This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्विंशः सर्गः ॥२-२६॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे षड्विंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ṣaḍviṃśaḥ sargaḥ ..2..
अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम्।कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः॥ १॥
अभिवाद्य तु कौसल्याम् रामः सम्प्रस्थितः वनम्।कृत-स्वस्त्ययनः मात्रा धर्मिष्ठे वर्त्मनि स्थितः॥ १॥
abhivādya tu kausalyām rāmaḥ samprasthitaḥ vanam.kṛta-svastyayanaḥ mātrā dharmiṣṭhe vartmani sthitaḥ.. 1..
विराजयन् राजसुतो राजमार्गं नरैर्वृतम्।हृदयान्याममन्थेव जनस्य गुणवत्तया॥ २॥
विराजयन् राज-सुतः राजमार्गम् नरैः वृतम्।हृदयानि आममन्थ इव जनस्य गुणवत्-तया॥ २॥
virājayan rāja-sutaḥ rājamārgam naraiḥ vṛtam.hṛdayāni āmamantha iva janasya guṇavat-tayā.. 2..
वैदेही चापि तत् सर्वं न शुश्राव तपस्विनी।तदेव हृदि तस्याश्च यौवराज्याभिषेचनम्॥ ३॥
वैदेही च अपि तत् सर्वम् न शुश्राव तपस्विनी।तत् एव हृदि तस्याः च यौवराज्य-अभिषेचनम्॥ ३॥
vaidehī ca api tat sarvam na śuśrāva tapasvinī.tat eva hṛdi tasyāḥ ca yauvarājya-abhiṣecanam.. 3..
देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना।अभिज्ञा राजधर्माणां राजपुत्री प्रतीक्षति॥ ४॥
देव-कार्यम् स्म सा कृत्वा कृतज्ञा हृष्ट-चेतना।अभिज्ञाः राज-धर्माणाम् राज-पुत्री प्रतीक्षति॥ ४॥
deva-kāryam sma sā kṛtvā kṛtajñā hṛṣṭa-cetanā.abhijñāḥ rāja-dharmāṇām rāja-putrī pratīkṣati.. 4..
प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम्।प्रहृष्टजनसम्पूर्णं ह्रिया किंचिदवाङ्मुखः॥ ५॥
प्रविवेश अथ रामः तु स्व-वेश्म सु विभूषितम्।प्रहृष्ट-जन-सम्पूर्णम् ह्रिया किंचिद् अवाङ्मुखः॥ ५॥
praviveśa atha rāmaḥ tu sva-veśma su vibhūṣitam.prahṛṣṭa-jana-sampūrṇam hriyā kiṃcid avāṅmukhaḥ.. 5..
अथ सीता समुत्पत्य वेपमाना च तं पतिम्।अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम्॥ ६॥
अथ सीता समुत्पत्य वेपमाना च तम् पतिम्।अपश्यत् शोक-संतप्तम् चिन्ता-व्याकुलित-इन्द्रियम्॥ ६॥
atha sītā samutpatya vepamānā ca tam patim.apaśyat śoka-saṃtaptam cintā-vyākulita-indriyam.. 6..
तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम्।तं शोकं राघवः सोढुं ततो विवृततां गतः॥ ७॥
ताम् दृष्ट्वा स हि धर्म-आत्मा न शशाक मनोगतम्।तम् शोकम् राघवः सोढुम् ततस् विवृत-ताम् गतः॥ ७॥
tām dṛṣṭvā sa hi dharma-ātmā na śaśāka manogatam.tam śokam rāghavaḥ soḍhum tatas vivṛta-tām gataḥ.. 7..
विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्।आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो॥ ८॥
विवर्ण-वदनम् दृष्ट्वा तम् प्रस्विन्नम् अमर्षणम्।आह दुःख-अभिसंतप्ता किम् इदानीम् इदम् प्रभो॥ ८॥
vivarṇa-vadanam dṛṣṭvā tam prasvinnam amarṣaṇam.āha duḥkha-abhisaṃtaptā kim idānīm idam prabho.. 8..
अद्य बार्हस्पतः श्रीमान् युक्तः पुष्येण राघव।प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः॥ ९॥
अद्य बार्हस्पतः श्रीमान् युक्तः पुष्येण राघव।प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः॥ ९॥
adya bārhaspataḥ śrīmān yuktaḥ puṣyeṇa rāghava.procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ.. 9..
न ते शतशलाकेन जलफेननिभेन च।आवृतं वदनं वल्गु च्छत्रेणाभिविराजते॥ १०॥
न ते शत-शलाकेन जलफेन-निभेन च।आवृतम् वदनम् वल्गु छत्रेण अभिविराजते॥ १०॥
na te śata-śalākena jalaphena-nibhena ca.āvṛtam vadanam valgu chatreṇa abhivirājate.. 10..
व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्।चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम्॥ ११॥
व्यजनाभ्याम् च मुख्याभ्याम् शतपत्र-निभ-ईक्षणम्।चन्द्र-हंस-प्रकाशाभ्याम् वीज्यते न तव आननम्॥ ११॥
vyajanābhyām ca mukhyābhyām śatapatra-nibha-īkṣaṇam.candra-haṃsa-prakāśābhyām vījyate na tava ānanam.. 11..
वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ।स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः॥ १२॥
वाग्मिनः वन्दिनः च अपि प्रहृष्टाः त्वाम् नर-ऋषभ।स्तुवन्तः न अद्य दृश्यन्ते मङ्गलैः सूत-मागधाः॥ १२॥
vāgminaḥ vandinaḥ ca api prahṛṣṭāḥ tvām nara-ṛṣabha.stuvantaḥ na adya dṛśyante maṅgalaiḥ sūta-māgadhāḥ.. 12..
न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः।मूर्ध्नि मूर्धाभिषिक्तस्य ददति स्म विधानतः॥ १३॥
न ते क्षौद्रम् च दधि च ब्राह्मणाः वेदपारगाः।मूर्ध्नि मूर्धाभिषिक्तस्य ददति स्म विधानतः॥ १३॥
na te kṣaudram ca dadhi ca brāhmaṇāḥ vedapāragāḥ.mūrdhni mūrdhābhiṣiktasya dadati sma vidhānataḥ.. 13..
न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः।अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा॥ १४॥
न त्वाम् प्रकृतयः सर्वाः श्रेणी-मुख्याः च भूषिताः।अनुव्रजितुम् इच्छन्ति पौर-जानपदाः तथा॥ १४॥
na tvām prakṛtayaḥ sarvāḥ śreṇī-mukhyāḥ ca bhūṣitāḥ.anuvrajitum icchanti paura-jānapadāḥ tathā.. 14..
चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषणैः।मुख्यः पुष्परथो युक्तः किं न गच्छति तेऽग्रतः॥ १५॥
चतुर्भिः वेग-सम्पन्नैः हयैः काञ्चन-भूषणैः।मुख्यः पुष्परथः युक्तः किम् न गच्छति ते अग्रतस्॥ १५॥
caturbhiḥ vega-sampannaiḥ hayaiḥ kāñcana-bhūṣaṇaiḥ.mukhyaḥ puṣparathaḥ yuktaḥ kim na gacchati te agratas.. 15..
न हस्ती चाग्रतः श्रीमान् सर्वलक्षणपूजितः।प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः॥ १६॥
न हस्ती च अग्रतस् श्रीमान् सर्व-लक्षण-पूजितः।प्रयाणे लक्ष्यते वीर कृष्ण-मेघ-गिरि-प्रभः॥ १६॥
na hastī ca agratas śrīmān sarva-lakṣaṇa-pūjitaḥ.prayāṇe lakṣyate vīra kṛṣṇa-megha-giri-prabhaḥ.. 16..
न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन।भद्रासनं पुरस्कृत्य यान्तं वीर पुरःसरम्॥ १७॥
न च काञ्चन-चित्रम् ते पश्यामि प्रिय-दर्शन।भद्रासनम् पुरस्कृत्य यान्तम् वीर पुरःसरम्॥ १७॥
na ca kāñcana-citram te paśyāmi priya-darśana.bhadrāsanam puraskṛtya yāntam vīra puraḥsaram.. 17..
अभिषेको यदा सज्जः किमिदानीमिदं तव।अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते॥ १८॥
अभिषेकः यदा सज्जः किम् इदानीम् इदम् तव।अपूर्वः मुख-वर्णः च न प्रहर्षः च लक्ष्यते॥ १८॥
abhiṣekaḥ yadā sajjaḥ kim idānīm idam tava.apūrvaḥ mukha-varṇaḥ ca na praharṣaḥ ca lakṣyate.. 18..
इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः।सीते तत्रभवांस्तातः प्रव्राजयति मां वनम्॥ १९॥
इति इव विलपन्तीम् ताम् प्रोवाच रघुनन्दनः।सीते तत्रभवान् तातः प्रव्राजयति माम् वनम्॥ १९॥
iti iva vilapantīm tām provāca raghunandanaḥ.sīte tatrabhavān tātaḥ pravrājayati mām vanam.. 19..
कुले महति सम्भूते धर्मज्ञे धर्मचारिणि।शृणु जानकि येनेदं क्रमेणाद्यागतं मम॥ २०॥
कुले महति सम्भूते धर्म-ज्ञे धर्म-चारिणि।शृणु जानकि येन इदम् क्रमेण अद्य आगतम् मम॥ २०॥
kule mahati sambhūte dharma-jñe dharma-cāriṇi.śṛṇu jānaki yena idam krameṇa adya āgatam mama.. 20..
राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन वै।कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ॥ २१॥
राज्ञा सत्य-प्रतिज्ञेन पित्रा दशरथेन वै।कैकेय्यै मम मात्रे तु पुरा दत्तौ महा-वरौ॥ २१॥
rājñā satya-pratijñena pitrā daśarathena vai.kaikeyyai mama mātre tu purā dattau mahā-varau.. 21..
तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते।प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः॥ २२॥
तया अद्य मम सज्जे अस्मिन् अभिषेके नृप-उद्यते।प्रचोदितः स समयः धर्मेण प्रतिनिर्जितः॥ २२॥
tayā adya mama sajje asmin abhiṣeke nṛpa-udyate.pracoditaḥ sa samayaḥ dharmeṇa pratinirjitaḥ.. 22..
चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया।पित्रा मे भरतश्चापि यौवराज्ये नियोजितः॥ २३॥
चतुर्दश हि वर्षाणि वस्तव्यम् दण्डके मया।पित्रा मे भरतः च अपि यौवराज्ये नियोजितः॥ २३॥
caturdaśa hi varṣāṇi vastavyam daṇḍake mayā.pitrā me bharataḥ ca api yauvarājye niyojitaḥ.. 23..
सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्।भरतस्य समीपे ते नाहं कथ्यः कदाचन॥ २४॥
सः अहम् त्वाम् आगतः द्रष्टुम् प्रस्थितः विजनम् वनम्।भरतस्य समीपे ते न अहम् कथ्यः कदाचन॥ २४॥
saḥ aham tvām āgataḥ draṣṭum prasthitaḥ vijanam vanam.bharatasya samīpe te na aham kathyaḥ kadācana.. 24..
ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्।तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम॥ २५॥
ऋद्धि-युक्ताः हि पुरुषाः न सहन्ते पर-स्तवम्।तस्मात् न ते गुणाः कथ्याः भरतस्य अग्रतस् मम॥ २५॥
ṛddhi-yuktāḥ hi puruṣāḥ na sahante para-stavam.tasmāt na te guṇāḥ kathyāḥ bharatasya agratas mama.. 25..
अहं ते नानुवक्तव्यो विशेषेण कदाचन।अनुकूलतया शक्यं समीपे तस्य वर्तितुम्॥ २६॥
अहम् ते न अनुवक्तव्यः विशेषेण कदाचन।अनुकूल-तया शक्यम् समीपे तस्य वर्तितुम्॥ २६॥
aham te na anuvaktavyaḥ viśeṣeṇa kadācana.anukūla-tayā śakyam samīpe tasya vartitum.. 26..
तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्।स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः॥ २७॥
तस्मै दत्तम् नृपतिना यौवराज्यम् सनातनम्।स प्रसाद्यः त्वया सीते नृपतिः च विशेषतः॥ २७॥
tasmai dattam nṛpatinā yauvarājyam sanātanam.sa prasādyaḥ tvayā sīte nṛpatiḥ ca viśeṣataḥ.. 27..
अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्।वनमद्यैव यास्यामि स्थिरीभव मनस्विनि॥ २८॥
अहम् च अपि प्रतिज्ञाम् ताम् गुरोः समनुपालयन्।वनम् अद्या एव यास्यामि स्थिरीभव मनस्विनि॥ २८॥
aham ca api pratijñām tām guroḥ samanupālayan.vanam adyā eva yāsyāmi sthirībhava manasvini.. 28..
याते च मयि कल्याणि वनं मुनिनिषेवितम्।व्रतोपवासपरया भवितव्यं त्वयानघे॥ २९॥
याते च मयि कल्याणि वनम् मुनि-निषेवितम्।व्रत-उपवास-परया भवितव्यम् त्वया अनघे॥ २९॥
yāte ca mayi kalyāṇi vanam muni-niṣevitam.vrata-upavāsa-parayā bhavitavyam tvayā anaghe.. 29..
कल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि।वन्दितव्यो दशरथः पिता मम जनेश्वरः॥ ३०॥
कल्यम् उत्थाय देवानाम् कृत्वा पूजाम् यथाविधि।वन्दितव्यः दशरथः पिता मम जनेश्वरः॥ ३०॥
kalyam utthāya devānām kṛtvā pūjām yathāvidhi.vanditavyaḥ daśarathaḥ pitā mama janeśvaraḥ.. 30..
माता च मम कौसल्या वृद्धा संतापकर्शिता।धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति॥ ३१॥
माता च मम कौसल्या वृद्धा संताप-कर्शिता।धर्मम् एव अग्रतस् कृत्वा त्वत्तः सम्मानम् अर्हति॥ ३१॥
mātā ca mama kausalyā vṛddhā saṃtāpa-karśitā.dharmam eva agratas kṛtvā tvattaḥ sammānam arhati.. 31..
वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः।स्नेहप्रणयसम्भोगैः समा हि मम मातरः॥ ३२॥
वन्दितव्याः च ते नित्यम् याः शेषाः मम मातरः।स्नेह-प्रणय-सम्भोगैः समाः हि मम मातरः॥ ३२॥
vanditavyāḥ ca te nityam yāḥ śeṣāḥ mama mātaraḥ.sneha-praṇaya-sambhogaiḥ samāḥ hi mama mātaraḥ.. 32..
भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः।त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम॥ ३३॥
भ्रातृ-पुत्र-समौ च अपि द्रष्टव्यौ च विशेषतः।त्वया भरत-शत्रुघ्नौ प्राणैः प्रियतरौ मम॥ ३३॥
bhrātṛ-putra-samau ca api draṣṭavyau ca viśeṣataḥ.tvayā bharata-śatrughnau prāṇaiḥ priyatarau mama.. 33..
विप्रियं च न कर्तव्यं भरतस्य कदाचन।स हि राजा च वैदेहि देशस्य च कुलस्य च॥ ३४॥
विप्रियम् च न कर्तव्यम् भरतस्य कदाचन।स हि राजा च वैदेहि देशस्य च कुलस्य च॥ ३४॥
vipriyam ca na kartavyam bharatasya kadācana.sa hi rājā ca vaidehi deśasya ca kulasya ca.. 34..
आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः।राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये॥ ३५॥
आराधिताः हि शीलेन प्रयत्नैः च उपसेविताः।राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये॥ ३५॥
ārādhitāḥ hi śīlena prayatnaiḥ ca upasevitāḥ.rājānaḥ samprasīdanti prakupyanti viparyaye.. 35..
औरस्यानपि पुत्रान् हि त्यजन्त्यहितकारिणः।समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः॥ ३६॥
औरस्यान् अपि पुत्रान् हि त्यजन्ति अहित-कारिणः।समर्थान् सम्प्रगृह्णन्ति जनान् अपि नराधिपाः॥ ३६॥
aurasyān api putrān hi tyajanti ahita-kāriṇaḥ.samarthān sampragṛhṇanti janān api narādhipāḥ.. 36..
सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी।भरतस्य रता धर्मे सत्यव्रतपरायणा॥ ३७॥
सा त्वम् वस इह कल्याणि राज्ञः समनुवर्तिनी।भरतस्य रता धर्मे सत्य-व्रत-परायणा॥ ३७॥
sā tvam vasa iha kalyāṇi rājñaḥ samanuvartinī.bharatasya ratā dharme satya-vrata-parāyaṇā.. 37..
अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहैव भामिनि।यथा व्यलीकं कुरुषे न कस्यचित् तथा त्वया कार्यमिदं वचो मम॥ ३८॥
अहम् गमिष्यामि महा-वनम् प्रिये त्वया हि वस्तव्यम् इह एव भामिनि।यथा व्यलीकम् कुरुषे न कस्यचिद् तथा त्वया कार्यम् इदम् वचः मम॥ ३८॥
aham gamiṣyāmi mahā-vanam priye tvayā hi vastavyam iha eva bhāmini.yathā vyalīkam kuruṣe na kasyacid tathā tvayā kāryam idam vacaḥ mama.. 38..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षड्विंशः सर्गः ॥२-२६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे षड्विंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe ṣaḍviṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In