This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्तविंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptaviṃśaḥ sargaḥ ..2..
एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी।प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्॥ १॥
एवम् उक्ता तु वैदेही प्रिय-अर्हा प्रिय-वादिनी।प्रणयात् एव संक्रुद्धा भर्तारम् इदम् अब्रवीत्॥ १॥
evam uktā tu vaidehī priya-arhā priya-vādinī.praṇayāt eva saṃkruddhā bhartāram idam abravīt.. 1..
किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्।त्वया यदपहास्यं मे श्रुत्वा नरवरोत्तम॥ २॥
किम् इदम् भाषसे राम वाक्यम् लघु-तया ध्रुवम्।त्वया यत् अपहास्यम् मे श्रुत्वा नर-वर-उत्तम॥ २॥
kim idam bhāṣase rāma vākyam laghu-tayā dhruvam.tvayā yat apahāsyam me śrutvā nara-vara-uttama.. 2..
वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप।अनर्हमयशस्यं च न श्रोतव्यं त्वयेरितम्॥ ३॥
वीराणाम् राज-पुत्राणाम् शस्त्र-अस्त्र-विदुषाम् नृप।अनर्हम् अयशस्यम् च न श्रोतव्यम् त्वया ईरितम्॥ ३॥
vīrāṇām rāja-putrāṇām śastra-astra-viduṣām nṛpa.anarham ayaśasyam ca na śrotavyam tvayā īritam.. 3..
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा।स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते॥ ४॥
आर्य-पुत्र पिता माता भ्राता पुत्रः तथा स्नुषा।स्वानि पुण्यानि भुञ्जानाः स्वम् स्वम् भाग्यम् उपासते॥ ४॥
ārya-putra pitā mātā bhrātā putraḥ tathā snuṣā.svāni puṇyāni bhuñjānāḥ svam svam bhāgyam upāsate.. 4..
भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ।अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि॥ ५॥
भर्तुः भाग्यम् तु नारी एका प्राप्नोति पुरुष-ऋषभ।अतस् च एव अहम् आदिष्टा वने वस्तव्यम् इति अपि॥ ५॥
bhartuḥ bhāgyam tu nārī ekā prāpnoti puruṣa-ṛṣabha.atas ca eva aham ādiṣṭā vane vastavyam iti api.. 5..
न पिता नात्मजो वात्मा न माता न सखीजनः।इह प्रेत्य च नारीणां पतिरेको गतिः सदा॥ ६॥
न पिता न आत्मजः वा आत्मा न माता न सखी-जनः।इह प्रेत्य च नारीणाम् पतिः एकः गतिः सदा॥ ६॥
na pitā na ātmajaḥ vā ātmā na mātā na sakhī-janaḥ.iha pretya ca nārīṇām patiḥ ekaḥ gatiḥ sadā.. 6..
यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव।अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान्॥ ७॥
यदि त्वम् प्रस्थितः दुर्गम् वनम् अद्य एव राघव।अग्रतस् ते गमिष्यामि मृद्नन्ती कुश-कण्टकान्॥ ७॥
yadi tvam prasthitaḥ durgam vanam adya eva rāghava.agratas te gamiṣyāmi mṛdnantī kuśa-kaṇṭakān.. 7..
ईर्ष्यां रोषं बहिष्कृत्य भुक्तशेषमिवोदकम्।नय मां वीर विस्रब्धः पापं मयि न विद्यते॥ ८॥
ईर्ष्याम् रोषम् बहिष्कृत्य भुक्त-शेषम् इव उदकम्।नय माम् वीर विस्रब्धः पापम् मयि न विद्यते॥ ८॥
īrṣyām roṣam bahiṣkṛtya bhukta-śeṣam iva udakam.naya mām vīra visrabdhaḥ pāpam mayi na vidyate.. 8..
प्रासादाग्रे विमानैर्वा वैहायसगतेन वा।सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते॥ ९॥
प्रासाद-अग्रे विमानैः वा वैहायस-गतेन वा।सर्व-अवस्था-गता भर्तुः पाद-छाया विशिष्यते॥ ९॥
prāsāda-agre vimānaiḥ vā vaihāyasa-gatena vā.sarva-avasthā-gatā bhartuḥ pāda-chāyā viśiṣyate.. 9..
अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम्।नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया॥ १०॥
अनुशिष्टा अस्मि मात्रा च पित्रा च विविध-आश्रयम्।न अस्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया॥ १०॥
anuśiṣṭā asmi mātrā ca pitrā ca vividha-āśrayam.na asmi samprati vaktavyā vartitavyam yathā mayā.. 10..
अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्।नानामृगगणाकीर्णं शार्दूलगणसेवितम्॥ ११॥
अहम् दुर्गम् गमिष्यामि वनम् पुरुष-वर्जितम्।नाना मृग-गण-आकीर्णम् शार्दूल-गण-सेवितम्॥ ११॥
aham durgam gamiṣyāmi vanam puruṣa-varjitam.nānā mṛga-gaṇa-ākīrṇam śārdūla-gaṇa-sevitam.. 11..
सुखं वने निवत्स्यामि यथैव भवने पितुः।अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम्॥ १२॥
सुखम् वने निवत्स्यामि यथा एव भवने पितुः।अ चिन्तयन्ती त्रीन् लोकान् चिन्तयन्ती पतिव्रतम्॥ १२॥
sukham vane nivatsyāmi yathā eva bhavane pituḥ.a cintayantī trīn lokān cintayantī pativratam.. 12..
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी।सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु॥ १३॥
शुश्रूषमाणा ते नित्यम् नियता ब्रह्मचारिणी।सह रंस्ये त्वया वीर वनेषु मधु-गन्धिषु॥ १३॥
śuśrūṣamāṇā te nityam niyatā brahmacāriṇī.saha raṃsye tvayā vīra vaneṣu madhu-gandhiṣu.. 13..
त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम्।अन्यस्यापि जनस्येह किं पुनर्मम मानद॥ १४॥
त्वम् हि कर्तुम् वने शक्तः राम सम्परिपालनम्।अन्यस्य अपि जनस्य इह किम् पुनर् मम मानद॥ १४॥
tvam hi kartum vane śaktaḥ rāma samparipālanam.anyasya api janasya iha kim punar mama mānada.. 14..
साहं त्वया गमिष्यामि वनमद्य न संशयः।नाहं शक्या महाभाग निवर्तयितुमुद्यता॥ १५॥
सा अहम् त्वया गमिष्यामि वनम् अद्य न संशयः।न अहम् शक्या महाभाग निवर्तयितुम् उद्यता॥ १५॥
sā aham tvayā gamiṣyāmi vanam adya na saṃśayaḥ.na aham śakyā mahābhāga nivartayitum udyatā.. 15..
फलमूलाशना नित्यं भविष्यामि न संशयः।न ते दुःखं करिष्यामि निवसन्ती त्वया सदा॥ १६॥
फल-मूल-अशना नित्यम् भविष्यामि न संशयः।न ते दुःखम् करिष्यामि निवसन्ती त्वया सदा॥ १६॥
phala-mūla-aśanā nityam bhaviṣyāmi na saṃśayaḥ.na te duḥkham kariṣyāmi nivasantī tvayā sadā.. 16..
अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि।इच्छामि परतः शैलान् पल्वलानि सरांसि च॥ १७॥
अग्रतस् ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि।इच्छामि परतस् शैलान् पल्वलानि सरांसि च॥ १७॥
agratas te gamiṣyāmi bhokṣye bhuktavati tvayi.icchāmi paratas śailān palvalāni sarāṃsi ca.. 17..
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता।हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः॥ १८॥
द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता।हंस-कारण्डव-आकीर्णाः पद्मिनीः साधु-पुष्पिताः॥ १८॥
draṣṭum sarvatra nirbhītā tvayā nāthena dhīmatā.haṃsa-kāraṇḍava-ākīrṇāḥ padminīḥ sādhu-puṣpitāḥ.. 18..
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता।अभिषेकं करिष्यामि तासु नित्यमनुव्रता॥ १९॥
इच्छेयम् सुखिनी द्रष्टुम् त्वया वीरेण संगता।अभिषेकम् करिष्यामि तासु नित्यम् अनुव्रता॥ १९॥
iccheyam sukhinī draṣṭum tvayā vīreṇa saṃgatā.abhiṣekam kariṣyāmi tāsu nityam anuvratā.. 19..
सह त्वया विशालाक्ष रंस्ये परमनन्दिनी।एवं वर्षसहस्राणि शतं वापि त्वया सह॥ २०॥
सह त्वया विशाल-अक्ष रंस्ये परम-नन्दिनी।एवम् वर्ष-सहस्राणि शतम् वा अपि त्वया सह॥ २०॥
saha tvayā viśāla-akṣa raṃsye parama-nandinī.evam varṣa-sahasrāṇi śatam vā api tvayā saha.. 20..
व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि हि न मे मतः।स्वर्गेऽपि च विना वासो भविता यदि राघव।त्वया विना नरव्याघ्र नाहं तदपि रोचये॥ २१॥
व्यतिक्रमम् न वेत्स्यामि स्वर्गः अपि हि न मे मतः।स्वर्गे अपि च विना वासः भविता यदि राघव।त्वया विना नर-व्याघ्र न अहम् तत् अपि रोचये॥ २१॥
vyatikramam na vetsyāmi svargaḥ api hi na me mataḥ.svarge api ca vinā vāsaḥ bhavitā yadi rāghava.tvayā vinā nara-vyāghra na aham tat api rocaye.. 21..
अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैश्च।वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य सम्मता॥ २२॥
अहम् गमिष्यामि वनम् सु दुर्गमम् मृग-आयुतम् वानर-वारणैः च।वने निवत्स्यामि यथा पितुः गृहे तव एव पादौ उपगृह्य सम्मता॥ २२॥
aham gamiṣyāmi vanam su durgamam mṛga-āyutam vānara-vāraṇaiḥ ca.vane nivatsyāmi yathā pituḥ gṛhe tava eva pādau upagṛhya sammatā.. 22..
अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम्।नयस्व मां साधु कुरुष्व याचनां नातो मया ते गुरुता भविष्यति॥ २३॥
अनन्य-भावाम् अनुरक्त-चेतसम् त्वया वियुक्ताम् मरणाय निश्चिताम्।नयस्व माम् साधु कुरुष्व याचनाम् न अतस् मया ते गुरुता भविष्यति॥ २३॥
ananya-bhāvām anurakta-cetasam tvayā viyuktām maraṇāya niścitām.nayasva mām sādhu kuruṣva yācanām na atas mayā te gurutā bhaviṣyati.. 23..
तथा ब्रुवाणामपि धर्मवत्सलां न च स्म सीतां नृवरो निनीषति।उवाच चैनां बहु संनिवर्तने वने निवासस्य च दुःखितां प्रति॥ २४॥
तथा ब्रुवाणाम् अपि धर्म-वत्सलाम् न च स्म सीताम् नृवरः निनीषति।उवाच च एनाम् बहु संनिवर्तने वने निवासस्य च दुःखिताम् प्रति॥ २४॥
tathā bruvāṇām api dharma-vatsalām na ca sma sītām nṛvaraḥ ninīṣati.uvāca ca enām bahu saṃnivartane vane nivāsasya ca duḥkhitām prati.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे सप्तविंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe saptaviṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In