-सक्त-नयनः मन्दम् अश्रूणि मुञ्चति॥ ९॥
tathā āśvāsaya hrīmantam kim tu idam yat mahīpatiḥ.vasudhā-sakta-nayanaḥ mandam aśrūṇi muñcati.. 9..
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः।भरतं मातुलकुलादद्यैव नृपशासनात्॥ १०॥
गच्छन्तु च एव आनयितुम् दूताः शीघ्र-जवैः हयैः।भरतम् मातुल-कुलात् अद्य एव नृप-शासनात्॥ १०॥
gacchantu ca eva ānayitum dūtāḥ śīghra-javaiḥ hayaiḥ.bharatam mātula-kulāt adya eva nṛpa-śāsanāt.. 10..
दण्डकारण्यमेषोऽहं गच्छाम्येव हि सत्वरः।अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश॥ ११॥
दण्डक-अरण्यम् एषः अहम् गच्छामि एव हि स त्वरः।अ विचार्य पितुः वाक्यम् समाः वस्तुम् चतुर्दश॥ ११॥
daṇḍaka-araṇyam eṣaḥ aham gacchāmi eva hi sa tvaraḥ.a vicārya pituḥ vākyam samāḥ vastum caturdaśa.. 11..
सा हृष्टा तस्य तद् वाक्यं श्रुत्वा रामस्य कैकयी।प्रस्थानं श्रद्दधाना सा त्वरयामास राघवम्॥ १२॥
सा हृष्टा तस्य तत् वाक्यम् श्रुत्वा रामस्य कैकयी।प्रस्थानम् श्रद्दधाना सा त्वरयामास राघवम्॥ १२॥
sā hṛṣṭā tasya tat vākyam śrutvā rāmasya kaikayī.prasthānam śraddadhānā sā tvarayāmāsa rāghavam.. 12..
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः।भरतं मातुलकुलादिहावर्तयितुं नराः॥ १३॥
एवम् भवतु यास्यन्ति दूताः शीघ्र-जवैः हयैः।भरतम् मातुल-कुलात् इह आवर्तयितुम् नराः॥ १३॥
evam bhavatu yāsyanti dūtāḥ śīghra-javaiḥ hayaiḥ.bharatam mātula-kulāt iha āvartayitum narāḥ.. 13..
तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्।राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि॥ १४॥
तव तु अहम् क्षमम् मन्ये न उत्सुकस्य विलम्बनम्।राम तस्मात् इतस् शीघ्रम् वनम् त्वम् गन्तुम् अर्हसि॥ १४॥
tava tu aham kṣamam manye na utsukasya vilambanam.rāma tasmāt itas śīghram vanam tvam gantum arhasi.. 14..
व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते।नैतत् किंचिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम्॥ १५॥
व्रीडा-अन्वितः स्वयम् यत् च नृपः त्वाम् न अभिभाषते।न एतत् किंचिद् नर-श्रेष्ठ मन्युः एषः अपनीयताम्॥ १५॥
vrīḍā-anvitaḥ svayam yat ca nṛpaḥ tvām na abhibhāṣate.na etat kiṃcid nara-śreṣṭha manyuḥ eṣaḥ apanīyatām.. 15..
यावत्त्वं न वनं यातः पुरादस्मादतित्वरम्।पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा॥ १६॥
यावत् त्वम् न वनम् यातः पुरात् अस्मात् अतित्वरम्।पिता तावत् न ते राम स्नास्यते भोक्ष्यते अपि वा॥ १६॥
yāvat tvam na vanam yātaḥ purāt asmāt atitvaram.pitā tāvat na te rāma snāsyate bhokṣyate api vā.. 16..
धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः।मूर्च्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते॥ १७॥
धिक् कष्टम् इति निःश्वस्य राजा शोक-परिप्लुतः।मूर्च्छितः न्यपतत् तस्मिन् पर्यङ्के हेम-भूषिते॥ १७॥
dhik kaṣṭam iti niḥśvasya rājā śoka-pariplutaḥ.mūrcchitaḥ nyapatat tasmin paryaṅke hema-bhūṣite.. 17..
रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः।कशयेव हतो वाजी वनं गन्तुं कृतत्वरः॥ १८॥
रामः अपि उत्थाप्य राजानम् कैकेय्या अभिप्रचोदितः।कशया इव हतः वाजी वनम् गन्तुम् कृत-त्वरः॥ १८॥
rāmaḥ api utthāpya rājānam kaikeyyā abhipracoditaḥ.kaśayā iva hataḥ vājī vanam gantum kṛta-tvaraḥ.. 18..
तदप्रियमनार्याया वचनं दारुणोदयम्।श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत्॥ १९॥
तत् अप्रियम् अनार्यायाः वचनम् दारुण-उदयम्।श्रुत्वा गत-व्यथः रामः कैकेयीम् वाक्यम् अब्रवीत्॥ १९॥
tat apriyam anāryāyāḥ vacanam dāruṇa-udayam.śrutvā gata-vyathaḥ rāmaḥ kaikeyīm vākyam abravīt.. 19..
नाहमर्थपरो देवि लोकमावस्तुमुत्सहे।विद्धि मामृषिभिस्तुल्यं विमलं धर्ममास्थितम्॥ २०॥
न अहम् अर्थ-परः देवि लोकम् आवस्तुम् उत्सहे।विद्धि माम् ऋषिभिः तुल्यम् विमलम् धर्मम् आस्थितम्॥ २०॥
na aham artha-paraḥ devi lokam āvastum utsahe.viddhi mām ṛṣibhiḥ tulyam vimalam dharmam āsthitam.. 20..
यत् तत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया।प्राणानपि परित्यज्य सर्वथा कृतमेव तत्॥ २१॥
यत् तत्रभवतः किंचिद् शक्यम् कर्तुम् प्रियम् मया।प्राणान् अपि परित्यज्य सर्वथा कृतम् एव तत्॥ २१॥
yat tatrabhavataḥ kiṃcid śakyam kartum priyam mayā.prāṇān api parityajya sarvathā kṛtam eva tat.. 21..
न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम्।यथा पितरि शुश्रूषा तस्य वा वचनक्रिया॥ २२॥
न हि अतस् धर्म-चरणम् किंचिद् अस्ति महत्तरम्।यथा पितरि शुश्रूषा तस्य वा वचन-क्रिया॥ २२॥
na hi atas dharma-caraṇam kiṃcid asti mahattaram.yathā pitari śuśrūṣā tasya vā vacana-kriyā.. 22..
अनुक्तोऽप्यत्रभवता भवत्या वचनादहम्।वने वत्स्यामि विजने वर्षाणीह चतुर्दश॥ २३॥
अन् उक्तः अपि अत्रभवता भवत्याः वचनात् अहम्।वने वत्स्यामि विजने वर्षाणि इह चतुर्दश॥ २३॥
an uktaḥ api atrabhavatā bhavatyāḥ vacanāt aham.vane vatsyāmi vijane varṣāṇi iha caturdaśa.. 23..
न नूनं मयि कैकेयि किंचिदाशंससे गुणान्।यद् राजानमवोचस्त्वं ममेश्वरतरा सती॥ २४॥
न नूनम् मयि कैकेयि किंचिद् आशंससे गुणान्।यत् राजानम् अवोचः त्वम् मम ईश्वरतरा सती॥ २४॥
na nūnam mayi kaikeyi kiṃcid āśaṃsase guṇān.yat rājānam avocaḥ tvam mama īśvaratarā satī.. 24..
यावन्मातरमापृच्छे सीतां चानुनयाम्यहम्।ततोऽद्यैव गमिष्यामि दण्डकानां महद् वनम्॥ २५॥
यावत् मातरम् आपृच्छे सीताम् च अनुनयामि अहम्।ततस् अद्य एव गमिष्यामि दण्डकानाम् महत् वनम्॥ २५॥
yāvat mātaram āpṛcche sītām ca anunayāmi aham.tatas adya eva gamiṣyāmi daṇḍakānām mahat vanam.. 25..
भरतः पालयेद् राज्यं शुश्रूषेच्च पितुर्यथा।तथा भवत्या कर्तव्यं स हि धर्मः सनातनः॥ २६॥
भरतः पालयेत् राज्यम् शुश्रूषेत् च पितुः यथा।तथा भवत्या कर्तव्यम् स हि धर्मः सनातनः॥ २६॥
bharataḥ pālayet rājyam śuśrūṣet ca pituḥ yathā.tathā bhavatyā kartavyam sa hi dharmaḥ sanātanaḥ.. 26..
रामस्य तु वचः श्रुत्वा भृशं दुःखगतः पिता।शोकादशक्नुवन् वक्तुं प्ररुरोद महास्वनम्॥ २७॥
रामस्य तु वचः श्रुत्वा भृशम् दुःख-गतः पिता।शोकात् अशक्नुवन् वक्तुम् प्ररुरोद महा-स्वनम्॥ २७॥
rāmasya tu vacaḥ śrutvā bhṛśam duḥkha-gataḥ pitā.śokāt aśaknuvan vaktum praruroda mahā-svanam.. 27..
वन्दित्वा चरणौ राज्ञो विसंज्ञस्य पितुस्तदा।कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः॥ २८॥
वन्दित्वा चरणौ राज्ञः विसंज्ञस्य पितुः तदा।कैकेय्याः च अपि अनार्यायाः निष्पपात महा-द्युतिः॥ २८॥
vanditvā caraṇau rājñaḥ visaṃjñasya pituḥ tadā.kaikeyyāḥ ca api anāryāyāḥ niṣpapāta mahā-dyutiḥ.. 28..
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्।निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहृज्जनम्॥ २९॥
स रामः पितरम् कृत्वा कैकेयीम् च प्रदक्षिणम्।निष्क्रम्य अन्तःपुरात् तस्मात् स्वम् ददर्श सुहृद्-जनम्॥ २९॥
sa rāmaḥ pitaram kṛtvā kaikeyīm ca pradakṣiṇam.niṣkramya antaḥpurāt tasmāt svam dadarśa suhṛd-janam.. 29..
तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह।लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः॥ ३०॥
तम् बाष्प-परिपूर्ण-अक्षः पृष्ठतस् अनुजगाम ह।लक्ष्मणः परम-क्रुद्धः सुमित्रा-आनन्द-वर्धनः॥ ३०॥
tam bāṣpa-paripūrṇa-akṣaḥ pṛṣṭhatas anujagāma ha.lakṣmaṇaḥ parama-kruddhaḥ sumitrā-ānanda-vardhanaḥ.. 30..
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्।शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन्॥ ३१॥
आभिषेचनिकम् भाण्डम् कृत्वा रामः प्रदक्षिणम्।शनैस् जगाम स अपेक्षः दृष्टिम् तत्र अ विचालयन्॥ ३१॥
ābhiṣecanikam bhāṇḍam kṛtvā rāmaḥ pradakṣiṇam.śanais jagāma sa apekṣaḥ dṛṣṭim tatra a vicālayan.. 31..
न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति।लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षयः॥ ३२॥
न च अस्य महतीम् लक्ष्मीम् राज्य-नाशः अपकर्षति।लोक-कान्तस्य कान्त-त्वात् शीतरश्मेः इव क्षयः॥ ३२॥
na ca asya mahatīm lakṣmīm rājya-nāśaḥ apakarṣati.loka-kāntasya kānta-tvāt śītaraśmeḥ iva kṣayaḥ.. 32..
न वनं गन्तुकामस्य त्यजतश्च वसुंधराम्।सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया॥ ३३॥
न वनम् गन्तु-कामस्य त्यजतः च वसुंधराम्।सर्व-लोक-अतिगस्य इव लक्ष्यते चित्त-विक्रिया॥ ३३॥
na vanam gantu-kāmasya tyajataḥ ca vasuṃdharām.sarva-loka-atigasya iva lakṣyate citta-vikriyā.. 33..
प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते।विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान्॥ ३४॥
प्रतिषिध्य शुभम् छत्रम् व्यजने च सु अलंकृते।विसर्जयित्वा स्व-जनम् रथम् पौरान् तथा जनान्॥ ३४॥
pratiṣidhya śubham chatram vyajane ca su alaṃkṛte.visarjayitvā sva-janam ratham paurān tathā janān.. 34..
धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च।प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान्॥ ३५॥
धारयन् मनसा दुःखम् इन्द्रियाणि निगृह्य च।प्रविवेश आत्मवान् वेश्म मातुः अप्रिय-शंसिवान्॥ ३५॥
dhārayan manasā duḥkham indriyāṇi nigṛhya ca.praviveśa ātmavān veśma mātuḥ apriya-śaṃsivān.. 35..
सर्वोऽप्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः।नालक्षयत रामस्य कंचिदाकारमानने॥ ३६॥
सर्वः अपि अभिजनः श्रीमान् श्रीमतः सत्य-वादिनः।न अलक्षयत रामस्य कंचिद् आकारम् आनने॥ ३६॥
sarvaḥ api abhijanaḥ śrīmān śrīmataḥ satya-vādinaḥ.na alakṣayata rāmasya kaṃcid ākāram ānane.. 36..
उचितं च महाबाहुर्न जहौ हर्षमात्मवान्।शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम्॥ ३७॥
उचितम् च महा-बाहुः न जहौ हर्षम् आत्मवान्।शारदः समुदीर्ण-अंशुः चन्द्रः तेजः इव आत्मजम्॥ ३७॥
ucitam ca mahā-bāhuḥ na jahau harṣam ātmavān.śāradaḥ samudīrṇa-aṃśuḥ candraḥ tejaḥ iva ātmajam.. 37..
वाचा मधुरया रामः सर्वं सम्मानयञ्जनम्।मातुः समीपं धर्मात्मा प्रविवेश महायशाः॥ ३८॥
वाचा मधुरया रामः सर्वम् सम्मानयन् जनम्।मातुः समीपम् धर्म-आत्मा प्रविवेश महा-यशाः॥ ३८॥
vācā madhurayā rāmaḥ sarvam sammānayan janam.mātuḥ samīpam dharma-ātmā praviveśa mahā-yaśāḥ.. 38..
तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः।सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम्॥ ३९॥
तम् गुणैः सम-ताम् प्राप्तः भ्राता विपुल-विक्रमः।सौमित्रिः अनुवव्राज धारयन् दुःखम् आत्मजम्॥ ३९॥
tam guṇaiḥ sama-tām prāptaḥ bhrātā vipula-vikramaḥ.saumitriḥ anuvavrāja dhārayan duḥkham ātmajam.. 39..
प्रविश्य वेश्मातिभृशं मुदा युतं समीक्ष्य तां चार्थविपत्तिमागताम्।न चैव रामोऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया॥ ४०॥
प्रविश्य वेश्म अति भृशम् मुदा युतम् समीक्ष्य ताम् च अर्थ-विपत्तिम् आगताम्।न च एव रामः अत्र जगाम विक्रियाम् सुहृद्-जनस्य आत्म-विपत्ति-शङ्कया॥ ४०॥
praviśya veśma ati bhṛśam mudā yutam samīkṣya tām ca artha-vipattim āgatām.na ca eva rāmaḥ atra jagāma vikriyām suhṛd-janasya ātma-vipatti-śaṅkayā.. 40..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनविंशः सर्गः ॥२-१९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे एकोनविंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe ekonaviṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In