This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे द्वितीयः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe dvitīyaḥ sargaḥ ..2..
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः।हितमुद्धर्षणं चैवमुवाच प्रथितं वचः॥ १॥
ततस् परिषदम् सर्वाम् आमन्त्र्य वसुधाधिपः।हितम् उद्धर्षणम् च एवम् उवाच प्रथितम् वचः॥ १॥
tatas pariṣadam sarvām āmantrya vasudhādhipaḥ.hitam uddharṣaṇam ca evam uvāca prathitam vacaḥ.. 1..
दुन्दुभिस्वरकल्पेन गम्भीरेणानुनादिना।स्वरेण महता राजा जीमूत इव नादयन्॥ २॥
दुन्दुभि-स्वर-कल्पेन गम्भीरेण अनुनादिना।स्वरेण महता राजा जीमूतः इव नादयन्॥ २॥
dundubhi-svara-kalpena gambhīreṇa anunādinā.svareṇa mahatā rājā jīmūtaḥ iva nādayan.. 2..
राजलक्षणयुक्तेन कान्तेनानुपमेन च।उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान्॥ ३॥
राज-लक्षण-युक्तेन कान्तेन अनुपमेन च।उवाच रस-युक्तेन स्वरेण नृपतिः नृपान्॥ ३॥
rāja-lakṣaṇa-yuktena kāntena anupamena ca.uvāca rasa-yuktena svareṇa nṛpatiḥ nṛpān.. 3..
विदितं भवतामेतद् यथा मे राज्यमुत्तमम्।पूर्वकैर्मम राजेन्द्रैः सुतवत् परिपालितम्॥ ४॥
विदितम् भवताम् एतत् यथा मे राज्यम् उत्तमम्।पूर्वकैः मम राज-इन्द्रैः सुत-वत् परिपालितम्॥ ४॥
viditam bhavatām etat yathā me rājyam uttamam.pūrvakaiḥ mama rāja-indraiḥ suta-vat paripālitam.. 4..
सोऽहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः प्रतिपालितम्।श्रेयसा योक्तुमिच्छामि सुखार्हमखिलं जगत्॥ ५॥
सः अहम् इक्ष्वाकुभिः सर्वैः नरेन्द्रैः प्रतिपालितम्।श्रेयसा योक्तुम् इच्छामि सुख-अर्हम् अखिलम् जगत्॥ ५॥
saḥ aham ikṣvākubhiḥ sarvaiḥ narendraiḥ pratipālitam.śreyasā yoktum icchāmi sukha-arham akhilam jagat.. 5..
मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता।प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः॥ ६॥
मया अपि आचरितम् पूर्वैः पन्थानम् अनुगच्छता।प्रजाः नित्यम् अनिद्रेण यथाशक्ति अभिरक्षिताः॥ ६॥
mayā api ācaritam pūrvaiḥ panthānam anugacchatā.prajāḥ nityam anidreṇa yathāśakti abhirakṣitāḥ.. 6..
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्।पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया॥ ७॥
इदम् शरीरम् कृत्स्नस्य लोकस्य चरता हितम्।पाण्डुरस्य आतपत्रस्य छायायाम् जरितम् मया॥ ७॥
idam śarīram kṛtsnasya lokasya caratā hitam.pāṇḍurasya ātapatrasya chāyāyām jaritam mayā.. 7..
प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः।जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये॥ ८॥
प्राप्य वर्ष-सहस्राणि बहूनि आयूंषि जीवतः।जीर्णस्य अस्य शरीरस्य विश्रान्तिम् अभिरोचये॥ ८॥
prāpya varṣa-sahasrāṇi bahūni āyūṃṣi jīvataḥ.jīrṇasya asya śarīrasya viśrāntim abhirocaye.. 8..
राजप्रभावजुष्टां च दुर्वहामजितेन्द्रियैः।परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्॥ ९॥
राज-प्रभाव-जुष्टाम् च दुर्वहाम् अजित-इन्द्रियैः।परिश्रान्तः अस्मि लोकस्य गुर्वीम् धर्म-धुरम् वहन्॥ ९॥
rāja-prabhāva-juṣṭām ca durvahām ajita-indriyaiḥ.pariśrāntaḥ asmi lokasya gurvīm dharma-dhuram vahan.. 9..
सोऽहं विश्राममिच्छामि पुत्रं कृत्वा प्रजाहिते।संनिकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान्॥ १०॥
सः अहम् विश्रामम् इच्छामि पुत्रम् कृत्वा प्रजा-हिते।संनिकृष्टान् इमान् सर्वान् अनुमान्य द्विजर्षभान्॥ १०॥
saḥ aham viśrāmam icchāmi putram kṛtvā prajā-hite.saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān.. 10..
अनुजातो हि मां सर्वैर्गुणैः श्रेष्ठो ममात्मजः।पुरन्दरसमो वीर्ये रामः परपुरंजयः॥ ११॥
अनुजातः हि माम् सर्वैः गुणैः श्रेष्ठः मम आत्मजः।पुरन्दर-समः वीर्ये रामः परपुरंजयः॥ ११॥
anujātaḥ hi mām sarvaiḥ guṇaiḥ śreṣṭhaḥ mama ātmajaḥ.purandara-samaḥ vīrye rāmaḥ parapuraṃjayaḥ.. 11..
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्।यौवराज्ये नियोक्तास्मि प्रातः पुरुषपुङ्गवम्॥ १२॥
तम् चन्द्रम् इव पुष्येण युक्तम् धर्म-भृताम् वरम्।यौवराज्ये नियोक्तास्मि प्रातर् पुरुष-पुङ्गवम्॥ १२॥
tam candram iva puṣyeṇa yuktam dharma-bhṛtām varam.yauvarājye niyoktāsmi prātar puruṣa-puṅgavam.. 12..
अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः।त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्॥ १३॥
अनुरूपः स वः नाथः लक्ष्मीवान् लक्ष्मण-अग्रजः।त्रैलोक्यम् अपि नाथेन येन स्यात् नाथवत्तरम्॥ १३॥
anurūpaḥ sa vaḥ nāthaḥ lakṣmīvān lakṣmaṇa-agrajaḥ.trailokyam api nāthena yena syāt nāthavattaram.. 13..
अनेन श्रेयसा सद्यः संयोक्ष्येऽहमिमां महीम्।गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै॥ १४॥
अनेन श्रेयसा सद्यस् संयोक्ष्ये अहम् इमाम् महीम्।गत-क्लेशः भविष्यामि सुते तस्मिन् निवेश्य वै॥ १४॥
anena śreyasā sadyas saṃyokṣye aham imām mahīm.gata-kleśaḥ bhaviṣyāmi sute tasmin niveśya vai.. 14..
यदिदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम्।भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम्॥ १५॥
यत् इदम् मे अनुरूप-अर्थम् मया साधु सु मन्त्रितम्।भवन्तः मे अनुमन्यन्ताम् कथम् वा करवाणि अहम्॥ १५॥
yat idam me anurūpa-artham mayā sādhu su mantritam.bhavantaḥ me anumanyantām katham vā karavāṇi aham.. 15..
यद्यप्येषा मम प्रीतिर्हितमन्यद् विचिन्त्यताम्।अन्या मध्यस्थचिन्ता तु विमर्दाभ्यधिकोदया॥ १६॥
यदि अपि एषा मम प्रीतिः हितम् अन्यत् विचिन्त्यताम्।अन्या मध्यस्थ-चिन्ता तु विमर्द-अभ्यधिक-उदया॥ १६॥
yadi api eṣā mama prītiḥ hitam anyat vicintyatām.anyā madhyastha-cintā tu vimarda-abhyadhika-udayā.. 16..
इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम्।वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः॥ १७॥
इति ब्रुवन्तम् मुदिताः प्रत्यनन्दत् नृपाः नृपम्।वृष्टिमन्तम् महा-मेघम् नर्दन्तः इव बर्हिणः॥ १७॥
iti bruvantam muditāḥ pratyanandat nṛpāḥ nṛpam.vṛṣṭimantam mahā-megham nardantaḥ iva barhiṇaḥ.. 17..
स्निग्धोऽनुनादः संजज्ञे ततो हर्षसमीरितः।जनौघोद्घुष्टसंनादो मेदिनीं कम्पयन्निव॥ १८॥
स्निग्धः अनुनादः संजज्ञे ततस् हर्ष-समीरितः।जन-ओघ-उद्घुष्ट-संनादः मेदिनीम् कम्पयन् इव॥ १८॥
snigdhaḥ anunādaḥ saṃjajñe tatas harṣa-samīritaḥ.jana-ogha-udghuṣṭa-saṃnādaḥ medinīm kampayan iva.. 18..
तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः।ब्राह्मणा बलमुख्याश्च पौरजानपदैः सह॥ १९॥
तस्य धर्म-अर्थ-विदुषः भावम् आज्ञाय सर्वशस्।ब्राह्मणाः बल-मुख्याः च पौर-जानपदैः सह॥ १९॥
tasya dharma-artha-viduṣaḥ bhāvam ājñāya sarvaśas.brāhmaṇāḥ bala-mukhyāḥ ca paura-jānapadaiḥ saha.. 19..
समेत्य ते मन्त्रयितुं समतागतबुद्धयः।ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्॥ २०॥
समेत्य ते मन्त्रयितुम् समता-गत-बुद्धयः।ऊचुः च मनसा ज्ञात्वा वृद्धम् दशरथम् नृपम्॥ २०॥
sametya te mantrayitum samatā-gata-buddhayaḥ.ūcuḥ ca manasā jñātvā vṛddham daśaratham nṛpam.. 20..
अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव।स रामं युवराजानमभिषिञ्चस्व पार्थिवम्॥ २१॥
अनेक-वर्ष-साहस्रः वृद्धः त्वम् असि पार्थिव।स रामम् युवराजानम् अभिषिञ्चस्व पार्थिवम्॥ २१॥
aneka-varṣa-sāhasraḥ vṛddhaḥ tvam asi pārthiva.sa rāmam yuvarājānam abhiṣiñcasva pārthivam.. 21..
इच्छामो हि महाबाहुं रघुवीरं महाबलम्।गजेन महता यान्तं रामं छत्रावृताननम्॥ २२॥
इच्छामः हि महा-बाहुम् रघु-वीरम् महा-बलम्।गजेन महता यान्तम् रामम् छत्र-आवृत-आननम्॥ २२॥
icchāmaḥ hi mahā-bāhum raghu-vīram mahā-balam.gajena mahatā yāntam rāmam chatra-āvṛta-ānanam.. 22..
इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम्।अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्॥ २३॥
इति तत् वचनम् श्रुत्वा राजा तेषाम् मनः-प्रियम्।अ जानन् इव जिज्ञासुः इदम् वचनम् अब्रवीत्॥ २३॥
iti tat vacanam śrutvā rājā teṣām manaḥ-priyam.a jānan iva jijñāsuḥ idam vacanam abravīt.. 23..
श्रुत्वैतद् वचनं यन्मे राघवं पतिमिच्छथ।राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः॥ २४॥
श्रुत्वा एतत् वचनम् यत् मे राघवम् पतिम् इच्छथ।राजानः संशयः अयम् मे तत् इदम् ब्रूत तत्त्वतः॥ २४॥
śrutvā etat vacanam yat me rāghavam patim icchatha.rājānaḥ saṃśayaḥ ayam me tat idam brūta tattvataḥ.. 24..
कथं नु मयि धर्मेण पृथिवीमनुशासति।भवन्तो द्रष्टुमिच्छन्ति युवराजं महाबलम्॥ २५॥
कथम् नु मयि धर्मेण पृथिवीम् अनुशासति।भवन्तः द्रष्टुम् इच्छन्ति युवराजम् महा-बलम्॥ २५॥
katham nu mayi dharmeṇa pṛthivīm anuśāsati.bhavantaḥ draṣṭum icchanti yuvarājam mahā-balam.. 25..
ते तमूचुर्महात्मानः पौरजानपदैः सह।बहवो नृप कल्याणगुणाः सन्ति सुतस्य ते॥ २६॥
ते तम् ऊचुः महात्मानः पौर-जानपदैः सह।बहवः नृप कल्याण-गुणाः सन्ति सुतस्य ते॥ २६॥
te tam ūcuḥ mahātmānaḥ paura-jānapadaiḥ saha.bahavaḥ nṛpa kalyāṇa-guṇāḥ santi sutasya te.. 26..
गुणान् गुणवतो देव देवकल्पस्य धीमतः।प्रियानानन्दनान् कृत्स्नान् प्रवक्ष्यामोऽद्य तान्शृणु॥ २७॥
गुणान् गुणवतः देव देव-कल्पस्य धीमतः।प्रियान् आनन्दनान् कृत्स्नान् प्रवक्ष्यामः अद्य तान् शृणु॥ २७॥
guṇān guṇavataḥ deva deva-kalpasya dhīmataḥ.priyān ānandanān kṛtsnān pravakṣyāmaḥ adya tān śṛṇu.. 27..
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः।इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते॥ २८॥
दिव्यैः गुणैः शक्र-समः रामः सत्य-पराक्रमः।इक्ष्वाकुभ्यः अपि सर्वेभ्यः हि अतिरिक्तः विशाम् पते॥ २८॥
divyaiḥ guṇaiḥ śakra-samaḥ rāmaḥ satya-parākramaḥ.ikṣvākubhyaḥ api sarvebhyaḥ hi atiriktaḥ viśām pate.. 28..
रामः सत्पुरुषो लोके सत्यः सत्यपरायणः।साक्षाद् रामाद् विनिर्वृत्तो धर्मश्चापि श्रिया सह॥ २९॥
रामः सत्-पुरुषः लोके सत्यः सत्य-परायणः।साक्षात् रामात् विनिर्वृत्तः धर्मः च अपि श्रिया सह॥ २९॥
rāmaḥ sat-puruṣaḥ loke satyaḥ satya-parāyaṇaḥ.sākṣāt rāmāt vinirvṛttaḥ dharmaḥ ca api śriyā saha.. 29..
प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः।बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः॥ ३०॥
प्रजा-सुख-त्वे चन्द्रस्य वसुधायाः क्षमा-गुणैः।बुद्ध्याः बृहस्पतेः तुल्यः वीर्ये साक्षात् शचीपतेः॥ ३०॥
prajā-sukha-tve candrasya vasudhāyāḥ kṣamā-guṇaiḥ.buddhyāḥ bṛhaspateḥ tulyaḥ vīrye sākṣāt śacīpateḥ.. 30..
धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः।क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः॥ ३१॥
धर्म-ज्ञः सत्य-संधः च शीलवान् अनसूयकः।क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञः विजित-इन्द्रियः॥ ३१॥
dharma-jñaḥ satya-saṃdhaḥ ca śīlavān anasūyakaḥ.kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajñaḥ vijita-indriyaḥ.. 31..
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः।प्रियवादी च भूतानां सत्यवादी च राघवः॥ ३२॥
मृदुः च स्थिर-चित्तः च सदा भव्यः अनसूयकः।प्रिय-वादी च भूतानाम् सत्य-वादी च राघवः॥ ३२॥
mṛduḥ ca sthira-cittaḥ ca sadā bhavyaḥ anasūyakaḥ.priya-vādī ca bhūtānām satya-vādī ca rāghavaḥ.. 32..
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता।तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते॥ ३३॥
बहुश्रुतानाम् वृद्धानाम् ब्राह्मणानाम् उपासिता।तेन अस्य इह अतुला कीर्तिः यशः तेजः च वर्धते॥ ३३॥
bahuśrutānām vṛddhānām brāhmaṇānām upāsitā.tena asya iha atulā kīrtiḥ yaśaḥ tejaḥ ca vardhate.. 33..
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः।सम्यग् विद्याव्रतस्नातो यथावत् साङ्गवेदवित्॥ ३४॥
देव-असुर-मनुष्याणाम् सर्व-अस्त्रेषु विशारदः।सम्यक् विद्या-व्रत-स्नातः यथावत् स अङ्ग-वेद-विद्॥ ३४॥
deva-asura-manuṣyāṇām sarva-astreṣu viśāradaḥ.samyak vidyā-vrata-snātaḥ yathāvat sa aṅga-veda-vid.. 34..
गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः।कल्याणाभिजनः साधुरदीनात्मा महामतिः॥ ३५॥
गान्धर्वे च भुवि श्रेष्ठः बभूव भरताग्रजः।कल्याण-अभिजनः साधुः अदीन-आत्मा महामतिः॥ ३५॥
gāndharve ca bhuvi śreṣṭhaḥ babhūva bharatāgrajaḥ.kalyāṇa-abhijanaḥ sādhuḥ adīna-ātmā mahāmatiḥ.. 35..
द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः।यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा॥ ३६॥
द्विजैः अभिविनीतः च श्रेष्ठैः धर्म-अर्थ-नैपुणैः।यदा व्रजति संग्रामम् ग्राम-अर्थे नगरस्य वा॥ ३६॥
dvijaiḥ abhivinītaḥ ca śreṣṭhaiḥ dharma-artha-naipuṇaiḥ.yadā vrajati saṃgrāmam grāma-arthe nagarasya vā.. 36..
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते।संग्रामात् पुनरागत्य कुञ्जरेण रथेन वा॥ ३७॥
गत्वा सौमित्रि-सहितः न अ विजित्य निवर्तते।संग्रामात् पुनर् आगत्य कुञ्जरेण रथेन वा॥ ३७॥
gatvā saumitri-sahitaḥ na a vijitya nivartate.saṃgrāmāt punar āgatya kuñjareṇa rathena vā.. 37..
पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति।पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च॥ ३८॥
पौरान् स्व-जन-वत् नित्यम् कुशलम् परिपृच्छति।पुत्रेषु अग्निषु दारेषु प्रेष्य-शिष्य-गणेषु च॥ ३८॥
paurān sva-jana-vat nityam kuśalam paripṛcchati.putreṣu agniṣu dāreṣu preṣya-śiṣya-gaṇeṣu ca.. 38..
निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान्।शुश्रूषन्ते च वः शिष्याः कच्चिद् वर्मसु दंशिताः॥ ३९॥
निखिलेन आनुपूर्व्या च पिता पुत्रान् इव औरसान्।शुश्रूषन्ते च वः शिष्याः कच्चित् वर्मसु दंशिताः॥ ३९॥
nikhilena ānupūrvyā ca pitā putrān iva aurasān.śuśrūṣante ca vaḥ śiṣyāḥ kaccit varmasu daṃśitāḥ.. 39..
इति वः पुरुषव्याघ्रः सदा रामोऽभिभाषते।व्यसनेषु मनुष्याणां भृशं भवति दुःखितः॥ ४०॥
इति वः पुरुष-व्याघ्रः सदा रामः अभिभाषते।व्यसनेषु मनुष्याणाम् भृशम् भवति दुःखितः॥ ४०॥
iti vaḥ puruṣa-vyāghraḥ sadā rāmaḥ abhibhāṣate.vyasaneṣu manuṣyāṇām bhṛśam bhavati duḥkhitaḥ.. 40..
उत्सवेषु च सर्वेषु पितेव परितुष्यति।सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः॥ ४१॥
उत्सवेषु च सर्वेषु पिता इव परितुष्यति।सत्य-वादी महा-इष्वासः वृद्ध-सेवी जित-इन्द्रियः॥ ४१॥
utsaveṣu ca sarveṣu pitā iva parituṣyati.satya-vādī mahā-iṣvāsaḥ vṛddha-sevī jita-indriyaḥ.. 41..
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मनाश्रितः।सम्यग्योक्ता श्रेयसां च न विगृह्यकथारुचिः॥ ४२॥
स्मित-पूर्व-अभिभाषी च धर्मम् सर्व-आत्मना आश्रितः।सम्यक् योक्ता श्रेयसाम् च न विगृह्य कथा-रुचिः॥ ४२॥
smita-pūrva-abhibhāṣī ca dharmam sarva-ātmanā āśritaḥ.samyak yoktā śreyasām ca na vigṛhya kathā-ruciḥ.. 42..
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा।सुभ्रूरायतताम्राक्षः साक्षाद् विष्णुरिव स्वयम्॥ ४३॥
उत्तर-उत्तर-युक्तौ च वक्ता वाचस्पतिः यथा।सु भ्रूः आयत-ताम्र-अक्षः साक्षात् विष्णुः इव स्वयम्॥ ४३॥
uttara-uttara-yuktau ca vaktā vācaspatiḥ yathā.su bhrūḥ āyata-tāmra-akṣaḥ sākṣāt viṣṇuḥ iva svayam.. 43..
रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः।प्रजापालनसंयुक्तो न रागोपहतेन्द्रियः॥ ४४॥
रामः लोक-अभिरामः अयम् शौर्य-वीर्य-पराक्रमैः।प्रजा-पालन-संयुक्तः न राग-उपहत-इन्द्रियः॥ ४४॥
rāmaḥ loka-abhirāmaḥ ayam śaurya-vīrya-parākramaiḥ.prajā-pālana-saṃyuktaḥ na rāga-upahata-indriyaḥ.. 44..
शक्तस्त्रैलोक्यमप्येष भोक्तुं किं नु महीमिमाम्।नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन॥ ४५॥
शक्तः त्रैलोक्यम् अपि एष भोक्तुम् किम् नु महीम् इमाम्।न अस्य क्रोधः प्रसादः च निरर्थः अस्ति कदाचन॥ ४५॥
śaktaḥ trailokyam api eṣa bhoktum kim nu mahīm imām.na asya krodhaḥ prasādaḥ ca nirarthaḥ asti kadācana.. 45..
हन्त्येष नियमाद् वध्यानवध्येषु न कुप्यति।युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति॥ ४६॥
हन्ति एष नियमात् वध्य-अनवध्येषु न कुप्यति।युनक्ति अर्थैः प्रहृष्टः च तम् असौ यत्र तुष्यति॥ ४६॥
hanti eṣa niyamāt vadhya-anavadhyeṣu na kupyati.yunakti arthaiḥ prahṛṣṭaḥ ca tam asau yatra tuṣyati.. 46..
दान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम्।गुणैर्विरोचते रामो दीप्तः सूर्य इवांशुभिः॥ ४७॥
दान्तैः सर्व-प्रजा-कान्तैः प्रीति-संजननैः नृणाम्।गुणैः विरोचते रामः दीप्तः सूर्यः इव अंशुभिः॥ ४७॥
dāntaiḥ sarva-prajā-kāntaiḥ prīti-saṃjananaiḥ nṛṇām.guṇaiḥ virocate rāmaḥ dīptaḥ sūryaḥ iva aṃśubhiḥ.. 47..
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम्।लोकपालोपमं नाथमकामयत मेदिनी॥ ४८॥
तम् एवम् गुण-सम्पन्नम् रामम् सत्य-पराक्रमम्।लोकपाल-उपमम् नाथम् अकामयत मेदिनी॥ ४८॥
tam evam guṇa-sampannam rāmam satya-parākramam.lokapāla-upamam nātham akāmayata medinī.. 48..
वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः।दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः॥ ४९॥
वत्सः श्रेयसि जातः ते दिष्ट्या असौ तव राघवः।दिष्ट्या पुत्र-गुणैः युक्तः मारीचः इव कश्यपः॥ ४९॥
vatsaḥ śreyasi jātaḥ te diṣṭyā asau tava rāghavaḥ.diṣṭyā putra-guṇaiḥ yuktaḥ mārīcaḥ iva kaśyapaḥ.. 49..
बलमारोग्यमायुश्च रामस्य विदितात्मनः।देवासुरमनुष्येषु सगन्धर्वोरगेषु च॥ ५०॥
बलम् आरोग्यम् आयुः च रामस्य विदित-आत्मनः।देव-असुर-मनुष्येषु स गन्धर्व-उरगेषु च॥ ५०॥
balam ārogyam āyuḥ ca rāmasya vidita-ātmanaḥ.deva-asura-manuṣyeṣu sa gandharva-urageṣu ca.. 50..
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा।आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः॥ ५१॥
आशंसते जनः सर्वः राष्ट्रे पुरवरे तथा।आभ्यन्तरः च बाह्यः च पौर-जानपदः जनः॥ ५१॥
āśaṃsate janaḥ sarvaḥ rāṣṭre puravare tathā.ābhyantaraḥ ca bāhyaḥ ca paura-jānapadaḥ janaḥ.. 51..
स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः।सर्वा देवान्नमस्यन्ति रामस्यार्थे मनस्विनः।तेषां तद् याचितं देव त्वत्प्रसादात्समृद्ध्यताम्॥ ५२॥
स्त्रियः वृद्धाः तरुण्यः च सायम् प्रातर् समाहिताः।सर्वाः देवान् नमस्यन्ति रामस्य अर्थे मनस्विनः।तेषाम् तत् याचितम् देव त्वद्-प्रसादात् समृद्ध्यताम्-अताम्॥ ५२॥
striyaḥ vṛddhāḥ taruṇyaḥ ca sāyam prātar samāhitāḥ.sarvāḥ devān namasyanti rāmasya arthe manasvinaḥ.teṣām tat yācitam deva tvad-prasādāt samṛddhyatām-atām.. 52..
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्।पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्॥ ५३॥
रामम् इन्दीवर-श्यामम् सर्व-शत्रु-निबर्हणम्।पश्यामः यौवराज्य-स्थम् तव राज-उत्तम-आत्मजम्॥ ५३॥
rāmam indīvara-śyāmam sarva-śatru-nibarhaṇam.paśyāmaḥ yauvarājya-stham tava rāja-uttama-ātmajam.. 53..
तं देवदेवोपममात्मजं तेसर्वस्य लोकस्य हिते निविष्टम्।हिताय नः क्षिप्रमुदारजुष्टंमुदाभिषेक्तुं वरद त्वमर्हसि॥ ५४॥
तम् देवदेव-उपमम् आत्मजम् ते सर्वस्य लोकस्य हिते निविष्टम्।हिताय नः क्षिप्रम् उदार-जुष्टम् मुदा अभिषेक्तुम् वर-द त्वम् अर्हसि॥ ५४॥
tam devadeva-upamam ātmajam te sarvasya lokasya hite niviṣṭam.hitāya naḥ kṣipram udāra-juṣṭam mudā abhiṣektum vara-da tvam arhasi.. 54..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे द्वितीयः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe dvitīyaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In