This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टाविंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭāviṃśaḥ sargaḥ ..2..
स एवं ब्रुवतीं सीतां धर्मज्ञां धर्मवत्सलः।न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन्॥ १॥
सः एवम् ब्रुवतीम् सीताम् धर्म-ज्ञाम् धर्म-वत्सलः।न नेतुम् कुरुते बुद्धिम् वने दुःखानि चिन्तयन्॥ १॥
saḥ evam bruvatīm sītām dharma-jñām dharma-vatsalaḥ.na netum kurute buddhim vane duḥkhāni cintayan.. 1..
सान्त्वयित्वा ततस्तां तु बाष्पदूषितलोचनाम्।निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह॥ २॥
सान्त्वयित्वा ततस् ताम् तु बाष्प-दूषित-लोचनाम्।निवर्तन-अर्थे धर्म-आत्मा वाक्यम् एतत् उवाच ह॥ २॥
sāntvayitvā tatas tām tu bāṣpa-dūṣita-locanām.nivartana-arthe dharma-ātmā vākyam etat uvāca ha.. 2..
सीते महाकुलीनासि धर्मे च निरता सदा।इहाचरस्व धर्मं त्वं यथा मे मनसः सुखम्॥ ३॥
सीते महा-कुलीना असि धर्मे च निरता सदा।इह आचरस्व धर्मम् त्वम् यथा मे मनसः सुखम्॥ ३॥
sīte mahā-kulīnā asi dharme ca niratā sadā.iha ācarasva dharmam tvam yathā me manasaḥ sukham.. 3..
सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले।वने दोषा हि बहवो वसतस्तान् निबोध मे॥ ४॥
सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया अबले।वने दोषाः हि बहवः वसतः तान् निबोध मे॥ ४॥
sīte yathā tvām vakṣyāmi tathā kāryam tvayā abale.vane doṣāḥ hi bahavaḥ vasataḥ tān nibodha me.. 4..
सीते विमुच्यतामेषा वनवासकृता मतिः।बहुदोषं हि कान्तारं वनमित्यभिधीयते॥ ५॥
सीते विमुच्यताम् एषा वन-वास-कृता मतिः।बहु-दोषम् हि कान्तारम् वनम् इति अभिधीयते॥ ५॥
sīte vimucyatām eṣā vana-vāsa-kṛtā matiḥ.bahu-doṣam hi kāntāram vanam iti abhidhīyate.. 5..
हितबुद्ध्या खलु वचो मयैतदभिधीयते।सदा सुखं न जानामि दुःखमेव सदा वनम्॥ ६॥
हित-बुद्ध्या खलु वचः मया एतत् अभिधीयते।सदा सुखम् न जानामि दुःखम् एव सदा वनम्॥ ६॥
hita-buddhyā khalu vacaḥ mayā etat abhidhīyate.sadā sukham na jānāmi duḥkham eva sadā vanam.. 6..
गिरिनिर्झरसम्भूता गिरिनिर्दरिवासिनाम्।सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्॥ ७॥
गिरि-निर्झर-सम्भूताः।सिंहानाम् निनदाः दुःखाः श्रोतुम् दुःखम् अतस् वनम्॥ ७॥
giri-nirjhara-sambhūtāḥ.siṃhānām ninadāḥ duḥkhāḥ śrotum duḥkham atas vanam.. 7..
क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये तथा मृगाः।दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम्॥ ८॥
क्रीडमानाः च विस्रब्धाः मत्ताः शून्ये तथा मृगाः।दृष्ट्वा समभिवर्तन्ते सीते दुःखम् अतस् वनम्॥ ८॥
krīḍamānāḥ ca visrabdhāḥ mattāḥ śūnye tathā mṛgāḥ.dṛṣṭvā samabhivartante sīte duḥkham atas vanam.. 8..
सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः।मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम्॥ ९॥
स ग्राहाः सरितः च एव पङ्कवत्यः तु दुस्तराः।मत्तैः अपि गजैः नित्यम् अतस् दुःखतरम् वनम्॥ ९॥
sa grāhāḥ saritaḥ ca eva paṅkavatyaḥ tu dustarāḥ.mattaiḥ api gajaiḥ nityam atas duḥkhataram vanam.. 9..
लताकण्टकसंकीर्णाः कृकवाकूपनादिताः।निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम्॥ १०॥
लता-कण्टक-संकीर्णाः कृकवाकू-उपनादिताः।निरपाः च सु दुःखाः च मार्गाः दुःखम् अतस् वनम्॥ १०॥
latā-kaṇṭaka-saṃkīrṇāḥ kṛkavākū-upanāditāḥ.nirapāḥ ca su duḥkhāḥ ca mārgāḥ duḥkham atas vanam.. 10..
सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले।रात्रिषु श्रमखिन्नेन तस्माद् दुःखमतो वनम्॥ ११॥
सुप्यते पर्ण-शय्यासु स्वयम् भग्नासु भू-तले।रात्रिषु श्रम-खिन्नेन तस्मात् दुःखम् अतस् वनम्॥ ११॥
supyate parṇa-śayyāsu svayam bhagnāsu bhū-tale.rātriṣu śrama-khinnena tasmāt duḥkham atas vanam.. 11..
अहोरात्रं च संतोषः कर्तव्यो नियतात्मना।फलैर्वृक्षावपतितैः सीते दुःखमतो वनम्॥ १२॥
अहोरात्रम् च संतोषः कर्तव्यः नियत-आत्मना।फलैः वृक्ष-अवपतितैः सीते दुःखम् अतस् वनम्॥ १२॥
ahorātram ca saṃtoṣaḥ kartavyaḥ niyata-ātmanā.phalaiḥ vṛkṣa-avapatitaiḥ sīte duḥkham atas vanam.. 12..
उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि।जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम्॥ १३॥
उपवासः च कर्तव्यः यथा प्राणेन मैथिलि।जटा-भारः च कर्तव्यः वल्कल-अम्बर-धारणम्॥ १३॥
upavāsaḥ ca kartavyaḥ yathā prāṇena maithili.jaṭā-bhāraḥ ca kartavyaḥ valkala-ambara-dhāraṇam.. 13..
देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम्।प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम्॥ १४॥
देवतानाम् पितॄणाम् च कर्तव्यम् विधि-पूर्वकम्।प्राप्तानाम् अतिथीनाम् च नित्यशस् प्रतिपूजनम्॥ १४॥
devatānām pitṝṇām ca kartavyam vidhi-pūrvakam.prāptānām atithīnām ca nityaśas pratipūjanam.. 14..
कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः।चरतां नियमेनैव तस्माद् दुःखतरं वनम्॥ १५॥
कार्यः त्रिस् अभिषेकः च काले काले च नित्यशस्।चरताम् नियमेन एव तस्मात् दुःखतरम् वनम्॥ १५॥
kāryaḥ tris abhiṣekaḥ ca kāle kāle ca nityaśas.caratām niyamena eva tasmāt duḥkhataram vanam.. 15..
उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः।आर्षेण विधिना वेद्यां सीते दुःखमतो वनम्॥ १६॥
उपहारः च कर्तव्यः कुसुमैः स्वयम् आहृतैः।आर्षेण विधिना वेद्याम् सीते दुःखम् अतस् वनम्॥ १६॥
upahāraḥ ca kartavyaḥ kusumaiḥ svayam āhṛtaiḥ.ārṣeṇa vidhinā vedyām sīte duḥkham atas vanam.. 16..
यथालब्धेन कर्तव्यः संतोषस्तेन मैथिलि।यताहारैर्वनचरैः सीते दुःखमतो वनम्॥ १७॥
यथालब्धेन कर्तव्यः संतोषः तेन मैथिलि।यत-आहारैः वन-चरैः सीते दुःखम् अतस् वनम्॥ १७॥
yathālabdhena kartavyaḥ saṃtoṣaḥ tena maithili.yata-āhāraiḥ vana-caraiḥ sīte duḥkham atas vanam.. 17..
अतीव वातस्तिमिरं बुभुक्षा चाति नित्यशः।भयानि च महान्त्यत्र ततो दुःखतरं वनम्॥ १८॥
अतीव वातः तिमिरम् बुभुक्षा च अति नित्यशस्।भयानि च महान्ति अत्र ततस् दुःखतरम् वनम्॥ १८॥
atīva vātaḥ timiram bubhukṣā ca ati nityaśas.bhayāni ca mahānti atra tatas duḥkhataram vanam.. 18..
सरीसृपाश्च बहवो बहुरूपाश्च भामिनि।चरन्ति पथि ते दर्पात् ततो दुःखतरं वनम्॥१९॥
सरीसृपाः च बहवः बहु-रूपाः च भामिनि।चरन्ति पथि ते दर्पात् ततस् दुःखतरम् वनम्॥१९॥
sarīsṛpāḥ ca bahavaḥ bahu-rūpāḥ ca bhāmini.caranti pathi te darpāt tatas duḥkhataram vanam..19..
नदीनिलयनाः सर्पा नदीकुटिलगामिनः।तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरंवनम्॥ २०॥
नदी-निलयनाः सर्पाः नदी-कुटिल-गामिनः।तिष्ठन्ति आवृत्य पन्थानम् अतस् दुःखतरम् वनम्॥ २०॥
nadī-nilayanāḥ sarpāḥ nadī-kuṭila-gāminaḥ.tiṣṭhanti āvṛtya panthānam atas duḥkhataram vanam.. 20..
पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह।बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्॥ २१॥
पतङ्गाः वृश्चिकाः कीटाः दंशाः च मशकैः सह।बाधन्ते नित्यम् अबले सर्वम् दुःखम् अतस् वनम्॥ २१॥
pataṅgāḥ vṛścikāḥ kīṭāḥ daṃśāḥ ca maśakaiḥ saha.bādhante nityam abale sarvam duḥkham atas vanam.. 21..
द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि।वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम्॥ २२॥
द्रुमाः कण्टकिनः च एव कुशाः काशाः च भामिनि।वने व्याकुल-शाखा-अग्राः तेन दुःखम् अतस् वनम्॥ २२॥
drumāḥ kaṇṭakinaḥ ca eva kuśāḥ kāśāḥ ca bhāmini.vane vyākula-śākhā-agrāḥ tena duḥkham atas vanam.. 22..
कायक्लेशाश्च बहवो भयानि विविधानि च।अरण्यवासे वसतो दुःखमेव सदा वनम्॥ २३॥
काय-क्लेशाः च बहवः भयानि विविधानि च।अरण्य-वासे वसतः दुःखम् एव सदा वनम्॥ २३॥
kāya-kleśāḥ ca bahavaḥ bhayāni vividhāni ca.araṇya-vāse vasataḥ duḥkham eva sadā vanam.. 23..
क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः।न भेतव्यं च भेतव्ये दुःखं नित्यमतो वनम्॥ २४॥
क्रोध-लोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः।न भेतव्यम् च भेतव्ये दुःखम् नित्यम् अतस् वनम्॥ २४॥
krodha-lobhau vimoktavyau kartavyā tapase matiḥ.na bhetavyam ca bhetavye duḥkham nityam atas vanam.. 24..
तदलं ते वनं गत्वा क्षेमं नहि वनं तव।विमृशन्निव पश्यामि बहुदोषकरं वनम्॥ २५॥
तत् अलम् ते वनम् गत्वा क्षेमम् नहि वनम् तव।विमृशन् इव पश्यामि बहु-दोष-करम् वनम्॥ २५॥
tat alam te vanam gatvā kṣemam nahi vanam tava.vimṛśan iva paśyāmi bahu-doṣa-karam vanam.. 25..
वनं तु नेतुं न कृता मतिर्यदा बभूव रामेण तदा महात्मना।न तस्य सीता वचनं चकार तं ततोऽब्रवीद् राममिदं सुदुःखिता॥ २६॥
वनम् तु नेतुम् न कृता मतिः यदा बभूव रामेण तदा महात्मना।न तस्य सीता वचनम् चकार तम् ततस् अब्रवीत् रामम् इदम् सु दुःखिता॥ २६॥
vanam tu netum na kṛtā matiḥ yadā babhūva rāmeṇa tadā mahātmanā.na tasya sītā vacanam cakāra tam tatas abravīt rāmam idam su duḥkhitā.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे अष्टाविंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe aṣṭāviṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In