This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चविंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcaviṃśaḥ sargaḥ ..2..
सा विनीय तमायासमुपस्पृश्य जलं शुचि।चकार माता रामस्य मङ्गलानि मनस्विनी॥ १॥
सा विनीय तम् आयासम् उपस्पृश्य जलम् शुचि।चकार माता रामस्य मङ्गलानि मनस्विनी॥ १॥
sā vinīya tam āyāsam upaspṛśya jalam śuci.cakāra mātā rāmasya maṅgalāni manasvinī.. 1..
न शक्यसे वारयितुं गच्छेदानीं रघूत्तम।शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे॥ २॥
न शक्यसे वारयितुम् गच्छ इदानीम् रघूत्तम।शीघ्रम् च विनिवर्तस्व वर्तस्व च सताम् क्रमे॥ २॥
na śakyase vārayitum gaccha idānīm raghūttama.śīghram ca vinivartasva vartasva ca satām krame.. 2..
यं पालयसि धर्मं त्वं प्रीत्या च नियमेन च।स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु॥ ३॥
यम् पालयसि धर्मम् त्वम् प्रीत्या च नियमेन च।स वै राघव-शार्दूल धर्मः त्वाम् अभिरक्षतु॥ ३॥
yam pālayasi dharmam tvam prītyā ca niyamena ca.sa vai rāghava-śārdūla dharmaḥ tvām abhirakṣatu.. 3..
येभ्यः प्रणमसे पुत्र देवेष्वायतनेषु च।ते च त्वामभिरक्षन्तु वने सह महर्षिभिः॥ ४॥
येभ्यः प्रणमसे पुत्र देवेषु आयतनेषु च।ते च त्वाम् अभिरक्षन्तु वने सह महा-ऋषिभिः॥ ४॥
yebhyaḥ praṇamase putra deveṣu āyataneṣu ca.te ca tvām abhirakṣantu vane saha mahā-ṛṣibhiḥ.. 4..
यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता।तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा॥ ५॥
यानि दत्तानि ते अस्त्राणि विश्वामित्रेण धीमता।तानि त्वाम् अभिरक्षन्तु गुणैः समुदितम् सदा॥ ५॥
yāni dattāni te astrāṇi viśvāmitreṇa dhīmatā.tāni tvām abhirakṣantu guṇaiḥ samuditam sadā.. 5..
पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा।सत्येन च महाबाहो चिरं जीवाभिरक्षितः॥ ६॥
पितृ-शुश्रूषया पुत्र मातृ-शुश्रूषया तथा।सत्येन च महा-बाहो चिरम् जीव-अभिरक्षितः॥ ६॥
pitṛ-śuśrūṣayā putra mātṛ-śuśrūṣayā tathā.satyena ca mahā-bāho ciram jīva-abhirakṣitaḥ.. 6..
स्थण्डिलानि च विप्राणां शैला वृक्षाः क्षुपा ह्रदाः।पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम॥ ७॥
स्थण्डिलानि च विप्राणाम् शैलाः वृक्षाः क्षुपाः ह्रदाः।पतङ्गाः पन्नगाः सिंहाः त्वाम् रक्षन्तु नरोत्तम॥ ७॥
sthaṇḍilāni ca viprāṇām śailāḥ vṛkṣāḥ kṣupāḥ hradāḥ.pataṅgāḥ pannagāḥ siṃhāḥ tvām rakṣantu narottama.. 7..
स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षिभिः।स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा॥ ८॥
स्वस्ति साध्याः च विश्वे च मरुतः च महा-ऋषिभिः।स्वस्ति धाता विधाता च स्वस्ति पूषा भगः अर्यमा॥ ८॥
svasti sādhyāḥ ca viśve ca marutaḥ ca mahā-ṛṣibhiḥ.svasti dhātā vidhātā ca svasti pūṣā bhagaḥ aryamā.. 8..
लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा।ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥ ९॥
लोकपालाः च ते सर्वे वासव-प्रमुखाः तथा।ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥ ९॥
lokapālāḥ ca te sarve vāsava-pramukhāḥ tathā.ṛtavaḥ ṣaṭ ca te sarve māsāḥ saṃvatsarāḥ kṣapāḥ.. 9..
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा।श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥ १०॥
दिनानि च मुहूर्ताः च स्वस्ति कुर्वन्तु ते सदा।श्रुतिः स्मृतिः च धर्मः च पातु त्वाम् पुत्र सर्वतस्॥ १०॥
dināni ca muhūrtāḥ ca svasti kurvantu te sadā.śrutiḥ smṛtiḥ ca dharmaḥ ca pātu tvām putra sarvatas.. 10..
स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः।सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः॥ ११॥
स्कन्दः च भगवान् देवः सोमः च स बृहस्पतिः।सप्तर्षयः नारदः च ते त्वाम् रक्षन्तु सर्वतस्॥ ११॥
skandaḥ ca bhagavān devaḥ somaḥ ca sa bṛhaspatiḥ.saptarṣayaḥ nāradaḥ ca te tvām rakṣantu sarvatas.. 11..
ते चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः।स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः॥ १२॥
ते च अपि सर्वतस् सिद्धाः दिशः च स दिगीश्वराः।स्तुताः मया वने तस्मिन् पान्तु त्वाम् पुत्र नित्यशस्॥ १२॥
te ca api sarvatas siddhāḥ diśaḥ ca sa digīśvarāḥ.stutāḥ mayā vane tasmin pāntu tvām putra nityaśas.. 12..
शैलाः सर्वे समुद्राश्च राजा वरुण एव च।द्यौरन्तरिक्षं पृथिवी वायुश्च सचराचरः॥ १३॥
शैलाः सर्वे समुद्राः च राजा वरुणः एव च।द्यौः अन्तरिक्षम् पृथिवी वायुः च सचराचरः॥ १३॥
śailāḥ sarve samudrāḥ ca rājā varuṇaḥ eva ca.dyauḥ antarikṣam pṛthivī vāyuḥ ca sacarācaraḥ.. 13..
नक्षत्राणि च सर्वाणि ग्रहाश्च सह दैवतैः।अहोरात्रे तथा संध्ये पान्तु त्वां वनमाश्रितम्॥ १४॥
नक्षत्राणि च सर्वाणि ग्रहाः च सह दैवतैः।अहोरात्रे तथा संध्ये पान्तु त्वाम् वनम् आश्रितम्॥ १४॥
nakṣatrāṇi ca sarvāṇi grahāḥ ca saha daivataiḥ.ahorātre tathā saṃdhye pāntu tvām vanam āśritam.. 14..
ऋतवश्चापि षट् चान्ये मासाः संवत्सरास्तथा।कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते॥ १५॥
ऋतवः च अपि षट् च अन्ये मासाः संवत्सराः तथा।कलाः च काष्ठाः च तथा तव शर्म दिशन्तु ते॥ १५॥
ṛtavaḥ ca api ṣaṭ ca anye māsāḥ saṃvatsarāḥ tathā.kalāḥ ca kāṣṭhāḥ ca tathā tava śarma diśantu te.. 15..
महावनेऽपि चरतो मुनिवेषस्य धीमतः।तथा देवाश्च दैत्याश्च भवन्तु सुखदाः सदा॥ १६॥
महा-वने अपि चरतः मुनि-वेषस्य धीमतः।तथा देवाः च दैत्याः च भवन्तु सुख-दाः सदा॥ १६॥
mahā-vane api carataḥ muni-veṣasya dhīmataḥ.tathā devāḥ ca daityāḥ ca bhavantu sukha-dāḥ sadā.. 16..
राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्।क्रव्यादानां च सर्वेषां मा भूत् पुत्रक ते भयम्॥ १७॥
राक्षसानाम् पिशाचानाम् रौद्राणाम् क्रूर-कर्मणाम्।क्रव्यादानाम् च सर्वेषाम् मा भूत् पुत्रक ते भयम्॥ १७॥
rākṣasānām piśācānām raudrāṇām krūra-karmaṇām.kravyādānām ca sarveṣām mā bhūt putraka te bhayam.. 17..
प्लवगा वृश्चिका दंशा मशकाश्चैव कानने।सरीसृपाश्च कीटाश्च मा भूवन् गहने तव॥ १८॥
प्लवगाः वृश्चिकाः दंशाः मशकाः च एव कानने।सरीसृपाः च कीटाः च मा भूवन् गहने तव॥ १८॥
plavagāḥ vṛścikāḥ daṃśāḥ maśakāḥ ca eva kānane.sarīsṛpāḥ ca kīṭāḥ ca mā bhūvan gahane tava.. 18..
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः।महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक॥ १९॥
महा-द्विपाः च सिंहाः च व्याघ्राः ऋक्षाः च दंष्ट्रिणः।महिषाः शृङ्गिणः रौद्राः न ते द्रुह्यन्तु पुत्रक॥ १९॥
mahā-dvipāḥ ca siṃhāḥ ca vyāghrāḥ ṛkṣāḥ ca daṃṣṭriṇaḥ.mahiṣāḥ śṛṅgiṇaḥ raudrāḥ na te druhyantu putraka.. 19..
नृमांसभोजना रौद्रा ये चान्ये सर्वजातयः।मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह॥ २०॥
नृ-मांस-भोजनाः रौद्राः ये च अन्ये सर्व-जातयः।मा च त्वाम् हिंसिषुः पुत्र मया सम्पूजिताः तु इह॥ २०॥
nṛ-māṃsa-bhojanāḥ raudrāḥ ye ca anye sarva-jātayaḥ.mā ca tvām hiṃsiṣuḥ putra mayā sampūjitāḥ tu iha.. 20..
आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः।सर्वसम्पत्तयो राम स्वस्तिमान् गच्छ पुत्रक॥ २१॥
आगमाः ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः।सर्व-सम्पत्तयः राम स्वस्तिमान् गच्छ पुत्रक॥ २१॥
āgamāḥ te śivāḥ santu sidhyantu ca parākramāḥ.sarva-sampattayaḥ rāma svastimān gaccha putraka.. 21..
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः।सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः॥ २२॥
स्वस्ति ते अस्तु आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनर् पुनर्।सर्वेभ्यः च एव देवेभ्यः ये च ते परिपन्थिनः॥ २२॥
svasti te astu āntarikṣebhyaḥ pārthivebhyaḥ punar punar.sarvebhyaḥ ca eva devebhyaḥ ye ca te paripanthinaḥ.. 22..
शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा।पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम्॥ २३॥
शुक्रः सोमः च सूर्यः च धनदः अथ यमः तथा।पान्तु त्वाम् अर्चिताः राम दण्डक-अरण्य-वासिनम्॥ २३॥
śukraḥ somaḥ ca sūryaḥ ca dhanadaḥ atha yamaḥ tathā.pāntu tvām arcitāḥ rāma daṇḍaka-araṇya-vāsinam.. 23..
अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखच्युताः।उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन॥ २४॥
अग्निः वायुः तथा धूमः मन्त्राः च ऋषि-मुख-च्युताः।उपस्पर्शन-काले तु पान्तु त्वाम् रघुनन्दन॥ २४॥
agniḥ vāyuḥ tathā dhūmaḥ mantrāḥ ca ṛṣi-mukha-cyutāḥ.upasparśana-kāle tu pāntu tvām raghunandana.. 24..
सर्वलोकप्रभुर्ब्रह्मा भूतकर्तृ तथर्षयः।ये च शेषाः सुरास्ते तु रक्षन्तु वनवासिनम्॥ २५॥
सर्व-लोक-प्रभुः ब्रह्मा भूतकर्तृ तथा ऋषयः।ये च शेषाः सुराः ते तु रक्षन्तु वन-वासिनम्॥ २५॥
sarva-loka-prabhuḥ brahmā bhūtakartṛ tathā ṛṣayaḥ.ye ca śeṣāḥ surāḥ te tu rakṣantu vana-vāsinam.. 25..
इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी।स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना॥ २६॥
इति माल्यैः सुर-गणान् गन्धैः च अपि यशस्विनी।स्तुतिभिः च अनुरूपाभिः आनर्च आयत-लोचना॥ २६॥
iti mālyaiḥ sura-gaṇān gandhaiḥ ca api yaśasvinī.stutibhiḥ ca anurūpābhiḥ ānarca āyata-locanā.. 26..
ज्वलनं समुपादाय ब्राह्मणेन महात्मना।हावयामास विधिना राममङ्गलकारणात्॥ २७॥
ज्वलनम् समुपादाय ब्राह्मणेन महात्मना।हावयामास विधिना राम-मङ्गल-कारणात्॥ २७॥
jvalanam samupādāya brāhmaṇena mahātmanā.hāvayāmāsa vidhinā rāma-maṅgala-kāraṇāt.. 27..
घृतं श्वेतानि माल्यानि समिधश्चैव सर्षपान्।उपसम्पादयामास कौसल्या परमाङ्गना॥ २८॥
घृतम् श्वेतानि माल्यानि समिधः च एव सर्षपान्।उपसम्पादयामास कौसल्या परम-अङ्गना॥ २८॥
ghṛtam śvetāni mālyāni samidhaḥ ca eva sarṣapān.upasampādayāmāsa kausalyā parama-aṅganā.. 28..
उपाध्यायः स विधिना हुत्वा शान्तिमनामयम्।हुतहव्यावशेषेण बाह्यं बलिमकल्पयत्॥ २९॥
उपाध्यायः स विधिना हुत्वा शान्तिम् अनामयम्।हुत-हव्य-अवशेषेण बाह्यम् बलिम् अकल्पयत्॥ २९॥
upādhyāyaḥ sa vidhinā hutvā śāntim anāmayam.huta-havya-avaśeṣeṇa bāhyam balim akalpayat.. 29..
मधुदध्यक्षतघृतैः स्वस्तिवाच्यं द्विजांस्ततः।वाचयामास रामस्य वने स्वस्त्ययनक्रियाम्॥ ३०॥
मधु-दधि-अक्षत-घृतैः स्वस्ति-वाच्यम् द्विजान् ततस्।वाचयामास रामस्य वने स्वस्त्ययन-क्रियाम्॥ ३०॥
madhu-dadhi-akṣata-ghṛtaiḥ svasti-vācyam dvijān tatas.vācayāmāsa rāmasya vane svastyayana-kriyām.. 30..
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी।दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्॥ ३१॥
ततस् तस्मै द्विजेन्द्राय राम-माता यशस्विनी।दक्षिणाम् प्रददौ काम्याम् राघवम् च इदम् अब्रवीत्॥ ३१॥
tatas tasmai dvijendrāya rāma-mātā yaśasvinī.dakṣiṇām pradadau kāmyām rāghavam ca idam abravīt.. 31..
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते।वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम्॥ ३२॥
यत् मङ्गलम् सहस्राक्षे सर्व-देव-नमस्कृते।वृत्र-नाशे समभवत् तत् ते भवतु मङ्गलम्॥ ३२॥
yat maṅgalam sahasrākṣe sarva-deva-namaskṛte.vṛtra-nāśe samabhavat tat te bhavatu maṅgalam.. 32..
यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा।अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम्॥ ३३॥
यत् मङ्गलम् सुपर्णस्य विनता अकल्पयत् पुरा।अमृतम् प्रार्थयानस्य तत् ते भवतु मङ्गलम्॥ ३३॥
yat maṅgalam suparṇasya vinatā akalpayat purā.amṛtam prārthayānasya tat te bhavatu maṅgalam.. 33..
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्।अदितिर्मङ्गलं प्रादात् तत् ते भवतु मङ्गलम्॥ ३४॥
अमृत-उत्पादने दैत्यान् घ्नतः वज्रधरस्य यत्।अदितिः मङ्गलम् प्रादात् तत् ते भवतु मङ्गलम्॥ ३४॥
amṛta-utpādane daityān ghnataḥ vajradharasya yat.aditiḥ maṅgalam prādāt tat te bhavatu maṅgalam.. 34..
त्रिविक्रमान् प्रक्रमतो विष्णोरतुलतेजसः।यदासीन्मङ्गलं राम तत् ते भवतु मङ्गलम्॥ ३५॥
त्रि-विक्रमान् प्रक्रमतः विष्णोः अतुल-तेजसः।यत् आसीत् मङ्गलम् राम तत् ते भवतु मङ्गलम्॥ ३५॥
tri-vikramān prakramataḥ viṣṇoḥ atula-tejasaḥ.yat āsīt maṅgalam rāma tat te bhavatu maṅgalam.. 35..
ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते।मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलम्॥ ३६॥
ऋषयः सागराः द्वीपाः वेदाः लोकाः दिशः च ते।मङ्गलानि महा-बाहो दिशन्तु शुभ-मङ्गलम्॥ ३६॥
ṛṣayaḥ sāgarāḥ dvīpāḥ vedāḥ lokāḥ diśaḥ ca te.maṅgalāni mahā-bāho diśantu śubha-maṅgalam.. 36..
इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी।गन्धैश्चापि समालभ्य राममायतलोचना॥ ३७॥
इति पुत्रस्य शेषाः च कृत्वा शिरसि भामिनी।गन्धैः च अपि समालभ्य रामम् आयत-लोचना॥ ३७॥
iti putrasya śeṣāḥ ca kṛtvā śirasi bhāminī.gandhaiḥ ca api samālabhya rāmam āyata-locanā.. 37..
औषधीं च सुसिद्धार्थां विशल्यकरणीं शुभाम्।चकार रक्षां कौसल्या मन्त्रैरभिजजाप च॥ ३८॥
औषधीम् च सु सिद्ध-अर्थाम् विशल्य-करणीम् शुभाम्।चकार रक्षाम् कौसल्या मन्त्रैः अभिजजाप च॥ ३८॥
auṣadhīm ca su siddha-arthām viśalya-karaṇīm śubhām.cakāra rakṣām kausalyā mantraiḥ abhijajāpa ca.. 38..
उवाचापि प्रहृष्टेव सा दुःखवशवर्तिनी।वाङ्मात्रेण न भावेन वाचा संसज्जमानया॥ ३९॥
उवाच अपि प्रहृष्टा इव सा दुःख-वश-वर्तिनी।वाच्-मात्रेण न भावेन वाचा संसज्जमानया॥ ३९॥
uvāca api prahṛṣṭā iva sā duḥkha-vaśa-vartinī.vāc-mātreṇa na bhāvena vācā saṃsajjamānayā.. 39..
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी।अवदत् पुत्रमिष्टार्थो गच्छ राम यथासुखम्॥ ४०॥
आनम्य मूर्ध्नि च आघ्राय परिष्वज्य यशस्विनी।अवदत् पुत्रम् इष्ट-अर्थः गच्छ राम यथासुखम्॥ ४०॥
ānamya mūrdhni ca āghrāya pariṣvajya yaśasvinī.avadat putram iṣṭa-arthaḥ gaccha rāma yathāsukham.. 40..
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्।पश्यामि त्वां सुखं वत्स संधितं राजवर्त्मसु॥ ४१॥
अरोगम् सर्व-सिद्धार्थम् अयोध्याम् पुनर् आगतम्।पश्यामि त्वाम् सुखम् वत्स संधितम् राज-वर्त्मसु॥ ४१॥
arogam sarva-siddhārtham ayodhyām punar āgatam.paśyāmi tvām sukham vatsa saṃdhitam rāja-vartmasu.. 41..
प्रणष्टदुःखसंकल्पा हर्षविद्योतितानना।द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम्॥ ४२॥
प्रणष्ट-दुःख-संकल्पा हर्ष-विद्योतित-आनना।द्रक्ष्यामि त्वाम् वनात् प्राप्तम् पूर्ण-चन्द्रम् इव उदितम्॥ ४२॥
praṇaṣṭa-duḥkha-saṃkalpā harṣa-vidyotita-ānanā.drakṣyāmi tvām vanāt prāptam pūrṇa-candram iva uditam.. 42..
भद्रासनगतं राम वनवासादिहागतम्।द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः॥ ४३॥
भद्रासन-गतम् राम वन-वासात् इह आगतम्।द्रक्ष्यामि च पुनर् त्वाम् तु तीर्णवन्तम् पितुः वचः॥ ४३॥
bhadrāsana-gatam rāma vana-vāsāt iha āgatam.drakṣyāmi ca punar tvām tu tīrṇavantam pituḥ vacaḥ.. 43..
मङ्गलैरुपसम्पन्नो वनवासादिहागतः।वध्वाश्च मम नित्यं त्वं कामान् संवर्ध याहि भोः॥ ४४॥
मङ्गलैः उपसम्पन्नः वन-वासात् इह आगतः।वध्वाः च मम नित्यम् त्वम् कामान् संवर्ध याहि भोः॥ ४४॥
maṅgalaiḥ upasampannaḥ vana-vāsāt iha āgataḥ.vadhvāḥ ca mama nityam tvam kāmān saṃvardha yāhi bhoḥ.. 44..
मयार्चिता देवगणाः शिवादयो महर्षयो भूतगणाः सुरोरगाः।अभिप्रयातस्य वनं चिराय ते हितानि कांक्षन्तु दिशश्च राघव॥ ४५॥
मया अर्चिताः देव-गणाः शिव-आदयः महा-ऋषयः भूत-गणाः सुर-उरगाः।अभिप्रयातस्य वनम् चिराय ते हितानि कांक्षन्तु दिशः च राघव॥ ४५॥
mayā arcitāḥ deva-gaṇāḥ śiva-ādayaḥ mahā-ṛṣayaḥ bhūta-gaṇāḥ sura-uragāḥ.abhiprayātasya vanam cirāya te hitāni kāṃkṣantu diśaḥ ca rāghava.. 45..
अतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि।प्रदक्षिणं चापि चकार राघवं पुनः पुनश्चापि निरीक्ष्य सस्वजे॥ ४६॥
अतीव च अश्रु-प्रतिपूर्ण-लोचना समाप्य च स्वस्त्ययनम् यथाविधि।प्रदक्षिणम् च अपि चकार राघवम् पुनर् पुनर् च अपि निरीक्ष्य सस्वजे॥ ४६॥
atīva ca aśru-pratipūrṇa-locanā samāpya ca svastyayanam yathāvidhi.pradakṣiṇam ca api cakāra rāghavam punar punar ca api nirīkṣya sasvaje.. 46..
तया हि देव्या च कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः।जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितस्तया श्रिया॥ ४७॥
तया हि देव्या च कृत-प्रदक्षिणः निपीड्य मातुः चरणौ पुनर् पुनर्।जगाम सीता-निलयम् महा-यशाः स राघवः प्रज्वलितः तया श्रिया॥ ४७॥
tayā hi devyā ca kṛta-pradakṣiṇaḥ nipīḍya mātuḥ caraṇau punar punar.jagāma sītā-nilayam mahā-yaśāḥ sa rāghavaḥ prajvalitaḥ tayā śriyā.. 47..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे पञ्चविंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe pañcaviṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In