This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-२३॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे त्रयोविंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe trayoviṃśaḥ sargaḥ ..2..
इति ब्रुवति रामे तु लक्ष्मणोऽवाक् शिरा इव।ध्यात्वा मध्यं जगामाशु सहसा दैन्यहर्षयोः॥ १॥
इति ब्रुवति रामे तु लक्ष्मणः अवाक् शिराः इव।ध्यात्वा मध्यम् जगाम आशु सहसा दैन्य-हर्षयोः॥ १॥
iti bruvati rāme tu lakṣmaṇaḥ avāk śirāḥ iva.dhyātvā madhyam jagāma āśu sahasā dainya-harṣayoḥ.. 1..
तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः।निशश्वास महासर्पो बिलस्थ इव रोषितः॥ २॥
तदा तु बद्ध्वा भ्रुकुटीम् भ्रुवोः मध्ये नर-ऋषभः।निशश्वास महा-सर्पः बिल-स्थः इव रोषितः॥ २॥
tadā tu baddhvā bhrukuṭīm bhruvoḥ madhye nara-ṛṣabhaḥ.niśaśvāsa mahā-sarpaḥ bila-sthaḥ iva roṣitaḥ.. 2..
तस्य दुष्प्रतिवीक्ष्यं तद् भ्रुकुटीसहितं तदा।बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्॥ ३॥
तस्य दुष्प्रतिवीक्ष्यम् तत् भ्रुकुटी-सहितम् तदा।बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशम् मुखम्॥ ३॥
tasya duṣprativīkṣyam tat bhrukuṭī-sahitam tadā.babhau kruddhasya siṃhasya mukhasya sadṛśam mukham.. 3..
अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः।तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम्॥ ४॥
अग्र-हस्तम् विधुन्वन् तु हस्ती हस्तम् इव आत्मनः।तिर्यक् ऊर्ध्वम् शरीरे च पातयित्वा शिरोधराम्॥ ४॥
agra-hastam vidhunvan tu hastī hastam iva ātmanaḥ.tiryak ūrdhvam śarīre ca pātayitvā śirodharām.. 4..
अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्।अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम्॥ ५॥
अग्र-अक्ष्णा वीक्षमाणः तु तिर्यक्-भ्रातरम् अब्रवीत्।अस्थाने सम्भ्रमः यस्य जातः वै सु महान् अयम्॥ ५॥
agra-akṣṇā vīkṣamāṇaḥ tu tiryak-bhrātaram abravīt.asthāne sambhramaḥ yasya jātaḥ vai su mahān ayam.. 5..
धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया।कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति॥ ६॥
धर्म-दोष-प्रसङ्गेन लोकस्य अनतिशङ्कया।कथम् हि एतत् असम्भ्रान्तः त्वद्विधः वक्तुम् अर्हति॥ ६॥
dharma-doṣa-prasaṅgena lokasya anatiśaṅkayā.katham hi etat asambhrāntaḥ tvadvidhaḥ vaktum arhati.. 6..
यथा ह्येवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः।किं नाम कृपणं दैवमशक्तमभिशंससि॥ ७॥
यथा हि एवम् अशौण्डीरम् शौण्डीरः क्षत्रिय-ऋषभः।किम् नाम कृपणम् दैवम् अशक्तम् अभिशंससि॥ ७॥
yathā hi evam aśauṇḍīram śauṇḍīraḥ kṣatriya-ṛṣabhaḥ.kim nāma kṛpaṇam daivam aśaktam abhiśaṃsasi.. 7..
पापयोस्ते कथं नाम तयोः शङ्का न विद्यते।सन्ति धर्मोपधासक्ता धर्मात्मन् किं न बुध्यसे॥ ८॥
पापयोः ते कथम् नाम तयोः शङ्का न विद्यते।सन्ति धर्म-उपधा-आसक्ताः धर्म-आत्मन् किम् न बुध्यसे॥ ८॥
pāpayoḥ te katham nāma tayoḥ śaṅkā na vidyate.santi dharma-upadhā-āsaktāḥ dharma-ātman kim na budhyase.. 8..
तयोः सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः।यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव।तयोः प्रागेव दत्तश्च स्याद् वरः प्रकृतश्च सः॥ ९॥
तयोः सु चरितम् स्व-अर्थम् शाठ्यात् परिजिहीर्षतोः।यदि ना एवम् व्यवसितम् स्यात् हि प्राक् एव राघव।तयोः प्राक् एव दत्तः च स्यात् वरः प्रकृतः च सः॥ ९॥
tayoḥ su caritam sva-artham śāṭhyāt parijihīrṣatoḥ.yadi nā evam vyavasitam syāt hi prāk eva rāghava.tayoḥ prāk eva dattaḥ ca syāt varaḥ prakṛtaḥ ca saḥ.. 9..
लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्।नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि॥ १०॥
लोक-विद्विष्टम् आरब्धम् त्वद्-अन्यस्य अभिषेचनम्।न उत्सहे सहितुम् वीर तत्र मे क्षन्तुम् अर्हसि॥ १०॥
loka-vidviṣṭam ārabdham tvad-anyasya abhiṣecanam.na utsahe sahitum vīra tatra me kṣantum arhasi.. 10..
येनैवमागता द्वैधं तव बुद्धिर्महामते।सोऽपि धर्मो मम द्वेष्यो यत्प्रसङ्गाद् विमुह्यसि॥ ११॥
येन एवम् आगता द्वैधम् तव बुद्धिः महामते।सः अपि धर्मः मम द्वेष्यः यद्-प्रसङ्गात् विमुह्यसि॥ ११॥
yena evam āgatā dvaidham tava buddhiḥ mahāmate.saḥ api dharmaḥ mama dveṣyaḥ yad-prasaṅgāt vimuhyasi.. 11..
कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः।करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम्॥ १२॥
कथम् त्वम् कर्मणा शक्तः कैकेयी-वश-वर्तिनः।करिष्यसि पितुः वाक्यम् अधर्मिष्ठम् विगर्हितम्॥ १२॥
katham tvam karmaṇā śaktaḥ kaikeyī-vaśa-vartinaḥ.kariṣyasi pituḥ vākyam adharmiṣṭham vigarhitam.. 12..
यदयं किल्बिषाद् भेदः कृतोऽप्येवं न गृह्यते।जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः॥ १३॥
यत् अयम् किल्बिषात् भेदः कृतः अपि एवम् न गृह्यते।जायते तत्र मे दुःखम् धर्म-सङ्गः च गर्हितः॥ १३॥
yat ayam kilbiṣāt bhedaḥ kṛtaḥ api evam na gṛhyate.jāyate tatra me duḥkham dharma-saṅgaḥ ca garhitaḥ.. 13..
तवायं धर्मसंयोगो लोकस्यास्य विगर्हितः।मनसापि कथं कामं कुर्यात् त्वां कामवृत्तयोः।तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः॥ १४॥
तव अयम् धर्म-संयोगः लोकस्य अस्य विगर्हितः।मनसा अपि कथम् कामम् कुर्यात् त्वाम् काम-वृत्तयोः।तयोः तु अहितयोः नित्यम् शत्र्वोः पितृ-अभिधानयोः॥ १४॥
tava ayam dharma-saṃyogaḥ lokasya asya vigarhitaḥ.manasā api katham kāmam kuryāt tvām kāma-vṛttayoḥ.tayoḥ tu ahitayoḥ nityam śatrvoḥ pitṛ-abhidhānayoḥ.. 14..
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्।तथाप्युपेक्षणीयं ते न मे तदपि रोचते॥ १५॥
यदि अपि प्रतिपत्तिः ते दैवी च अपि तयोः मतम्।तथा अपि उपेक्षणीयम् ते न मे तत् अपि रोचते॥ १५॥
yadi api pratipattiḥ te daivī ca api tayoḥ matam.tathā api upekṣaṇīyam te na me tat api rocate.. 15..
विक्लवो वीर्यहीनो यः स दैवमनुवर्तते।वीराः सम्भावितात्मानो न दैवं पर्युपासते॥ १६॥
विक्लवः वीर्य-हीनः यः स दैवम् अनुवर्तते।वीराः सम्भावित-आत्मानः न दैवम् पर्युपासते॥ १६॥
viklavaḥ vīrya-hīnaḥ yaḥ sa daivam anuvartate.vīrāḥ sambhāvita-ātmānaḥ na daivam paryupāsate.. 16..
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥ १७॥
दैवम् पुरुषकारेण यः समर्थः प्रबाधितुम्।न दैवेन विपन्न-अर्थः पुरुषः सः अवसीदति॥ १७॥
daivam puruṣakāreṇa yaḥ samarthaḥ prabādhitum.na daivena vipanna-arthaḥ puruṣaḥ saḥ avasīdati.. 17..
द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च।दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति॥ १८॥
द्रक्ष्यन्ति तु अद्य दैवस्य पौरुषम् पुरुषस्य च।दैव-मानुषयोः अद्य व्यक्ता व्यक्तिः भविष्यति॥ १८॥
drakṣyanti tu adya daivasya pauruṣam puruṣasya ca.daiva-mānuṣayoḥ adya vyaktā vyaktiḥ bhaviṣyati.. 18..
अद्य मे पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः।यैर्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्॥ १९॥
अद्य मे पौरुष-हतम् दैवम् द्रक्ष्यन्ति वै जनाः।यैः दैवात् आहतम् ते अद्य दृष्टम् राज्य-अभिषेचनम्॥ १९॥
adya me pauruṣa-hatam daivam drakṣyanti vai janāḥ.yaiḥ daivāt āhatam te adya dṛṣṭam rājya-abhiṣecanam.. 19..
अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्।प्रधावितमहं दैवं पौरुषेण निवर्तये॥ २०॥
अत्यङ्कुशम् इव उद्दामम् गजम् मद-जल-उद्धतम्।प्रधावितम् अहम् दैवम् पौरुषेण निवर्तये॥ २०॥
atyaṅkuśam iva uddāmam gajam mada-jala-uddhatam.pradhāvitam aham daivam pauruṣeṇa nivartaye.. 20..
लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम्।न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता॥ २१॥
लोकपालाः समस्ताः ते न अद्य राम-अभिषेचनम्।न च कृत्स्नाः त्रयः लोकाः विहन्युः किम् पुनर् पिता॥ २१॥
lokapālāḥ samastāḥ te na adya rāma-abhiṣecanam.na ca kṛtsnāḥ trayaḥ lokāḥ vihanyuḥ kim punar pitā.. 21..
यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः।अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा॥ २२॥
यैः विवासः तव अरण्ये मिथस् राजन् समर्थितः।अरण्ये ते विवत्स्यन्ति चतुर्दश समाः तथा॥ २२॥
yaiḥ vivāsaḥ tava araṇye mithas rājan samarthitaḥ.araṇye te vivatsyanti caturdaśa samāḥ tathā.. 22..
अहं तदाशां धक्ष्यामि पितुस्तस्याश्च या तव।अभिषेकविघातेन पुत्रराज्याय वर्तते॥ २३॥
अहम् तद्-आशाम् धक्ष्यामि पितुः तस्याः च या तव।अभिषेक-विघातेन पुत्र-राज्याय वर्तते॥ २३॥
aham tad-āśām dhakṣyāmi pituḥ tasyāḥ ca yā tava.abhiṣeka-vighātena putra-rājyāya vartate.. 23..
मद्बलेन विरुद्धाय न स्याद् दैवबलं तथा।प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम॥ २४॥
मद्-बलेन विरुद्धाय न स्यात् दैव-बलम् तथा।प्रभविष्यति दुःखाय यथा उग्रम् पौरुषम् मम॥ २४॥
mad-balena viruddhāya na syāt daiva-balam tathā.prabhaviṣyati duḥkhāya yathā ugram pauruṣam mama.. 24..
ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्।आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि॥ २५॥
ऊर्ध्वम् वर्ष-सहस्र-अन्ते प्रजापाल्यम् अनन्तरम्।आर्य-पुत्राः करिष्यन्ति वन-वासम् गते त्वयि॥ २५॥
ūrdhvam varṣa-sahasra-ante prajāpālyam anantaram.ārya-putrāḥ kariṣyanti vana-vāsam gate tvayi.. 25..
पूर्वराजर्षिवृत्त्या हि वनवासोऽभिधीयते।प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने॥ २६॥
पूर्व-राजर्षि-वृत्त्या हि वन-वासः अभिधीयते।प्रजाः निक्षिप्य पुत्रेषु पुत्र-वत् परिपालने॥ २६॥
pūrva-rājarṣi-vṛttyā hi vana-vāsaḥ abhidhīyate.prajāḥ nikṣipya putreṣu putra-vat paripālane.. 26..
स चेद् राजन्यनेकाग्रे राज्यविभ्रमशङ्कया।नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि॥ २७॥
स चेद् राजनि अनेकाग्रे राज्य-विभ्रम-शङ्कया।न एवम् इच्छसि धर्म-आत्मन् राज्यम् राम त्वम् आत्मनि॥ २७॥
sa ced rājani anekāgre rājya-vibhrama-śaṅkayā.na evam icchasi dharma-ātman rājyam rāma tvam ātmani.. 27..
प्रतिजाने च ते वीर मा भूवं वीरलोकभाक्।राज्यं च तव रक्षेयमहं वेलेव सागरम्॥ २८॥
प्रतिजाने च ते वीर मा भूवम् वीर-लोक-भाज्।राज्यम् च तव रक्षेयम् अहम् वेला इव सागरम्॥ २८॥
pratijāne ca te vīra mā bhūvam vīra-loka-bhāj.rājyam ca tava rakṣeyam aham velā iva sāgaram.. 28..
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव।अहमेको महीपालानलं वारयितुं बलात्॥ २९॥
मङ्गलैः अभिषिञ्चस्व तत्र त्वम् व्यापृतः भव।अहम् एकः महीपाल-अनलम् वारयितुम् बलात्॥ २९॥
maṅgalaiḥ abhiṣiñcasva tatra tvam vyāpṛtaḥ bhava.aham ekaḥ mahīpāla-analam vārayitum balāt.. 29..
न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे।नासिराबन्धनार्थाय न शराः स्तम्भहेतवः॥ ३०॥
न शोभा-अर्थौ इमौ बाहू न धनुः-भूषणाय मे।न असिः आबन्धन-अर्थाय न शराः स्तम्भ-हेतवः॥ ३०॥
na śobhā-arthau imau bāhū na dhanuḥ-bhūṣaṇāya me.na asiḥ ābandhana-arthāya na śarāḥ stambha-hetavaḥ.. 30..
अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम्।न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम॥ ३१॥
अमित्र-मथन-अर्थाय सर्वम् एतत् चतुष्टयम्।न च अहम् कामये अत्यर्थम् यः स्यात् शत्रुः मतः मम॥ ३१॥
amitra-mathana-arthāya sarvam etat catuṣṭayam.na ca aham kāmaye atyartham yaḥ syāt śatruḥ mataḥ mama.. 31..
असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा।प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये॥ ३२॥
असिना तीक्ष्ण-धारेण विद्युत्-चलित-वर्चसा।प्रगृहीतेन वै शत्रुम् वज्रिणम् वा न कल्पये॥ ३२॥
asinā tīkṣṇa-dhāreṇa vidyut-calita-varcasā.pragṛhītena vai śatrum vajriṇam vā na kalpaye.. 32..
खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे।हस्त्यश्वरथिहस्तोरुशिरोभिर्भविता मही॥ ३३॥
खड्ग-निष्पेष-निष्पिष्टैः गहना दुश्चरा च मे।हस्ति-अश्व-रथि-हस्त-ऊरु-शिरोभिः भविता मही॥ ३३॥
khaḍga-niṣpeṣa-niṣpiṣṭaiḥ gahanā duścarā ca me.hasti-aśva-rathi-hasta-ūru-śirobhiḥ bhavitā mahī.. 33..
खड्गधाराहता मेऽद्य दीप्यमाना इवाग्नयः।पतिष्यन्ति द्विषो भूमौ मेघा इव सविद्युतः॥ ३४॥
खड्ग-धारा-हताः मे अद्य दीप्यमानाः इव अग्नयः।पतिष्यन्ति द्विषः भूमौ मेघाः इव स विद्युतः॥ ३४॥
khaḍga-dhārā-hatāḥ me adya dīpyamānāḥ iva agnayaḥ.patiṣyanti dviṣaḥ bhūmau meghāḥ iva sa vidyutaḥ.. 34..
बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने।कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते॥ ३५॥
बद्ध-गोधा-अङ्गुलि-त्राणे प्रगृहीत-शरासने।कथम् पुरुष-मानी स्यात् पुरुषाणाम् मयि स्थिते॥ ३५॥
baddha-godhā-aṅguli-trāṇe pragṛhīta-śarāsane.katham puruṣa-mānī syāt puruṣāṇām mayi sthite.. 35..
बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान्।विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु॥ ३६॥
बहुभिः च एकम् अत्यस्यन् एकेन च बहून् जनान्।विनियोक्ष्यामि अहम् बाणान् नृ-वाजि-गज-मर्मसु॥ ३६॥
bahubhiḥ ca ekam atyasyan ekena ca bahūn janān.viniyokṣyāmi aham bāṇān nṛ-vāji-gaja-marmasu.. 36..
अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति।राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो॥ ३७॥
अद्य मे अस्त्र-प्रभावस्य प्रभावः प्रभविष्यति।राज्ञः च अप्रभु-ताम् कर्तुम् प्रभु-त्वम् च तव प्रभो॥ ३७॥
adya me astra-prabhāvasya prabhāvaḥ prabhaviṣyati.rājñaḥ ca aprabhu-tām kartum prabhu-tvam ca tava prabho.. 37..
अद्य चन्दनसारस्य केयूरामोक्षणस्य च।वसूनां च विमोक्षस्य सुहृदां पालनस्य च॥ ३८॥
अद्य चन्दनसारस्य केयूर-आमोक्षणस्य च।वसूनाम् च विमोक्षस्य सुहृदाम् पालनस्य च॥ ३८॥
adya candanasārasya keyūra-āmokṣaṇasya ca.vasūnām ca vimokṣasya suhṛdām pālanasya ca.. 38..
अनुरूपाविमौ बाहू राम कर्म करिष्यतः।अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे॥ ३९॥
अनुरूपौ इमौ बाहू राम कर्म करिष्यतः।अभिषेचन-विघ्नस्य कर्तॄणाम् ते निवारणे॥ ३९॥
anurūpau imau bāhū rāma karma kariṣyataḥ.abhiṣecana-vighnasya kartṝṇām te nivāraṇe.. 39..
ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत् प्राणयशःसुहृज्जनैः।यथा तवेयं वसुधा वशा भवेत् तथैव मां शाधि तवास्मि किंकरः॥ ४०॥
ब्रवीहि कः अद्य एव मया वियुज्यताम् तव असुहृद् प्राण-यशः-सुहृद्-जनैः।यथा तव इयम् वसुधा वशा भवेत् तथा एव माम् शाधि तव अस्मि किंकरः॥ ४०॥
bravīhi kaḥ adya eva mayā viyujyatām tava asuhṛd prāṇa-yaśaḥ-suhṛd-janaiḥ.yathā tava iyam vasudhā vaśā bhavet tathā eva mām śādhi tava asmi kiṃkaraḥ.. 40..
विमृज्य बाष्पं परिसान्त्व्य चासकृत् स लक्ष्मणं राघववंशवर्धनः।उवाच पित्रोर्वचने व्यवस्थितं निबोध मामेष हि सौम्य सत्पथः॥ ४१॥
विमृज्य बाष्पम् परिसान्त्व्य च असकृत् स लक्ष्मणम् राघव-वंश-वर्धनः।उवाच पित्रोः वचने व्यवस्थितम् निबोध माम् एष हि सौम्य सत्-पथः॥ ४१॥
vimṛjya bāṣpam parisāntvya ca asakṛt sa lakṣmaṇam rāghava-vaṃśa-vardhanaḥ.uvāca pitroḥ vacane vyavasthitam nibodha mām eṣa hi saumya sat-pathaḥ.. 41..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-२३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे त्रयोविंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe trayoviṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In