This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे विंशः सर्गः ॥२-२०॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे विंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe viṃśaḥ sargaḥ ..2..
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा॥ १॥
तस्मिन् तु पुरुष-व्याघ्रे निष्क्रामति कृत-अञ्जलौ।आर्त-शब्दः महान् जज्ञे स्त्रीणाम् अन्तःपुरे तदा॥ १॥
tasmin tu puruṣa-vyāghre niṣkrāmati kṛta-añjalau.ārta-śabdaḥ mahān jajñe strīṇām antaḥpure tadā.. 1..
कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च।गतिश्च शरणं चासीत् स रामोऽद्य प्रवत्स्यति॥ २॥
कृत्येषु अ चोदितः पित्रा सर्वस्य अन्तःपुरस्य च।गतिः च शरणम् च आसीत् स रामः अद्य प्रवत्स्यति॥ २॥
kṛtyeṣu a coditaḥ pitrā sarvasya antaḥpurasya ca.gatiḥ ca śaraṇam ca āsīt sa rāmaḥ adya pravatsyati.. 2..
कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा।तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः॥ ३॥
कौसल्यायाम् यथा युक्तः जनन्याम् वर्तते सदा।तथा एव वर्तते अस्मासु जन्म-प्रभृति राघवः॥ ३॥
kausalyāyām yathā yuktaḥ jananyām vartate sadā.tathā eva vartate asmāsu janma-prabhṛti rāghavaḥ.. 3..
न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्।क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति॥ ४॥
न क्रुध्यति अभिशप्तः अपि क्रोधनीयानि वर्जयन्।क्रुद्धान् प्रसादयन् सर्वान् सः इतस् अद्य प्रवत्स्यति॥ ४॥
na krudhyati abhiśaptaḥ api krodhanīyāni varjayan.kruddhān prasādayan sarvān saḥ itas adya pravatsyati.. 4..
अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्।यो गतिं सर्वभूतानां परित्यजति राघवम्॥ ५॥
अबुद्धिः बत नः राजा जीव-लोकम् चरति अयम्।यः गतिम् सर्व-भूतानाम् परित्यजति राघवम्॥ ५॥
abuddhiḥ bata naḥ rājā jīva-lokam carati ayam.yaḥ gatim sarva-bhūtānām parityajati rāghavam.. 5..
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।पतिमाचुक्रुशुश्चापि सस्वनं चापि चुक्रुशुः॥ ६॥
इति सर्वाः महिष्यः ताः विवत्साः इव धेनवः।पतिम् आचुक्रुशुः च अपि स स्वनम् च अपि चुक्रुशुः॥ ६॥
iti sarvāḥ mahiṣyaḥ tāḥ vivatsāḥ iva dhenavaḥ.patim ācukruśuḥ ca api sa svanam ca api cukruśuḥ.. 6..
स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः।पुत्रशोकाभिसंतप्तः श्रुत्वा व्यालीयतासने॥ ७॥
स हि च अन्तःपुरे घोरम् आर्त-शब्दम् महीपतिः।पुत्र-शोक-अभिसंतप्तः श्रुत्वा व्यालीयत आसने॥ ७॥
sa hi ca antaḥpure ghoram ārta-śabdam mahīpatiḥ.putra-śoka-abhisaṃtaptaḥ śrutvā vyālīyata āsane.. 7..
रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः।जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी॥ ८॥
रामः तु भृशम् आयस्तः निःश्वसन् इव कुञ्जरः।जगाम सहितः भ्रात्रा मातुः अन्तःपुरम् वशी॥ ८॥
rāmaḥ tu bhṛśam āyastaḥ niḥśvasan iva kuñjaraḥ.jagāma sahitaḥ bhrātrā mātuḥ antaḥpuram vaśī.. 8..
सोऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम्।उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून्॥ ९॥
सः अपश्यत् पुरुषम् तत्र वृद्धम् परम-पूजितम्।उपविष्टम् गृह-द्वारि तिष्ठतः च अपरान् बहून्॥ ९॥
saḥ apaśyat puruṣam tatra vṛddham parama-pūjitam.upaviṣṭam gṛha-dvāri tiṣṭhataḥ ca aparān bahūn.. 9..
दृष्ट्वैव तु तदा रामं ते सर्वे समुपस्थिताः।जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम्॥ १०॥
दृष्ट्वा एव तु तदा रामम् ते सर्वे समुपस्थिताः।जयेन जयताम् श्रेष्ठम् वर्धयन्ति स्म राघवम्॥ १०॥
dṛṣṭvā eva tu tadā rāmam te sarve samupasthitāḥ.jayena jayatām śreṣṭham vardhayanti sma rāghavam.. 10..
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः।ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान्॥ ११॥
प्रविश्य प्रथमाम् कक्ष्याम् द्वितीयायाम् ददर्श सः।ब्राह्मणान् वेद-सम्पन्नान् वृद्धान् राज्ञा अभिसत्कृतान्॥ ११॥
praviśya prathamām kakṣyām dvitīyāyām dadarśa saḥ.brāhmaṇān veda-sampannān vṛddhān rājñā abhisatkṛtān.. 11..
प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः।स्त्रियो बालाश्च वृद्धाश्च द्वाररक्षणतत्पराः॥ १२॥
प्रणम्य रामः तान् वृद्धान् तृतीयायाम् ददर्श सः।स्त्रियः बालाः च वृद्धाः च द्वार-रक्षण-तत्पराः॥ १२॥
praṇamya rāmaḥ tān vṛddhān tṛtīyāyām dadarśa saḥ.striyaḥ bālāḥ ca vṛddhāḥ ca dvāra-rakṣaṇa-tatparāḥ.. 12..
वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः।न्यवेदयन्त त्वरितं राममातुः प्रियं तदा॥ १३॥
वर्धयित्वा प्रहृष्टाः ताः प्रविश्य च गृहम् स्त्रियः।न्यवेदयन्त त्वरितम् राम-मातुः प्रियम् तदा॥ १३॥
vardhayitvā prahṛṣṭāḥ tāḥ praviśya ca gṛham striyaḥ.nyavedayanta tvaritam rāma-mātuḥ priyam tadā.. 13..
कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता।प्रभाते चाकरोत् पूजां विष्णोः पुत्रहितैषिणी॥१४॥
कौसल्या अपि तदा देवी रात्रिम् स्थित्वा समाहिता।प्रभाते च अकरोत् पूजाम् विष्णोः पुत्र-हित-एषिणी॥१४॥
kausalyā api tadā devī rātrim sthitvā samāhitā.prabhāte ca akarot pūjām viṣṇoḥ putra-hita-eṣiṇī..14..
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा।अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला॥ १५॥
सा क्षौम-वसना हृष्टा नित्यम् व्रत-परायणा।अग्निम् जुहोति स्म तदा मन्त्रवत् कृत-मङ्गला॥ १५॥
sā kṣauma-vasanā hṛṣṭā nityam vrata-parāyaṇā.agnim juhoti sma tadā mantravat kṛta-maṅgalā.. 15..
प्रविश्य तु तदा रामो मातुरन्तःपुरं शुभम्।ददर्श मातरं तत्र हावयन्तीं हुताशनम्॥ १६॥
प्रविश्य तु तदा रामः मातुः अन्तःपुरम् शुभम्।ददर्श मातरम् तत्र हावयन्तीम् हुताशनम्॥ १६॥
praviśya tu tadā rāmaḥ mātuḥ antaḥpuram śubham.dadarśa mātaram tatra hāvayantīm hutāśanam.. 16..
देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम्।दध्यक्षतघृतं चैव मोदकान् हविषस्तथा॥ १७॥
देव-कार्य-निमित्तम् च तत्र अपश्यत् समुद्यतम्।दधि-अक्षत-घृतम् च एव मोदकान् हविषः तथा॥ १७॥
deva-kārya-nimittam ca tatra apaśyat samudyatam.dadhi-akṣata-ghṛtam ca eva modakān haviṣaḥ tathā.. 17..
लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा।समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः॥ १८॥
लाजान् माल्यानि शुक्लानि पायसम् कृसरम् तथा।समिधः पूर्ण-कुम्भान् च ददर्श रघुनन्दनः॥ १८॥
lājān mālyāni śuklāni pāyasam kṛsaram tathā.samidhaḥ pūrṇa-kumbhān ca dadarśa raghunandanaḥ.. 18..
तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्।तर्पयन्तीं ददर्शाद्भिर्देवतां वरवर्णिनीम्॥ १९॥
ताम् शुक्ल-क्षौम-संवीताम् व्रत-योगेन कर्शिताम्।तर्पयन्तीम् ददर्श अद्भिः देवताम् वरवर्णिनीम्॥ १९॥
tām śukla-kṣauma-saṃvītām vrata-yogena karśitām.tarpayantīm dadarśa adbhiḥ devatām varavarṇinīm.. 19..
सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्।अभिचक्राम संहृष्टा किशोरं वडवा यथा॥ २०॥
सा चिरस्य आत्मजम् दृष्ट्वा मातृ-नन्दनम् आगतम्।अभिचक्राम संहृष्टा किशोरम् वडवा यथा॥ २०॥
sā cirasya ātmajam dṛṣṭvā mātṛ-nandanam āgatam.abhicakrāma saṃhṛṣṭā kiśoram vaḍavā yathā.. 20..
स मातरमुपक्रान्तामुपसंगृह्य राघवः।परिष्वक्तश्च बाहुभ्यामवघ्रातश्च मूर्धनि॥ २१॥
स मातरम् उपक्रान्ताम् उपसंगृह्य राघवः।परिष्वक्तः च बाहुभ्याम् अवघ्रातः च मूर्धनि॥ २१॥
sa mātaram upakrāntām upasaṃgṛhya rāghavaḥ.pariṣvaktaḥ ca bāhubhyām avaghrātaḥ ca mūrdhani.. 21..
तमुवाच दुराधर्षं राघवं सुतमात्मनः।कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः॥ २२॥
तम् उवाच दुराधर्षम् राघवम् सुतम् आत्मनः।कौसल्या पुत्र-वात्सल्यात् इदम् प्रिय-हितम् वचः॥ २२॥
tam uvāca durādharṣam rāghavam sutam ātmanaḥ.kausalyā putra-vātsalyāt idam priya-hitam vacaḥ.. 22..
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्।प्राप्नुह्यायुश्च कीर्तिं च धर्मं चाप्युचितं कुले॥ २३॥
वृद्धानाम् धर्म-शीलानाम् राजर्षीणाम् महात्मनाम्।प्राप्नुहि आयुः च कीर्तिम् च धर्मम् च अपि उचितम् कुले॥ २३॥
vṛddhānām dharma-śīlānām rājarṣīṇām mahātmanām.prāpnuhi āyuḥ ca kīrtim ca dharmam ca api ucitam kule.. 23..
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव।अद्यैव त्वां स धर्मात्मा यौवराज्येऽभिषेक्ष्यति॥ २४॥
सत्य-प्रतिज्ञम् पितरम् राजानम् पश्य राघव।अद्या एव त्वाम् स धर्म-आत्मा यौवराज्ये अभिषेक्ष्यति॥ २४॥
satya-pratijñam pitaram rājānam paśya rāghava.adyā eva tvām sa dharma-ātmā yauvarājye abhiṣekṣyati.. 24..
दत्तमासनमालभ्य भोजनेन निमन्त्रितः।मातरं राघवः किंचित् प्रसार्याञ्जलिमब्रवीत्॥ २५॥
दत्तम् आसनम् आलभ्य भोजनेन निमन्त्रितः।मातरम् राघवः किंचिद् प्रसार्य अञ्जलिम् अब्रवीत्॥ २५॥
dattam āsanam ālabhya bhojanena nimantritaḥ.mātaram rāghavaḥ kiṃcid prasārya añjalim abravīt.. 25..
स स्वभावविनीतश्च गौरवाच्च तथानतः।प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे॥ २६॥
स स्वभाव-विनीतः च गौरवात् च तथा आनतः।प्रस्थितः दण्डक-अरण्यम् आप्रष्टुम् उपचक्रमे॥ २६॥
sa svabhāva-vinītaḥ ca gauravāt ca tathā ānataḥ.prasthitaḥ daṇḍaka-araṇyam āpraṣṭum upacakrame.. 26..
देवि नूनं न जानीषे महद् भयमुपस्थितम्।इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च॥ २७॥
देवि नूनम् न जानीषे महत् भयम् उपस्थितम्।इदम् तव च दुःखाय वैदेह्याः लक्ष्मणस्य च॥ २७॥
devi nūnam na jānīṣe mahat bhayam upasthitam.idam tava ca duḥkhāya vaidehyāḥ lakṣmaṇasya ca.. 27..
गमिष्ये दण्डकारण्यं किमनेनासनेन मे।विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः॥ २८॥
गमिष्ये दण्डक-अरण्यम् किम् अनेन आसनेन मे।विष्टरासन-योग्यः हि कालः अयम् माम् उपस्थितः॥ २८॥
gamiṣye daṇḍaka-araṇyam kim anena āsanena me.viṣṭarāsana-yogyaḥ hi kālaḥ ayam mām upasthitaḥ.. 28..
चतुर्दश हि वर्षाणि वत्स्याम विजने वने।कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम्॥ २९॥
चतुर्दश हि वर्षाणि वत्स्याम विजने वने।कन्द-मूल-फलैः जीवन् हित्वा मुनि-वत् आमिषम्॥ २९॥
caturdaśa hi varṣāṇi vatsyāma vijane vane.kanda-mūla-phalaiḥ jīvan hitvā muni-vat āmiṣam.. 29..
भरताय महाराजो यौवराज्यं प्रयच्छति।मां पुनर्दण्डकारण्यं विवासयति तापसम्॥ ३०॥
भरताय महा-राजः यौवराज्यम् प्रयच्छति।माम् पुनर् दण्डक-अरण्यम् विवासयति तापसम्॥ ३०॥
bharatāya mahā-rājaḥ yauvarājyam prayacchati.mām punar daṇḍaka-araṇyam vivāsayati tāpasam.. 30..
स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने।आसेवमानो वन्यानि फलमूलैश्च वर्तयन्॥ ३१॥
स षड् च अष्टौ च वर्षाणि वत्स्यामि विजने वने।आसेवमानः वन्यानि फल-मूलैः च वर्तयन्॥ ३१॥
sa ṣaḍ ca aṣṭau ca varṣāṇi vatsyāmi vijane vane.āsevamānaḥ vanyāni phala-mūlaiḥ ca vartayan.. 31..
सा निकृत्तेव सालस्य यष्टिः परशुना वने।पपात सहसा देवी देवतेव दिवश्च्युता॥ ३२॥
सा निकृत्ता इव सालस्य यष्टिः परशुना वने।पपात सहसा देवी देवता इव दिवः च्युता॥ ३२॥
sā nikṛttā iva sālasya yaṣṭiḥ paraśunā vane.papāta sahasā devī devatā iva divaḥ cyutā.. 32..
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव।रामस्तूत्थापयामास मातरं गतचेतसम्॥ ३३॥
ताम् अदुःख-उचिताम् दृष्ट्वा पतिताम् कदलीम् इव।रामः तु उत्थापयामास मातरम् गत-चेतसम्॥ ३३॥
tām aduḥkha-ucitām dṛṣṭvā patitām kadalīm iva.rāmaḥ tu utthāpayāmāsa mātaram gata-cetasam.. 33..
उपावृत्योत्थितां दीनां वडवामिव वाहिताम्।पांसुगुण्ठितसर्वाङ्गीं विममर्श च पाणिना॥ ३४॥
उपावृत्य उत्थिताम् दीनाम् वडवाम् इव वाहिताम्।पांसु-गुण्ठित-सर्व-अङ्गीम् विममर्श च पाणिना॥ ३४॥
upāvṛtya utthitām dīnām vaḍavām iva vāhitām.pāṃsu-guṇṭhita-sarva-aṅgīm vimamarśa ca pāṇinā.. 34..
सा राघवमुपासीनमसुखार्ता सुखोचिता।उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे॥ ३५॥
सा राघवम् उपासीनम् असुख-आर्ता सुख-उचिता।उवाच पुरुष-व्याघ्रम् उपशृण्वति लक्ष्मणे॥ ३५॥
sā rāghavam upāsīnam asukha-ārtā sukha-ucitā.uvāca puruṣa-vyāghram upaśṛṇvati lakṣmaṇe.. 35..
यदि पुत्र न जायेथा मम शोकाय राघव।न स्म दुःखमतो भूयः पश्येयमहमप्रजाः॥ ३६॥
यदि पुत्र न जायेथाः मम शोकाय राघव।न स्म दुःखम् अतस् भूयस् पश्येयम् अहम् अप्रजाः॥ ३६॥
yadi putra na jāyethāḥ mama śokāya rāghava.na sma duḥkham atas bhūyas paśyeyam aham aprajāḥ.. 36..
एक एव हि वन्ध्यायाः शोको भवति मानसः।अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते॥ ३७॥
एकः एव हि वन्ध्यायाः शोकः भवति मानसः।अप्रजा अस्मि इति संतापः न हि अन्यः पुत्र विद्यते॥ ३७॥
ekaḥ eva hi vandhyāyāḥ śokaḥ bhavati mānasaḥ.aprajā asmi iti saṃtāpaḥ na hi anyaḥ putra vidyate.. 37..
न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे।अपि पुत्रे विपश्येयमिति रामास्थितं मया॥ ३८॥
न दृष्ट-पूर्वम् कल्याणम् सुखम् वा पति-पौरुषे।अपि पुत्रे विपश्येयम् इति राम आस्थितम् मया॥ ३८॥
na dṛṣṭa-pūrvam kalyāṇam sukham vā pati-pauruṣe.api putre vipaśyeyam iti rāma āsthitam mayā.. 38..
सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्।अहं श्रोष्ये सपत्नीनामवराणां परा सती॥ ३९॥
सा बहूनि अमनोज्ञानि वाक्यानि हृदय-छिदाम्।अहम् श्रोष्ये सपत्नीनाम् अवराणाम् परा सती॥ ३९॥
sā bahūni amanojñāni vākyāni hṛdaya-chidām.aham śroṣye sapatnīnām avarāṇām parā satī.. 39..
अतो दुःखतरं किं नु प्रमदानां भविष्यति।मम शोको विलापश्च यादृशोऽयमनन्तकः॥ ४०॥
अतस् दुःखतरम् किम् नु प्रमदानाम् भविष्यति।मम शोकः विलापः च यादृशः अयम् अनन्तकः॥ ४०॥
atas duḥkhataram kim nu pramadānām bhaviṣyati.mama śokaḥ vilāpaḥ ca yādṛśaḥ ayam anantakaḥ.. 40..
त्वयि संनिहितेऽप्येवमहमासं निराकृता।किं पुनः प्रोषिते तात ध्रुवं मरणमेव हि॥ ४१॥
त्वयि संनिहिते अपि एवम् अहम् आसम् निराकृता।किम् पुनर् प्रोषिते तात ध्रुवम् मरणम् एव हि॥ ४१॥
tvayi saṃnihite api evam aham āsam nirākṛtā.kim punar proṣite tāta dhruvam maraṇam eva hi.. 41..
अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमसम्मता।परिवारेण कैकेय्याः समा वाप्यथवावरा॥ ४२॥
अत्यन्तम् निगृहीता अस्मि भर्तुः नित्यम् अ सम्मता।परिवारेण कैकेय्याः समा वा अपि अथवा अवरा॥ ४२॥
atyantam nigṛhītā asmi bhartuḥ nityam a sammatā.parivāreṇa kaikeyyāḥ samā vā api athavā avarā.. 42..
यो हि मां सेवते कश्चिदपि वाप्यनुवर्तते।कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते॥ ४३॥
यः हि माम् सेवते कश्चिद् अपि वा अपि अनुवर्तते।कैकेय्याः पुत्रम् अन्वीक्ष्य स जनः न अभिभाषते॥ ४३॥
yaḥ hi mām sevate kaścid api vā api anuvartate.kaikeyyāḥ putram anvīkṣya sa janaḥ na abhibhāṣate.. 43..
नित्यक्रोधतया तस्याः कथं नु खरवादि तत्।कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता॥ ४४॥
नित्य-क्रोध-तया तस्याः कथम् नु खर-वादि तत्।कैकेय्याः वदनम् द्रष्टुम् पुत्र शक्ष्यामि दुर्गता॥ ४४॥
nitya-krodha-tayā tasyāḥ katham nu khara-vādi tat.kaikeyyāḥ vadanam draṣṭum putra śakṣyāmi durgatā.. 44..
दश सप्त च वर्षाणि जातस्य तव राघव।अतीतानि प्रकांक्षन्त्या मया दुःखपरिक्षयम्॥ ४५॥
दश सप्त च वर्षाणि जातस्य तव राघव।अतीतानि प्रकांक्षन्त्या मया दुःख-परिक्षयम्॥ ४५॥
daśa sapta ca varṣāṇi jātasya tava rāghava.atītāni prakāṃkṣantyā mayā duḥkha-parikṣayam.. 45..
तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरात्।विप्रकारं सपत्नीनामेवं जीर्णापि राघव॥ ४६॥
तत् अक्षयम् महत् दुःखम् ना उत्सहे सहितुम् चिरात्।विप्रकारम् सपत्नीनाम् एवम् जीर्णा अपि राघव॥ ४६॥
tat akṣayam mahat duḥkham nā utsahe sahitum cirāt.viprakāram sapatnīnām evam jīrṇā api rāghava.. 46..
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्।कृपणा वर्तयिष्यामि कथं कृपणजीविका॥ ४७॥
अ पश्यन्ती तव मुखम् परिपूर्ण-शशि-प्रभम्।कृपणा वर्तयिष्यामि कथम् कृपण-जीविका॥ ४७॥
a paśyantī tava mukham paripūrṇa-śaśi-prabham.kṛpaṇā vartayiṣyāmi katham kṛpaṇa-jīvikā.. 47..
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः।दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया॥ ४८॥
उपवासैः च योगैः च बहुभिः च परिश्रमैः।दुःख-संवर्धितः मोघम् त्वम् हि दुर्गतया मया॥ ४८॥
upavāsaiḥ ca yogaiḥ ca bahubhiḥ ca pariśramaiḥ.duḥkha-saṃvardhitaḥ mogham tvam hi durgatayā mayā.. 48..
स्थिरं नु हृदयं मन्ये ममेदं यन्न दीर्यते।प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा॥ ४९॥
स्थिरम् नु हृदयम् मन्ये मम इदम् यत् न दीर्यते।प्रावृषि इव महा-नद्याः स्पृष्टम् कूलम् नव-अम्भसा॥ ४९॥
sthiram nu hṛdayam manye mama idam yat na dīryate.prāvṛṣi iva mahā-nadyāḥ spṛṣṭam kūlam nava-ambhasā.. 49..
ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम।यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव॥ ५०॥
मम एव नूनम् मरणम् न विद्यते न च अवकाशः अस्ति यम-क्षये मम।यत् अन्तकः अद्य एव न माम् जिहीर्षति प्रसह्य सिंहः रुदतीम् मृगीम् इव॥ ५०॥
mama eva nūnam maraṇam na vidyate na ca avakāśaḥ asti yama-kṣaye mama.yat antakaḥ adya eva na mām jihīrṣati prasahya siṃhaḥ rudatīm mṛgīm iva.. 50..
स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद् भुवि नो विदीर्यते।अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते॥ ५१॥
स्थिरम् हि नूनम् हृदयम् मम आयसम् न भिद्यते यत् भुवि नो विदीर्यते।अनेन दुःखेन च देहम् अर्पितम् ध्रुवम् हि अकाले मरणम् न विद्यते॥ ५१॥
sthiram hi nūnam hṛdayam mama āyasam na bhidyate yat bhuvi no vidīryate.anena duḥkhena ca deham arpitam dhruvam hi akāle maraṇam na vidyate.. 51..
इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि।तपश्च तप्तं यदपत्यकाम्यया सुनिष्फलं बीजमिवोप्तमूषरे॥ ५२॥
इदम् तु दुःखम् यत् अनर्थकानि मे व्रतानि दानानि च संयमाः च हि।तपः च तप्तम् यत् अपत्य-काम्यया सु निष्फलम् बीजम् इव उप्तम् ऊषरे॥ ५२॥
idam tu duḥkham yat anarthakāni me vratāni dānāni ca saṃyamāḥ ca hi.tapaḥ ca taptam yat apatya-kāmyayā su niṣphalam bījam iva uptam ūṣare.. 52..
यदि ह्यकाले मरणं यदृच्छया लभेत कश्चिद् गुरुदुःखकर्शितः।गताहमद्यैव परेतसंसदं विना त्वया धेनुरिवात्मजेन वै॥ ५३॥
यदि हि अकाले मरणम् यदृच्छया लभेत कश्चिद् गुरु-दुःख-कर्शितः।गता अहम् अद्या एव परेत-संसदम् विना त्वया धेनुः इव आत्मजेन वै॥ ५३॥
yadi hi akāle maraṇam yadṛcchayā labheta kaścid guru-duḥkha-karśitaḥ.gatā aham adyā eva pareta-saṃsadam vinā tvayā dhenuḥ iva ātmajena vai.. 53..
अथापि किं जीवितमद्य मे वृथा त्वया विना चन्द्रनिभाननप्रभ।अनुव्रजिष्यामि वनं त्वयैव गौः सुदुर्बला वत्समिवाभिकांक्षया॥ ५४॥
अथा अपि किम् जीवितम् अद्य मे वृथा त्वया विना चन्द्र-निभ-आनन-प्रभ।अनुव्रजिष्यामि वनम् त्वया एव गौः सु दुर्बला वत्सम् इव अभिकांक्षया॥ ५४॥
athā api kim jīvitam adya me vṛthā tvayā vinā candra-nibha-ānana-prabha.anuvrajiṣyāmi vanam tvayā eva gauḥ su durbalā vatsam iva abhikāṃkṣayā.. 54..
भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम्।व्यसनमुपनिशाम्य सा महत् सुतमिव बद्धमवेक्ष्य किंनरी॥ ५५॥
भृशम् असुखम् अमर्षिता तदा बहु विललाप समीक्ष्य राघवम्।व्यसनम् उपनिशाम्य सा महत् सुतम् इव बद्धम् अवेक्ष्य किंनरी॥ ५५॥
bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam.vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī.. 55..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे विंशः सर्गः ॥२-२०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे विंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe viṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In