This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-२२॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे द्वाविंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe dvāviṃśaḥ sargaḥ ..2..
अथ तं व्यथया दीनं सविशेषममर्षितम्।सरोषमिव नागेन्द्रं रोषविस्फारितेक्षणम्॥ १॥
अथ तम् व्यथया दीनम् स विशेषम् अमर्षितम्।स रोषम् इव नाग-इन्द्रम् रोष-विस्फारित-ईक्षणम्॥ १॥
atha tam vyathayā dīnam sa viśeṣam amarṣitam.sa roṣam iva nāga-indram roṣa-visphārita-īkṣaṇam.. 1..
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्।उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान्॥ २॥
आसाद्य रामः सौमित्रिम् सुहृदम् भ्रातरम् प्रियम्।उवाच इदम् स धैर्येण धारयन् सत्त्वम् आत्मवान्॥ २॥
āsādya rāmaḥ saumitrim suhṛdam bhrātaram priyam.uvāca idam sa dhairyeṇa dhārayan sattvam ātmavān.. 2..
निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम्।अवमानं निरस्यैनं गृहीत्वा हर्षमुत्तमम्॥ ३॥
निगृह्य रोषम् शोकम् च धैर्यम् आश्रित्य केवलम्।अवमानम् निरस्य एनम् गृहीत्वा हर्षम् उत्तमम्॥ ३॥
nigṛhya roṣam śokam ca dhairyam āśritya kevalam.avamānam nirasya enam gṛhītvā harṣam uttamam.. 3..
उपक्लृप्तं यदैतन्मे अभिषेकार्थमुत्तमम्।सर्वं निवर्तय क्षिप्रं कुरु कार्यं निरव्ययम्॥ ४॥
उपक्लृप्तम् यदा एतत् मे अभिषेक-अर्थम् उत्तमम्।सर्वम् निवर्तय क्षिप्रम् कुरु कार्यम् निरव्ययम्॥ ४॥
upaklṛptam yadā etat me abhiṣeka-artham uttamam.sarvam nivartaya kṣipram kuru kāryam niravyayam.. 4..
सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः।अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः॥ ५॥
सौमित्रे यः अभिषेक-अर्थे मम सम्भार-सम्भ्रमः।अभिषेक-निवृत्ति-अर्थे सः अस्तु सम्भार-सम्भ्रमः॥ ५॥
saumitre yaḥ abhiṣeka-arthe mama sambhāra-sambhramaḥ.abhiṣeka-nivṛtti-arthe saḥ astu sambhāra-sambhramaḥ.. 5..
यस्या मदभिषेकार्थे मानसं परितप्यते।माता नः सा यथा न स्यात् सविशङ्का तथा कुरु॥ ६॥
यस्याः मद्-अभिषेक-अर्थे मानसम् परितप्यते।माता नः सा यथा न स्यात् स विशङ्का तथा कुरु॥ ६॥
yasyāḥ mad-abhiṣeka-arthe mānasam paritapyate.mātā naḥ sā yathā na syāt sa viśaṅkā tathā kuru.. 6..
तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे।मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम्॥ ७॥
तस्याः शङ्कामयम् दुःखम् मुहूर्तम् अपि ना उत्सहे।मनसि प्रतिसंजातम् सौमित्रे अहम् उपेक्षितुम्॥ ७॥
tasyāḥ śaṅkāmayam duḥkham muhūrtam api nā utsahe.manasi pratisaṃjātam saumitre aham upekṣitum.. 7..
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन।मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम्॥ ८॥
न बुद्धि-पूर्वम् न अबुद्धम् स्मरामि इह कदाचन।मातॄणाम् वा पितुः वा अहम् कृतम् अल्पम् च विप्रियम्॥ ८॥
na buddhi-pūrvam na abuddham smarāmi iha kadācana.mātṝṇām vā pituḥ vā aham kṛtam alpam ca vipriyam.. 8..
सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः।परलोकभयाद् भीतो निर्भयोऽस्तु पिता मम॥ ९॥
सत्यः सत्य-अभिसंधः च नित्यम् सत्य-पराक्रमः।पर-लोक-भयात् भीतः निर्भयः अस्तु पिता मम॥ ९॥
satyaḥ satya-abhisaṃdhaḥ ca nityam satya-parākramaḥ.para-loka-bhayāt bhītaḥ nirbhayaḥ astu pitā mama.. 9..
तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते।सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्॥ १०॥
तस्य अपि हि भवेत् अस्मिन् कर्मणि अ प्रतिसंहृते।सत्यम् ना इति मनः तापः तस्य तापः तपेत् च माम्॥ १०॥
tasya api hi bhavet asmin karmaṇi a pratisaṃhṛte.satyam nā iti manaḥ tāpaḥ tasya tāpaḥ tapet ca mām.. 10..
अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण।अन्वगेवाहमिच्छामि वनं गन्तुमितः पुरः॥ ११॥
अभिषेक-विधानम् तु तस्मात् संहृत्य लक्ष्मण।अन्वक् एव अहम् इच्छामि वनम् गन्तुम् इतस् पुरस्॥ ११॥
abhiṣeka-vidhānam tu tasmāt saṃhṛtya lakṣmaṇa.anvak eva aham icchāmi vanam gantum itas puras.. 11..
मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा।सुतं भरतमव्यग्रमभिषेचयतां ततः॥ १२॥
मम प्रव्राजनात् अद्य कृतकृत्या नृप-आत्मजा।सुतम् भरतम् अव्यग्रम् अभिषेचयताम् ततस्॥ १२॥
mama pravrājanāt adya kṛtakṛtyā nṛpa-ātmajā.sutam bharatam avyagram abhiṣecayatām tatas.. 12..
मयि चीराजिनधरे जटामण्डलधारिणि।गतेऽरण्यं च कैकेय्या भविष्यति मनः सुखम्॥ १३॥
मयि चीर-अजिन-धरे जटा-मण्डल-धारिणि।गते अरण्यम् च कैकेय्याः भविष्यति मनः सुखम्॥ १३॥
mayi cīra-ajina-dhare jaṭā-maṇḍala-dhāriṇi.gate araṇyam ca kaikeyyāḥ bhaviṣyati manaḥ sukham.. 13..
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्।तं नु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम्॥ १४॥
बुद्धिः प्रणीता येन इयम् मनः च सु समाहितम्।तम् नु न अर्हामि संक्लेष्टुम् प्रव्रजिष्यामि मा चिरम्॥ १४॥
buddhiḥ praṇītā yena iyam manaḥ ca su samāhitam.tam nu na arhāmi saṃkleṣṭum pravrajiṣyāmi mā ciram.. 14..
कृतान्त एव सौमित्रे द्रष्टव्यो मत्प्रवासने।राज्यस्य च वितीर्णस्य पुनरेव निवर्तने॥ १५॥
कृतान्तः एव सौमित्रे द्रष्टव्यः मद्-प्रवासने।राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने॥ १५॥
kṛtāntaḥ eva saumitre draṣṭavyaḥ mad-pravāsane.rājyasya ca vitīrṇasya punar eva nivartane.. 15..
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम वेदने।यदि तस्या न भावोऽयं कृतान्तविहितो भवेत्॥ १६॥
कैकेय्याः प्रतिपत्तिः हि कथम् स्यात् मम वेदने।यदि तस्याः न भावः अयम् कृतान्त-विहितः भवेत्॥ १६॥
kaikeyyāḥ pratipattiḥ hi katham syāt mama vedane.yadi tasyāḥ na bhāvaḥ ayam kṛtānta-vihitaḥ bhavet.. 16..
जानासि हि यथा सौम्य न मातृषु ममान्तरम्।भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा॥ १७॥
जानासि हि यथा सौम्य न मातृषु मम अन्तरम्।भूत-पूर्वम् विशेषः वा तस्याः मयि सुते अपि वा॥ १७॥
jānāsi hi yathā saumya na mātṛṣu mama antaram.bhūta-pūrvam viśeṣaḥ vā tasyāḥ mayi sute api vā.. 17..
सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः।उग्रैर्वाक्यैरहं तस्या नान्यद् दैवात् समर्थये॥ १८॥
सः अभिषेक-निवृत्ति-अर्थैः प्रवास-अर्थैः च दुर्वचैः।उग्रैः वाक्यैः अहम् तस्याः न अन्यत् दैवात् समर्थये॥ १८॥
saḥ abhiṣeka-nivṛtti-arthaiḥ pravāsa-arthaiḥ ca durvacaiḥ.ugraiḥ vākyaiḥ aham tasyāḥ na anyat daivāt samarthaye.. 18..
कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा।ब्रूयात् सा प्राकृतेव स्त्री मत्पीड्यं भर्तृसंनिधौ॥ १९॥
कथम् प्रकृति-सम्पन्ना राज-पुत्री तथागुणा।ब्रूयात् सा प्राकृता इव स्त्री मद्-पीड्यम् भर्तृ-संनिधौ॥ १९॥
katham prakṛti-sampannā rāja-putrī tathāguṇā.brūyāt sā prākṛtā iva strī mad-pīḍyam bhartṛ-saṃnidhau.. 19..
यदचिन्त्यं तु तद् दैवं भूतेष्वपि न हन्यते।व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः॥ २०॥
यत् अचिन्त्यम् तु तत् दैवम् भूतेषु अपि न हन्यते।व्यक्तम् मयि च तस्याम् च पतितः हि विपर्ययः॥ २०॥
yat acintyam tu tat daivam bhūteṣu api na hanyate.vyaktam mayi ca tasyām ca patitaḥ hi viparyayaḥ.. 20..
कश्च दैवेन सौमित्रे योद्धुमुत्सहते पुमान्।यस्य नु ग्रहणं किंचित् कर्मणोऽन्यन्न दृश्यते॥ २१॥
कः च दैवेन सौमित्रे योद्धुम् उत्सहते पुमान्।यस्य नु ग्रहणम् किंचिद् कर्मणः अन्यत् न दृश्यते॥ २१॥
kaḥ ca daivena saumitre yoddhum utsahate pumān.yasya nu grahaṇam kiṃcid karmaṇaḥ anyat na dṛśyate.. 21..
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ।यस्य किंचित् तथाभूतं ननु दैवस्य कर्म तत्॥ २२॥
सुख-दुःखे भय-क्रोधौ लाभ-अलाभौ भव-अभवौ।यस्य किंचिद् तथाभूतम् ननु दैवस्य कर्म तत्॥ २२॥
sukha-duḥkhe bhaya-krodhau lābha-alābhau bhava-abhavau.yasya kiṃcid tathābhūtam nanu daivasya karma tat.. 22..
ऋषयोऽप्युग्रतपसो दैवेनाभिप्रचोदिताः।उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः॥ २३॥
ऋषयः अपि उग्र-तपसः दैवेन अभिप्रचोदिताः।उत्सृज्य नियमान् तीव्रान् भ्रश्यन्ते काम-मन्युभिः॥ २३॥
ṛṣayaḥ api ugra-tapasaḥ daivena abhipracoditāḥ.utsṛjya niyamān tīvrān bhraśyante kāma-manyubhiḥ.. 23..
असंकल्पितमेवेह यदकस्मात् प्रवर्तते।निवर्त्यारब्धमारम्भैर्ननु दैवस्य कर्म तत्॥ २४॥
असंकल्पितम् एवा इह यत् अकस्मात् प्रवर्तते।निवर्त्य आरब्धम् आरम्भैः ननु दैवस्य कर्म तत्॥ २४॥
asaṃkalpitam evā iha yat akasmāt pravartate.nivartya ārabdham ārambhaiḥ nanu daivasya karma tat.. 24..
एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना।व्याहतेऽप्यभिषेके मे परितापो न विद्यते॥ २५॥
एतया तत्त्वया बुद्ध्या संस्तभ्य आत्मानम् आत्मना।व्याहते अपि अभिषेके मे परितापः न विद्यते॥ २५॥
etayā tattvayā buddhyā saṃstabhya ātmānam ātmanā.vyāhate api abhiṣeke me paritāpaḥ na vidyate.. 25..
तस्मादपरितापः संस्त्वमप्यनुविधाय माम्।प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम्॥ २६॥
तस्मात् अपरितापः सन् त्वम् अपि अनुविधाय माम्।प्रतिसंहारय क्षिप्रम् आभिषेचनिकीम् क्रियाम्॥ २६॥
tasmāt aparitāpaḥ san tvam api anuvidhāya mām.pratisaṃhāraya kṣipram ābhiṣecanikīm kriyām.. 26..
एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः।मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति॥ २७॥
एभिः एव घटैः सर्वैः अभिषेचन-सम्भृतैः।मम लक्ष्मण तापस्ये व्रत-स्नानम् भविष्यति॥ २७॥
ebhiḥ eva ghaṭaiḥ sarvaiḥ abhiṣecana-sambhṛtaiḥ.mama lakṣmaṇa tāpasye vrata-snānam bhaviṣyati.. 27..
अथवा किं मयैतेन राज्यद्रव्यमयेन तु।उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति॥ २८॥
अथवा किम् मया एतेन राज्य-द्रव्य-मयेन तु।उद्धृतम् मे स्वयम् तोयम् व्रत-आदेशम् करिष्यति॥ २८॥
athavā kim mayā etena rājya-dravya-mayena tu.uddhṛtam me svayam toyam vrata-ādeśam kariṣyati.. 28..
मा च लक्ष्मण संतापं कार्षीर्लक्ष्म्या विपर्यये।राज्यं वा वनवासो वा वनवासो महोदयः॥ २९॥
मा च लक्ष्मण संतापम् कार्षीः लक्ष्म्याः विपर्यये।राज्यम् वा वन-वासः वा वन-वासः महा-उदयः॥ २९॥
mā ca lakṣmaṇa saṃtāpam kārṣīḥ lakṣmyāḥ viparyaye.rājyam vā vana-vāsaḥ vā vana-vāsaḥ mahā-udayaḥ.. 29..
न लक्ष्मणास्मिन् मम राज्यविघ्ने माता यवीयस्यभिशङ्कितव्या।दैवाभिपन्ना न पिता कथंचि- ज्जानासि दैवं हि तथाप्रभावम्॥३०॥
न लक्ष्मण अस्मिन् मम राज्य-विघ्ने माता यवीयसी अभिशङ्कितव्या।दैव-अभिपन्नाः न पिता कथंचिद् जानासि दैवम् हि तथा प्रभावम्॥३०॥
na lakṣmaṇa asmin mama rājya-vighne mātā yavīyasī abhiśaṅkitavyā.daiva-abhipannāḥ na pitā kathaṃcid jānāsi daivam hi tathā prabhāvam..30..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-२२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे द्वाविंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe dvāviṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In